आप्तमीमांसा (देवागम स्तोत्र) मूल कारिका
आचार्य समन्तभद्र
आचार्य समन्तभद्र कृत आप्तमीमांसा (देवागम स्तोत्र) की संस्कृत मूल कारिकाएँ 1 से 114, क्रम से, दसों परिच्छेद। सभी परिच्छेद इसी पोस्ट में, हर परिच्छेद अपने शीर्षक के साथ। पाठ संलग्न ग्रंथ (पं. जयचंद छाबड़ा कृत हिन्दी वचनिका सहित) के अनुसार है; जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस परिच्छेद के नीचे टिप्पणी दी।
संबंधित: आप्तमीमांसा : एक अनुशीलन · रत्नकरण्ड श्रावकाचार मूल श्लोक
स्रोत: aapt_mimansa.pdf
aapt_mimansa.pdf (8751 KB)
कारिकाएँ और हर कारिका का अर्थ साथ में: आप्तमीमांसा कारिका एवं अर्थ (आचार्य समन्तभद्र) | Aptamimansa Karika Evam Arth (Acharya Samantabhadra)
प्रथम परिच्छेद (कारिका 1 से 23)
देवागमनभोयानचामरादिविभूतयः ।
मायाविष्वपि दृश्यंते नातस्त्वमसि नो महान् ॥1॥
अध्यात्मं बहिरप्येष विग्रहादिमहोदयः ।
दिव्यः सत्यो दिवौकष्वप्यस्ति रागादिमत्सु सः ॥2॥
तीर्थकृत्समयानां च परस्परविरोधतः ।
सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥3॥
दोषावरणयोर्हानिर्निःशेषास्त्यतिशायनात् ।
क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥4॥
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा ।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥5॥
स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् ।
अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥6॥
त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् ।
आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥7॥
कुशलाकुशलं कर्म्म परलोकश्च न क्वचित् ।
एकान्तग्रहरक्तेषु नाथः स्वपरवैरिषु ॥8॥
भावैकान्ते पदार्थानामभावानामपह्नवात् ।
सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥9॥
कार्यद्रव्यमनादि स्यात् प्रागभावस्य निन्हवे ।
प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥10॥
सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे ।
अन्यत्र समवाये न व्यपदिश्येत सर्वथा ॥11॥
अभावैकान्तपक्षेऽपि भावापन्हववादिनाम् ।
बोधवाक्यं प्रमाण न केन साधनदूषणम् ॥12॥
विरोधान्नोभयैकान्तं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकान्तेप्युक्तिर्नावाच्यमिति युज्यते ॥13॥
कथंचित्ते सदेवेष्टं कथंचिदसदेव तत् ।
तथोभयमवाच्यं च नययोगान्न सर्वथा ॥14॥
सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् ।
असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥15॥
क्रमार्पितद्वयाद्द्वैतं सहावाच्यमशक्तितः ।
अवक्तव्योत्तराः शेषास्त्रयो भंगाः स्वहेतुतः ॥16॥
अस्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि ।
विशेषणत्वात् साधर्म्यं यथा भेदविवक्षया ॥17॥
नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि ।
विशेषणत्वाद्वैधर्म्यं यथाऽभेदविवक्षया ॥18॥
विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः ।
साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥19॥
शेषभंगाश्च नेतव्या यथोक्तनययोगतः ।
न च कश्चिद्विरोधोऽस्ति मुनीन्द्र ! तव शासने ॥20॥
एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् ।
नेति चेन्न यथा कार्यं बहिरन्तरुपाधिभिः ॥21॥
धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनंतधर्मणः ।
अंगित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥22॥
एकानेकविकल्पादावुत्तरत्रापि योजयेत् ।
प्रक्रियां भंगिनीमेनां नयैर्नयविशारदः ॥23॥
टिप्पणी: कारिका 2 में “दिवौकष्वप्यस्ति” छपा है; शुद्ध रूप “दिवौकस्स्वप्यस्ति” है।
टिप्पणी: कारिका 12 में “प्रमाण न” छपा है; “प्रमाणं न” होना चाहिए।
द्वितीय परिच्छेद (कारिका 24 से 36)
अद्वैतैकांतपक्षेऽपि दृष्टो भेदो विरुद्ध्यते ।
कारकाणां क्रियायाश्च नैकं स्वस्मात् प्रजायते ॥24॥
कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् ।
विद्याविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा ॥25॥
हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः ।
