श्रावकधर्मप्रदीप मूल श्लोक (आचार्य कुन्थुसागर) | Shravakdharm Pradip Mool Shlok (Acharya Kunthusagar)

श्रावकधर्मप्रदीप मूल श्लोक

आचार्य कुन्थुसागर

आचार्य कुन्थुसागर कृत श्रावकधर्मप्रदीप के संस्कृत मूल श्लोक 1 से 212, क्रम से, और अंत में ग्रन्थकारप्रशस्ति के 10 श्लोक। ग्रंथ प्रश्नोत्तर शैली में है: शिष्य का प्रश्न, फिर आचार्य का उत्तर श्लोक में; प्रश्न भी वैसे ही दिए हैं। ग्रंथ में श्रावक के पाक्षिक, नैष्ठिक (ग्यारह प्रतिमा) और साधक धर्म का वर्णन है; पाँच अध्याय इसी पोस्ट में अपने शीर्षक के साथ हैं। पाठ संलग्न ग्रंथ (सिद्धान्ताचार्य पं. जगन्मोहनलाल शास्त्री कृत संस्कृत व हिन्दी टीका सहित, श्री गणेश वर्णी दिगम्बर जैन संस्थान, वाराणसी, तृतीय संस्करण 1997) के अनुसार है; यहाँ केवल मूल श्लोक हैं, टीका ग्रंथ में देखें। ग्रंथ में जो श्लोक ‘क्षेपक’ कहे गए हैं वे अपनी जगह ‘(क्षेपक)’ लिखकर दिए हैं, 1 से 212 की गिनती में नहीं हैं। जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस भाग के नीचे टिप्पणी दी।

स्रोत: Shravak_Dharm_Pradip.pdf

Shravak_Dharm_Pradip.pdf (7096 KB)

श्लोक और हर श्लोक का अर्थ साथ में: श्रावकधर्मप्रदीप श्लोक एवं अर्थ (आचार्य कुन्थुसागर) | Shravakdharmpradip Shlok Evam Arth (Acharya Kunthusagar)


प्रथम अध्याय (श्लोक 1 से 15)

श्रीदं नत्वा जिनं भक्त्या कुन्दकुन्दमुनीश्वरम् ।
सदा शान्तिसुधर्मौ च श्राद्धसद्बोधहेतवे ।।१।।

श्रावकधर्मप्रदीपो ग्रन्थोऽयं सौख्यदो भुवि ।
लिख्यते स्वात्मतुष्टेन कुन्थुसागरसूरिणा ।।२।। युग्मम्

प्रश्न: पाक्षिकश्रावाकाणां किं चिह्नमस्ति गुरो वद?

अहिंसैव परो धर्मः स एको विश्वरक्षकः ।
आचन्द्रं प्राणिनां चित्तेऽतस्तिष्ठतु सदा मुदा ।।३।।

तदन्यः केवलं पक्षो मिथः स्याद्वैरवर्धकः ।
इत्येव निश्चयो यस्य विवेकी स च पाक्षिकः ।।४।।

प्रश्न: सद्गुरोर्विषये कीदृग्भावोऽस्ति पाक्षिकस्य वा?

निर्ग्रन्थसाधुः सुखदः सदैव मान्योऽपि बन्द्योऽखिलविश्वशान्त्यै।
त्याज्यस्तदन्योऽखिलविश्ववैरी स्यान्निश्चयो यस्य स पाक्षिकोऽस्ति ।।५।।

प्रश्न: देवस्य विषये कीदृग्भावोऽस्ति पाक्षिकस्य मे?

श्रीवीतराग्येव हितोपदेशी सर्वज्ञदेवोऽपि स एव योग्यः।
निर्दोषयोगादिति सर्ववन्द्यः स्यान्निश्चयो यस्य स पाक्षिकोऽस्ति ।।६।।

प्रश्न: शास्त्रस्य विषये कीदृग्भावोऽस्ति पाक्षिकस्य मे?

बोधप्रदं वैरहरं मिथः कौ श्रीदं जिनोक्तं हि सदेति शास्त्रम्।
आचन्द्रसूर्यं पठितुं प्रमाणं स्यान्निश्चयो यस्य स पाक्षिकोऽस्ति ।।७।।

प्रश्न: स्वाचारवृत्तिविषये खलु पाक्षिकस्य कीदृग्गुरो भवति मे वद तस्य भावः।

भोगोपभोगाद्विषमात् प्रमोहात्तथा त्रसस्थावरजीवघातात्।
न स्याद्विरक्तिस्तदपि प्रवीरो धर्मादिकार्येऽस्ति सदैव दक्षः ।।८।।

प्रश्न-पाक्षिकस्य प्रवृत्तिस्तु धार्मिका कीदृशी वद?

सद्धर्मसंस्कारवशाद्धि येन यज्ञोपवीतोऽपि धृतस्त्रिरत्नः।
दानार्चनादौ च कृता प्रवृत्तिः स पाक्षिकस्स्यात्सुखशान्तिमूर्तिः ।।९।।

प्रश्न-लोकोपकारविषये वद मेऽस्ति भावः कीदृग्गुरो गुणनिधे खलु पाक्षिकस्य।

विघ्नं करोति यदि मे शिवदेऽपि कार्ये
प्राणांस्त्यजामि खलु तत्प्रतिरोधनार्थम् ।
स्वान्योपकारकरणं हि ममेति धर्मो
भावोऽस्ति यस्य विशदः स च पाक्षिकोऽस्ति ।।१०।।

प्रश्न: दुष्टादिशिष्टविषये वद मेऽस्ति भावः कीदृग्गुरो सुखनिधे खलु पाक्षिकस्य?

दुष्टस्य रोधकरणं सुजनस्य रक्षा
सम्पूर्णविश्वनिलये सुखशान्तिहेतोः ।
कार्या मया सुजनताऽपि मिथः प्रमोदो
भावोऽस्ति यस्य विशदः स च पाक्षिकोऽस्ति ।।११।।

प्रश्न: पाक्षिकस्य विशेषा तु प्रवृत्तिः कीदृशी वद।

कार्या स्वबुद्ध्या भुवि मित्रताऽपि
प्रमुच्य मायां सकलैः समं हि ।
यतो भवेत्ते विमलैव कीर्त्तिः
स्वराज्यलक्ष्मीश्च सदा स्वदासी ।।१२।।

सुखी ह्यधर्मेण भवामि नित्यं
ह्येवञ्च भावो न कदापि कार्यः ।
भवामि धर्मेण सुखी सदेति
कार्यात्मशान्तेर्वरभावनैव ।।१३।।

भार्या न बोध्या कटुभाषणेन
स्वसद्मवार्तापि बहिर्न भाष्या ।
निजात्मनिन्दैव सदेति कार्या
परप्रशंसाखिलसौख्यदात्री ।।१४।।

वादो विवादोऽपि मिथो विधेयः
कदापि न प्राणहरः कुबुद्ध्या ।
ज्ञात्वेति पूर्वोक्तविधिर्विधेयो
यतो भवेच्छान्तिकरी प्रवृत्तिः ।।१५।।


टिप्पणी (छपाई): पाठ जैसा छपा है वैसा ही रखा है।

  • श्लोक 3: प्रश्न में ‘पाक्षिकश्रावाकाणां’ छपा है; ‘पाक्षिकश्रावकाणां’ होना चाहिए
  • श्लोक 5: ‘बन्द्यो’ छपा है; ‘वन्द्यो’ होना चाहिए

द्वितीय अध्याय (श्लोक 16 से 77)

प्रश्नः जघन्यनैष्ठिकस्यैव किं चिह्नं विद्यते वद?

पूर्वोक्तपाक्षिकजनान् प्रविहाय शेषाः
सर्वेऽपि नैष्ठिकजनाः कथिताः क्रमेण ।
तेषां हि वच्मि सकलं सुखदं स्वरूपं
तद्बोधशून्यजनतादिहिताय भक्त्या ।।१६।।

मन्दोदयात्सुमन्दाद्वा योऽप्रत्याख्यानकर्मणः ।
पञ्चविंशतिदोषान् हि सम्यक्त्वमूलनाशकान् ।।१७।।

त्यक्त्वा कुव्यसनं निन्द्यं यथाशक्ति च पातकम् ।
अष्टमूलगुणान् भक्त्या गृहीत्वा सौख्यदान् सदा ।।१८।।

द्वित्रयादिप्रतिमां युक्त्या गृहीतुं स्वपदं मुदा ।
यतते स्वरसं पातुं स कौ दार्शनिकः सुधीः ।।१९।।

प्रश्नः किं सम्यक्त्वस्य चिह्नं स्यात् कदा वा वद मे गुरो?

