भाग 3: इ से क
इ (जारी)
- इत्थं यथा तव विभूति- रभूज् - जिनेन्द्र ! (भक्तामर स्तोत्र 37)
- इत्थं वाग्गोचरातीतं भावयन्परमेष्ठिनम् (ज्ञानार्णव 96) · अर्थ
- इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्प्रदम् (मंगलाष्टक 9)
- इत्थं समाहित-धियो विधिवज्जिनेन्द्र (कल्याणमन्दिर स्तोत्र 43) · अर्थ
- इत्यजस्रं सुदुःखार्त्ता विलापमुखराननाः (ज्ञानार्णव 60) · अर्थ
- इत्यजस्रं स्मरन्योगी तत्स्वरूपावलम्बितः (ज्ञानार्णव 36) · अर्थ
- इत्यजस्रं स्मरन् योगी प्रसिद्धां वर्णमातृकाम् (ज्ञानार्णव 6) · अर्थ
- इत्यज्ञानविमूढानां ज्ञानमात्रं प्रसाधयन् (समयसार कलश 262) · अर्थ
- इत्यनवद्यमिदं स्याल्लक्षणमुद्देशि तस्य तत्र यथा (पञ्चाध्यायी 454) · अर्थ
- इत्यनुप्रेक्षया चासीदक्षोभ्यास्य विरक्तता (क्षत्रचूडामणि 81)
- इत्यप्यबोधयत्सोऽयं वणिक्पोताश्रितान्सुधीः (क्षत्रचूडामणि 18)
- इत्यविरतं स योगी पिण्डस्थे जातनिश्चलाभ्यासः (ज्ञानार्णव 31) · अर्थ
- इत्यशेषं विशेषज्ञो वीक्षमाणः क्षितीश्वरः (क्षत्रचूडामणि 27)
- इत्यष्टकं पापपराड्ंमुखो यो, मन्दालसायाः भणति प्रमोदात् (मन्दालसा स्तोत्र 10) · अर्थ
- इत्यष्टकैर्या पुरतस्तनूजम्, विबोधनार्थ नरनारिपूज्यम् (मन्दालसा स्तोत्र 9) · अर्थ
- इत्यसम्भाव्यमेवास्याचेतनत्वात्पटादिवत् (आप्तपरीक्षा 81) · अर्थ
- इत्यसाधारणं प्रोक्तं विशेषणमशेषतः (आप्तपरीक्षा 4) · अर्थ
- इत्यसौ सन्तताभ्यासवशात्संजातनिश्चयः (ज्ञानार्णव 27) · अर्थ
- इत्यस्ति वासनोन्मेषः केषाञ्चिन्मोहशालिनाम् (पञ्चाध्यायी 827) · अर्थ
- इत्यात्मदुःखदं निन्द्यं स्वाज्ञानदर्शकं मया (श्रावकधर्मप्रदीप 37) · अर्थ
- इत्यादयो गुणाश्चान्ये विद्यन्ते सद्दृगात्मनः (पञ्चाध्यायी 822) · अर्थ
- इत्यादिकाश्च बहवो विद्यन्ते पाक्षिका हि दृष्टान्ताः (पञ्चाध्यायी 306) · अर्थ
- इत्यादिकाश्च वहवः सन्ति यथालक्षणा नयाभासाः (पञ्चाध्यायी 587) · अर्थ
- इत्यादिकाश्च वहवो भेदा निश्चयनयस्य यस्य मते (पञ्चाध्यायी 661) · अर्थ
- इत्यादिगणनातीतगुणरत्नमहार्णवम् (ज्ञानार्णव 8) · अर्थ
- इत्यादिगुणसंदर्भनिर्भरं भव्यशुद्धिदम् (ज्ञानार्णव 18) · अर्थ
- इत्यादिपरमोदारपुण्याचरणलक्षिताः (ज्ञानार्णव 17) · अर्थ
- इत्यादि यथासम्भवमुक्तमिवानुक्तमपि च नयचक्रम् (पञ्चाध्यायी 768) · अर्थ
- इत्यादि वादिवृन्दैः प्रमाणमालक्ष्यते यथारुचि तत् (पञ्चाध्यायी 723) · अर्थ
- इत्यादिविक्रियाकर्मरञ्जितैर्दुष्टचेष्टितैः (ज्ञानार्णव 55) · अर्थ
- इत्यादिसंरक्षणसन्निबन्धं सचिन्तनं यत्क्रियते मनुष्यैः (ज्ञानार्णव 35) · अर्थ
- इत्यादिसान्वयानेकपुण्यनामोपलक्षितम् (ज्ञानार्णव 31) · अर्थ
- इत्यादि स्वामिवाक्येन लब्धाश्वासा यथापुरम् (क्षत्रचूडामणि 32) · अर्थ
- इत्याद्यनन्तधर्माढ्यो कर्माष्टकविवर्जितः (पञ्चाध्यायी 619) · अर्थ
- इत्याद्यनादिजीवादि वस्तुजातं यतोऽखिलम् (पञ्चाध्यायी 458) · अर्थ
- इत्याद्यनेकधर्मत्वं, बंधमोक्षौ तयोः फलम् (स्वरूप सम्बोधन 9) · अर्थ
- इत्याद्यनेकधाऽनेकैः साधुः साधुगुणैः श्रितः (पञ्चाध्यायी 674) · अर्थ
- इत्याद्यनेकनामापि नानेकोऽस्ति स्वलक्षणात् (पञ्चाध्यायी 611) · अर्थ
- इत्याद्यनेकनिजशक्ति सुनिर्भरोऽपि (समयसार कलश 264) · अर्थ
- इत्याद्यूहं च हास्यं च जनयन्प्राज्ञबालयोः (क्षत्रचूडामणि 15)
- इत्याद्यूहपरे लोके केकी तु वियता गतः (क्षत्रचूडामणि 84) · अर्थ
- इत्यार्तो वंशरक्षार्थं केकियन्त्रमचीकरत् (क्षत्रचूडामणि 37) · अर्थ
- इत्यार्त्तरौद्रे गृहिणामजस्रं ध्याने सुनिन्द्ये भवतः स्वतोऽपि (ज्ञानार्णव 41) · अर्थ
- इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्रं बलात् (समयसार कलश 178) · अर्थ
- इत्याशास्य तमाश्वास्य कृच्छ्रं स तपसे गतः (क्षत्रचूडामणि 57)
- इत्याशिषा कुमारोऽपि तत्सन्देशाच्च पिप्रिये (क्षत्रचूडामणि 41)
- इत्युक्तं लेशतस्तेषां भावानां लक्षणं पृथक् (पञ्चाध्यायी 973) · अर्थ
- इत्युक्तः प्रत्यगृह्णाच्च स धर्मं गृहमेधिनाम् (क्षत्रचूडामणि 29)
- इत्युक्तलक्षणेऽस्मिन् विरुद्धधर्मद्वयात्मके तत्त्वे (पञ्चाध्यायी 504) · अर्थ
- इत्युक्तलक्षणो यत्र संयमो नापि लेशतः (पञ्चाध्यायी 1124) · अर्थ
- इत्युक्तसूत्रादपि सविकल्पत्वात्तथानुभूतेश्च (पञ्चाध्यायी 647) · अर्थ
- इत्युक्ते कोऽपि दृष्टोऽभूद्विसृष्टप्रेतसूनुकः (क्षत्रचूडामणि 93) · अर्थ
- इत्युक्तेन कुमारेण प्रत्युक्तो वृषलः पुनः (क्षत्रचूडामणि 11)
- इत्युक्तो युक्तिपूर्वोसौ गुणः सद्दर्शनस्य यः (पञ्चाध्यायी 587) · अर्थ
- इत्युक्त्या निश्चितोऽरातिरतिसन्धित्सुरञ्जसा (क्षत्रचूडामणि 14)
- इत्युक्त्वा शाययित्वा च शय्यायां साभिमन्त्रितम् (क्षत्रचूडामणि 21)
- इत्युक्त्वा स पुनर्नत्वा गत्वा सत्वरमात्मनः (क्षत्रचूडामणि 45)
- इत्युदन्तं गुरोः श्रुत्वा शिष्यो नोत्तरमूचिवान् (क्षत्रचूडामणि 28)
- इत्युपादिष्टमेतस्य हृदये नासजत्तराम् (क्षत्रचूडामणि 60)
- इत्युपायो विनिश्चेयो मार्गाच्च्यवनलक्षणः (ज्ञानार्णव 16) · अर्थ
- इत्यूहादाधिमापन्ने लोके तेऽपि युयुत्सवः (क्षत्रचूडामणि 21)
- इत्यूहान्नावमारुह्य प्रतस्थे स वणिक्पतिः (क्षत्रचूडामणि 11)
- इत्यूहेन स वीराय विजये हि वनौकसाम् (क्षत्रचूडामणि 69)
- इत्यूहोऽपि स दृष्टस्य कस्यचित्स्वार्तिमूचिवान् (क्षत्रचूडामणि 26)
- इत्येतज्जीवतत्त्वं यः श्रद्धत्ते वेत्त्युपेक्षते (तत्त्वार्थसार 238) · अर्थ
- इत्येतद् बन्धतत्त्वं यः श्रद्धत्ते वेत्त्युपेक्षते (तत्त्वार्थसार 54) · अर्थ
- इत्येतन्मोक्षतत्त्वं यः श्रद्धत्ते वेत्युपेक्षते (तत्त्वार्थसार 55) · अर्थ
- इत्येवं ज्ञाततत्त्वोसौ सम्यग्दृष्टिर्निजात्मदृक् (पञ्चाध्यायी 371) · अर्थ
- इत्येवं ते कषायाख्याश्चत्वारोप्यौदयिकाः स्मृताः (पञ्चाध्यायी 1075) · अर्थ
- इत्येवं विरचय्य सम्प्रति परद्रव्यान्निवृत्तिं परां (समयसार कलश 48) · अर्थ
- इत्येवं सर्ववृत्तान्तः कारणकार्ययोर्द्वयोः (पञ्चाध्यायी 1130) · अर्थ
- इत्वयोर्गमनं चैव संगृहीतागृहीतयोः (तत्त्वार्थसार 89) · अर्थ
- इदंतया पथोदन्तमुपादिश्याथ सम्मतः (क्षत्रचूडामणि 31)
- इदं तु क्रमवर्त्यस्ति न स्यादक्रमवर्ति यत् (पञ्चाध्यायी 841) · अर्थ
- इदं त्वावश्यकी वृत्तिः समव्याप्तेरिवाह्वया (पञ्चाध्यायी 842) · अर्थ
- इदं पुरमतिस्फीतं वनोपवनराजितम् (ज्ञानार्णव 138) · अर्थ
- इदं मत्तगजानीकमितोऽश्वीयं मनोजवम् (ज्ञानार्णव 155) · अर्थ
- इदं रम्यमिदं सेव्यमिदं श्लाघ्यमिदं हितम् (ज्ञानार्णव 133) · अर्थ
- इदमक्षकुलं धत्ते मदोद्रेकं यथा यथा (ज्ञानार्णव 3) · अर्थ
- इदमखिलं श्वसनभवं सामर्थ्यं स्यान्मुनेर्ध्रुवं तस्य (ज्ञानार्णव 77) · अर्थ
