रत्नकरण्ड श्रावकाचार मूल श्लोक
आचार्य समन्तभद्र
आचार्य समन्तभद्र कृत रत्नकरण्ड श्रावकाचार के संस्कृत मूल श्लोक 1 से 150, क्रम से। ग्रंथ के अधिकारों के अनुसार हर अधिकार इसी पोस्ट में अपने शीर्षक के साथ है (ग्रंथ के षष्ठ भावना अधिकार में टीकाकार ने बारह भावनाओं का वर्णन किया है, उसमें मूल श्लोक नहीं है)। पाठ संलग्न ग्रंथ (पं. सदासुखदास जी कासलीवाल कृत हिन्दी टीका सहित) के अनुसार है; जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस अधिकार के नीचे टिप्पणी दी।
संबंधित: आप्तमीमांसा मूल कारिका · रत्नकरण्ड श्रावकाचार - धर्म के दश लक्षण · रत्नकरण्ड श्रावकाचार - सम्यग्दर्शन अधिकार (दैनिक श्लोक) · श्री रत्नकरण्ड श्रावकाचार - पद्यानुवाद
स्रोत: ratnakarand_shravakachar.pdf
ratnakarand_shravakachar.pdf (6609 KB)
श्लोक एवं अर्थ सहित: रत्नकरण्ड श्रावकाचार श्लोक एवं अर्थ (आचार्य समन्तभद्र) | Ratnakarand Shravakachar Shlok Evam Arth (Acharya Samantabhadra)
प्रथम - सम्यग्दर्शन अधिकार (श्लोक 1 से 41)
नमः श्रीवर्धमानाय निर्धूतकलिलात्मने ।
सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥1॥
देशयामि समीचीनं धर्मं कर्मनिवर्हणम् ।
संसारदुःखतः सत्वान् यो धरत्युत्तमे सुखे ॥2॥
सदृष्टिज्ञानवृतानि धर्मं धर्मेश्वराः विदुः ।
यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः ॥3॥
श्रद्धानं परमार्थानामाप्तागमतपोभृताम् ।
त्रिमूढापोढमष्टाङ्गं सम्यग्दर्शनमस्मयम् ॥4॥
आप्तेनोच्छिन्नदोषेण सर्वज्ञेनागमेशिना ।
भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥5॥
क्षुत्पिपासाजरातंक जन्मान्तकभयस्मयाः ।
न रागद्वेषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥6॥
परमेष्ठी परंज्योतिः विरागो विमलः कृती ।
सर्वज्ञोऽनादि मध्यान्तः सार्वः शास्तो पलाल्यते ॥7॥
अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् ।
ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ॥8॥
आप्तोपज्ञमनुल्लंघ्यमदुष्टैष्टविरोधकम् ।
तत्त्वोपदेशकृतसार्वं शास्त्रं कापथघट्टनम् ॥9॥
विषयाशावशातीतो निरारम्भोऽपरिग्रहः ।
ज्ञानध्यानतपोरक्तः तपस्वी स प्रशस्यते ॥10॥
इदमेवेदृशं चैव तत्वं नान्यन्नचान्यथा ।
इत्यकम्पाऽऽयसाम्भोवत् सन्मार्गेऽसंशया रुचिः ॥11॥
कर्मपरवशे सान्ते दुःखैरन्तरितोदये ।
पापबीजे सुखेऽनास्था श्रद्धानाकांक्षणा स्मृता ॥12॥
स्वभावतोऽशुचौ काये रत्नत्रयपवित्रते ।
निर्जुगुप्सा गुणप्रीतिः मता निर्विचिकित्सिता ॥13॥
कापथे पथि दुःखांना कापथस्थेऽप्यसंमतिः ।
असंपृक्तिरनुत्कीर्तिरमूढ़ा दृष्टिरुच्यते ॥14॥
स्वयंशुद्धस्य मार्गस्य, बालाशक्तजनाश्रयाम् ।
वाच्यतां यत्प्रमार्जन्ति, तद्वदन्त्युपगूहनम् ॥15॥
दर्शनाच्चरणाद्वापि चलितां धर्मवत्सलैः ।
प्रत्यवस्थापनं प्राज्ञैः स्थितिकरणमुच्यते ॥16॥
स्वयूथ्यान्प्रति सद्भाव - सनाथापेतकैतवा ।