मोहस्य सप्तप्रकृतेः क्षयादुपशमान्नृणाम् ।
शुद्धचिद्रूपमूर्तेर्वा यथावत्स्वपरात्मनाम् ।।२०।।

सुसत्यार्थस्वरूपस्य दर्शकं बोधकं प्रियम् ।
सम्यक्त्वं जायते शुद्धं जन्ममृत्युजराहरम् ।।२१।।

सद्देवगुरुधर्मादौ संसारक्लेशनाशके ।
तत्पश्चात्स्वात्मनि श्रद्धा जायते विमलेऽचले ।।२२।।

प्रश्नः पञ्चविंशति दोषाः के वद दार्शनिकस्य मे। तथा तेषां स्वरूपञ्च स्वसिद्धयै क्रमतो गुरो।

जिनागमोक्ततत्त्वेषु शङ्का दोषो निगद्यते ।
पञ्चाक्षविषयेच्छा च काङ्क्षा दोषो द्वितीयकः ।।१।। (क्षेपक)

तृतीयो विचिकित्सा च मूढदृष्टिश्चतुर्थकः ।
परदोषप्रकाशेच्छा परपातोन्मुखैषणा ।।२।। (क्षेपक)

धार्मिकेष्वपि स्यादीर्ष्या विद्वेषः सप्तमो मतः ।
जिनशासनकीर्त्तेस्तु दुर्मौढ्यादपकीर्त्तनम् ।।३।। (क्षेपक)

अष्टैते च सुदृग्दोषाः षडनायतनानि च ।
त्रिमूढ़ता मदा अष्टौ संयुक्ताः पञ्चविंशतिः ।।४।। (क्षेपक)

तद्विरुद्धाः गुणाः सर्वे सम्यक्त्वं पोषयन्ति ते ।
कथयाम्यधुना तेषां स्वरूपं क्रमतः शृणु ।।५।। (क्षेपक)

प्रश्नः निःशंकिताङ्गचिह्नं किं पृष्टे सत्युत्तरं मुदा।

वीतरागोक्तधर्मे हि श्रीदे देवे निरञ्जने ।
स्वान्यप्रबोधके शास्त्रे सद्गुरौ शान्तिदे सदा ।।२३।।

अकम्पा निर्मदा श्रद्धा यस्यास्ति भवभेदिनी ।
तस्य निःशंकिताङ्गं स्याच्छुद्धं मोक्षफलप्रदम् ।।२४।।

प्रश्नः निष्कांक्षितस्य चिह्नं किम् ? सिद्ध्यै स्याद् वद मे गुरो।

आदौ मध्येऽप्रिये चान्ते दुःखदे कटुके हृदि ।
क्षणिके स्वात्मबाह्ये हि निन्द्येऽग्राह्ये परोद्भवे ।।२५।।

परित्याज्येऽक्षसौख्येनास्था कांक्षा यस्य दुःखदा ।
निष्कांक्षिताङ्गमेवापि तस्य स्यान्निर्मलं प्रियं ।।२६।।

प्रश्नः निर्विचिकित्सिताङ्गस्य किं चिह्नमस्ति मे वद।

तुच्छे निसर्गमलिने सुगुरोश्च देहे
रत्नत्रयेण सुखदेन पवित्रभूते
ग्लानिं करोति न च यो भुवि तस्य शुद्धं
सौख्यप्रदं भवति निर्विचिकित्सिताङ्गम् ।।२७।।

प्रश्नः वदास्ति सिद्धये किं मेऽमूढदृष्ट्यङ्गलक्षणम्।

दुःखादिक्लेशकलिते कुटिले कुमार्गे
भ्रान्तिप्रदे सुखहरे विषमे विधर्मे।
श्रद्धा स्थितिर्ह्यनुमतिः क्रियते न येन
याऽमूढताङ्गमपि तस्य परं पवित्रम् ।।२८।।

प्रश्नः वदोपगूहनाङ्गस्य किं चिह्नं विद्यते गुरो।

विज्ञानशून्यमनुजैर्विमुखैः स्वधर्माज्
जाता जिनेन्द्रसुमतस्य यदि प्रणिन्दा।
ज्ञानैर्धनैर्भवहरैरपनीयते यैः
तेषां हि सर्वसुखदं ह्युपगूहनाङ्गम् ।।२९।।

प्रश्नः किं स्थितीकरणस्य च चिह्नं वदास्ति मे गुरो।

स्वर्मोक्षशान्तिसुखतश्चलते जनाय
दत्त्वान्नवस्त्रनिलयानि हितोपदेशम् ।
तत्रैव तं प्रणयतोऽतिदृढीकरोति
श्रेष्ठं स्थितीकरणमस्य पवित्रमङ्गम् ।।३०।।

प्रश्नः वात्सल्याङ्गस्वरूपं किं वदास्ति मे गुरो मुदा।

त्यक्तो मिथः कलिकरो भुवि येन भावः
स्वर्मोक्षमार्गनिरतस्य गुणानुरागात् ।
निःस्वार्थतो हि शिवदा क्रियते सुसेवा
वात्सल्यभाव इति तस्य भवेत् पवित्रः ।।३१।।

प्रश्नः प्रभावनाङ्गचिह्नं किं विद्यते मे गुरो वद।

मिथ्यात्वजां कुमतिदां भवदां कुविद्यां
बोधामृतैर्भवहरैरपहृत्य शीघ्रम् ।
सर्वोपरित्वमिति यैर्जिनशासनस्य
तोषां प्रभावनकृतिर्भुवि दृश्यते हि ।।३२।।

अष्टाङ्गलक्षणं प्रोक्तमेवं सम्यक्त्वशुद्धिदम् ।
श्रीमता स्वात्मतुष्टेन कुन्थुसागरसूरिणा ।।३३।।

प्रश्नः लोकमूढत्वचिह्नं किं विद्यते मे गुरो वद।

मोहादिमुक्तमनुजो लभते स्वधर्मं
मूर्खो न सत्यपि सुवस्तुनि सौख्यदे हि।
गङ्गावगाहनवशाद्वदतीति धर्मो
लोकस्य तस्य भवदा भुवि मूढता स्यात् ।।३४।।

प्रश्नः किं देवमूढताचिह्नं वद मे सिद्धये गुरो।

सत्यार्थधर्मरहितो धनपुत्रहेतो-
र्मूर्खः कुदेवकुगुरोः शरणं प्रयाति।
स्यान्मूढता भुवि यतो भ्रमणस्य हेतु-
र्दुःखप्रदा सपदि तस्य कुदेवतायाः ।।३५।।

प्रश्नः किं गुरुमूढ़ताचिह्नं वर्तते मे गुरो वद?

स्वात्मच्युतस्य भुवि कुर्वत एव पापम्
सेवाऽसतः क्रियत एव धनादिहेतोः।
स्यात्तस्य दुःखजनिका गुरुमूढताऽपि
ज्ञात्वेति सत्यरसिकैः परिवर्जनीया ।।३६।।

इत्यात्मदुःखदं निन्द्यं स्वाज्ञानदर्शकं मया।
त्रिमूढतास्वरूपं कौ प्रोक्तं तद्बोधहेतवे ।।३७।।

प्रश्नः षडनायतनचिह्नं किं विद्यते मे गुरो! वद।

कुदेवस्य तथा तस्य भक्तस्य वन्दनादिकम् ।
न कार्यं तत्त्वतो भक्तिः सेवा वा शुश्रूषादिकम् ।।३८।।

सत्यार्थवस्तुनो लाभो यतः स्यात् स्वैररोधनम् ।
सुदेवस्य सदा तस्य भक्तस्य वन्दनादिकम् ।।३९।।

अन्यागमस्य खलु तस्य कुपाठकस्य
ह्येकान्तपक्षकलितस्य भवप्रदस्य ।
सङ्गं विहाय जिनशास्त्रसुपाठकस्य
कार्यो निजात्मसुखदस्य सदैव सङ्गः ।।४०।।

शिष्यस्य तस्य कुगुरोश्च कुमार्गनेतुः
सेवा स्तुतिश्च सुजनैर्न कदापि कार्या ।
स्वानन्दसौख्यजनकस्य सदा सुसेवा
शिष्यस्य चास्य सुगुरोः सुखदा हि कार्या ।।४१।।

प्रश्नः भो! ज्ञानं प्राप्य किं कार्यं वद मे सिद्धये गुरो।

विज्ञानदानत इतीह भवेद्विवेक-
स्तद्बोधतो निजपदे स्थितिरेव ते स्यात् ।
ज्ञानादिदानमपि तत्र सदैव कार्यं
कार्यो मदो भयकरो भवदो न बद्ध्वा ।।४२।।

प्रश्नः किं पूजामदचिह्नं मे वदास्ति शान्तये गुरो!