- इदमत्यन्तनिर्वेदविवेकप्रशमोद्भवम् (ज्ञानार्णव 15) · अर्थ
- इदमत्र तात्पर्यं भवतु स कर्त्ताथ वा च मा भवतु (पञ्चाध्यायी 584) · अर्थ
- इदमत्र तु तात्पर्यं यत्पीतत्वं गुणः सुवर्णस्य (पञ्चाध्यायी 488) · अर्थ
- इदमत्र तु तात्पर्यं हेयः सर्वो नयो विकल्पात्मा (पञ्चाध्यायी 510) · अर्थ
- इदमत्र तु तात्पर्यमधिगन्तव्यं चिदादि यद्वस्तु (पञ्चाध्यायी 662) · अर्थ
- इदमत्र निदानं किल गुणवद्द्रव्यं यदुक्तमिह सूत्रे (पञ्चाध्यायी 634) · अर्थ
- इदमत्र समाधानं कर्त्ता यः कोपि सः स्वभावस्य (पञ्चाध्यायी 576) · अर्थ
- इदमत्र समाधानं व्यवहारस्य च नयस्य यद्वाच्यम् (पञ्चाध्यायी 643) · अर्थ
- इदमत्रोदाहरणं ज्ञानं जीवोपजीवि जीवगुणः (पञ्चाध्यायी 536) · अर्थ
- इदमपि वक्तुमयुक्तं वक्ता नय एव न प्रमाणमिह (पञ्चाध्यायी 686) · अर्थ
- इदमस्ति पराधीनं सुखं वाधापुरस्सरम् (पञ्चाध्यायी 245) · अर्थ
- इदमस्ति पूर्वपूर्वभावविनाशेन नश्यतोंशस्य (पञ्चाध्यायी 179) · अर्थ
- इदमस्ति यथा मूलं स्कन्धः शाखा दलानि पुष्पाणि (पञ्चाध्यायी 77) · अर्थ
- इदमिष्टमनिष्टं वेत्यात्मन्सङ्कल्पयन्मुधा (क्षत्रचूडामणि 81) · अर्थ
- इदमिह विषयोत्थं यत्सुखं तद्धि दुःखं (ज्ञानार्णव 32) · अर्थ
- इदमेकं जगच्चक्षुरक्षयं याति पूर्णताम् (समयसार कलश 245) · अर्थ
- इदमेवात्र तात्पर्यं हेयः शुद्धनयो न हि (समयसार कलश 122) · अर्थ
- इदमेवेदृशं चैव तत्वं नान्यन्नचान्यथा (रत्नकरण्ड श्रावकाचार 11) · अर्थ
- इन्द्रचन्द्रार्कभोगीन्द्रनरामरनतक्रमः (ज्ञानार्णव 33) · अर्थ
- इन्द्रजालमथ स्वप्नः किं नु माया भ्रमो नु किम् (ज्ञानार्णव 132) · अर्थ
- इन्द्रजालमिदमेवमुच्छलत् (समयसार कलश 91) · अर्थ
- इन्द्र: सेवां तव सुकुरुतां किं तया श्लाघनं ते (एकीभाव स्तोत्र 20) · अर्थ
- इन्द्राः सामानिकाश्चैव त्रायस्त्रिंशाश्च पार्षदाः (तत्त्वार्थसार 218) · अर्थ
- इन्द्रायुधश्रियं धत्ते यत्र नित्यं नभस्तलम् (ज्ञानार्णव 108) · अर्थ
- इन्द्रियं लिङ्गमिन्द्रस्य तच्च पञ्चविधं भवेत् (तत्त्वार्थसार 39) · अर्थ
- इन्द्रियाणि न गुप्तानि नाभ्यस्तश्चित्तनिर्जयः (ज्ञानार्णव 21) · अर्थ
- इन्द्रियानिन्द्रियापेक्षामुक्तमव्यभिचारि च (तत्त्वार्थसार 17) · अर्थ
- इन्द्रियार्थानपाकृत्य स्वतत्त्वमवलम्बते (ज्ञानार्णव 6) · अर्थ
- इन्द्रियार्थेषु लुब्धानामन्तर्दाहः सुदारुणः (पञ्चाध्यायी 255) · अर्थ
- इन्द्रियार्थेषु वैराग्यं प्राणिनां वघवर्जनम् (तत्त्वार्थसार 18) · अर्थ
- इन्द्रियोपेक्षितानन्तज्ञानदृग्वीर्यमूर्तिकम् (पञ्चाध्यायी 236) · अर्थ
- इमान् जडान् बोधविचारविच्युतान् प्रतारयाम्यद्य वचोभिरुन्नतैः (ज्ञानार्णव 22) · अर्थ
- इमे दोषास्तेषां प्रभवनममीभ्यो नियमतः, (आत्मानुशासन 147) · अर्थ
- इमेऽनन्तभ्रमासारप्रसरैकपरायणाः (ज्ञानार्णव 21) · अर्थ
- इयं निकषभूरद्य सम्पन्ना पुण्ययोगतः (ज्ञानार्णव 35) · अर्थ
- इयं मोहमहाज्वाला जगत्त्रयविसर्पिणी (ज्ञानार्णव 34) · अर्थ
- इयं मोहमहानिद्रा जगत्त्रयविसर्पिणी (ज्ञानार्णव 18) · अर्थ
- इयं संसारिजीवानां सर्वेषामविशेषतः (पञ्चाध्यायी 214) · अर्थ
- इयत्तां नातिवर्तन्ते यतः षडिति जातुचित् (तत्त्वार्थसार 15) · अर्थ
- इष्टभोगादिसिद्ध्यर्थं रिपुघातार्थमेव वा (ज्ञानार्णव 36) · अर्थ
- इष्टार्थनाशविभ्रमस्वपदभ्रंशास्तथा महायुद्धम् (ज्ञानार्णव 42) · अर्थ
- इष्टार्थोद्यदनाशितं भवसुखक्षाराम्भसि प्रस्फुरन्- (आत्मानुशासन 87) · अर्थ
- इष्टोपदेशमिति सम्यगधीत्य धीमान्, (इष्टोपदेश 51) · अर्थ
- इह कश्चिज्जिज्ञासुर्नित्यं सदिति प्रतीयमानोपि (पञ्चाध्यायी 419) · अर्थ
- इह किल छिदाक्रियायां स्यादिव परशुः स्वतन्त्र एव यथा (पञ्चाध्यायी 515) · अर्थ
- इह कुण्डे दधीत्यादिविज्ञानेन स विद्विषा (आप्तपरीक्षा 42) · अर्थ
- इह क्षेमपुरी नाम राजधानी विराजते (क्षत्रचूडामणि 41)
- इह घटरूपेण यथा प्रादुर्भवतीति पिण्डरूपेण (पञ्चाध्यायी 92) · अर्थ
- इह मूर्त्तममूर्त्तेन चलेनात्यन्तनिश्चलम् (ज्ञानार्णव 3) · अर्थ
- इह यदपूर्णन्यायादस्ति परीक्षाक्षमो न दृष्टान्तः (पञ्चाध्यायी 398) · अर्थ
- इह विनिहतबह्वारम्भबाह्योरुशत्रोः, (आत्मानुशासन 169) · अर्थ
- इह व्यपाय हेतुत्वममुत्रावद्यहेतुताम् (तत्त्वार्थसार 69) · अर्थ
- इह सम्यग्दृष्टेः किल मिथ्यात्वोदयविनाशजा शक्तिः (पञ्चाध्यायी 710) · अर्थ
- इह हि वदनकञ्जं हावभावालसाढ्यं (ज्ञानार्णव 37) · अर्थ
- इहाकीर्तिं समादत्ते मृतो यात्येव दुर्गतिम् (ज्ञानार्णव 64) · अर्थ
- इहास्ति भारते खण्डे जम्बूद्वीपस्य मण्डने (क्षत्रचूडामणि 4) · अर्थ
- इहेति प्रत्ययोऽप्येष शङ्करे न तु खादिषु (आप्तपरीक्षा 64) · अर्थ
- इहैव सहजान् रिपून् विजयते प्रकोपादिकान्, (आत्मानुशासन 114) · अर्थ
ई
- ईर्यापथं तु तच्छुष्ककुड्यप्रक्षिप्तलोष्टवत् (तत्त्वार्थसार 7) · अर्थ
- ईर्याभाषैषणादाननिक्षेपोत्सर्गभेदतः (तत्त्वार्थसार 6) · अर्थ
- ईर्या भाषैषणादाननिक्षेपोत्सर्गसंज्ञकाः (ज्ञानार्णव 3) · अर्थ
- ईश: किं छिन्नलिंगो यदि विगतभयः शूलपाणिः कथं स्यात् … (अकलंक स्तोत्र 6) · अर्थ
उ
- उक्तं कदाचिदिन्द्रियमथ च तदर्थेन सन्निकर्षयुतम् (पञ्चाध्यायी 729) · अर्थ
- उक्तं गुणपर्ययवद्द्रव्यं यत्तद्व्ययादियुक्तं सत् (पञ्चाध्यायी 261) · अर्थ
- उक्तं गुरूपदेशान्नयनिक्षेपप्रमाणमिति तावत् (पञ्चाध्यायी 746) · अर्थ
- उक्तं दिङ्मात्रतोऽप्यत्र प्रसङ्गाद्वा गृहिव्रतम् (पञ्चाध्यायी 742) · अर्थ
- उक्तं दिङ्मात्रतोऽप्यत्र सुस्थितीकरणं गुणः (पञ्चाध्यायी 806) · अर्थ
- उक्तं दिङ्मात्रमत्रापि प्रसङ्गाद्गुरुलक्षणम् (पञ्चाध्यायी 714) · अर्थ
- उक्तं प्रमाणदर्शनमस्ति स योयं हि नास्तिमानर्थः (पञ्चाध्यायी 692) · अर्थ
- उक्तं प्रमाणलक्षणमनुभवगम्यं यथागमज्ञानात् (पञ्चाध्यायी 738) · अर्थ
- उक्तं प्रमाणलक्षणमिह यदनार्हतं कुवादिभिः स्वैरम् (पञ्चाध्यायी 733) · अर्थ
- उक्तं सदिति यथा स्यादेकमनेकं सुसिद्धदृष्टान्तात् (पञ्चाध्यायी 503) · अर्थ
- उक्तं हि गुणानामिह लक्ष्यं तल्लक्षणं यथाऽऽगमतः (पञ्चाध्यायी 164) · अर्थ
- उक्तः प्रभावनाङ्गोपि गुणः सद्दर्शनान्वितः (पञ्चाध्यायी 821) · अर्थ
- उक्तगाथार्थसूत्रेपि प्रशमादिचतुष्टयम् (पञ्चाध्यायी 467) · अर्थ
- उक्तमस्ति क्रियारूपं व्यासाद्व्रतकदम्बकम् (पञ्चाध्यायी 748) · अर्थ
- उक्तमस्ति स्वरूपं प्राङ् मिथ्याभावस्य जन्मिनाम् (पञ्चाध्यायी 1102) · अर्थ
- उक्तमाक्ष्यं सुखं ज्ञानमनादेयं दृगात्मनः (पञ्चाध्यायी 374) · अर्थ
- उक्तव्रततपः शीलसंयमादिधरो गणी (पञ्चाध्यायी 658) · अर्थ
- उक्तो धर्मस्वरूपोपि प्रसङ्गात्सङ्गतोंशतः (पञ्चाध्यायी 775) · अर्थ