प्रतिपत्तिर्यथायोग्यं, वात्सल्यमभिलप्यते ॥17॥
अज्ञानतिमिरव्याप्तिमपाकृत्य यथायथम् ।
जिनशासनमाहात्म्यप्रकाशः स्यात्प्रभावन ॥18॥
तावदञ्जन चौराऽङ्गे ततोऽनन्तमती स्मृता ।
उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥19॥
ततो जिनेन्द्रभक्तोऽन्यो वारिषेणस्ततः परः ।
विष्णुश्च वज्रनामा च शेषयोर्लक्ष्यतां गतौ ॥20॥
नाङ्गहीनं मलं छेत्तुं दर्शनं जन्मसन्ततिम् ।
न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम् ॥21॥
आपगा सागरस्नानमुच्चयः सिकताश्मनाम् ।
गिरिपातोऽग्निपातश्च लोकमूढं निगद्यते ॥22॥
वरोपलिप्सयाशावान् रागद्वेषमलीमसाः ।
देवता यदुपासीत देवतामूढ़मुच्यते ॥23॥
सग्रन्थारम्भहिंसानां संसारावर्तवर्तिनाम् ।
पाखण्डिनां पुरस्कारो ज्ञेयं पाखण्डिमोहनम् ॥24॥
ज्ञानं पूजां कुलं जातिं बलमृद्धिं तपो वपुः ।
अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥25॥
स्मयेन योऽन्यानत्येति धर्मस्थानगर्विताशयः ।
सोऽत्येति धर्ममात्मीयं न धर्मो धार्मिकै बिना ॥26॥
यदि पापनिरोधोऽन्यसंपदा किं प्रयोजनम् ।
अथ पापस्त्रवोऽस्त्यन्यसंपदा किं प्रयोजनम् ॥27॥
सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम् ।
देवादेवं विदुर्भस्मगूढाङ्गारान्तरौजसम् ॥28॥
श्वापि देवोऽपि देवः श्वा जायते धर्मकिल्विषात् ।
कापि नाम भवेदन्या संपद्धर्माच्छरीरिणाम् ॥29॥
भयाशास्नेहलोभाच्च कुदेवागलिङ्गनाम् ।
प्रमाणं विनयं चैव न कुर्युः शुद्धदृष्टयः ॥30॥
दर्शनं ज्ञानचारित्रात् साधिमानमुपाश्नुते ।
दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते ॥31॥
विद्यावृत्तस्य संभूतिस्थितिवृद्धिफलोदयाः ।
न सन्त्यसति सम्यक्त्वे बीजाभावे तरोरिव ॥32॥
गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान् ।
अनगारो गृही श्रेयान् निर्मोही मोहिनो मुनेः ॥33॥
न सम्यक्त्व समं किञ्चित् त्रैकाल्ये त्रिजगत्यपि ।
श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम् ॥34॥
सम्यग्दर्शनशुद्धाः नारकतिर्यङ्नपुंसकस्त्रीत्वानि ।
दुष्कुलविकृताल्पायुः दरिद्रतां च व्रजन्ति नाप्यव्रतिकाः ॥35॥
ओजस्तेजो-विद्या-वीर्य-वृद्धि-विजय-सनाथाः ।
महाकुला महार्था मानवतिलका भवन्ति दर्शनपूताः ॥36॥
अष्टगुणपुष्टितुष्टाः दृष्टिविशिष्टाः प्रकृष्टशोभाजुष्टाः ।
अमराप्सरसां परिषदि चिरं रमन्ते जिनेन्द्रभक्ताः स्वर्गे ॥37॥
नवनिधिसप्तद्वयरत्नाधीशाः सर्वभूमिपतयश्चक्रम् ।
वर्तयितुं प्रभवन्ति स्पष्टदृशाः क्षत्रमौलिशेखरचरणाः ॥38॥
अमरासुरनरपतिभिर्यमधरपतिभिश्च नूत पादाम्भोजाः ।
दृष्ट्या सुनिश्चितार्थाः वृषचक्रधराः भवन्ति लोकशरण्याः ॥39॥
शिवमजरमरूजमक्षयमव्याबाधं विशोकभयशंकम् ।
काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः ॥40॥
देवेन्द्रचक्रमहिमानममेयमानं राजेन्द्रचक्रमवनीन्द्रशिरोर्चनीयम् ।
धर्मेन्द्रचक्रमधरीकृतसर्वलोकं लब्ध्वा शिवं च जिनभक्तिरुपैति भव्याः ॥41॥