पूजादिदानकरणात् सुगुरोः प्रभोः स्यात्
पूजा सदा निजमतिर्विमलाऽपि कीर्त्तिः।
स्वानन्दशुद्धहृदयश्च कृतीति बुद्ध्वा
पूजामदं कुभवदं न करोति विज्ञः ।।४३।।

प्रश्नः उच्चकुलमदस्यास्ति किं चिह्नं? मे गुरो वद।

भवेदुच्चकुले जन्म दानपूजादिपुण्यतः।
ज्ञात्वेति दानपूजादि कार्यमुच्चकुले यतः ।।४४।।

उच्चकुलमदः त्याज्यः कार्यं नोन्मत्तचेष्टितम् ।
वन्द्यः सर्वज्ञसन्देशस्तथा स्थाप्यो जनैर्हृदि ।।४५।।

प्रश्नः चिह्नं जातिमदस्यास्ति ब्रूहि मे सिद्धये गुरो!

देवशास्त्रगुरूणां ये सेवां कुर्वन्ति भक्तितः ।
लभन्ते श्रेष्ठजातिं ते सखं कौ मान्यतामपि ।।४६।।

ज्ञात्वा जातिमदो नेति कार्यो मर्मविदारकः ।
श्रेष्ठजात्यां यतो जन्म स्यात्ते स्वर्मोक्षदा मतिः ।।४७।। युग्मम्

प्रश्नः चिह्नं बलमदस्यास्ति ब्रूहि मे शान्तये गुरो।

दीनात्मरक्षणत एव सुपुण्यतोऽपि,
स्वर्मोक्षसाधकतमं लभते बलं ना।
ज्ञात्वेति दीनजनरक्षणमेव कार्यं
दुःखप्रदो बलमदो न कदापि कार्यः ।।४८।।

प्रश्नः चिह्नमृद्धिमदस्यास्ति ब्रूहि मे सिद्धये गुरो।

ऋद्धिः सुविस्मयकरी व्रतदानधर्माज्
ज्ञात्वेति शान्तिसुखदा भवतीह भव्य।
ऋद्धेर्विहाय कुमदं व्रतदानधर्मं
भक्त्या सदा कुरु यतश्च तवेष्टसिद्धिः ।।४९।।

प्रश्नः शरीरमदचिह्नं किं विद्यते मे गुरो वद।

अन्नौषधादिसुखहेतुविशेषदानाद्
देहं व्रतादिकरणे लभते समर्थम् ।
ज्ञात्वेति कायकुमदो भवदो न कार्यः
स्वात्मान्यशुद्धिकरणे सततं स योज्यः ।।५०।।

प्रश्नः किं लक्षणं वद गुरो च तपोमदस्य।

इच्छानिरोधस्तपसः सुचिह्नं
ज्ञात्वेति चोक्तं सुखदं सुशान्त्यै।
मोक्षस्य चेच्छापि भवस्य बन्धो
वद प्रभो! चान्यकथास्ति का कौ ।।५१।।

मिथः क्लेशकरं प्रोक्तं हीत्यष्टमदलक्षणम् ।
ज्ञात्वेति तान् मदांस्त्यक्त्वा भवेयुर्निर्मदाः सदा ।।५२।।

प्रश्नः इहलोकभयस्यास्ति किं चिह्नं मे गुरो वद।

स्वीयाज्ञानाद्यवस्थायां यत्किञ्चिद्धि कृतं मया ।
तदेव भुज्यते काले भावो यस्येति जायते ।।५३।।

तस्येहलोकभीतिर्न जायते तत्त्ववेदिनः ।
सम्यग्दृष्टेस्तु जीवस्याऽचिन्त्योऽस्ति महिमा सदा ।।५४।। युग्मम्

प्रश्नः परलोकभयस्यास्ति किं चिह्नं मे गुरो वद।

भवेऽस्मिन् यत् कृतं किञ्चित् परस्मिन् भोक्ष्यते मया ।
स एव तत्त्वतः श्रीदो भावो यस्येति वर्तते ।।५५।।

परलोकभयं तस्य न स्याद्विज्ञानचक्षुषः ।
शुद्धचिद्रूपमूर्त्तेः कौ ह्यगाधा महिमा मतः ।।५६।।

प्रश्नः वेदनाभयचिह्नं किं विद्यते मे गुरो वद।

यदि पुण्यं कृतं तर्हि कथं रोगी वाम्यहम् ।
भवत्येव सदा पापी रोगी दीनोऽतिचञ्चलः ।।५७।।

यस्येति तत्त्वतो भावस्तस्य तत्त्वार्थवेदिनः।
न वेदनाभयं स्यात् कौ सद्दृष्टेर्महिमाऽचलः ।।५८।।

प्रश्नः मरणभयचिह्नं किं विद्यते मे गुरो वद।

यावत्प्रमोहो भुवि तावदेव जन्मापि मृत्युश्च भवेन्नरस्य ।
वा यस्य जन्मास्ति च तस्य मृत्युः प्रियः सखा मे नववस्तुदाता ।।५९।।

यस्येति भावोऽस्ति विवेकपूर्णो मृत्योर्भयं तस्य भवेन्न दुष्टम् ।
चिद्रूपमूर्तेस्सुखशान्तिभोक्तुरहो ह्यचिन्त्यो महिमा त्रिलोके ।।६०।। युग्मम्

प्रश्नः अरक्षाभयचिह्नं मे किमस्ति वद सिद्धये।

स्वात्मात्मना स्वात्मनि स्वात्मनो वा यथार्थतः कौ क्रियते स्वरक्षा ।
पुण्येन रक्षा व्यवहारदृष्ट्या पापेन कस्यापि विलोकिता न ।।६१।।

यस्येति भावोऽस्ति विवेकपूर्णोऽरक्षाभयं तस्य भवेन्न चित्ते ।
निजात्मरक्षां हि निजात्मनैव प्रकुर्वतो ज्ञानदिवाकरस्य ।।६२।। युग्मम्

प्रश्नः अगुप्तिभयचिह्नं किं विद्यते मे गुरो वद।

यावन्मे वर्तते पुण्यं चौराद्याः केऽपि मद्धनम् ।
न हरन्ति गजाश्वादि पतितं यत्र कुत्रचित् ।।६३।।

स्वात्मास्ति तत्त्वतो गुप्तः शुद्धचिद्रूपनायकः।
यस्येति बोधदा बुद्धिस्तस्यागुप्तिभयं कुतः ।।६४।। युग्मम्

प्रश्नः अकस्माद् भयचिह्नं किं विद्यते मे गुरो वद।

मत्पुण्यविशेषश्चेन्न पतेत्किञ्चिन्ममोपरि ।
वा स्वचतुष्टये केऽपि न प्रविशन्ति वस्तुतः ।।६५।।

परचतुष्टये नापि प्रविशामि परात्मके ।
यस्येति बोधको भावस्तस्याकस्माद्भयं कुतः ।।६६।। युग्मम्

इति सप्तभयादीनां स्वरूपं कथितं मया।
सर्वेषां धीमता शान्त्यै कुन्थुसागरसूरिणा ।।६७।।

संवेगाद्यष्टधर्माश्च श्राद्धानां सन्ति कीदृशाः।
वद तेषां स्वरूपं मे तेषु वृत्तिर्भवेद्यथा

स्वधर्मे सुखदे प्रीतिरधर्मे दुःखदेऽरुचिः।
भावो यस्येति स्यात्तस्य संवेगः सुखदो गुणः ।।६८।।

संसारदेहे विषये विरक्तो यः शुद्धचिद्रूपसुखेऽनुरक्तः।
स्वानन्दमूर्त्तेः सुमतेः कृपाब्धेः स्यात्तस्य निर्वेगगुणः पवित्रः ।।६९।।

क्रोधादेर्दुःखदस्यास्ति मन्दता यस्य सौम्यता।
स्यादुपशमगुणस्तस्य मिथः श्रीदः सुखप्रदः ।।७०।।

विद्यमाने गुणे श्रेष्ठे स्वात्मनि सुखदे सदा।
स्वनिन्दां कुरुते तस्य स्यात् स्वनिन्दागुणः प्रियः ।।७१।।

धनादिकारणाद् गर्वः स्याच्चित्ते यदि दुःखदः।
तन्निन्दाकरणं नूनं श्रीदो गर्हागुणः प्रियः ।।७२।।

स्वान्योपरिदयादृष्टिकरणमेव तत्त्वतः।
ह्यनुकम्पागुणो ज्ञेयः सर्वसौख्यप्रदर्शकः ।।७३।।

देवे शास्त्रे गुरौ यस्य बन्धे मोक्षे शुभेऽशुभे।
श्रद्धास्ति शर्मदा तस्याऽस्तिक्यनामा भवेद् गुणः ।।७४।।