- उक्तो निष्कांक्षितो भावो गुणः सद्दर्शनस्य वै (पञ्चाध्यायी 576) · अर्थ
- उक्तो व्यवहारनयस्तदनु नयो निश्चयः पृथक् पृथक् (पञ्चाध्यायी 664) · अर्थ
- उग्रग्रीष्मकठोर- घर्मकिरणस्फूर्जद्गभस्तिप्रभैः (आत्मानुशासन 55) · अर्थ
- उचैर्गोत्रं शुभायूंषि सद्वेद्यं शुभनाम च (तत्त्वार्थसार 52) · अर्थ
- उच्चकुलमदः त्याज्यः कार्यं नोन्मत्तचेष्टितम् (श्रावकधर्मप्रदीप 45) · अर्थ
- उच्चै - रशोक- तरु - संश्रितमुन्मयूख - (भक्तामर स्तोत्र 28)
- उच्चैर्गोत्रं प्रणतेभोगी दानादुपासनात्पूजा (रत्नकरण्ड श्रावकाचार 115) · अर्थ
- उच्छ्वासः खेदजन्यत्वाद् दुःखमेषोऽत्र जीवितम् (आत्मानुशासन 73) · अर्थ
- उच्छ्वास आतपोद्योतौ शस्ताशस्ते नभोगती (तत्त्वार्थसार 38) · अर्थ
- उच्यतेनन्तधर्माधिरूढोप्येकः सचेतनः (पञ्चाध्यायी 944) · अर्थ
- उत्करश्चूर्णिका चूर्णः खण्डोऽणुचटनं तथा (तत्त्वार्थसार 72) · अर्थ
- उत्कर्षेणापकर्षेण स्थितिर्या कर्मणां मता (ज्ञानार्णव 48) · अर्थ
- उत्कर्षो यद्बलाधिक्यादधिकीकरणं वृषे (पञ्चाध्यायी 816) · अर्थ
- उत्कर्षो वाऽनयोरंशैर्द्वयोरन्यतरस्य वा (पञ्चाध्यायी 872) · अर्थ
- उत्कृष्टकायबन्धस्य साधोरन्तर्मुहूर्त्ततः (ज्ञानार्णव 15) · अर्थ
- उत्कृष्टमानता शैलराजीसदृशरोषता (तत्त्वार्थसार 30) · अर्थ
- उत्तमा स्वात्मचिन्ता स्यात् देहचिन्ता च मध्यमा (परमानन्द स्तोत्र 4) · अर्थ
- उत्तरा दक्षिणैस्तुल्या निम्नास्ते दशयोजनीम् (तत्त्वार्थसार 199) · अर्थ
- उत्तरोत्तरभेदैश्च लोकासंख्यातमात्रकम् (पञ्चाध्यायी 1001) · अर्थ
- उत्तानोच्छूनमण्डूकदारितोदरसन्निभे (ज्ञानार्णव 23) · अर्थ
- उत्तितीर्षुर्महापङ्काज्जन्मसंज्ञाद्दुरुत्तरात् (ज्ञानार्णव 16) · अर्थ
- उत्तुङ्ग सङ्गत कुचाचल दुर्गदूर - (आत्मानुशासन 132) · अर्थ
- उत्थापितानि कमठेन शठेन यानि (कल्याणमन्दिर स्तोत्र 31) · अर्थ
- उत्पत्तिः पापबन्धस्य स्यादुत्कर्षोऽथवास्य च (पञ्चाध्यायी 870) · अर्थ
- उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह (तत्त्वार्थसार 36) · अर्थ
- उत्पद्यते विनश्यति सदिति यथास्वं प्रतिक्षणं यावत् (पञ्चाध्यायी 760) · अर्थ
- उत्पद्यन्ते विपद्यन्ते स्वकर्मनिगडैर्वृताः (ज्ञानार्णव 2) · अर्थ
- उत्पद्यन्ते सहस्रारे तिर्यञ्चो व्रतसंयुताः (तत्त्वार्थसार 165) · अर्थ
- उत्पन्न केवलज्ञानो घातिकर्मोदयक्षयात् (तत्त्वार्थसार 29) · अर्थ
- उत्पन्नपुरुषभ्रान्तेः स्थाणौ यद्वद्विचेष्टितम् (समाधितंत्र 21)
- उत्पन्नोऽस्यसिदोषधातुमलवद्देहोऽसि कोपादिवान्, (आत्मानुशासन 54) · अर्थ
- उत्पाटयन्ति नेत्राणि चूर्णयन्त्यस्थिसंचयम् (ज्ञानार्णव 63) · अर्थ
- उत्पातभयसन्तापभङ्गचौरारिविड्वराः (ज्ञानार्णव 93) · अर्थ
- उत्पादः खलु देवीनामैशानं यावदिष्यते (तत्त्वार्थसार 81) · अर्थ
- उत्पादध्वंसौ वा द्वावपि न स्तो विनापि तद्ध्रौव्यम् (पञ्चाध्यायी 253) · अर्थ
- उत्पादव्यययोरपि भवति यदात्मा स्वयं सदेवेति (पञ्चाध्यायी 246) · अर्थ
- उत्पादस्थितिभंगैर्युक्तं सद्द्रव्यलक्षणं हि यथा (पञ्चाध्यायी 86) · अर्थ
- उत्पादस्थितिभङ्गाः पर्यायाणां भवन्ति किल न सतः (पञ्चाध्यायी 200) · अर्थ
- उत्पादोपि न भावी व्ययं विना वा तथा प्रतीतत्वात् (पञ्चाध्यायी 252) · अर्थ
- उत्पाद्य मोहमदविह्वलमेव विश्वं, (आत्मानुशासन 77) · अर्थ
- उत्सर्पिण्यवसर्पिण्यौ षट्समे वृद्धिहानिदे (तत्त्वार्थसार 208) · अर्थ
- उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् (ज्ञानार्णव 1) · अर्थ
- उदधिरुदकपूरैरिन्धनैश्चित्रभानु– (ज्ञानार्णव 28) · अर्थ
- उदन्योपद्रुतामत्र मान्य! भार्यां पतिव्रताम् (क्षत्रचूडामणि 51)
- उदयति न नयश्रीरस्तमेति प्रमाणं (समयसार कलश 9) · अर्थ
- उदयश्चन्द्रेण हितः सूर्येणास्तं प्रशस्यते वायोः (ज्ञानार्णव 39) · अर्थ
- उदये वामा शस्ता सितपक्षे दक्षिणा पुनः कृष्णे (ज्ञानार्णव 38) · अर्थ
- उदीर्णकर्मेन्धनसंभवेन दुःखानलेनातिकदर्थ्यमानम् (ज्ञानार्णव 7) · अर्थ
- उदीर्णानलदीप्तासु निसर्गोष्णासु भूमिषु (ज्ञानार्णव 12) · अर्थ
- उद्गच्छता तव शिति-द्युति- मण्डलेन (कल्याणमन्दिर स्तोत्र 24) · अर्थ
- उद्गमोत्पादसंज्ञैस्तैर्धूमाङ्गारादिगैस्तथा (ज्ञानार्णव 10) · अर्थ
- उद्दण्डदर्पकरिपो विमलामलाङ्ग (सुप्रभात स्तोत्र 6) · अर्थ
- उद्दीपयन्तो रोषाग्निं बहु विक्रम्य विद्विषः (ज्ञानार्णव 23) · अर्थ
- उद्धूय तद्रजः शीघ्रं तेन प्रबलवायुना (ज्ञानार्णव 23) · अर्थ
- उद्धृत्य सकलं लोकं स्वशक्त्यैव व्यवस्थिताः (ज्ञानार्णव 6) · अर्थ
- उद्भूत - भीषण - जलोदर - भार- भुग्ना:, (भक्तामर स्तोत्र 45)
- उद्युक्तस्त्वं तपस्यस्यधिकमभिभवं त्वामगच्छन् कषायाः, (आत्मानुशासन 215) · अर्थ
- उद्योतितेषु भवता भुवनेषु नाथ (कल्याणमन्दिर स्तोत्र 26) · अर्थ
- उद्वक्त्रस्तद्वतीं सूत्यां दृष्ट्वामुह्यदबाह्यधीः (क्षत्रचूडामणि 66)
- उद्वासयति निश्शङ्का जगत्पूज्यं गुणव्रजम् (ज्ञानार्णव 4) · अर्थ
- उन्निद्र - हेम - नव - पङ्कज - पुञ्ज-कान्ती, (भक्तामर स्तोत्र 36)
- उन्मज्जति नयपक्षो भवति विकल्पो विवक्षितो हि यदा (पञ्चाध्यायी 508) · अर्थ
- उन्मत्तमथ विभ्रान्तं दिग्मूढं सुप्तमेव वा (ज्ञानार्णव 31) · अर्थ
- उन्मुक्त मुन्मोच्यमशेषतस्तत् (समयसार कलश 236) · अर्थ
- उन्मूलयति निर्वेदविवेकद्रुममञ्जरीः (ज्ञानार्णव 17) · अर्थ
- उन्मूलयति मिथ्यात्वं द्रव्यभावमलं विभुः (ज्ञानार्णव 34) · अर्थ
- उन्मूलयत्यविश्रान्तं पूज्यं श्रीधर्मपादपम् (ज्ञानार्णव 42) · अर्थ
- उपकारोऽपि नीचानामपकाराय कल्पते (क्षत्रचूडामणि 6)
- उपघ्रातस्य धीरेण मृत्युव्याघ्रेण देहिनः (तत्त्वार्थसार 32) · अर्थ
- उपचरितः सद्भूतो व्यवहारः स्यान्नयो यथा नाम (पञ्चाध्यायी 540) · अर्थ
- उपचरितोऽसद्भूतो व्यवहाराख्यो नयः स भवति यथा (पञ्चाध्यायी 549) · अर्थ
- उपबृंहणनामापि गुणः सद्दर्शनस्य यः (पञ्चाध्यायी 789) · अर्थ
- उपब्रंहणनामास्ति गुणः सम्यग्दृगात्मनः (पञ्चाध्यायी 778) · अर्थ
- उपयोगः स्यादभिव्यक्तिः शक्तेः स्वार्थाधिकारिणी (पञ्चाध्यायी 75) · अर्थ
- उपयोगविवक्षायां हेतुरस्यास्ति तद्यथा (पञ्चाध्यायी 294) · अर्थ
- उपरिष्टान्महीभागात् पटलेषु नभोऽङ्गणे (तत्त्वार्थसार 224) · अर्थ
- उपरोधाविधानं च भैक्ष्यशुद्धिर्यथोदिता (तत्त्वार्थसार 66) · अर्थ
- उपर्युपरि देवेशनिवासयुगलं क्रमात् (ज्ञानार्णव 90) · अर्थ
- उपर्युपरि संक्रान्तैः सर्वतोऽपि निरन्तरैः (ज्ञानार्णव 4) · अर्थ
- उपर्युपरिसंभूतदुःखवह्निक्षतं जगत् (ज्ञानार्णव 43) · अर्थ
- उपलब्धिरशुद्धासौ परिणामक्रियामयी (पञ्चाध्यायी 212) · अर्थ