टिप्पणी: श्लोक 3 में “सदृष्टिज्ञानवृतानि” छपा है; शुद्ध रूप “सद्दृष्टिज्ञानवृत्तानि” है।
टिप्पणी: श्लोक 9 में “मदुष्टैष्टविरोधकम्” छपा है; शुद्ध रूप “मदृष्टेष्टविरोधकम्” है। “तत्त्वोपदेशकृतसार्वं” छपा है; शुद्ध रूप “तत्त्वोपदेशकृत् सार्वं” है।
टिप्पणी: श्लोक 13 में “रत्नत्रयपवित्रते” छपा है; “रत्नत्रयपवित्रिते” होना चाहिए।
टिप्पणी: श्लोक 14 में “दुःखांना” छपा है; “दुःखानां” होना चाहिए।
टिप्पणी: श्लोक 16 में “चलितां” छपा है; शुद्ध रूप “चलतां” है।
टिप्पणी: श्लोक 18 में “स्यात्प्रभावन” छपा है; “स्यात्प्रभावना” होना चाहिए।
टिप्पणी: श्लोक 19 में “चौराऽङ्गे” छपा है; शुद्ध रूप “चौरोऽङ्गे” है।
टिप्पणी: श्लोक 23 में “देवतामूढ़मुच्यते” (नुक्ता सहित) छपा है; संस्कृत में “देवतामूढमुच्यते” है।
टिप्पणी: श्लोक 26 में “धर्मस्थानगर्विताशयः” छपा है; शुद्ध रूप “धर्मस्थान् गर्विताशयः” है। “धार्मिकै बिना” छपा है; शुद्ध रूप “धार्मिकैर्विना” है।
टिप्पणी: श्लोक 27 में “पापस्त्रवोऽस्त्यन्यसंपदा” छपा है; शुद्ध रूप “पापास्रवोऽस्त्यन्यसंपदा” है।
टिप्पणी: श्लोक 30 में “कुदेवागलिङ्गनाम्” छपा है; शुद्ध रूप “कुदेवागमलिङ्गिनाम्” है। “प्रमाणं” छपा है; शुद्ध रूप “प्रणामं” है।
टिप्पणी: श्लोक 33 में दूसरी पंक्ति में “निर्मोही” छपा है; “निर्मोहो” होना चाहिए।
टिप्पणी: श्लोक 38 में “स्पष्टदृशाः” छपा है; शुद्ध रूप “स्पष्टदृशः” है।
टिप्पणी: श्लोक 40 में “शिवमजरमरूजम्” छपा है; शुद्ध रूप “शिवमजरमरुजम्” है।
टिप्पणी: श्लोक 41 में “भव्याः” छपा है; “उपैति” के साथ एकवचन “भव्यः” होना चाहिए।
द्वितीय - सम्यग्ज्ञान अधिकार (श्लोक 42 से 46)
अन्यूनमनतिरिक्तं याथातथ्यं बिना च विपरीतात् ।
निस्सन्देहं वेद यदाहुस्तज्ज्ञानमागमिनाः ॥42॥
प्रथमानुयोगमर्थाख्यानं चरितं पुराणमपि पुण्यम् ।
बोधिसमाधिनिधानं बोधति बोधः समीचीनः ॥43॥
लोकालोकविभक्तेर्युगपरिवृत्तेश्चतुर्गतीनां च ।
आदर्शमिव तथामतिरवैति करणानुयोगं च ॥44॥
गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम् ।
चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ॥45॥
जीवाजीवसुतत्वे पुण्यापुण्ये च बन्धमोक्षौ च ।
द्रव्यानुयोगदीपः श्रुतविद्या लोकमातनुते ॥46॥
टिप्पणी: श्लोक 42 में “बिना” छपा है; “विना” होना चाहिए। “आगमिनाः” छपा है; शुद्ध रूप “आगमिनः” है।
तृतीय - अणुव्रत अधिकार (श्लोक 47 से 66)
मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः ।
रागद्वेषनिवृत्यै चरणं प्रतिपद्यते साधुः ॥47॥
रागद्वेषनिवृत्तेः हिंसादिनिवर्तना कृता भवति ।
अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् ॥48॥
हिंसानृतचौर्येभ्यो मैथनुसेवा परिग्रहाभ्यां च ।
पापप्रणालिकाभ्यो विरतिः संज्ञस्य चारित्रम् ॥49॥
सकलं विकलं चरणं तत्सकलं सर्वसङ्गविरतानाम् ।
अनगाराणां विकलं सागाराणां ससङ्गानाम् ॥50॥
गृहिणां त्रेधा तिष्ठत्यणु-गुण-शिक्षाव्रतात्मकं चरणम् ।