हेतुना चेद्विना सिद्धिर्द्वैतं वाङ्मात्रतो न किम् ॥26॥
अद्वैतं न विना द्वैतादहेतुरिव हेतुना ।
संज्ञिनः प्रतिषेधो न प्रतिषेध्यादृते क्वचित् ॥27॥
पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक्तु तौ ।
पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥28॥
संतानः समुदायश्च साधर्म्यं च निरंकुशः ।
प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिन्हवे ॥29॥
सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद् द्विधाप्यसत् ।
ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ॥30॥
सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते ।
सामान्याभावतस्तेषां मृषैव सकला गिरः ॥31॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥32॥
अनपेक्षे पृथक्त्वैक्ये ह्यवस्तु द्वययोगतः ।
तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥33॥
सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः ।
भेदाभेदव्यवस्थायामसाधारणहेतुवत् ॥34॥
विवक्षा चाविवक्षा च विशेष्येऽनंतधर्मिणि ।
यतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥35॥
प्रमाणगोचरौ संतौ भेदाभेदौ न संवृती ।
तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥36॥
तृतीय परिच्छेद (कारिका 37 से 60)
नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते ।
प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ॥37॥
प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् ।
ते च नित्ये विकार्यं किं साधोस्ते शासनाद्बहिः ॥38॥
यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति ।
परिणामप्रक्लृप्तिश्च नित्यत्वैकान्तबाधिनी ॥39॥
पुण्यपापक्रिया न स्यात् प्रेत्यभावफलं कुतः ।
बंधमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥40॥
क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः ।
प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ॥41॥
यद्यसत्सर्वथा कार्यं तन्मा जनि खपुष्पवत् ।
मोपादाननियामोऽभून्माश्वासः कार्यजन्मनि ॥42॥
न हेतुफलभावादिरन्यभावादनन्वयात् ।
संतानान्तरवन्नैकः सन्तानस्तद्वतः पृथक् ॥43॥
अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् ।
मुख्यार्थःसंवृतिर्न स्याद्विना मुख्यान्न संवृतिः ॥44॥
चतुष्कोटेर्विकल्पस्य सर्वान्तेषूक्तयोगतः ।
तत्त्वान्यत्वमवाच्यं च तयोः संतानतद्वतोः ॥45॥
अवक्तव्यचतुष्कोटिर्विकल्पोपि न कथ्यतां ।
असर्वान्तमवस्तु स्यादविशेष्यविशेषणम् ॥46॥
द्रव्याद्यन्तरभावेन निषेधःसंज्ञिनःसतः ।
असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥47॥
अवस्त्वनभिलाप्यं स्यात् सर्वान्तैः परिवर्जितम् ।
वस्त्वेवा वस्तुतां याति प्रक्रियाया विपर्ययात् ॥48॥
सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः ।
संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥49॥
अशक्यत्वादवाच्यं किमभावात्किमबोधतः ।
आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतांस्फुटम् ॥50॥
हिनस्त्यनभिसंधातृ न हिनस्त्यभिसंधिमत् ।
बद्ध्यते तद्व्यापेतं चित्तं बद्धं न मुच्यते ॥51॥
अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः ।
चित्तसंततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥52॥
विरूपकार्यारंभाय यदि हेतु समागमः ।
आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥53॥
स्कन्धाः संततयश्चैव संवृतित्वादसंस्कृताः ।
स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥54॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥55॥
नियं तत् प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा ।
क्षणिकं कालभेदात्ते बुद्ध्यसंचर दोषतः ॥56॥
न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् ॥
व्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत् ॥57॥
कार्योत्पादः क्षयो हेतुर्नियमाल्लक्षणात्पृथक् ।
न तौ जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥58॥
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥59॥
पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
अगोरसव्रतो नोभे तस्मात्तत्वं त्रयात्मकम् ॥60॥
टिप्पणी: कारिका 51 में “तद्व्यापेतं” छपा है; शुद्ध रूप “तद्व्यपेतं” है।
टिप्पणी: कारिका 56 में “नियं” छपा है; “नित्यं” होना चाहिए।
चतुर्थ परिच्छेद (कारिका 61 से 72)
कार्यकारणनानात्वं गुणगुण्यन्यतापि च ।
सामान्यतद्वन्यत्वं चैकान्तेन यदीष्यते ॥61॥
एकस्यानेकवृत्तिर्न भागाभावाद्बहूनि वा ।
भागित्वाद्वाऽस्य नैकत्वं दोषो वृत्तेरनार्हते ॥62॥
देशकालविशेषेऽपि स्याद्वृत्तिर्युतसिद्धवत् ।
समानदेशता न स्यान्मूर्तकारणकार्ययोः ॥63॥
आश्रयाश्रयिभावान्न स्वातंत्र्यं समवायिनाम् ।
इत्ययुक्तः स संबंधो न युक्तः समवायिभिः ॥64॥
समान्यं समवायश्चाप्येकैकत्र समाप्तितः ।
अंतरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥65॥
सर्वथानभिसंबन्धः सामान्यसमवाययोः ।
ताभ्यामर्थो न संबंधस्तानि त्रीणि खपुष्पवत् ॥66॥
अनन्यतैकांतेऽणूनां संघातेऽपि विभागवत् ।
असंहतत्वं स्याद् भूतचतुष्कं भ्रान्तिरेव सा ॥67॥
कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् ।
उभयाभावतस्तत्स्थं गुणजातीतरच्च न ॥68॥
एकत्वेन्यतराभावः शेषाभावोऽविनाभुवः ।
द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥69॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥70॥
द्रव्यपर्याययोरैक्यं तयोरव्यतिरेकतः ।
परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥71॥
संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः ।
प्रयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥72॥
टिप्पणी: कारिका 61 में “सामान्यतद्वन्यत्वं” छपा है; शुद्ध रूप “सामान्यतद्वदन्यत्वं” है।
टिप्पणी: कारिका 65 में “समान्यं” छपा है; “सामान्यं” होना चाहिए।
पंचम परिच्छेद (कारिका 73 से 75)
यद्यापेक्षिकसिद्धिःस्यान्न द्वयं व्यवतिष्ठते ।
अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥73॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेप्युक्तिर्नावाच्यमिति युज्यते ॥74॥
धर्म्मधर्म्यविनाभावसिध्यत्यन्योन्यवीक्षया,
न स्वरूपं स्वतो ह्येतत् कारकज्ञापकांगवत् ॥75॥
टिप्पणी: कारिका 75 में “धर्म्मधर्म्यविनाभावसिध्यत्यन्योन्यवीक्षया” छपा है; शुद्ध रूप “धर्मधर्म्यविनाभावः सिद्ध्यत्यन्योन्यवीक्षया” है।
षष्ठ परिच्छेद (कारिका 76 से 78)
सिद्धिं चेद्धेतुतःसर्वं न प्रत्यक्षादितो गतिः ।
सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि ॥76॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमितियुज्यते ॥77॥
वक्तर्व्यर्थनाप्तेयद्धेतोः, साध्यं तद्धेतुसाधितं ।
आप्तेवक्तरितद्वाक्यात्साध्यमागमसाधितं ॥78॥
टिप्पणी: कारिका 78 में “वक्तर्व्यर्थनाप्तेयद्धेतोः” छपा है; शुद्ध रूप “वक्तर्यनाप्ते यद्धेतोः” है।
सप्तम परिच्छेद (कारिका 79 से 87)
अंतरंगार्थतैकांते बुद्धिवाक्यं मृषाखिलं ।
प्रमाणाभासमेवातस्तत्प्रमाणादृते कथं ॥79॥
साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता ।
न साध्यं न च हेतुश्च, प्रतिज्ञा हेतु दोषतः ॥80॥
बहिरंगार्थतैकांते, प्रमाणाभासनिन्हवात् ॥
सर्वेषां कार्य्यसिद्धिः, स्याद्विरुद्धार्थाभिधायिनाम् ॥81॥
विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकांतेप्युक्तिर्नावाच्यमिति युज्यते ॥82॥
भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः ।
बहि प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥83॥
जीवशब्दः स वाह्यार्थःसंज्ञात्वाद्धेतुशब्दवत् ।
मायादिभ्रान्तिसंज्ञाश्च, मायाद्यैः स्वैः प्रमोक्तिवत् ॥84॥
बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्ध्यादिवाचकाः ।
तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ॥85॥
वक्तृश्रोतृप्रमातृणां बोधवाक्यप्रमाः पृथक्
भ्रांतावेव प्रभाभ्रांतौ बाह्यार्थौ तादृशेतरौ ॥86॥
बुद्धिशब्दप्रमाणत्वं, बाह्यार्थे सति नासति ।
सत्यानृतव्यवस्थैवं, युज्यतेर्थाऽप्त्यनाप्तिषु ॥87॥
टिप्पणी: कारिका 81 में “निन्हवात्” छपा है; शुद्ध रूप “निह्नवात्” है (कारिका 83 में सही छपा है)।