- उपवृंहणनामा च सुस्थितीकरणं तथा (पञ्चाध्यायी 480) · अर्थ
- उपशान्तकषायः स्यात्सर्वमोहोपशान्तितः (तत्त्वार्थसार 28) · अर्थ
- उपसंहारविस्तारधर्मा दृग्बोधलाञ्छनः (ज्ञानार्णव 17) · अर्थ
- उपसर्गाग्निपातेऽपि धैर्यमालम्ब्य चोन्नतम् (ज्ञानार्णव 31) · अर्थ
- उपसर्गे दुभिक्षे जरसि रुजायां च निःप्रतिकारे (रत्नकरण्ड श्रावकाचार 122) · अर्थ
- उपसर्गैरपि स्फीतैर्देवदैत्यारिकल्पितैः (ज्ञानार्णव 14) · अर्थ
- उपात्तकर्मणः पातो निर्जरा द्विविधा च सा (तत्त्वार्थसार 2) · अर्थ
- उपादेयतया जीवोऽजीवो हेयतयोदितः (तत्त्वार्थसार 7) · अर्थ
- उपाध्यायः समाख्यातो विख्यातोऽस्ति स्वलक्षणैः (पञ्चाध्यायी 666) · अर्थ
- उपाध्यायः समाधीयान् वादी स्याद्वादकोविदः (पञ्चाध्यायी 659) · अर्थ
- उपाध्यायत्वमित्यत्र श्रुताभ्यासो हि कारणम् (पञ्चाध्यायी 661) · अर्थ
- उपायकोटिदूरक्षे स्वतस्तत इतोऽन्यतः, (आत्मानुशासन 69) · अर्थ
- उपास्यात्मानमेवात्मा जायते परमोऽथवा (समाधितंत्र 98)
- उपेक्षाफलमाद्यस्य, शेषस्यादानहानधीः (आप्तमीमांसा 102) · अर्थ
- उपेक्षा सर्वभोगेषु सद्दृष्टेर्दृष्टरोगवत् (पञ्चाध्यायी 261) · अर्थ
- उपैति भक्त्या सुमुखः सुखानि (विषापहार स्तोत्र 7) · अर्थ
- उभयं चेत्क्रमेणेह सिद्धं न्यायाद्विवक्षितम् (पञ्चाध्यायी 146) · अर्थ
- उभौ निरुपभोगौ तौ प्रतिघातविवर्जितौ (तत्त्वार्थसार 74) · अर्थ
- उभौ लान्तवकापिष्टौ शुक्रशुक्रौ महास्वनौ (तत्त्वार्थसार 228) · अर्थ
- उरगाणां द्विसंयुक्ता चत्वारिंशत्प्रकर्षतः (तत्त्वार्थसार 118) · अर्थ
- उर्वश्या-मुदपादिरागबहुलं चेतो यदीयं पुनः, पात्रीदण्डकमण्डलु-प्रभृतयो यस्याकृतार्थस्थितिं (अकलंक स्तोत्र 4) · अर्थ
- उल्लाघोहं भविष्यामि माभून्मे वेदना क्वचित् (पञ्चाध्यायी 525) · अर्थ
- उष्णः शीतश्च देवानां नारकाणां च कीर्तितः (तत्त्वार्थसार 108) · अर्थ
- उह्यते यत्र मातङ्गैर्नगोत्तुङ्गैर्जलप्लवे (ज्ञानार्णव 36) · अर्थ
ऊ
- ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः (तत्त्वार्थसार 32) · अर्थ
- ऊर्ध्वाद्यतिक्रमा निन्द्या न कार्या दुःखदाः सदा (श्रावकधर्मप्रदीप 179) · अर्थ
- ऊर्ध्वाधस्तात्तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम् (रत्नकरण्ड श्रावकाचार 73) · अर्थ
- ऊर्ध्वाधोमध्यभागैर्यो बिभर्ति भुवनत्रयम् (ज्ञानार्णव 3) · अर्थ
- ऊर्ध्वाधोरेफसंरुद्धं सपरं बिन्दुलाञ्छितम् (ज्ञानार्णव 8) · अर्थ
ऋ
- ऋजुत्वमीषदारम्भपरिग्रहतया सह (तत्त्वार्थसार 40) · अर्थ
- ऋजुनयनिरपेक्षतया, सापेक्षं भाविनैगमादिनयैः (पञ्चाध्यायी 743) · अर्थ
- ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा (ज्ञानार्णव 7) · अर्थ
- ऋजुसूत्रः स विज्ञेयो येन पर्यायमात्रकम् (तत्त्वार्थसार 47) · अर्थ
- ऋते भवमथार्त्तं स्यादसद्ध्यानं शरीरिणाम् (ज्ञानार्णव 23) · अर्थ
- ऋद्धिः सुविस्मयकरी व्रतदानधर्माज् (श्रावकधर्मप्रदीप 49) · अर्थ
- ऋषभो नाभिसूनूर्यो भूयात्स भविकाय वः (आत्मानुशासन 270) · अर्थ
ए
- एकं ज्ञानमनाद्यनन्तमचलं सिद्धं किलैतत्स्वतो (समयसार कलश 160) · अर्थ
- एकं तत्रान्यतरं भावं समपेक्ष्य यावदिह सदिति (पञ्चाध्यायी 482) · अर्थ
- एकं त्रीणि तथा सप्त दश सप्तदशेति च (तत्त्वार्थसार 123) · अर्थ
- एकं दृशा परं भावैर्वाग्भिरन्यं तथेङ्गितैः (ज्ञानार्णव 52) · अर्थ
- एकं द्वे त्रोणि पल्यानि नृ-तिरश्चां यथाक्रमम् (तत्त्वार्थसार 122) · अर्थ
- एकं सदिति द्रव्यं गुणोऽथवा पर्ययोऽथवा नाम्ना (पञ्चाध्यायी 753) · अर्थ
- एकं हेम यथानेकवर्णं स्यात्परयोगतः (पञ्चाध्यायी 158) · अर्थ
- एकः कर्ता चिदहमिह मे कर्म कोपादयोऽमी (समयसार कलश 46) · अर्थ
- एकः क्रोशो जघन्यासु द्वौ क्रोशौ मध्यमासु च (तत्त्वार्थसार 138) · अर्थ
- एकः परिणमति सदा परिणामो जायते सदैकस्य (समयसार कलश 52) · अर्थ
- एकः पूजां रचयति नरः पारिजातप्रसूनैः (ज्ञानार्णव 27) · अर्थ
- एकः शुद्धनयः सर्वो निर्द्वन्द्वो निर्विकल्पकः (पञ्चाध्यायी 134) · अर्थ
- एकः सम्यग्दृगात्माऽसौ केवलं ज्ञानवानिह (पञ्चाध्यायी 228) · अर्थ
- एकः सर्वोपि नयो भवति विकल्पाविशेषतोपि नयात् (पञ्चाध्यायी 516) · अर्थ
- एकः स्वर्गी भवति विबुधः स्त्रीमुखाम्भोजभृङ्गः (ज्ञानार्णव 11) · अर्थ
- एक एव च सर्वत्र समवायो यदीष्यते (आप्तपरीक्षा 63) · अर्थ
- एक एव मनोदैत्यजयः सर्वार्थसिद्धिदः (ज्ञानार्णव 11) · अर्थ
- एक एव मनोरोधः सर्वाभ्युदयसाधकः (ज्ञानार्णव 12) · अर्थ
- एक एव स्मरो वीरः स चैकोऽचिन्त्यविक्रमः (ज्ञानार्णव 18) · अर्थ
- एकचिन्तानिरोधो यस्तद्ध्यानं भावना परा (ज्ञानार्णव 16) · अर्थ
- एकज्ञायकभावनिर्भरमहास्वादं समासादयन् (समयसार कलश 140) · अर्थ
- एकतः कर्मणां सैन्यमहमेकस्ततोऽन्यतः (ज्ञानार्णव 8) · अर्थ
- एकतः सकलं पापं असत्योत्थं ततोऽन्यतः (ज्ञानार्णव 33) · अर्थ
- एकत्र वसतिः साध्वी वरं व्याघ्रोरगैः सह (ज्ञानार्णव 30) · अर्थ
- एकत्वं किं न पश्यन्ति जडा जन्मग्रहार्दिताः (ज्ञानार्णव 7) · अर्थ
- एकत्वं गुणगुणिनोः साध्यं हेतोस्तयोरनन्यत्वात् (पञ्चाध्यायी 46) · अर्थ
- एकत्वं व्यवहारतो न तु पुनः कायात्मनोर्निश्चया- (समयसार कलश 27) · अर्थ
- एकत्वेन्यतराभावः शेषाभावोऽविनाभुवः (आप्तमीमांसा 69) · अर्थ
- एकद्वित्र्याद्यसंख्येय समय स्थितिकांस्तथा (तत्त्वार्थसार 48) · अर्थ
- एकधा चेतना शुद्धा शुद्धस्यैकविधत्त्वतः (पञ्चाध्यायी 194) · अर्थ
- एकधा त्रिविधा वा स्यात् कर्ममिथ्यात्वसञ्ज्ञकम् (पञ्चाध्यायी 987) · अर्थ
- एक पदार्थस्थितिरिह सर्वपदार्थस्थितेर्विपक्षत्वम् (पञ्चाध्यायी 21) · अर्थ
- एक प्रदेशवदपि द्रव्यं स्यात्खण्डवर्जितः स यथा (पञ्चाध्यायी 36) · अर्थ
- एकमेकक्षणे सिद्धं ध्रौव्योत्पादव्ययात्मकम् (आत्मानुशासन 172) · अर्थ
- एकमेव व्रतं श्लाघ्यं ब्रह्मचर्यं जगत्त्रये (ज्ञानार्णव 3) · अर्थ
- एकमेव हि तत्स्वाद्यं विपदामपदं पदम् (समयसार कलश 139) · अर्थ
- एकरूपमिवाभाति ज्ञानं ध्यानैकतानतः (पञ्चाध्यायी 844) · अर्थ
- एक वास्तुदशागारमान मुद्गादिगोचरः (तत्त्वार्थसार 12) · अर्थ
- एकविंशतिदुःखानां मोक्षो निर्मोक्षलक्षणः (पञ्चाध्यायी 368) · अर्थ
- एकश्चितश्चिन्मय एव भावो (समयसार कलश 184) · अर्थ
- एक: सदा शाश्वतिको ममात्मा, विनिर्मल: साधिगमस्वभाव: (भावना द्वात्रिंशतिका 26)
- एकस्मिन्निह वस्तुन्यनादिनिधने च निर्विकल्पे च (पञ्चाध्यायी 23) · अर्थ
- एकस्य कर्ता न तथा परस्य (समयसार कलश 74) · अर्थ
- एकस्य कार्यं न तथा परस्य (समयसार कलश 79) · अर्थ
- एकस्य चेत्यो न तथा परस्य (समयसार कलश 86) · अर्थ
- एकस्य चैको न तथा परस्य (समयसार कलश 81) · अर्थ