पञ्च-त्रि-चतुर्भेदं त्रयं यथासङ्ख्यमाख्यातम् ॥51॥
प्राणातिपातवितथव्याहारस्तेयकाममूर्छाभ्यः ।
स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं भवति ॥52॥
सङ्कल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्वान् ।
न हिनस्ति यत्तदाहुः स्थूलवधाद्विरमणं निपुणाः ॥53॥
छेदनबंधनपीडनमतिभारारोपणं व्यतीचाराः ।
आहारवारणापि च स्थूलबधाद्व्युपरतेः पञ्च ॥54॥
स्थूलमलीकं न वदति न परान् वादयति सत्यमपि विपदे ।
यत्तद्वदन्ति सन्तः स्थूलमृषावादवैरमणम् ॥55॥
परिवादरहोभ्याख्या पैशून्यं कूटलेखकरणं च ।
न्यासापहारितापि च व्यतिक्रमाः पञ्व सत्यस्य ॥56॥
निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसृष्टम् ।
न हरति यन्न च दत्ते तदकृशचौर्यादुपारमणम् ॥57॥
चौरप्रयोग-चौरार्थादान-विलोप-सदृशसन्मिश्राः ।
हीनाधिकविनिमानं पञ्चास्तेये व्यतीपाताः ॥58॥
न च परदारान् गच्छति न परान् गमयति च पापभीतेर्यत् ।
सा परदारनिवृत्तिः स्वदारसन्तोषनामापि ॥59॥
अन्यविवाहाकरणानङ्गक्रीडा विटत्वविपुलतृषः ।
इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥60॥
धनधान्यादिग्रन्थं परिमाय ततोऽधिकेषु निः स्पृहता ।
परिमितपरिग्रहः स्यादिच्छा परिमाणनामापि ॥61॥
अतिवाहनातिसंग्रहविस्मयलोभातिभारवहनानि ।
परिमितपरिग्रहस्य च विक्षेपाः पञ्च लक्ष्यन्ते ॥62॥
पंचाणुव्रतनिधयो निरतिक्रमणाः फलन्ति सुरलोकम् ।
यत्रावधिरष्टगुणा दिव्यशरीरं च लभ्यन्ते ॥63॥
मातङ्गो धनदेवश्च वारिषेणस्ततः परः ।
नीली जयश्च संप्राप्ताः पूजातिशयमुत्तमम् ॥64॥
धनश्रीसत्यघोषौ च तापसी रक्षकावपि ।
उपाख्येयास्तथाश्मश्रुनवनीतो यथाक्रमम् ॥65॥
मद्यमांसमधुत्यागैः सहाणुव्रतपञ्चकम् ।
अष्टौ मूलगुणानाहुर्गृहिणां श्रमणोत्तमाः ॥66॥
टिप्पणी: श्लोक 49 में “मैथनुसेवा” छपा है; “मैथुनसेवा” होना चाहिए।
टिप्पणी: श्लोक 56 में “पञ्व” छपा है; “पञ्च” होना चाहिए।
टिप्पणी: श्लोक 65 में “तापसी रक्षकावपि” छपा है; शुद्ध रूप “तापसारक्षकावपि” है।
चतुर्थ - गुणव्रत अधिकार (श्लोक 67 से 90)
दिग्व्रतमनर्थदण्डव्रतं च भोगोपभोगपरिमाणम् ।
अनुवृंहणाद् गुणानामाख्यान्ति गुणव्रतान्यार्याः ॥67॥
दिग्वलयं परिगणितं कृत्वातोऽहं बहिर्न यास्यामि ।
इति संकल्पो दिग्व्रतमामृत्यणुपापविनिवृत्यै ॥68॥
मकराकरसरिदटवीगिरिजनपदयोजनानि मर्यादाः ।
प्राहुर्दिशां दशानां प्रतिसंहारे प्रसिद्धानि ॥69॥
अवधेर्बहिरणुपापप्रतिविरतेर्दिग्व्रतानि धारयताम् ।
पंच महाव्रत परिणतिमणुव्रतानि प्रपद्यन्ते ॥70॥
प्रत्याख्तानतनुत्वान् मंदतराश्चरणमोहपरिणामाः ।
सत्वेन दुरवधारा महाव्रताय प्रकल्प्यन्ते ॥71॥
पंचानां पापानां हिंसादीनां मनोवचःकायैः ।
कृतकारितानुमोदैः त्यागस्तु महाव्रतं महताम् ॥72॥
ऊर्ध्वाधस्तात्तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम् ।
विस्मरणं दिग्विरतेरत्याशाः पञ्च मन्यन्ते ॥73॥
अभ्यन्तरं दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः ।