यः स्वात्मवत् सदा प्रीतिं करोति धार्मिकैः समम् ।
तस्य वात्सल्यधर्मः स्यात्सर्वप्राणिहितङ्करः ।।७५।।

श्रावकाणां प्रबोधार्थं विशेषाष्टगुणा मया ।
प्रोक्तास्ते व्यवहारेऽपि मिथस्सत्प्रीतिकारकाः ।।७६।।

प्रश्नः सम्यक्त्वस्यातिचाराः के वद मे सिद्धये प्रभो।

शङ्का कांक्षा विचिकित्सा प्रशंसा संस्तवस्तथा।
सद्दृष्टेरतिचारास्ते सम्यक्त्वं दूषयन्ति नु ।।७७।।


टिप्पणी (छपाई): पाठ जैसा छपा है वैसा ही रखा है।

  • श्लोक 36: ‘सत्यरसिकैः’ छपा है; टीका में ‘तत्त्वरसिकैः’ है
  • श्लोक 42: ‘बद्ध्वा’ छपा है; ‘बुद्ध्वा’ होना चाहिए
  • श्लोक 57: ‘वाम्यहम्’ छपा है; ‘वाप्यहम्’ होना चाहिए

तृतीय अध्याय (श्लोक 78 से 117)

प्रश्नः व्यसनानि कति सन्ति तच्चिह्नं कीदृशं वद।
अथ व्यसनचिह्नं ते ब्रवीमि सुखतः शृणु

द्यूतं मांसं सुरा वेश्या स्तेयमाखेटकं तथा ।
परस्त्रीसङ्गमश्चैव सप्तैव व्यसनानि तु (क्षेपक)

द्यूतमेव जनानां स्याच्छत्रुः सर्वापहारकः ।
स्थानं दुष्कर्मणां नूनं मूढानां विपदां सखा ।।७८।।

ज्ञात्वेति च्छर्दिवद् द्यूतं त्यक्त्वा चात्यन्तदुःखदम् ।
सन्तो निर्व्यसनाः सन्तु शुद्धचिद्रूपनायकाः ।।७९।।

प्रश्नः का मांसभक्षणे हानिस्तद्बोधाय गुरो वद।

न मांसभक्षिणां चित्ते दयाधर्मो भवेत्किल।
हेयोपादेयबोधोऽपि न स्यात्सद्विश्वशान्तिदः ।।८०।।

ज्ञात्वेति दुःखदं निन्द्यं त्यक्त्वा हि मांसभक्षणम् ।
कुर्वन्त्वात्महितं सन्तो धर्मज्ञा धर्मनायकाः ।।८१।।

प्रश्नः मद्यपानाद् भवेत् किं मे वदात्मशान्तये प्रभो।

चातुर्यं प्रवरा बुद्धिर्लज्जापि मद्यपायिनाम् ।
कुलजातिपवित्रत्वं नश्यति धर्मभावना ।।८२।।

स्वैराचाराः स्पृहा दुष्टा वर्धन्ते भवदुःखदाः ।
त्यक्त्वेति मद्यपानादि पिबन्तु स्वात्मनो रसम् ।।८३।। युग्मम्

प्रश्नः खेटक्रीडाफलं लोके किमस्तीति गुरो वद।

खेटक्रीडादिलुब्धानां क्रूरता मूढताऽगतिः ।
वर्द्धते पशुता दुष्टा सन्मार्गनाशिनी स्पृहा ।।८४।।

खेटक्रीडां भयाक्रान्तां ज्ञात्वेतिदुःखदां सदा ।
त्यक्त्वा स्वात्मपदे नित्यं रमन्तां स्वात्मशोधकाः ।।८५।। युग्मम्

प्रश्नः वेश्यासङ्गफलं किं मे वदास्ति सिद्धये गुरो।

वेश्यारतस्य शुचिता सुखदा न शान्तिः
बुद्धेर्बलं सुजनता नरताऽपि नश्येत्
ज्ञात्वेति धर्मरसिकैर्न हि तत्प्रसङ्गः
कार्यो यतः खलु भवेत् विमलः किलात्मा ।।८६।।

प्रश्नः स्तेयफलं गुरो किं स्यात् वदास्ति शान्तये मुदा।

स्ववित्तमपि मे नास्ति पुण्यलब्धं कथं परम् ।
ज्ञात्वेति तत्त्वतः स्तेयं न कुर्वन्त्यात्मवेदिनः ।।८७।।

स्वपरज्ञानशून्या हि स्तेयं कुर्वन्ति पापिनः ।
ततः स्वानन्दतृप्तः सन् वसतु स्वात्ममन्दिरे ।।८८।।

प्रश्नः परस्त्रीसेवनस्यास्ति किं फलं मे गुरो वद।

रक्तोऽस्ति यः कोऽपि किलान्यनार्यां तस्यापमानोऽपि पदे-पदे स्यात्।
दुःखप्रदा वैरविरोधवृद्धिः ज्ञात्वेति कार्यो न च तत्प्रसङ्गः ।।८९।।

प्रोक्तं व्यथादं भवदं सदैवाविश्वासपात्रं व्यसनस्वरूपम् ।
त्याज्यानि बुद्ध्वा व्यसनानि सप्त यतो भवेत्ते हृदये प्रशान्तिः ।।९०।।

प्रश्नः पञ्चपापस्वरूपं मे विद्यते कीदृशं वद।

लोभाभिमानात्परपीडनं स्याद्धिंसैव दुष्टाऽखिलविश्वहन्त्री ।
दुःखस्य मूलं किल सर्वजन्तोर्हिंसा न कस्यापि कदापि कार्या ।।९१।।

पूर्वोक्तहिंसा किल सर्वतः स्यात् त्याज्या मुनीनां गृहिणां च देशात्।
भव्यैरहिंसा हि यथोक्तरीत्या निजात्मशान्त्यै सुखदा सुपाल्या ।।९२।।

प्रश्नः हिंसायाः कति भेदाः कौ सन्ति मे भो गुरो! वद।
सर्वेषां सुखसिद्ध्यर्थं कथ्यन्ते क्रमतोऽद्य भोः।

कृष्यादिवृत्तौ विहिता प्रवृत्तिरुद्योगिहिंसा कथितात्महन्त्री ।
आरम्भिहिंसाऽखिलपञ्चसूनकार्ये प्रवृत्तिर्गृहिणां व्यथादा ।।९३।।

स्वर्मोक्षमार्गादिकरक्षणार्थं नरत्वधर्मादिकशिक्षणार्थं ।
जगद्धितार्थं क्रियते गृहस्थैर्विरोधिहिंसा कथिता मुनीन्द्रैः ।।९४।।

रागादिभावादथवा प्रमादाच्चित्ताक्षतृप्त्यै क्रियते जनैर्या ।
त्रासादिर्हिंसाखिलदुःखदात्री संकल्पिहिंसा भवबन्धिनी सा ।।९५।।

आदौ प्रगीता त्रिविधाऽपि हिंसाऽत्याज्याभवेन्मध्यमश्रावकैर्हि ।
रोगादिशान्त्यै कटुकौषधीव संकल्पिहिंसा न कदापि कार्या ।।९६।।

समस्तविश्वस्य विबोधनार्थं हिंसाप्रभेदाः कथिताः क्रमेण ।
पूर्वोक्तभोदान् स्वपदानुसारं ज्ञात्वेति भक्त्या परिपालयन्तु ।।९७।।

प्रश्नः सत्यव्रतस्वरूपं मे विद्यते किं गुरो वद।

सत्यं मितं हितकरं सुखदं सुवाच्यं
श्रीदं वचः प्रियकरं मयमानमुक्तम् ।
वाच्यं न वैरजनकं हि मिथो व्यथादं
भ्रान्तिप्रदं विपदि वाऽपि तदेव सत्यम् ।।९८।।

प्रश्नः अचौर्यव्रतचिह्नं किं वर्त्तते मे गुरो वद।

त्यक्तं वने वा पतितं श्मशाने कौ स्थापितं स्वात्मन एव बाह्यम् ।
ग्राह्यं ह्यदत्तं भवदं न वस्त्वचौर्यव्रतं तत्सुखदं सदा स्यात् ।।९९।।

प्रश्नः ब्रह्मचर्यव्रतचिह्नं किं मे वदास्ति भो गुरो।

त्याज्या स्वकीया ललना यदि स्यात् कथापरासां वद काऽस्ति लोके।
पूर्वोक्तरीतिर्यदि वास्त्यसाध्या त्याज्या परस्त्री स्वपरात्मशान्त्यै ।।१००।।