- एकस्य जीवद्रव्यस्य धर्माधर्मास्तिकाययोः (तत्त्वार्थसार 19) · अर्थ
- एकस्य जीवो न तथा परस्य (समयसार कलश 76) · अर्थ
- एकस्य दुष्टो न तथा परस्य (समयसार कलश 73) · अर्थ
- एकस्य दृश्यो न तथा परस्य (समयसार कलश 87) · अर्थ
- एकस्य नाना न तथा परस्य (समयसार कलश 85) · अर्थ
- एकस्य नित्यो न तथा परस्य (समयसार कलश 83) · अर्थ
- एकस्य बद्धो न तथा परस्य (समयसार कलश 70) · अर्थ
- एकस्य भातो न तथा परस्य (समयसार कलश 89) · अर्थ
- एकस्य भावो न तथा परस्य (समयसार कलश 80) · अर्थ
- एकस्य भोक्ता न तथा परस्य (समयसार कलश 75) · अर्थ
- एकस्य मूढो न तथा परस्य (समयसार कलश 71) · अर्थ
- एकस्य रक्तो न तथा परस्य (समयसार कलश 72) · अर्थ
- एकस्य वस्तुन इहान्यतरेण सार्धं (समयसार कलश 201) · अर्थ
- एकस्य वाच्यो न तथा परस्य (समयसार कलश 84) · अर्थ
- एकस्य वेद्यो न तथा परस्य (समयसार कलश 88) · अर्थ
- एकस्य सान्तो न तथा परस्य (समयसार कलश 82) · अर्थ
- एकस्य सूक्ष्मो न तथा परस्य (समयसार कलश 77) · अर्थ
- एकस्य हेतुर्न तथा परस्य (समयसार कलश 78) · अर्थ
- एकस्यानेकवृत्तिर्न भागाभावाद्बहूनि वा (आप्तमीमांसा 62) · अर्थ
- एकस्यामयमास्ते कालं नालीयुगद्वयं सार्द्धम् (ज्ञानार्णव 87) · अर्थ
- एकस्यास्तु विपक्षः सत्तायाः स्याददो ह्यनेकत्वम् (पञ्चाध्यायी 22) · अर्थ
- एकहायनमात्रेण धुरि राज्ञां प्रवेक्ष्यसि (क्षत्रचूडामणि 28)
- एकाकित्वं प्रपन्नोऽस्मि यदाहं वीतविभ्रमः (ज्ञानार्णव 10) · अर्थ
- एकाकित्वप्रतिज्ञाः सकलमपि समुत्सृज्य सर्वंसहत्वाद्, (आत्मानुशासन 258) · अर्थ
- एकाकिनोऽपि नोद्वेगो वशिनस्तस्य जातुचित् (क्षत्रचूडामणि 33)
- एकाकी व्यहरत्स्वामी निर्भयोऽयमितस्ततः (क्षत्रचूडामणि 32)
- एकाक्यपि नयत्येष जीवलोकं चराचरम् (ज्ञानार्णव 19) · अर्थ
- एकाक्षाः वादराः सूक्ष्मा द्वयक्षाद्या विकलास्त्रयः (तत्त्वार्थसार 30) · अर्थ
- एकाक्षेषु चतस्रः स्युः पूर्वाः शेषेषु पञ्च ताः (तत्त्वार्थसार 33) · अर्थ
- एकाग्रत्वेऽतिचिन्ताया निरोधो ध्यानमिष्यते (तत्त्वार्थसार 38) · अर्थ
- एकाङ्गग्रहणादिति पक्षस्य स्यादिहांशधर्मत्वम् (पञ्चाध्यायी 609) · अर्थ
- एकाङ्गत्वमसिद्धं न नेति निश्चयनयस्य तस्य पुनः (पञ्चाध्यायी 610) · अर्थ
- एकादयः प्रदेशाः स्युः पुद्गलानां यथायथम् (ज्ञानार्णव 44) · अर्थ
- एकानेकविकल्पादावुत्तरत्रापि योजयेत् (आप्तमीमांसा 23) · अर्थ
- एकान्त-दृष्टि-प्रतिषेध-सिद्धि- (स्वयंभू स्तोत्र 55) · अर्थ
- एकान्तदृष्टि-प्रतिषेधि तत्त्वं (स्वयंभू स्तोत्र 41) · अर्थ
- एकान्ते सामयिकं निर्व्याक्षेपे वनेषु वास्तुषु च (रत्नकरण्ड श्रावकाचार 99) · अर्थ
- एकापवरकेऽनेकप्रकाशस्थितिदर्शनात् (तत्त्वार्थसार 27) · अर्थ
- एका स्याच्चेतना शुद्धा स्यादशुद्धा परा ततः (पञ्चाध्यायी 193) · अर्थ
- एका हि महासत्ता सत्ता वा स्यादवान्तराख्या च (पञ्चाध्यायी 264) · अर्थ
- एकीभावं गत इव मया य: स्वयं कर्मबन्धो (एकीभाव स्तोत्र 1) · अर्थ
- एकेन्द्रियाद्या यदि देव! देहिन:, प्रमादत: संचरता इतस्तत: (भावना द्वात्रिंशतिका 5)
- एकैकं च त्रिभिर्नष्टं द्वे द्वे नष्टे तथाऽपरैः (ज्ञानार्णव 27) · अर्थ
- एकैकं वर्द्धयेदब्धिं नवग्रैवेयकेष्वतः (तत्त्वार्थसार 131) · अर्थ
- एकैककरणपरवशमपि मृत्युं याति जन्तुजातमिदम् (ज्ञानार्णव 36) · अर्थ
- एकैकवृत्या प्रत्येकमणवस्तस्य निष्क्रियाः (तत्त्वार्थसार 44) · अर्थ
- एकैव महतां सेवा स्याज्जेत्री भुवनत्रये (ज्ञानार्णव 27) · अर्थ
- एकैव वनिताव्याली दुर्विचिन्त्यपराक्रमा (ज्ञानार्णव 18) · अर्थ
- एकैव हि मनःशुद्धिर्लोकाग्रपथदीपिका (ज्ञानार्णव 29) · अर्थ
- एकैश्वर्यमिहैकतामभिमतावाप्तिं शरीरच्युतिं, (आत्मानुशासन 256) · अर्थ
- एको देवः स सामान्याद् द्विधावस्था विशेषतः (पञ्चाध्यायी 605) · अर्थ
- एकोद्रव्यार्थिक इति पर्यायार्थिक इति द्वितीयः स्यात् (पञ्चाध्यायी 517) · अर्थ
- एको द्विधा त्रिधा जीवः चतुःसंक्रान्तिपञ्चमः (ज्ञानार्णव 18) · अर्थ
- एको नृत्यति विप्रसार्य ककुभां चक्रे सहस्रं भुजानेक: शेषभुजंगभोगशयने व्यादाय निद्रायते … (अकलंक स्तोत्र 8) · अर्थ
- एको मोक्षपथो य एष नियतो द्रग्ज्ञप्तिवृत्त्यात्मक- (समयसार कलश 240) · अर्थ
- एको यथा सद्द्रव्यार्थात्सिद्धेः शुद्धात्मलब्धितः (पञ्चाध्यायी 606) · अर्थ
- एको हेतुः क्रियाप्येका वेषश्चैको वहिः समः (पञ्चाध्यायी 639) · अर्थ
- एकोऽसि मुक्तोऽसि चिदात्मकोऽसि, चिद्रुपभावोऽसि चिरंतनोऽसि (मन्दालसा स्तोत्र 4) · अर्थ
- एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः (इष्टोपदेश 27) · अर्थ
- एतत्कन्दलितानन्दमेतत्कल्याणमन्दिरम् (ज्ञानार्णव 134) · अर्थ
- एतत्तत्त्वं शिवाख्यं वा समालम्ब्य मनीषिणः (ज्ञानार्णव 30) · अर्थ
- एतत्पक्षचतुष्टयमपि दुष्टं दृष्टबाधितत्वाच्च (पञ्चाध्यायी 70) · अर्थ
- एतत्समयसर्वस्वं मुक्तेश्चैतन्निबन्धनम् (ज्ञानार्णव 22) · अर्थ
- एतत्समयसर्वस्वमेतत्सिद्धान्तजीवितम् (ज्ञानार्णव 30) · अर्थ
- एतत्सर्वज्ञवचनमाज्ञामात्रं तदागमः (पञ्चाध्यायी 337) · अर्थ
- एतदेव परं तत्त्वं ज्ञानमेतद्धि शाश्वतम् (ज्ञानार्णव 31) · अर्थ
- एतदेवैष एकं द्वे बहूनीति धियः पदम् (ज्ञानार्णव 30) · अर्थ
- एतद्दोषभयादिह प्रकृतं चास्तिक्यमिच्छता पुंसा (पञ्चाध्यायी 260) · अर्थ
- एतद्द्वैतस्य हेतुः स्याच्छक्तिद्वैतैककर्मणः (पञ्चाध्यायी 1137) · अर्थ
- एतद्धि कथितं शास्त्रे रुचिमात्रप्रसाधकम् (ज्ञानार्णव 54) · अर्थ
- एतद्विनापि यत्नेन स्वयमेव प्रसूयते (ज्ञानार्णव 41) · अर्थ
- एतद्व्यसनपाताले भ्रमत्संसारसागरे (ज्ञानार्णव 45) · अर्थ
- एतन्मध्यमदेशस्था हेमाभा स्यादियं पुरी (क्षत्रचूडामणि 68)
- एतां विचिन्तयन्नेव स्तिमितेनान्तरात्मना (ज्ञानार्णव 84) · अर्थ
- एता अग्रे महादेव्यो वरस्त्रीवृन्दवन्दिताः (ज्ञानार्णव 151) · अर्थ
- एता द्वादशभावनाः खलु सखे सख्योऽपवर्गश्रिय- (ज्ञानार्णव 3) · अर्थ
- एतानि सप्त सैन्यानि पालितान्यमरेश्वरैः (ज्ञानार्णव 156) · अर्थ
- एतान्यदृष्टपूर्वाणि बिलानि च कुलानि च (ज्ञानार्णव 47) · अर्थ
- एतान्येवाहुः केचिच्च मनःस्थैर्याय शुद्धये (ज्ञानार्णव 2) · अर्थ
- एताभिरनिशं योगी क्रीडन्नत्यन्तनिर्भरम् (ज्ञानार्णव 16) · अर्थ
- एतामुत्तमनायिकामभिजनावर्ज्यां जगत्प्रेयसीं, (आत्मानुशासन 128) · अर्थ
- एता मुनिजनानन्दसुधास्यन्दैकचन्द्रिकाः (ज्ञानार्णव 15) · अर्थ
- एतावता विनाप्येष श्रावको नास्ति नामतः (पञ्चाध्यायी 725) · अर्थ
- एतावतास्ति यो भावो दृङ्मोहस्योदयादपि (पञ्चाध्यायी 1024) · अर्थ
- एतावदत्र तात्पर्यं यथा ज्ञानं गुणश्चितः (पञ्चाध्यायी 1012) · अर्थ