विरमणमनर्थदण्डव्रतं विदुर्व्रतधराग्रण्यः ॥74॥
पापोपदेशहिंसादानापध्यानदुःश्रुतीः पञ्च ।
प्राहुः प्रमादचर्यामनर्थदण्डानदण्डधराः ॥75॥
तिर्यक्क्लेशवणिज्याहिंसारम्भप्रलम्भनादीनाम् ।
प्रसवः कथाप्रसंगः स्मर्तव्यः पाप उपदेशः ॥76॥
परशुकृपाणखनित्रज्वलनायुधश्रृंगिश्रृखलादीनाम् ।
वधहेतूनां दानं हिंसादानं ब्रुवन्ति बुधाः ॥77॥
वधबन्धच्छेदादेर्द्वेषाद्रागाच्च परकलत्रादेः ।
आध्यानमपध्यानं शासति जिनशासने विशदाः ॥78॥
आरम्भसंगसाहसमिथ्यात्वद्वेषरागमदमदनैः ।
चेतः कलुषयतां श्रुतिरवधीनां दुःश्रुतिर्भवति ॥79॥
क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदम् ।
सरणं सारणमपि च प्रमादचर्यां प्रभाषन्ते ॥80॥
कन्दर्पं कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्च ।
असमीक्ष्य चाधिकरणं व्यतीतयोऽनर्थदण्डकृद्विरतेः ॥81॥
अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम् ।
अर्थवतामप्यवधो रागरतीनां तनूकृतये ॥82॥
भुक्त्वा परिहातव्यो भोगो भुवत्वा पुनश्च भोक्तव्यः ।
उपभोगोऽशनवसनप्रभृतिः पञ्चेन्द्रियो विषयः ॥83॥
त्रसहतिपरिहरणार्थ क्षौद्रं पिशितं प्रमादपरिहृयते ।
मद्यं च वर्जनीयं जिनचरणों शरणमुपयातैः ॥84॥
अल्पफलबहुविघातान्मूलकमार्द्राणि श्रृङ्गवेराणि ।
नवनीत निम्बकुसुमं कैतकमित्येवमवहेयत् ॥85॥
यदनिष्टं तद्व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात् ।
अभिसन्धिकृता विरतिः विषयाद् योग्याद् व्रतं भवति ॥86॥
नियमो यमश्च विहितौं द्वेधा भोगोपभोगसंहारे ।
नियमः परिमितकालो यावज्जीवं यमो ध्रियते ॥87॥
भोजनवाहनशयनस्नानपवित्राङ्गरागकुसुमेषु ।
ताम्बूलवसनभूषण मन्मथसङ्गीतगीतेषु ॥88॥
अद्य दिवा रजनी वा पक्षो मासस्तथर्तुरयनं वा ।
इति कालपरिच्छित्या प्रत्याख्यानं भवेन्नियमः ॥89॥
विषय विषतोऽनुपेक्षानुस्मृतिरतिलौल्यमतितृषानुभवौ ।
भोगोपभोगपरिमाव्यतिक्रमाः पञ्च कथ्यन्ते ॥90॥
टिप्पणी: श्लोक 71 में “प्रत्याख्तानतनुत्वान्” छपा है; “प्रत्याख्यानतनुत्वान्” होना चाहिए।
टिप्पणी: श्लोक 77 में “श्रृंगिश्रृखलादीनाम्” छपा है; “श्रृखला” में अनुस्वार छूटा है (“श्रृंखला”)।
टिप्पणी: श्लोक 83 में दूसरी बार “भुवत्वा” छपा है; “भुक्त्वा” होना चाहिए।
टिप्पणी: श्लोक 84 में “परिहरणार्थ” छपा है; “परिहरणार्थं” होना चाहिए। “प्रमादपरिहृयते” छपा है; शुद्ध रूप “प्रमादपरिहृतये” है। “जिनचरणों” छपा है; शुद्ध रूप “जिनचरणौ” है।
टिप्पणी: श्लोक 85 में “कैतकमित्येवमवहेयत्” छपा है; शुद्ध रूप “कैतकमित्येवमवहेयम्” है।
टिप्पणी: श्लोक 87 में “विहितौं” छपा है; “विहितौ” होना चाहिए।
पंचम - शिक्षाव्रत अधिकार (श्लोक 91 से 121)
देशावकाशिकं वा सामयिकं प्रोषधोपवासो वा ।
वैय्यावृत्यं शिक्षाव्रतानि चत्वारि शिष्टानि ॥91॥
देशावकाशिकं स्यात्कालपरिच्छेदनेन देशस्य ।
प्रत्यहमणुव्रतानां प्रतिसंहारो विशालस्य ॥92॥
गृहहारि - ग्रामाणां-क्षेत्र-नदी-दाव-योजनानां च ।