प्रश्नः सङ्गत्यागस्वरूपस्य किं चिह्नं मे गुरो बद।

बाह्योऽन्तरङ्गो भवदोऽस्ति संगो ज्ञात्वेति मुक्त्वा द्विविधं ततस्तम्।
तिष्ठेत्स्वभावे यदि स्वात्मनो वाऽसङ्गव्रतं तस्य भवेत्पवित्रम् ।।१०१।।

पञ्चाणुव्रतचिह्नं हि प्रोक्तमेवं शिवप्रदम् ।
पालयन्तु सदा भव्याः स्वान्यात्मशान्तये मुदा ।।१०२।।

प्रश्नः श्राद्धमूलगुणानां तु किं चिह्नं मे गुरो वद।

मद्यमांसमधूनां हि सेवनं स्पर्शनं तथा ।
न कार्यं दुःखदं निन्द्यं श्रावकैर्धर्मवत्सलैः ।।१०३।।

सदा प्राणिसमाकीर्णं वटादिफलपञ्चकम् ।
न भक्ष्यमिष्टसिद्ध्यै च तन्मूलव्रतमिष्यते ।।१०४।। युग्मम्

प्रश्नः अभक्ष्यवस्तुत्यागस्य हेतुः को विद्यते वद।

तुच्छफलाद्यभक्ष्याणां दयाधर्मप्रणाशिनाम् ।
भक्षणं स्पर्शनञ्चापि न कार्यं भवभीरुभिः ।।१०५।।

तच्चलितरसं वस्तु न भक्ष्यं व्याधिवर्धकम् ।
पूर्वोक्तविधिसाध्यात्स्याद्धि लोके शान्तिदा मतिः ।।१०६।। युग्मम्

प्रश्नः वदातिचारकाः पञ्चौदुम्बरस्य कति प्रभो।

यावद्येषां फलानां तु गुणधर्मो न ज्ञायते ।।
न तावद् भक्षणं तेषां कार्यं तत्त्वार्थवेदिभिः ।।१०७।।

फलानामपि चान्येषां कृत्वा चूर्णञ्च छेदनम् ।।
ज्ञात्वा जीवांस्ततस्त्यक्त्वा कार्यं पश्चाद्धि भक्षणम् ।।१०८।।

त्रसजीवसमाकीर्णं फलं सेव्यं न तत्त्वतः ।
अतीचारविमुक्तं हि श्लाघ्यं तस्य व्रतं भवेत् ।।१०९।। विशेषकम्

प्रश्नः मांसातिचारचिह्नं किं विद्यते मे गुरो वद।

चर्मपात्रे धृतं तैलं हिंगु नीरं तथा घृतम् ।
त्यक्तमांसाशनैस्त्याज्यमेवमन्यद्यथागमम् ।।११०।।

प्रश्नः मद्यातिचारचिह्नं किं वर्त्तते मे गुरो वद।

मद्यपायिकरस्पृष्टं भोजनमपि दोषकृत् ।
न सेव्यं निन्दितं वस्तु स्वादतश्चलितं तथा ।।१११।।

प्रश्नः मध्वतिचारचिह्नं किं वर्तते मे गुरो वद।

त्रसजीवसमाकीर्णं कुसुमं चान्यद्वस्तुकम् ।
मधुस्पृष्टं सदाऽहृद्यं त्याज्यं तत्त्वार्थवेदिभिः ।।११२।।

प्रश्नः द्यूतातिचारचिह्नं किं वर्तते मे गुरो वद।

क्रीडतश्च मिथो द्यूतं दृष्ट्वा जीवान् कदापि न।
तुष्येत् पलायनं लोभात् कारयित्वा पशोस्तथा ।।११३।।

प्रश्नः वेश्यात्यागातिचारस्य किं चिह्नं विद्यते वद

वार्तालापः तया सार्धं न कार्यो धार्मिकैर्जनैः।
न वेश्यागीतनृत्यादि पश्येद् गच्छेन्न तद्गृहम् ।।११४।।

प्रश्नः स्तेयातिचारचिह्नं किं विद्यते मे गुरो वद।

धनधान्यादिकमग्राह्यं परस्यान्यायतश्छलात् ।
यतो व्रतं भवेत् पूर्णं लोकद्वयसुखावहम् ।।११५।।

प्रश्नः आखेटकातिचाराणां किं चिह्नं विद्यते गुरो।

मह्यां लिखितचित्राणां भित्तिकाष्ठपटादिषु।
छेदनं भेदनञ्चूर्णं न कार्यं धर्मवेदिभिः ।।११६।।

प्रश्नः परस्त्रीसेवनस्यास्ति किं चिह्नं मे गुरो वद।

कन्यकादूषणं वापि कन्यकाहरणं हठात् ।
नान्यस्त्रीचिन्तनं कार्यं कदापि भवभीरुभिः ।।११७।।


टिप्पणी (छपाई): पाठ जैसा छपा है वैसा ही रखा है।

  • श्लोक 95: ‘त्रासादिर्हिंसा’ छपा है; टीका में ‘त्रसादिहिंसा’ है
  • श्लोक 97: ‘पूर्वोक्तभोदान्’ छपा है; ‘पूर्वोक्तभेदान्’ होना चाहिए (टीका: ‘पूर्वोक्तभेदान्’)
  • श्लोक 101: प्रश्न में ‘बद’ छपा है; ‘वद’ होना चाहिए

चतुर्थ अध्याय (श्लोक 118 से 162)

प्रश्नः प्रातरुत्थाय किं कार्यं वद मे शान्तये गुरो।

नमोऽस्तु वीतरागाय भक्त्यैवमुच्चरन् वचः।
उत्तिष्ठतु सदा प्रातर्देहः स्यादशुचिर्यदि ।।११८।।

मौनेनैवोच्चरन्मन्त्रं ध्यायतु स्वात्मनः पदम्।
आधिर्व्याधिर्यतो भीतिः स्वयं नश्येत् समूलतः ।।११९।। युग्मम्

ततः प्रातर्विधिं कृत्वा पूजां दानं तथैव च ।
स्वर्मोक्षदं मुदा स्तोत्रं स्वाध्यायं स्वात्मदर्शकम् ।।१२०।।

पश्चाद्धि भोजनं कुर्यात् तथान्यां शान्तिदां कृतिम् ।
यतः स्यात्सफलं जन्म भवबन्धनभेदनम् ।।१२१।। युग्मम्

प्रश्नः गर्भाधानक्रियादीनां किं रूपं कति ताः वद।

गर्भाधानक्रियादीनां संस्काराणां यथायथम् ।
काले काले विधिः कार्यः श्रावकैर्धार्मिकैर्मुदा ।।१२२।।

येनाशुभक्रियायाः स्यान्निवृत्ति : सुखदे शुभे ।
प्रवृत्तिः प्राणिनां श्रीदा सदा भूमण्डलेऽखिले ।।१२३।।

प्रश्नः कस्मै देयं गुरो दानं तत्फलं वा मुदा वद।

यथायोग्यं क्षमाकर्त्रे नवधाभक्तिपूर्वकम् ।
अन्येभ्यश्च सुपात्रेभ्यो दानं देयं चतुर्विधम् ।।१२४।।

तद्दानाच्चक्रवर्त्यादेः सुखं लब्ध्वा यथाक्रमम् ।
दातारः शान्तिदं नित्यं प्रयान्ति मोक्षपत्तनम् ।।१२५।। युग्मम्

प्रश्नः न ददाति धनाढ्योऽपि दानं स कीदृशो वद।

दानं धनाढ्योऽपि ददाति यो न
गृही स मूर्खः सुखशान्तिबीजम् ।
आगामिकालस्य भिनत्त्यवश्यं
नास्त्यत्र शङ्का तिलमात्रतोऽपि ।।१२६।।

प्रश्नः किं पुरुषार्थचिह्नं मे तत्फलं भो गुरो वद।

अस्ति कार्योत्तमो लोके पुरुषार्थश्चतुर्विधः ।
इन्द्रियातीन्द्रियादीनां सत्सुखानां प्रदायकः ।।१२७।।

कार्यो ज्ञात्वेत्यतो भव्यैर्धर्मार्थादिचतुर्विधः ।।
पुरुषार्थो यतः श्रीदोऽभीष्टसिद्धिर्भवेत्तव ।।१२८।। युग्मम्

प्रश्नः चातुर्मासेऽन्यकाले वा कथं कार्यं धनार्जनम् ।

मुख्यरीत्याष्टमासे हि कार्यं नीत्या धनार्जनम् ।।
वर्षाऋतौ चतुर्मासे मुख्यतो धर्मसाधनम् ।।१२९।।