- एतावनादि संभूतौ रागद्वेषौ महाग्रहौ (ज्ञानार्णव 21) · अर्थ
- एते तृणीकृतस्वार्था मुक्तिश्रीसङ्गनिःस्पृहाः (ज्ञानार्णव 50) · अर्थ
- एते ते मुनिमानिनः कवलिताः कान्ताकटाक्षेक्षणैः, (आत्मानुशासन 150) · अर्थ
- एते दिव्याङ्गनाकीर्णाश्चन्द्रकान्ता मनोहराः (ज्ञानार्णव 147) · अर्थ
- एते धर्मादयः पञ्च जीवाश्च प्रोक्तलक्षणाः (तत्त्वार्थसार 3) · अर्थ
- एतेन निरस्तं यन्मतमेतत्सति घटे घटज्ञानम् (पञ्चाध्यायी 538) · अर्थ
- एतेन निरस्तोभून्नानासत्वैकसत्त्ववादीति (पञ्चाध्यायी 448) · अर्थ
- एतेन निरस्तोऽभूत् क्लीवत्वादात्मनोऽपराद्धतया (पञ्चाध्यायी 325) · अर्थ
- एतेन विना चैकं द्रव्यं सम्यक् प्रपश्यतश्चापि (पञ्चाध्यायी 27) · अर्थ
- एतेन हतास्ते ये स्वात्मप्रज्ञापराधतः केचित् (पञ्चाध्यायी 659) · अर्थ
- एतेन हेतुना ज्ञानी निःशङ्को न्यायदर्शनात् (पञ्चाध्यायी 502) · अर्थ
- एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः (आप्तपरीक्षा 78) · अर्थ
- एतेनैवेश्वरज्ञानं व्यापि नित्यमपाकृतम् (आप्तपरीक्षा 36) · अर्थ
- एते पण्डितमानिनः शमदमस्वाध्यायचिन्ताच्युताः (ज्ञानार्णव 62) · अर्थ
- एते परस्परापेक्षाः सम्यग्ज्ञानस्य हेतवः (तत्त्वार्थसार 51) · अर्थ
- एते मूलगुणाः प्रोक्ताः यतीनां जैनशासने (पञ्चाध्यायी 746) · अर्थ
- एतेषु लब्धलक्ष्यस्ततोऽपि सूक्ष्मेषु पत्रिकायेषु (ज्ञानार्णव 94) · अर्थ
- एतेषु हेतुभूतेषु सत्सु सज्ज्ञानसंभवात् (पञ्चाध्यायी 300) · अर्थ
- एनः किं न धनप्रसक्तमनसां नासादि हिंसादिना (ज्ञानार्णव 41) · अर्थ
- एरण्डस्फुटदेलासु बन्धच्छेदाद्यथा गतिः (तत्त्वार्थसार 30) · अर्थ
- एवं च त्वयि सत्यात्मन्कर्मास्रवनिरोधनात् (क्षत्रचूडामणि 59)
- एवं च सति सम्यक्त्वे गुणे जीवस्य सर्वतः (पञ्चाध्यायी 1006) · अर्थ
- एवं चेत् सम्यगुत्पत्तिर्न स्यात्स्यात् दृगसंभवः (पञ्चाध्यायी 921) · अर्थ
- एवं चोत्पादादित्रयस्य साधीयसी व्यवस्थेह (पञ्चाध्यायी 255) · अर्थ
- एवं जीवस्य चारित्रं गुणोस्त्येकः प्रमाणसात् (पञ्चाध्यायी 1010) · अर्थ
- एवं ज्ञानस्य शुद्धस्य देह एव न विद्यते (समयसार कलश 238) · अर्थ
- एवं तत्त्वव्यवस्थित्या स्वं व्यवस्थापयन् स्वयम् (समयसार कलश 263) · अर्थ
- एवं तावदहं लभेय विभवं रक्षेयमेवं तत– (ज्ञानार्णव 42) · अर्थ
- एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषतः (समाधितंत्र 17)
- एवं दैवेऽथ मानुष्ये नारके वपुषि स्फुटम् (पञ्चाध्यायी 980) · अर्थ
- एवं द्रव्याणि तत्त्वानि पदार्थान् कायसंयुतान् (ज्ञानार्णव 51) · अर्थ
- एवं पिशितपिण्डस्य क्षयिणोऽक्षयशङ्कृतः (क्षत्रचूडामणि 53)
- एवं बन्धस्य नित्यत्वं हेतोः सद्भावतोऽथवा (पञ्चाध्यायी 39) · अर्थ
- एवं भवति सदेकं भवति न तदपि च निरंकुशं किन्तु (पञ्चाध्यायी 493) · अर्थ
- एवं भावयतः साधोर्भवेद्धर्ममहोद्यमः (तत्त्वार्थसार 43) · अर्थ
- एवं भावयतः स्वान्ते यात्यविद्या क्षयं क्षणात् (ज्ञानार्णव 12) · अर्थ
- एवं भाविभवद्दृष्टिशम्भरत्वादहं पुनः (क्षत्रचूडामणि 16)
- एवं भिन्नस्वभावोऽयं देही स्वत्वेन देहकम् (क्षत्रचूडामणि 16)
- एवं भूयो भूयस्तदर्धछेदैस्तदर्धछेदैश्च (पञ्चाध्यायी 58) · अर्थ
- एवं मिथो विपक्षद्वैतवदित्यपि न साधुदृष्टान्तः (पञ्चाध्यायी 403) · अर्थ
- एवं मुनित्रयी ख्याता महती महतामपि (पञ्चाध्यायी 675) · अर्थ
- एवं यः कोपि गुणः सोपि च न स्यात्तदन्यरूपो वा (पञ्चाध्यायी 52) · अर्थ
- एवं यकेपि दूरादपनेतव्या हि लक्षणाभासाः (पञ्चाध्यायी 470) · अर्थ
- एवं राजद्रुहां हन्त सर्वद्रोहित्व सम्भवे (क्षत्रचूडामणि 47) · अर्थ
- एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् (आप्तमीमांसा 21) · अर्थ
- एवं विराजमानेऽस्मिन्राजराजे महोदये (क्षत्रचूडामणि 10)
- एवं शान्तकषायात्मा कर्मकक्षाशुशुक्षणिः (ज्ञानार्णव 23) · अर्थ
- एवं सदुदाहरणे सल्लक्ष्यं लक्षणं तदेकमिति (पञ्चाध्यायी 616) · अर्थ
- एवं सद्बन्धुमित्रोऽयमेधमानो दिने दिने (क्षत्रचूडामणि 108) · अर्थ
- एवं सन्तानतोऽनादिः सम्बन्धो जीवकर्मणोः (पञ्चाध्यायी 43) · अर्थ
- एवं समस्तवर्णेषु मन्त्रविद्यापदेषु च (ज्ञानार्णव 112) · अर्थ
- एवं सिद्धः सुनिर्णेतासम्भवद्बाधकत्वतः (आप्तपरीक्षा 109) · अर्थ
- एवं सुसिद्धसंकरदोषे सति सर्वशून्यदोषः स्यात् (पञ्चाध्यायी 618) · अर्थ
- एवमक्लेशगम्येऽस्मिन्नात्माधीनतया सदा (क्षत्रचूडामणि 61)
- एवमनेकविधं स्यादिह मिथ्यामतकदम्बकं यावत् (पञ्चाध्यायी 737) · अर्थ
- एवमर्थवशान्नूनं सन्त्यनेके गुणाश्रितः (पञ्चाध्यायी 1004) · अर्थ
- एवमित्यादयश्चान्ये सन्ति ये सद्गुणोत्तमाः (पञ्चाध्यायी 940) · अर्थ
- एवमेवापवर्गाय प्रवृत्तैर्ध्यानसाधने (ज्ञानार्णव 22) · अर्थ
- एवमौदयिका भावाश्चत्वारो गतिसंश्रिताः (पञ्चाध्यायी 1056) · अर्थ
- एष क्रमः सुखादिषु गुणेषु वाच्यो गुरूपदेशाद्वा (पञ्चाध्यायी 156) · अर्थ
- एष ज्ञानघनो नित्यमात्मा सिद्धिमभीप्सुभिः (समयसार कलश 15) · अर्थ
- एष देवः स सर्वज्ञः सोऽहं तद्रूपतां गतः (ज्ञानार्णव 43) · अर्थ
- एषु वैमानिका देवा जायमानाः स्वकर्मभिः (तत्त्वार्थसार 231) · अर्थ
- एषैकैव हि वेदना यदचलं ज्ञानं स्वयं वेद्यते (समयसार कलश 156) · अर्थ
ऐ
- ऐकान्तिकं सांशयिकं विपरीतं तथैव च (तत्त्वार्थसार 3) · अर्थ
- ऐन्द्रियं तु पुनर्ज्ञानं न संक्रान्तिमृते क्वचित् (पञ्चाध्यायी 840) · अर्थ
- ऐन्द्रे विजयः समरे ततोऽधिको वाञ्छितश्च वरुणे स्यात् (ज्ञानार्णव 57) · अर्थ
- ऐहिकं यत्सुखं नाम सर्वं वैषयिकं स्मृतम् (पञ्चाध्यायी 238) · अर्थ
ओ
- ओजस्तेजो-विद्या-वीर्य-वृद्धि-विजय-सनाथाः (रत्नकरण्ड श्रावकाचार 36) · अर्थ
- ॐ णमो अरहंताणमिति वर्णानपि क्रमात् (ज्ञानार्णव 65) · अर्थ
औ
- औदारिकं शरीरं स्याद्गर्भसम्मूर्च्छनोद्भवम् (तत्त्वार्थसार 77) · अर्थ
- औदारिकशरीरस्थं लब्धिप्रत्ययमिष्यते (तत्त्वार्थसार 76) · अर्थ
- औदारिकादिकार्याणां कारणं कर्म मूर्तिमत् (तत्त्वार्थसार 15) · अर्थ
- औदारिको वैक्रियिकः कायश्चाहारकश्च ते (तत्त्वार्थसार 71) · अर्थ
- औदारिको वैक्रियिकस्तथाहारक एव च (तत्त्वार्थसार 72) · अर्थ
क
- कः स्वादो विषयेष्वसौ कटुविषप्रख्येष्वलं दुःखिना, (आत्मानुशासन 38) · अर्थ
- ककुदं भुवः खचरयोषि- (स्वयंभू स्तोत्र 127) · अर्थ
- कचित्तस्यापि सद्भावे नेष्टसिद्धिरहेतुतः (पञ्चाध्यायी 439) · अर्थ
- कटस्य कर्त्ताहमिति सम्बन्धः स्याद् द्वयोर्द्वयोः (इष्टोपदेश 25) · अर्थ
- कटस्य कर्त्ताहमिति सम्बन्धः स्याद्द्वयोर्द्वयोः (ज्ञानार्णव 40) · अर्थ
- कण्ठस्थः कालकूटोऽपि शम्भोः किमपि नाकरोत् (आत्मानुशासन 135) · अर्थ