देशावकाशिकस्य स्मरन्ति सीम्नां तपोवृद्धाः ॥93॥
संवत्सरमृतुरयनंमासचतुर्मासपक्षमृक्षं च ।
देशावकाशिकस्य प्राहुः कालावधिं प्राज्ञाः ॥94॥
सीमान्तानां परतः स्थूलेतरपञ्चपापसंत्यागात् ।
देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥95॥
प्रेषणशब्दानयनं रूपाभिव्यक्तिः पुद्गलक्षेपो ।
देशावकाशिकस्य व्यपदिश्यन्तेऽत्ययाः पञ्च ॥96॥
आसमयमुक्तिमुक्तं पञ्चाघानामशेषभावेन ।
सर्वत्र च सामयिकाः सामयिकं नाम शंसन्ति ॥97॥
मूर्धरुहमुष्टिवासो बन्धं पर्यंकबन्धनं चापि ।
स्थानमुपवेशनं वा समयं जानन्ति समयज्ञाः ॥98॥
एकान्ते सामयिकं निर्व्याक्षेपे वनेषु वास्तुषु च ।
चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधियाः ॥99॥
व्यापारवैमनस्याद्विनिवृत्त्यामन्तरात्मविनिवृत्त्या ।
सामयिकं बध्नीयादुपवासे चैक भुक्ते वा ॥100॥
सामयिकं प्रतिदिवसं यथावदप्यनलसेन चेतव्यम् ।
व्रतपञ्चक परिपूरण कारणमवधान युक्तेन ॥101॥
सामयिके सारम्भाः परिग्रहा नैव सन्ति सर्वेऽपि ।
चेलोपसृष्टमुनिरिव गृही तदा याति यतिभावम् ॥102॥
शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधराः ।
सामयिकं प्रतिपन्ना अधिकुर्वीरन्नचलयोगाः ॥103॥
अशरणमशुभमनित्यं दुःखमनात्मानमावसामि भवम् ।
मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके ॥104॥
वाक्कायमानसानां दुःप्रणिधानान्यनादरास्मरणे ।
सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन ॥105॥
पर्वण्यष्टम्यां च ज्ञातव्यः प्रोषधोपवासस्तु ।
चतुरभ्यवहार्य्याणां प्रत्याख्यानं सदेच्छाभिः ॥106॥
पञ्चानां पापनामलंक्रियारम्भगन्धपुष्पाणाम् ।
स्नानाञ्जननस्यानामुपवासे परिहृतिं कुर्य्यात् ॥107॥
धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान् ।
ज्ञानध्यानपरो वा भवतूपवसन्नतन्द्रालुः ॥108॥
चतुराहारविसर्जनमुपवासः प्रोषधः सकृद्भुक्तिः ।
स प्रोषधोपवासो यदुपोष्यारम्भमाचरति ॥109॥
ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मणे ।
यत्प्रोषधोपवासव्यतिलङ्घनपञ्चकं तदिदम् ॥110॥
दानं वैयावृत्यं धर्माय तपोधनाय गुणनिधये ।
अनपेक्षितोपचारोपक्रियमगृहाय विभवेन ॥111॥
व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् ।
वैयावृत्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥112॥
नवपुण्यैः प्रतिपत्ति सप्तगुणसमाहितेन शुद्धेन ।
अपसूनारम्भाणामार्याणामिष्यते दानम् ॥113॥
गृहकर्मणापि निचितं कर्मविमार्ष्टि खलु गृहविमुक्तानाम् ।
अतिथिनां प्रतिपूजा रुधिरमलं धावते वारि ॥114॥
उच्चैर्गोत्रं प्रणतेभोगी दानादुपासनात्पूजा
भक्तेः सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु ॥115॥
क्षितिगतमिववटबीजं पात्रगतं दानमल्पमपि काले ।
फलतिच्छायाविभवं बहुफलमिष्टं शरीरभृताम ॥116॥
आहारौषधयोरप्युपकरणावासयोश्च दानेन ।
वैयावृत्यं ब्रुवते चतुरात्मत्वेन चतुरस्त्राः ॥117॥
श्रीषेण वृषभसेने कौण्डेशः शूकरश्च दृष्टांताः ।