पूर्वोक्तविधिरेवं हि विधेयः शान्तिदः सदा ।।
यतः स्यादुभये लोके सततं स्वेष्टसङ्गमः ।।१३०।।

प्रश्नः अहिंसाधर्मवृद्ध्यर्थं किं किं कार्यं जनैः सदा।

स्वदेशोद्धारकार्येऽपि यतन्तां श्रावकाः मुदा ।।
धर्मार्थमपि सर्वत्र गच्छन्तु स्वात्मसिद्धये ।।१३१।।

यतः स्याज्जैनधर्मस्य प्रसिद्धिः सर्वभूतले ।।
श्रावकाणां परं जन्म सफलं स्याद्विशेषतः ।।१३२।। युग्मम्

प्रश्नः वात्सल्यभावो ध्रियते किमर्थं गुरो कृपाब्धे वद मे हितार्थम् ।

मिथ्याप्रपञ्चं प्रविहाय मोहं श्राद्धैश्चिदानन्दपदाश्रितैर्वा ।।
वात्सल्यभावोऽपि मिथः प्रशान्त्यै सर्वैश्च सार्धं सततं विधेयः ।।१३३।।

प्रश्नः कथं क्षमादयो धर्माः पाल्याः प्रसिद्ध्यै गुरो वद।

यथाशक्ति क्षमादीनां धर्माणां पालनं मुदा ।
स्वात्मसिद्ध्यै सदा कार्यं चानुप्रेक्षादिचिन्तनम् ।।१३४।।

प्रश्नः कार्यं किमर्थं शास्त्राणां पठनं कठिनं विभो।

श्राद्धानां पतनं न स्यात् तदर्थं दृश्यते मया।
सुस्वाध्यायक्रमस्तेभ्यः संसारेऽपि सुखप्रदः ।।१३५।।

कौ त्रिषष्टिशलाकादिपुरुषाणां सुधर्मिणाम् ।
चरित्रं प्रथमं पाठ्यं शान्तिदं बोधदं सदा ।।१३६।।

तच्चरित्रप्रपाठेन यद्यदाचरितं हितैः ।
तत्तज्ज्ञानं भवेत् तस्य तथा स्यादशुभेऽरतिः ।।१३७।।

प्रश्नः प्रथमानुयोगपठनानन्तरं किं पाठ्यम् ।

सत्करणानुयोगादि शास्त्रं पाठ्यं शिवप्रदम् ।
पश्चाद्योग्यं भवेज्ज्ञानं सर्वसत्त्वहितङ्करम् ।।१३८।।

लोकालोकस्वरूपस्य बोधकं तत्त्वतो नृणाम् ।
ज्ञात्वेति क्रमतः पाठ्यं जन्म स्यात् सफलं यतः ।।१३९।। युग्मम्

पाठ्यं सदैव सुखदं चरणानुयोग-
शास्त्रं सुसाधुगृहिणां व्रतमण्डितानाम् ।
शीलव्रताचरणबोधकमेव भक्त्या
स्वात्मा भवेद् भुवि यतो व्रतशीलधारी ।।१४०।।

द्रव्यानुयोगशास्त्रस्य स्वपरबोधकस्य च ।
पठनं पाठनं कार्यमन्ते सर्वसुखप्रदम् ।।१४१।।

पूर्वोक्तक्रमतः पाठ्यास्तेऽनुयोगा जिनोदिताः ।
स्वैरवृत्तिर्यतो न स्यात् मोक्षश्रीः शान्तिदा सखी ।।१४२।। युग्मम्

प्रश्नः न्यायव्याकरणादीनां स्वाध्यायः स्यात्कदा गुरो?

षड्द्रव्यसप्ततत्त्वानां न्यायव्याकरणस्य च ।
पठनं पाठनं भक्त्या यतः स्यात् स्वात्मदर्शनम् ।।१४३।।

प्रश्नः श्राद्धानामन्तरायाः मे कति सन्ति गुरो वद।

दर्शनस्य भवन्त्यष्टावन्तराया जिनागमे ।
स्पर्शस्य विंशतिः प्रोक्ताः श्रोत्रस्य भयदा दश ।।१४४।।

बाह्यान्तरङ्गशुद्ध्यर्थं धर्मज्ञैः श्रावकैः सदा।
पूर्वोक्ताः त्रिविधाः पाल्या अन्तरायाः प्रयत्नतः ।।१४५।।

प्रश्नः कार्यो वितानबन्धेऽपि कुत्र कुत्र गुरो वद

पेषणप्रभृतिस्थाने श्रावकैर्धार्मिकैः सदा ।
वितानस्य प्रबन्धोऽपि कर्त्तव्यो जीवरक्षकः ।।१४६।।

प्रश्नः कौ मौनधारणं क्व क्व कार्यं मे सिद्धये वद।

भोजने मैथुने स्नाने मल-मूत्रविमोचने ।
सामायिकेऽर्चने दाने वमने च पलायने ।।१४७।।

सन्मौनधारणं कार्यं धर्मज्ञैः श्रावकैः सदा ।
यतः स्यात् सर्वकार्येषु शान्तिः सिद्धिर्निजाश्रिता ।।१४८।। युग्मम्

प्रश्नः किमर्थं जप्यते माला तद्रहस्यं गुरो वद।

संरम्भसमारम्भारम्भादिभेदाद्धि सर्वदा ।
वाक्कायचित्तचाञ्चल्यात् क्रोधादीनां वशङ्गताः ।।१४९।।

अष्टोत्तरशतं पापं कुर्वन्ति प्रत्यहं जनाः ।
तन्नाशाय जपं भक्त्या कुर्वन्तु स्वात्मचिन्तनम् ।।१५०।। युग्मम्

प्रश्नः श्राद्धेभ्यो ध्यानभेदानामुपदेशो विधीयते।

रौद्रार्त्ते दुःखदे ध्याने त्यक्त्वा कुर्वन्तु शक्तितः ।
धर्मध्यानं सदा श्रीदं शुक्लध्यानस्य भावनाम् ।।१५१।।

प्रश्नः निर्जीवदेहदहनादिविधिः कथं मे कार्यो कृपाश्रय! गुरो! गृहिभिः स्वशान्त्यै

श्राद्धैश्च शास्त्रविधिना विमले वनादौ
निर्जीवदेहदहनादिविधिर्विधेयः।
हाहादिरोदनकृतिर्न मनाग्विधेया
पश्चाद्यतो न हि भवेत् किल कर्मबन्धः ।।१५२।।

प्रश्नः किं सूतकविधेश्चिह्नं वर्तते मे गुरो वद।

मरणे सूतकं प्रोक्तं बन्धोर्मातुः पितुः कृते ।
द्वादशाहप्रमाणमन्येषां हीनं यथाक्रमम् ।।१५३।।

जन्मन्यपि तथा प्राहुर्दशदिनप्रमाणकम् ।
स्ववंशिनां तथान्येषां हीनं ज्ञेयं यथाक्रमम् ।।१५४।।

प्रश्नः वद सूतकचिह्नं किं वा तत्प्रयोजनं गुरो।

मृतस्य देहसंसर्गात् वस्त्रपात्रगृहादिकम् ।
स्याद् दुर्गन्धमयं हेयं तच्छुद्ध्यै सूतकस्य वा ।।१५५।।

कौ मिथो मोहनाशाय तदेव क्रियते विधिः ।
नृणां वृत्तिः पशोर्भिन्ना बोधार्थमिति धार्मिकैः ।।१५६।। युग्मम्

प्रश्नः श्रीदं न गृह्णाति यथार्थधर्मं स कीदृशो मे वद विश्वशान्त्यै।

करोति केवलं कौ यो धर्मं रूढ़िवशात्सदा ।
न जानाति गुणान् दोषान् धर्मस्यापि स्वबुद्धितः ।।१५७।।

नेत्रवानपि चान्धः स बुधोऽपि मूर्ख एव सः ।
स कलहप्रियो मन्ये स्वर्मोक्षसौख्यदूरगः ।।१५८।। युग्मम्

प्रश्नः कीदृक् तर्हि गुरो ग्राह्यो धर्मो मे सिद्धये वद।

कौ वीतराग एवास्ति सद्धर्मो विश्वरक्षकः ।
सोऽपि तत्रैव विज्ञेयो यत्रेर्ष्याद्या न दुःखदाः ।।१५९।।

प्रश्नः के वीतरागधर्मस्य रक्षकाः स्युर्गुरो वद।

श्रीवीतरागधर्मस्य स्वर्मोक्षसुखदायिनः ।
कौ त्रिषष्टिशलाकादिपुरुषाः सन्ति रक्षकाः ।।१६०।।

नीतिज्ञा निर्मदाः स्वस्था वाभवन्विश्वनायकाः ।
तदुनुकरणं कार्यं ज्ञात्वा शान्त्यै विचक्षणैः ।।१६१।।