- कण्डूयनतनुस्वेदाद्वेत्ति कुष्टी यथा सुखम् (ज्ञानार्णव 10) · अर्थ
- कथं चानाश्रितः सिद्ध्येत्सम्बन्धः सर्वथा क्वचित् (आप्तपरीक्षा 62) · अर्थ
- कथंचित्ते सदेवेष्टं कथंचिदसदेव तत् (आप्तमीमांसा 14) · अर्थ
- कथं तर्हि पृथक् कृत्वा देहाद्यर्थकदम्बकात् (ज्ञानार्णव 9) · अर्थ
- कथं मार्गं प्रपद्येरन्नमी उन्मार्गतो जनाः (तत्त्वार्थसार 41) · अर्थ
- कथमपि समुपात्तत्रित्वमप्येकताया (समयसार कलश 20) · अर्थ
- कथमपि हि लभन्ते भेदविज्ञानमूला- (समयसार कलश 21) · अर्थ
- कथमाया इति ज्यायानन्वयुङ्क्त मिथोऽनुजम् (क्षत्रचूडामणि 12)
- कथमेनं वणिक्पाशं मथनोऽप्यवधीत्तदा (क्षत्रचूडामणि 31)
- कथाधर्माद्यनुष्ठानं विज्ञेया धर्मदेशना (तत्त्वार्थसार 19) · अर्थ
- कदा कथं कुतः कस्मिन्नित्यतर्क्यः खलोऽन्तकः (आत्मानुशासन 78) · अर्थ
- कदाचित्कापि तत्प्रान्तं समन्दस्मितमासदत् (क्षत्रचूडामणि 4)
- कदाचिद्देवगत्यायुर्नामकर्मोदयादिह (ज्ञानार्णव 3) · अर्थ
- कदाचिद्दैववैमुख्यान्माताऽपि विकृतिं भजेत् (ज्ञानार्णव 12) · अर्थ
- कनककमलगर्भे कर्णिकायां निषण्णं (ज्ञानार्णव 10) · अर्थ
- कनकार्जुन कल्लाणवैडूर्यार्जुनकाञ्चनैः (तत्त्वार्थसार 196) · अर्थ
- कनकोपलवदिहैषः क्षमते न परीक्षितः क्षणं स्थातुम् (पञ्चाध्यायी 392) · अर्थ
- कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहो (महावीराष्टक 5) · अर्थ
- कन्दर्पं कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्च (रत्नकरण्ड श्रावकाचार 81) · अर्थ
- कन्दर्पकौत्कुच्याद्यतिचारा भ्रान्तिकारकाः (श्रावकधर्मप्रदीप 183) · अर्थ
- कन्दर्पस्योद्धर दर्प स्त्रैलोक्य- विजयार्जितः (स्वयंभू स्तोत्र 91) · अर्थ
- कन्यकादूषणं वापि कन्यकाहरणं हठात् (श्रावकधर्मप्रदीप 117) · अर्थ
- कन्यायाः करपीडां च तद्दैन्यादन्वमन्यत (क्षत्रचूडामणि 50)
- कन्यायाः परिवादिन्यां पराजेषत पार्थिवाः (क्षत्रचूडामणि 44)
- कन्याविश्राणनं तस्मै करणीयमजीगणत् (क्षत्रचूडामणि 81)
- कन्याशुल्कतया लोके यन्त्रभेदमघोषयत् (क्षत्रचूडामणि 23)
- कन्ये प्राहिणुतां पश्चाच्चेट्यौ स्वे निकटे सताम् (क्षत्रचूडामणि 18)
- करुणार्द्रं च विज्ञानवासितं यस्य मानसम् (ज्ञानार्णव 43) · अर्थ
- करोति केवलं कौ यो धर्मं रूढ़िवशात्सदा (श्रावकधर्मप्रदीप 157) · अर्थ
- करोतु न चिरं घोरं तपः क्लेशासहो भवान् (आत्मानुशासन 212) · अर्थ
- करोत्यज्ञो ग्रहत्यागौ बहिरन्तस्तु तत्त्ववित् (ज्ञानार्णव 60) · अर्थ
- करोत्युद्धतधीर्मानाद्विनयाचारलंघनम् (ज्ञानार्णव 53) · अर्थ
- कर्णधार भवार्णोधेर्मध्यतो मज्जता मया (क्षत्रचूडामणि 100)
- कर्णाक्षिनासिकापुटमङ्गुष्ठप्रथममध्यमाङ्गुलिभिः (ज्ञानार्णव 68) · अर्थ
- कर्तव्यं च ततो मात्रा मन्त्रितं तेन मन्त्रिणा (क्षत्रचूडामणि 60)
- कर्तव्यं वा न वा प्रोक्तं मया कार्मुककोविद (क्षत्रचूडामणि 67)
- कर्ता कर्ता भवति न यथा कर्म कर्मापि नैव (समयसार कलश 99) · अर्थ
- कर्ता कर्मणि नास्ति नास्ति नियतं कर्मापि तत्कर्तरि (समयसार कलश 98) · अर्थ
- कर्ता यः कर्मणां भोक्ता, तत्फलानां स एव तु (स्वरूप सम्बोधन 10) · अर्थ
- कर्तारं स्वफ लेन यत्किल बलात्कर्मैव नो योजयेत् (समयसार कलश 152) · अर्थ
- कर्तृत्वं जीवगुणोस्त्वथ वैभाविकोऽथवा भावः (पञ्चाध्यायी 594) · अर्थ
- कर्तृत्वं न स्वभावोऽस्य चितो वेदयितृत्ववत् (समयसार कलश 194) · अर्थ
- कर्तृत्वहेतुकर्तृत्वानुमतैः स्मरणचरणवचनेषु (आत्मानुशासन 25) · अर्थ
- कर्तृर्वेदयितुश्च युक्ति वशतो भेदोऽस्त्वभेदोऽपि वा (समयसार कलश 209) · अर्थ
- कर्पूरकुंकुमागुरुमलयजकुष्टादिगन्धद्रव्येषु (ज्ञानार्णव 93) · अर्थ
- कर्पूरकुङ्कुमागुरुमृगमदहरिचन्दनादिवस्तूनि (ज्ञानार्णव 12) · अर्थ
- कर्म कर्म - हिताबन्धि जीवो जीवहितस्पृहः (इष्टोपदेश 31) · अर्थ
- कर्मजातं फलं दत्ते विचित्रमिह देहिनाम् (ज्ञानार्णव 2) · अर्थ
- कर्मणां प्रत्यनीकानां पाकस्योपशमात् स्वतः (पञ्चाध्यायी 968) · अर्थ
- कर्मणां विप्रमुक्तौ तु नूनं नात्मगुणक्षतिः (पञ्चाध्यायी 364) · अर्थ
- कर्मणां स्थूलभावेन शमकः क्षपकस्तथा (तत्त्वार्थसार 26) · अर्थ
- कर्मणा पीडितो ज्ञानी कुर्वाणः कर्मजां क्रियाम् (पञ्चाध्यायी 272) · अर्थ
- कर्मणामुदयाद्यः स्याद्भावो जीवस्य संसृतौ (पञ्चाध्यायी 971) · अर्थ
- कर्मणोस्य विपाकाद्वा दैवादन्यतमं वपुः (पञ्चाध्यायी 978) · अर्थ
- कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् (आप्तमीमांसा 25) · अर्थ
- कर्मपरवशे सान्ते दुःखैरन्तरितोदये (रत्नकरण्ड श्रावकाचार 12) · अर्थ
- कर्मपर्यायमात्रेषु रागिणः स कुतो गुणः (पञ्चाध्यायी 586) · अर्थ
- कर्म बध्नाति यज्जीवो धनाशाकश्मलीकृतः (ज्ञानार्णव 32) · अर्थ
- कर्मभूमौ मनुष्याणां मानुषीणां तथैव च (पञ्चाध्यायी 1093) · अर्थ
- कर्म सर्वमपि सर्वविदो यद् (समयसार कलश 103) · अर्थ
- कर्मस्थितिं जन्तुरनेक-भूमि (विषापहार स्तोत्र 12) · अर्थ
- कर्माण्यष्टौ प्रसिद्धानि मूलमात्रतया पृथक् (पञ्चाध्यायी 1000) · अर्थ
- कर्मादानक्रियारोधः स्वरूपाचरणं च यत् (पञ्चाध्यायी 764) · अर्थ
- कर्माम्भोभिः प्रपूर्णोऽसौ योगरन्ध्रसमाहृतैः (तत्त्वार्थसार 37) · अर्थ
- कर्माष्टकं विपक्षि स्यात् सुखस्यैकगुणस्य च (पञ्चाध्यायी 1115) · अर्थ
- कर्मैव प्रवितर्क्य कर्तृ हतकैः क्षिप्त्वात्मनः कर्तृतां (समयसार कलश 204) · अर्थ
- कर्म्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः (आप्तपरीक्षा 113) · अर्थ
- कलङ्कविलयः साक्षान्मनःशुद्ध्यैव देहिनाम् (ज्ञानार्णव 7) · अर्थ
- कलेवरमिदं न स्याद्यदि चर्मावगुण्ठितम् (ज्ञानार्णव 7) · अर्थ
- कलौ दण्डो नीतिः स च नृपतिभिस्ते नृपतयो, (आत्मानुशासन 149) · अर्थ
- कल्पः सौधर्मनामायमीशानप्रमुखाः सुराः (ज्ञानार्णव 144) · अर्थ
- कल्पनातीतमभ्रान्तं स्वपरार्थावभासकम् (ज्ञानार्णव 9) · अर्थ
- कल्पान्त - काल - पवनोद्धत - वह्नि -कल्पं, (भक्तामर स्तोत्र 40)
- कल्पेषु च विमानेषु निकायेष्वितरेषु च (ज्ञानार्णव 4) · अर्थ
- कल्पेषु च विमानेषु परतः परतोऽधिकाः (ज्ञानार्णव 181) · अर्थ
- कल्याण- मन्दिरमुदारमवद्य-भेदि (कल्याणमन्दिर स्तोत्र 1) · अर्थ
- कल्याणविभवं श्रीमान् सर्वाभ्युदयसूचकम् (ज्ञानार्णव 36) · अर्थ
- कविर्व्रत्यग्रसूत्राणां शब्दार्थैः सिद्धसाधनात् (पञ्चाध्यायी 660) · अर्थ
- कश्चित्पितुः पदं ते स्यादङ्गपुत्रेत्यचोदयत् (क्षत्रचूडामणि 56)
- कश्चित्सूरिः कदाचिद्वै विशुद्धिं परमां गतः (पञ्चाध्यायी 699) · अर्थ
- कश्चिदापर्ययन्यायात्क्रमादस्ति त्रिवेदवान् (पञ्चाध्यायी 1096) · अर्थ
- कश्चिद् ब्रूते यथा दीपं निर्वाणमपि नन्दितम् (ज्ञानार्णव 7) · अर्थ