वैयावृत्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥118॥
देवाधिदेवचरणे परिचरणं सर्वदुखनिर्हरणम् ।
कामदुहि कामदाहिनि परिचिनुयादादृतो नित्यम् ॥119॥
अर्हच्चरणसपर्या महानुभावं महात्मनामवत् ।
भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ॥120॥
हरितपिधान निधाने ह्यनादरास्मरणमत्सरत्वानि ।
वैयावृत्यस्यैते व्यतिक्रमाः पञ्च कथ्यन्ते ॥121॥
टिप्पणी: श्लोक 96 में “पुद्गलक्षेपो” छपा है; द्विवचन “पुद्गलक्षेपौ” होना चाहिए।
टिप्पणी: श्लोक 99 में “प्रसन्नधियाः” छपा है; “प्रसन्नधिया” होना चाहिए।
टिप्पणी: श्लोक 107 में “पापनामलंक्रिया…” छपा है; शुद्ध रूप “पापानामलंक्रिया…” है।
टिप्पणी: श्लोक 110 में “अनादरास्मणे” छपा है; “अनादरास्मरणे” होना चाहिए।
टिप्पणी: श्लोक 113 में “प्रतिपत्ति” छपा है; “प्रतिपत्तिः” होना चाहिए।
टिप्पणी: श्लोक 114 में “अतिथिनां” छपा है; शुद्ध रूप “अतिथीनां” है।
टिप्पणी: श्लोक 115 में “प्रणतेभोगी” छपा है; शुद्ध रूप “प्रणतेर्भोगो” है।
टिप्पणी: श्लोक 116 में “शरीरभृताम” छपा है; “शरीरभृताम्” होना चाहिए।
टिप्पणी: श्लोक 117 में “चतुरस्त्राः” छपा है; शुद्ध रूप “चतुरस्राः” है।
टिप्पणी: श्लोक 119 में “सर्वदुखनिर्हरणम्” छपा है; “सर्वदुःखनिर्हरणम्” होना चाहिए।
टिप्पणी: श्लोक 120 में “महात्मनामवत्” छपा है; शुद्ध रूप “महात्मनामवदत्” है।
सप्तम - सल्लेखना अधिकार (श्लोक 122 से 135)
उपसर्गे दुभिक्षे जरसि रुजायां च निःप्रतिकारे ।
धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥122॥
अंतः क्रियाधिकरणं तपः फलं सकलदर्शिनः स्तुवते ।
तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ॥123॥
स्नेहं वैरं सङ्गं परिग्रहं चापहाय शुद्धमनाः ।
स्वजनं परिजनमपि च क्षान्त्वा क्षमयेत् प्रियैर्वचनैः ॥124॥
आलोच्यसर्वमेनः कृतकारितमनुमतं च निर्व्याजम् ।
आरोपयेन्महाव्रतमामरणस्थायि निःशेषम् ॥125॥
शोकं भयमवसादं क्लेदं कालुष्यमरतिमपि हित्वा ।
सत्वोत्साहमुर्दीय च मनः प्रसाद्यं श्रुतैरमृतैः ॥126॥
आहारंपरिहाय क्रमशः स्निग्धं विवर्द्धयेत्पानम् ।
स्निग्धं च हापयित्वा खरपानं पूरयेत्क्रमशः ॥127॥
खरपानहापनामपि कृत्वा कृत्वोपवासमपि शक्त्या ।
पञ्चनमस्कारमनास्तनुं त्यजेत् सर्वयत्नेन ॥128॥
जीवितमरणाशंसे भयमित्रस्मृतिनिदाननामामः ।
सल्लेखनातिचाराः पञ्च जिनेन्द्रैः समादिष्टः ॥129॥
निःश्रेयसमभ्युदयं निस्तीरं दुस्तरं सुखाम्बुनिधिम् ।
निःपिबति पीतधर्मा सर्वै र्दुःखैरनालीढः ॥130॥
जन्मजरामयमरणैः शोकैः दुखैः भयैश्च परिमुक्तम् ।
निर्वाणं शुद्ध सुखं निःश्रेयसमिष्यते नित्यम् ॥131॥
विद्यादर्शनशक्तिस्वास्थ्यप्रह्लादतृप्तिशुद्धियुजः ।
निरतिशया निरवधयो निःश्रेयसमावसन्ति सुखम् ॥132॥
काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्ष्या ।
उत्पातोऽपि यदि स्यात् त्रिलोकसम्भ्रान्तिकरणपटुः ॥133॥