श्रीवीतरागधर्मस्य यतः स्यात्सर्वभूतले ।
प्रचारः कार्यरूपेण स्वात्मचर्या गृहे-गृहे ।।१६२।। विशेषकम्

पञ्चम अध्याय (श्लोक 163 से 212)

प्रश्नः द्वितीयप्रतिमाचिह्नं किमस्ति मे गुरो वद।

पञ्चाणुव्रतपूर्त्यर्थं त्रीणि गुणव्रतानि वा ।
चतुःशिक्षाव्रतान्येवं गृहीत्वा स्वात्मचिन्तनम् ।।१६३।।

कुर्वन्ति ये यथाशक्ति दयाधर्मप्रभावनाम् ।
द्वितीयप्रतिमायास्ते भवन्ति स्वामिनः सदा ।।१६४।। युग्मम्

प्रश्नः अणुव्रतानि हि कानि सन्ति गुणव्रतानि वा।
वद शिक्षाव्रतानीति ज्ञातुमिच्छामि तत्त्वतः

अहिंसा सत्यमस्तेयं परदारविवर्जनम् ।
परिग्रहपरित्यागः ज्ञेयान्यणुव्रतानि हि ।।१।। (क्षेपक)

दिग्देशविरती चैवाऽनर्थदण्डव्रतं तथा ।
गुणव्रतानि चैतानि गुणवृद्धेस्तु हेतुतः ।।२।। (क्षेपक)

सामायिकोपवासौ तु व्रतं भोगोपभोगयोः ।
वैयावृत्यं च चत्वारि नित्यं शिक्षाव्रतानि तु ।।३।। (क्षेपक)

श्रावकाणां व्रतान्येतान्यथ विस्तारतस्तथा ।
वक्ष्येऽहं क्रमतोऽग्रे हि सावधानतया श्रृणु ।।४।। (क्षेपक)

प्रश्नः अहिंसाव्रतचिह्नं किं केऽतिचारा गुरो वद।

जीवस्थानं गुणस्थानं मार्गणास्थानकं तथा ।
योन्यादि निश्चयाद् बुद्ध्वा त्रसजीवादिरक्षणम् ।।१६५।।

कार्यं नित्यं यथाशक्ति स्थावराणामपि तथा ।
अहिंसाणुव्रतं पूतं यतः स्याच्छांतिसौख्यदम् ।।१६६।। युग्मम्

आहारपानपरिरोधननिन्द्यकृत्यं
बन्धो वधश्च गुरुभारकरोपणादि ।
छेदो न धर्मरसिकैर्विषयादिवृद्ध्यै
कार्यः सदा भुवि यतः स्वपदे निवासः ।।१६७।।

प्रश्नः सत्याणुव्रतचिह्नं किं तदतिचारकाश्च के।

न रागादिवशं गत्वाऽसत्यवाक्यं कदापि कौ ।
स्वान्यतापकरं सत्यमपि प्राणहरं मिथः ।।१६८।।

बोधदं सुप्रियं वाक्यं सत्यं वाच्यं हितं मितम् ।
स्यात्सत्याणुव्रतं शुद्धं शान्तिदं सर्वभूतले ।।१६९।। युग्मम्

मिथ्योपदेशो न रहस्यभेदो न कूटलेखो न च मन्त्रभेदः ।
न्यासापहारश्च तथा न कार्यो व्रतस्य शुद्धिर्यदि वाञ्छनीया ।।१७०।।

प्रश्नः अचौर्याणुव्रतं किं स्यादतिचाराश्च तस्य के?

ग्रामे पुरे वनपथे पतितं न दत्तम्
कौ स्थापितं परधनं यदि विस्मृतं वा।
तत्त्याग एव सुखदं व्रतमुत्तमं स्यात्
श्राद्धस्य धर्मरसिकस्य किलैकदेशम् ।।१७१।।

चौरप्रयोगो लघु-दीर्घमाने चौरार्थवाञ्छा नृपनीतिभङ्गः ।
दुःखप्रदो न प्रतिरूपयोगः कार्यो यतः स्याद् भुवि सर्वशान्तिः ।।१७२।।

विहाय यश्चान्यकलत्रमात्रं सुपुत्रहेतोः स्वकलत्र एव ।
करोति रात्रौ समयेन सङ्गं ब्रह्मव्रतं तस्य किलैकदेशम् ।।१७३।।

तीव्रकामाभिलाषाद्यतिचारा दुःखदाः खलाः।
त्याज्याः स्वानन्दतुष्टेन दीपेनेव कुकज्जलम् ।।१७४।।

प्रश्नः परिग्रहपरिमाणव्रतचिह्नं गुरो वद।

धनादीनां यथाशक्ति प्रमाणं प्रविधाय यः ।
आशाग्निशमनार्थं तु करोति दानपूजनम् ।।१७५।।

परिग्रहपरिमाणव्रतं स्यात्तस्य सौख्यदम् ।
ध्यानस्वाध्यायलीनस्य सारासारविचारिणः ।।१७६।।

धनादीनां कृतस्यैव प्रमाणस्य बहि र्न च ।
गन्तव्यं तत्त्वतो भव्यैर्यतः स्यात् सौख्यदा गतिः ।।१७७।।

प्रश्नः दिग्व्रतलक्षणं किं स्यात्तदतिचाराश्च के वद।

पापस्य दुःखजनकस्य निरोधनार्थं
कृत्वा प्रसिद्धनगरादिदिशः प्रमाणम् ।
द्रव्यार्जनाय न हि गच्छति तद्बहिर्यः
स्याद्दिग्व्रतं ह्यनुपमं सुखदञ्च तस्य ।।१७८।।

ऊर्ध्वाद्यतिक्रमा निन्द्या न कार्या दुःखदाः सदा ।
यतः स्वस्थो भवेत्स्वात्मा संसारार्णवपारगः ।।१७९।।

दिग्व्रतनियते देशे परमितकालं पुनश्च सङ्कोचः ।
देशावकाशिकाख्यं तद्व्रतमुदितं विशेषज्ञैः ।।१८०।।

आनयनाद्यतिचारास्त्याज्याः सन्तापकारकाः ।
यतः स्यात्स्वात्मशुद्धिस्ते निवासोऽपि निजात्मनि ।।१८१।।

स्वान्यात्मदुःखजनिका न च पापशिक्षा
देया कदापि न च हिंसकवस्तुदानम् ।
त्याज्यं तथा स्वहितशून्यधनं ह्यनर्थं-
त्यागव्रतं स्वसुखदञ्च भवेद्यतस्ते ।।१८२।।

कन्दर्पकौत्कुच्याद्यतिचारा भ्रान्तिकारकाः ।
त्याज्या ज्ञात्वेति भव्यैः स्यात् स्वस्थः स्वात्मा सदा सुखी ।।१८३।।

वाक्कायचित्तचलनञ्च निरुद्ध्य साम्यं
धृत्वात्मबाह्यसकले भवदे पदार्थे।
लीनो भवेन्निजपदे हृदि यः स धीरः
सामायिकव्रतयुतो भवति प्रकामम् ।।१८४।।

संरम्भादिकभेदाद्वा कायकृतादिभेदतः ।
क्रोधादिसंयुता जीवा पापञ्चाष्टोत्तरं शतम् ।।१८५।।

प्रतिदिनं प्रकुर्वन्ति दुःखदं तत्त्वतस्सदा ।
तन्नाशाय जपं कुर्याद् भक्त्या ह्यष्टोत्तरं शतम् ।।१८६।। युग्मम्

सत्प्रतिक्रमणं पश्चात् कार्यं निष्कामतो जनैः ।
स्वात्मशुद्धिर्यतः स्यात् कौ प्रेमवृद्धिः परस्परम् ।।१८७।।

वस्त्वन्यत्स्वात्मनो भिन्नं त्यक्त्वा ज्ञात्वेति चिद्गतः ।
स्वात्मन्येव निवासः स्यात् परं सामायिकं व्रतम् ।।१८८।। युग्मम्

सिद्धार्हद्वन्दनां कृत्वा भक्त्यात्मनः स्पृहोज्झनात् ।
स्वात्मोत्थरसपानं हि श्रीदं स्याद्वन्दनाव्रतम् ।।१८९।।

चतुर्विंशतिदेवानां गुणान् स्तुत्वाऽऽत्मनोऽर्थतः ।
स्तुतिव्रतं वरं स्याद्धि चिद्रूपोत्थान्नभक्षणम् ।।१९०।।

द्रव्यादौ स्वकृतं त्यक्त्वा विभावमात्मनस्तमः ।
स्थितिरेवात्मसौख्ये हि स्यात्प्रतिक्रमणं व्रतम् ।।१९१।।