- कषायकलिरेकतः स्खलति शान्तिरस्त्येकतो (समयसार कलश 274) · अर्थ
- कषायदहनः शान्तिं याति रागादिभिः समम् (ज्ञानार्णव 2) · अर्थ
- कषायदहनोद्दीप्तं विषयैर्व्याकुलीकृतम् (ज्ञानार्णव 4) · अर्थ
- कषाय-नाम्नां द्विषतां प्रमाथिना- (स्वयंभू स्तोत्र 67) · अर्थ
- कषायमलविश्लेषात्प्रशमाद्वा प्रसूयते (ज्ञानार्णव 6) · अर्थ
- कषायवैरिव्रजनिर्जयं यमी करोतु पूर्वं यदि संवृतेन्द्रियः (ज्ञानार्णव 4) · अर्थ
- कषायाः क्रोधाद्याः स्मरसहचराः पञ्चविषयाः (ज्ञानार्णव 9) · अर्थ
- कषायाणामनुद्रेकश्चारित्रं तावदेव हि (पञ्चाध्यायी 692) · अर्थ
- कषायाश्चापि चत्वारो जीवस्यौदयिकाः स्मृताः (पञ्चाध्यायी 1057) · अर्थ
- कषायेषु प्रशान्तेषु प्रक्षीणेष्वखिलेषु वा (तत्त्वार्थसार 48) · अर्थ
- कषायै रञ्जितं चेतस्तत्त्वं नैवावगाहते (स्वरूप सम्बोधन 17) · अर्थ
- कस्यचिच्छृङ्खलामोक्षे तत्रावस्थानदर्शनात् (तत्त्वार्थसार 19) · अर्थ
- कस्यापत्यं पिता कस्य कस्याम्बा कस्य गेहिनी (तत्त्वार्थसार 34) · अर्थ
- कांक्षा भोगाभिलाषः स्यात्कृतेऽमुष्य क्रियासु वा (पञ्चाध्यायी 547) · अर्थ
- काकः कृमिकुलाकीर्णे करङ्के कुरुते रतिं (ज्ञानार्णव 15) · अर्थ
- काककौशिकमार्जारखरगोमायुमण्डलैः (ज्ञानार्णव 33) · अर्थ
- काकतालीयकन्यायेनोपलब्धं यदि त्वया (ज्ञानार्णव 2) · अर्थ
- कातरत्वं परित्यज्य धैर्यमेवावलम्बते (ज्ञानार्णव 21) · अर्थ
- कादाचित्कं न तद्दुःखं प्रत्युताच्छिन्नधारया (पञ्चाध्यायी 254) · अर्थ
- कादाचित्कास्ति ज्ञानस्य चेतना स्वोपयोगिनी (पञ्चाध्यायी 854) · अर्थ
- कानिचित्तत्र शस्यन्ते दूष्यन्ते कानिचित्पुनः (ज्ञानार्णव 21) · अर्थ
- कान्त्यैव स्नपयन्ति ये दशदिशो धाम्ना निरुन्धन्ति ये (समयसार कलश 24) · अर्थ
- कान्दर्पी कैल्विषी चैव भावना चाभियोगिकी (ज्ञानार्णव 41) · अर्थ
- कान्दर्पीप्रमुखाः पञ्च भावना रागरञ्जिताः (ज्ञानार्णव 40) · अर्थ
- कापथे पथि दुःखांना कापथस्थेऽप्यसंमतिः (रत्नकरण्ड श्रावकाचार 14) · अर्थ
- कापि कुतश्चित् किञ्चित् कस्यापि कथञ्चनापि तन्न स्यात् (पञ्चाध्यायी 231) · अर्थ
- कापोतनीललेश्यात्वमार्त्तध्यानं च दारुणम् (तत्त्वार्थसार 39) · अर्थ
- कामं कामप्रदं सोऽयं कामदेवमुपादिशत् (क्षत्रचूडामणि 29)
- कामं सा प्रार्थयामास जीवकस्वामिकाम्यया (क्षत्रचूडामणि 32)
- कामभोगाभिलाषाणां नित्यं चातिप्रवृद्धता (तत्त्वार्थसार 32) · अर्थ
- कामरूपविधौ गाने विषहाने च शक्तिमत् (क्षत्रचूडामणि 27)
- कामादिप्रभवश्चित्रः, कर्मबन्धानुरूपतः (आप्तमीमांसा 99) · अर्थ
- काययोगं ततस्त्यक्त्वा स्थितिमासाद्य तद्द्वये (ज्ञानार्णव 49) · अर्थ
- काययोगे ततः सूक्ष्मे स्थितिं कृत्वा पुनः क्षणात् (ज्ञानार्णव 50) · अर्थ
- काययोगे स्थितिं कृत्वा बादरेऽचिन्त्यचेष्टितः (ज्ञानार्णव 48) · अर्थ
- काययोगेऽतिसूक्ष्मे तद् वर्तमानो हि केवली (तत्त्वार्थसार 52) · अर्थ
- काय - वाक्य- मनसां प्रवृत्तयो (स्वयंभू स्तोत्र 74) · अर्थ
- कायवाङ्मनसां कर्म स्मृतो योगः स आस्रवः (तत्त्वार्थसार 2) · अर्थ
- कायाक्षायूंषि सर्वेषु पर्याप्तेष्वान इष्यते (तत्त्वार्थसार 35) · अर्थ
- कायोत्सर्गश्च पर्यङ्कः प्रशस्तं कैश्चिदीरितं (ज्ञानार्णव 12) · अर्थ
- कारकादिक्रमो लोके व्यवहारश्च जायते (ज्ञानार्णव 28) · अर्थ
- कारणमन्तर्लीना द्रव्यस्य विभावभावशक्तिः स्यात् (पञ्चाध्यायी 531) · अर्थ
- कारणमिह यस्य सतो या शक्तिः स्याद्विभावभावमयी (पञ्चाध्यायी 547) · अर्थ
- कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि (आप्तपरीक्षा 34) · अर्थ
- कारुं कारुं स्वकार्यत्वाद्बन्धकार्यं पुनः क्षणात् (पञ्चाध्यायी 1044) · अर्थ
- कार्यं चारित्रमोहस्य चारित्राच्च्युतिरात्मनः (पञ्चाध्यायी 690) · अर्थ
- कार्यं तदुदयस्योच्चैः प्रत्यक्षात्सिद्धमेव यत् (पञ्चाध्यायी 1035) · अर्थ
- कार्यं नित्यं यथाशक्ति स्थावराणामपि तथा (श्रावकधर्मप्रदीप 166) · अर्थ
- कार्यकारणनानात्वं गुणगुण्यन्यतापि च (आप्तमीमांसा 61) · अर्थ
- कार्यकारणमप्येष मोहो भावसमाह्वयः (पञ्चाध्यायी 1068) · अर्थ
- कार्यत्वादकृतं न कर्म न च तज्जीवप्रकृत्योर्द्वयो- (समयसार कलश 203) · अर्थ
- कार्यद्रव्यमनादि स्यात् प्रागभावस्य निन्हवे (आप्तमीमांसा 10) · अर्थ
- कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् (आप्तमीमांसा 68) · अर्थ
- कार्यम्प्रति नियतत्वाच्छत्रुद्वैते न ततोऽतिरिक्तं चेत् (पञ्चाध्यायी 404) · अर्थ
- कार्यम्प्रति नियतत्वाद्धेतुद्वैतं न ततोऽतिरिक्तंचेत् (पञ्चाध्यायी 402) · अर्थ
- कार्यरूपः स बन्धोस्ति कर्मणां पाकसंभवात् (पञ्चाध्यायी 132) · अर्थ
- कार्या स्वबुद्ध्या भुवि मित्रताऽपि (श्रावकधर्मप्रदीप 12) · अर्थ
- कार्यो ज्ञात्वेत्यतो भव्यैर्धर्मार्थादिचतुर्विधः (श्रावकधर्मप्रदीप 128) · अर्थ
- कार्योत्पादः क्षयो हेतुर्नियमाल्लक्षणात्पृथक् (आप्तमीमांसा 58) · अर्थ
- कार्स्त्न्येन विरतिः पुंसां हिंसादिभ्यो महाव्रतम् (तत्त्वार्थसार 61) · अर्थ
- कालः समयो यदि वा तद्देशे वर्त्तनाकृतिश्चार्थात् (पञ्चाध्यायी 471) · अर्थ
- कालकूटादहं मन्ये स्मरसंज्ञं महाविषम् (ज्ञानार्णव 21) · अर्थ
- काललिङ्गगतिक्षेत्र तीर्थज्ञानावगाहनैः (तत्त्वार्थसार 41) · अर्थ
- कालव्यतिक्रमोऽन्यस्य व्यपदेशोऽथ मत्सरः (तत्त्वार्थसार 97) · अर्थ
- कालस्य परमाणोस्तु द्वयोरप्येतयोः किल (तत्त्वार्थसार 21) · अर्थ
- कालुष्यं तत्र रागादिर्भावश्चौदयिको यतः (पञ्चाध्यायी 883) · अर्थ
- काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्ष्या (रत्नकरण्ड श्रावकाचार 133) · अर्थ
- कालो वर्तनमिति वा परिणमनं वस्तुनः स्वभावेन (पञ्चाध्यायी 274) · अर्थ
- काश्चिद्वज्रानलप्रख्याः काश्चिच्छीतोष्णसंकुलाः (ज्ञानार्णव 11) · अर्थ
- काष्ठमध्ये यथा वह्नि:, शक्तिरूपेण तिष्ठति (परमानन्द स्तोत्र 24) · अर्थ
- काष्ठांङ्गारोऽपि रुष्टोऽभूत्तदाक्रोशवचः श्रुतेः (क्षत्रचूडामणि 63)
- काष्ठाङ्गारं कुमारोऽयं गुरुवाक्येन नावधीत् (क्षत्रचूडामणि 13)
- काष्ठाङ्गारः कुमारस्य वीक्षणात्क्षीणमानसः (क्षत्रचूडामणि 29)
- काष्ठाङ्गारकुटुम्बस्याप्यनुमेने सुखासिकाम् (क्षत्रचूडामणि 55)
- काष्ठाङ्गारमसौ ज्ञात्वा राजघं गुरुवाक्यतः (क्षत्रचूडामणि 37)
- काष्ठाङ्गारस्तदाकर्ण्य चुकोप स्वामिने भृशम् (क्षत्रचूडामणि 3)
- काष्ठाङ्गारस्तु तद्वीक्ष्य क्षितिपान्समधुक्षयत् (क्षत्रचूडामणि 48)
- काष्ठाङ्गारस्य संदेशं सचिवैः शुश्रुवानयम् (क्षत्रचूडामणि 11)
- काष्ठाङ्गाराह्वयः कोऽपि कोपादेनमनेनसम् (क्षत्रचूडामणि 43)
- काष्ठाङ्गारेण सञ्जातं सख्यं प्रख्यापयन्नसौ (क्षत्रचूडामणि 17)