निःश्रेयसमधिपन्नास्त्रैलोक्यशिखामणिश्रियं दधते ।
निःकिट्टिकालिमाच्छविचामीकरभासुरात्मानः ॥134॥
पूजार्थाज्ञैश्वर्यैर्बलपरिजनकामभोगभूयिष्ठैः ।
अतिशयितभुवनद्भुवनमद्भुतमभ्युदयं फलति सद्धर्मः ॥135॥
टिप्पणी: श्लोक 122 में “दुभिक्षे” छपा है; “दुर्भिक्षे” होना चाहिए।
टिप्पणी: श्लोक 126 में “सत्वोत्साहमुर्दीय” छपा है; रेफ गलत जगह है, “सत्वोत्साहमुदीर्य” होना चाहिए।
टिप्पणी: श्लोक 129 में “निदाननामामः” छपा है; शुद्ध रूप “निदाननामानः” है। “समादिष्टः” छपा है; “समादिष्टाः” होना चाहिए।
टिप्पणी: श्लोक 135 में “अतिशयितभुवनद्भुवनमद्भुतम्” छपा है (“भुवन” दो बार); शुद्ध रूप “अतिशयितभुवनमद्भुतम्” है।
अष्टम - प्रतिमा अधिकार (श्लोक 136 से 150)
श्रावकपदानि देवैरेकादश देशितानि येषु खलु ।
स्वगुणाः पूर्वगुणैः सह संतिष्ठन्ते क्रमविवृद्धाः ॥136॥
सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विण्णः ।
पंचगुरुचरणशरणो दार्शनिकस्तत्त्वपथगृह्यः ॥137॥
निरतिक्रमणमणुव्रतपंचकमपि शीलसप्तकं चापि ।
धारयते निःशल्यो योऽसौ व्रतिनों मतो व्रतिकः ॥138॥
चतुरावर्तत्रितयश्चतुःप्रणामः स्थितो यथाजातः ।
सामयिको द्विनिषद्यस्त्रियोग शुद्धस्त्रिसन्ध्यमभिवन्दी ॥139॥
पर्वदिनेषु चतुर्ष्वपि मासे-मासे स्वशक्तिमनिगुह्य ।
प्रोषधनियमविधायी प्रणधिपरः प्रोषधानशनः ॥140॥
मूलफलशाकशाखाकरीरकन्दप्रसूनबीजानि ।
नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥141॥
अन्नं पानं खाद्यं लेह्यं नाश्नाति यो विभावर्याम् ।
स च रात्रिभुक्तिविरतः सत्वेष्वनुकम्पमानमनाः ॥142॥
मलबीजं मलयोनिं गलन्मलं पूतगन्धि बीभत्सं ।
पश्यन्नङ्गमनङ्गाद् विरमति यो ब्रह्मचारी सः ॥143॥
सेवाकृषिवाणिज्यप्रमुखादारम्भतो व्युपारमति ।
प्राणातिपातहेतोर्योऽसावारम्भविनिवृत्तः ॥144॥
बाह्येषु दशसु वस्तुषु ममत्वमुत्सृज्य निर्ममत्वरतः ।
स्वस्थः संतोषपरः परिचितपरिग्रहाद्विरतः ॥145॥
अनुमतिरारम्भे वा परिग्रहे ऐहिकेषु कर्मसु वा ।
नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः ॥146॥
गृहतो मुनिवनमित्वा गुरूपकण्ठे व्रतानि परिगृह्य ।
भैक्ष्याशनस्तपस्यन्नुत्कष्टश्चेलखण्डधरः ॥147॥
पापमरातिर्धर्मो बन्धुर्जीवस्य चेति निश्चिन्वन् ।
समयं यदि जानीते श्रेयो ज्ञाता ध्रुवं भवति ॥148॥
येन स्वयं वीतकलंकविद्यादृष्टिक्रियारत्नकरण्डभावम् ।
नीतस्तमायाति पतीच्छयेव सर्वार्थसिद्धिस्त्रिषु विष्टपेषु ॥149॥
सुखयतु सुखभूमिः कामिनं कामिनीव सुतमिव जननी मां शुद्धशीला भुनक्तु ।
कुलमिव गुणभूषा कन्यका संपुनीताज्जिनपतिपद पद्मप्रेक्षिणी दृष्टिलक्ष्मीः ॥150॥
टिप्पणी: श्लोक 138 में “व्रतिनों” छपा है; शुद्ध रूप “व्रतिनां” है।
टिप्पणी: श्लोक 140 में “प्रणधिपरः” छपा है; “प्रणिधिपरः” होना चाहिए।
टिप्पणी: श्लोक 143 में “पूतगन्धि” छपा है; शुद्ध रूप “पूतिगन्धि” है।
टिप्पणी: श्लोक 147 में “नुत्कष्टश्चेलखण्डधरः” छपा है; “नुत्कृष्टश्चेलखण्डधरः” होना चाहिए।