टिप्पणी: कारिका 83 में “बहि” छपा है; “बहिः” होना चाहिए।
टिप्पणी: कारिका 86 में “प्रभाभ्रांतौ” छपा है; शुद्ध रूप “प्रमाभ्रान्तौ” है।
अष्टम परिच्छेद (कारिका 88 से 91)
दैवादेवार्थसिद्धिश्चेद्दैवं पौरुषतः कथं ।
दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥88॥
पौरुषादेवसिद्धिश्चेत्पौरुषं दैवतः कथं ।
पौरुषाच्चेदमोघं स्यात्सर्वप्राणिषु पौरुषं ॥89॥
विरोधान्नोभयकात्म्यं, स्याद्वादन्यायविद्विषां,
अवाच्यतैकांतेप्युक्तिर्नावाच्यमिति युज्यते ॥90॥
अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः ।
बुद्धि पूर्वविपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥91॥
टिप्पणी: कारिका 90 में “नोभयकात्म्यं” छपा है; शुद्ध रूप “नोभयैकात्म्यं” है।
टिप्पणी: कारिका 91 में “पूर्वविपेक्षायाम्” छपा है; शुद्ध रूप “पूर्वव्यपेक्षायाम्” है।
नवम परिच्छेद (कारिका 92 से 95)
पापं ध्रवं परे दुखात् पुण्यं च सुखतो यदि ।
अचेतना कषायौ च वध्येयातां निमित्ततः ॥92॥
पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि ।
वीतरागो मुनिर्विद्वांस्ताभ्यां युञ्ज्यान्निमित्ततः ॥93॥
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेप्युक्तिर्नावाच्यमिति युज्यते ॥94॥
विशुद्धिसंक्लेशाङ्गंचेत्, स्वपरस्थं सुखासुखम् ।
पुण्यपापाश्रवौ युक्तौ नचेद्व्यर्थस्तवार्हतः ॥95॥
टिप्पणी: कारिका 92 में “ध्रवं” और “दुखात्” छपा है; शुद्ध रूप “ध्रुवं” और “दुःखात्” है।
दशम परिच्छेद (कारिका 96 से 114)
आज्ञानाच्चेद्ध्रुवो बंधो, ज्ञेयानंत्यान्नकेवली ।
ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्बहुतोऽन्यथा ॥96॥
विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ।
अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥97॥
अज्ञानान्मोहतो वंधो, नाज्ञानाद्वीतमोहतः ।
ज्ञानस्तोकाद्विमोक्षः स्यादमोहान्मोहितोऽन्यथा ॥98॥
कामादिप्रभवश्चित्रः, कर्मबन्धानुरूपतः ।
तच्चकर्म स्वहेतुभ्यो जीवास्ते शुद्ध्यशुद्धितः ॥99॥
शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् ।
साद्यनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥100॥
तत्त्वज्ञानं प्रमाणं ते, युगपत्सर्वभासनम् ।
क्रमभावि च यज्ज्ञानं, स्याद्वादनयसंस्कृतम् ॥101॥
उपेक्षाफलमाद्यस्य, शेषस्यादानहानधीः ।
पूर्वं वा ज्ञान नाशो वा सर्वस्यास्य स्वगोचरे ॥102॥
वाक्येष्वनेकांतद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात् तवकेवलिनामपि ॥103॥
स्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधिः ।
सप्तभंगनयापेक्षो हेयादेयविशेषकः ॥104॥
स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने ।
भेदःसाक्षादसाक्षाच्च, ह्यवस्त्वन्यतमं भवेत् ॥105॥
सधर्मणैव साध्यस्य साधर्म्यादविरोधतः ।
स्याद्वादप्रविभक्तार्थविशेषव्यंजको नयः ॥106॥
नयोपनयैकान्तानां, त्रिकालानां समुच्चयः ।
अविश्वग् भाव संबंधो द्रव्यमेकमनेकधा ॥107॥
मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्ततास्ति नः ।
निरपेक्षा नयाः मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥108॥
नियम्यतेऽर्थो वाक्येन विधिना वारणेन वा ।
तथान्यथाच सोऽवश्यमविशेषत्वमन्यथा ॥109॥
तदतद्वस्तुवागेषा तदेवेत्यनुशासती ।
न सत्या स्यान्मृषावाक्यैः कथंतत्त्वार्थदेशना ॥110॥
वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरंकुशः ।
आह च स्वार्थसामान्यं तादृग् वाच्यं खपुष्यवत् ॥111॥
सामान्यवाग्विशेषे चेन्न शब्दार्थो मृषा हि सा ।
अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाच्छनः ॥112॥
विधेयमीप्सितार्थाङ्गं प्रतिषेध्याविरोधि यत् ।
तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥113॥
इतीयमाप्तमीमांसा विहिता हितमिच्छता ।
सम्यङ्मिथ्योपदेशार्थविशेषप्रतिपत्तये ॥114॥
टिप्पणी: कारिका 96 में “आज्ञानाच्चेद्” छपा है; “अज्ञानाच्चेद्” होना चाहिए।
टिप्पणी: कारिका 111 में “खपुष्यवत्” छपा है; “खपुष्पवत्” होना चाहिए।
टिप्पणी: कारिका 112 में “सत्यलाच्छनः” छपा है; शुद्ध रूप “सत्यलाञ्छनः” है।
खोज: Aptamimansa Mul Karika