सावद्यद्रव्यसंजातं दोषं मुक्त्वात्मनः स्पृहाम् ।
शुद्धद्रव्ये स्थितिं कुर्यात् प्रत्याख्यानव्रतं भवेत् ।।१९२।।

स्वात्मास्ति शुद्धचिद्रूपो भिन्नो मे देहतः सदा ।
मत्वेत्यात्मनिवासः स्यात्कायोत्सर्गव्रतं वरम् ।।१९३।। कुलकम्

मनोदुष्प्रणिधानाद्या अतिचारा भवप्रदाः ।
न कार्या भ्रान्तिदा भव्यैः स्वस्थः स्वात्मा भवेद्यतः ।।१९४।।

प्रश्नः प्रोषधोपवासस्यास्ति किं चिह्नं मे गुरो वद।

सर्वेन्द्रियाणां सुखदं हि धर्म्यध्यानं यथावद् गृहिणां च न स्यात् ।
तत्पर्ववारेषु चतुर्विधश्चाहारं कषायं विषयं विचार्य ।।१९५।।

त्यक्त्वोपवासः क्रियते स्वधर्मे सदा स्थितैः यैस्सुगतिश्च तेषाम् ।
श्रेष्ठोपवासोभवतीह लोके पूर्वोक्तवाक्ये न च सङ्कनीयम् ।।१९६।। युग्मम्

सन्मार्जनेनैव विना पृथिव्यां विलोकनेनैव विना पदार्थाः ।
ग्राह्या न तेषां त्यजनं न कार्यं यतो भवेत्कौ स्वपरात्मरक्षा ।।१९७।।

प्रश्नः भोगोपभोगव्रतस्य किं चिह्नमत्ययाश्च के?

मोहादिकर्मरिपुसंघविनाशनार्थं कृत्वा प्रमाणमिति वस्त्रधनादिकानाम् ।
यः प्रत्यहं निजपदे निवसेत्कृतार्थी भोगोपभोगविरतः स भवेद् व्रतेशः ।।१९८।।

सचित्ताद्यतिचाराश्च केवलं दुःखदायकाः ।
दोषा न धार्मिकैः सेव्याः स्वस्थः स्वात्मा भवेद्यतः ।।१९९।।

प्रश्नः अतिथिसंविभागस्य किं चिह्नं मे गुरो वद।

स्वानन्दसौख्यनिरताय चतुर्विधाय
संघाय धर्मरसिकाय निजान्यसिद्ध्यै।
दानं क्षमादिजनकं हि चतुर्विधं यो
भक्त्या ददाति स जनोऽतिथिसंविभागी ।।२००।।

ये सचित्तनिक्षेपाद्या अत्ययाः पञ्चसंख्यकाः ।
ते त्याज्या दुःखदा भव्यैः सुखी स्वात्मा भवेद्यतः ।।२०१।।

द्वादशव्रतचिह्नानि तदतीचारकाश्च ये ।
ज्ञातास्ते वद मे शेषप्रतिमालक्षणं गुरो

त्यक्त्वा कषायनिचयं समतां विधाय
शुद्धात्मधर्मविषये सुखदे स्वभावे।
चिद्रूपचैत्यनिलये निवसेत्सदा यः
सामायिकप्रतिमया स विभूषितः स्यात् ।।२०२।।

द्वात्रिंशद्दोषाः कथिताः सामायिकविनाशकाः ।
त्याज्याः स्वात्मा यतः स स्याच्छुद्धचिद्रूपनायकः ।।२०३।।

त्यक्त्वा कषायविषयान् गृहकर्मसक्तिं
भुक्तिं प्रमादजननीञ्च चतुर्विधां यः।
कुर्वंश्च पर्वदिवसेषु सदोपवासं
नूनं चतुर्थप्रतिमाव्रतपालकः सः ।।२०४।।

प्रश्न: पञ्चमप्रतिमाचिह्नं किमस्ति मे गुरो वद।

अग्न्यादिपाकरहितस्य फलादिकस्य
कार्यं न सेवनमितीह निजात्मविद्भिः।
आत्मा स्वयं ह्यनुपमो विमलो यतः स्यात्
स्वस्थो मनोक्षविजयी कृतकृत्यभाक् सः ।।२०५।।

वाक्कायिकस्वकृतकारितसम्मतैश्च
यो रात्रिभोजनमथो दिनमैथुनञ्च।
सम्यग्विहाय सुखदे स्वपदे च यः स्यात्
त्यागोऽस्ति तस्य सुखदो निशि भोजनादेः ।।२०६।।

स्त्रीणां कथापि किल मानवमात्रकस्य
चेतोविकारजननीति विचार्य तास्तत् ।
त्यक्त्वात्मसौख्यनिलये निवसेत् सदा यो
ब्रह्मव्रती स निपुणो भुवि भाग्यशाली ।।२०७।।

प्रश्न: आरम्भत्यागचिह्नं मे विद्यते किं गुरो वद।

वाणिज्यसेवासिमषीकृषिष्वा-
रम्भं व्यथादं प्रविहाय सर्वम् ।
शुद्धस्वभावे रमते सदा य
आरम्भत्यागीति स एव शुद्धः ।।२०८।।

परिग्रहपरित्यागचिह्नं मे शान्तये वद।

अन्यत्र पात्रवसनादिकतः समस्तं
द्रव्यं विहाय भवदं विषमं व्यथादम् ।
शुद्धेऽचले निजपदे निवसेत् सदा यो
ज्ञेयः परिग्रहविवर्जितधीः कृती सः ।।२०९।।

वदानुमतित्यागस्य किं चिह्नं वर्तते गुरो।

संसारभोगविषये विषमे व्यथादे
लग्नादिकार्यकरणेऽनुमतिर्न यस्य।
वन्द्यः सतामनुमतेर्विरतः स धीरः
वासं तनोतु सततं निजमन्दिरे सः ।।२१०।।

उद्दिष्टाहारत्यागस्य किं चिह्नं क्षुल्लकस्य हि।

स्वीयेषु मातृपितृबन्धुजनेषु मोह-
मन्येषु क्लेशमथवा मनसा विहाय।
कौपीनखण्डवसनो गुरुपार्श्ववर्ती
स्यात् क्षुल्लकः शुचिमनाः समताभिलाषी ।।२११।।

किमैलकस्य चिह्नं मे वर्तते सिद्धये वद।

कौपीनमात्रवसनो करपात्रभोजी
स्थित्वासनेऽशनविधानपरः प्रकामम् ।
स्वर्मोक्षमार्गनिरतो विरतोऽन्यकार्यात्
स्यादैलको निजरतः प्रतिमाप्रयोगी ।।२१२।।


टिप्पणी (छपाई): पाठ जैसा छपा है वैसा ही रखा है।

  • श्लोक 182: ‘ह्यनर्थं-’ छपा है; समास के अनुसार ‘ह्यनर्थ-’ होना चाहिए

ग्रन्थकारप्रशस्तिः (श्लोक 1 से 10)

ग्रंथकार आचार्य कुन्थुसागर की प्रशस्ति; ग्रंथ में इसकी क्रम संख्या अलग से 1 से 10 है।

आचार्यशान्तिसिन्धोर्मे दीक्षागुरोर्दयानिधेः ।
सूरेः सुधर्मसिन्धोर्हि विद्यागुरोः प्रसादतः ।।१।।

त्रिविधाः श्राद्धधर्माश्च यथावल्लिखिता मया ।।
तुष्टेन विश्वशान्त्यर्थं कुन्थुसागरसूरिणा ।।२।। युग्मम्

पूर्वाचार्यप्रणीताश्च श्राद्धाचारप्रदर्शकाः ।
सन्त्यत्र बहवो ग्रन्था ग्रन्थस्यास्य प्रयोजनम् ।।३।।

किं वर्तते गुरो ब्रूहि ज्ञातुमिच्छामि चार्थतः ।
प्रयोजनं विना ग्रन्थो नोपादेयो यतो भवेत् ।।४।। युग्मम्

जैनाहिंसातिरेकाद्धि हानिः स्याद् भारतस्य कौ ।।
ब्रुवन्त्यज्ञानतः केचिदिति तद्बोधहेतवे ।।५।।

जैनाहिंसातिरेकान्न तदबोधाद्धि किन्तु वै ।।
बभूवुश्चक्रवर्त्याद्याः तत्पालकाः स्वसिद्धये ।।६।।

ग्रन्थोऽयं लिखितो भव्यः स्वर्गमोक्षसुखप्रदः ।।
नेच्छा मे ख्यातिलाभस्य न तु नामप्रसिद्धये ।।७।।

शुद्धचिद्रूपमूर्त्तेर्मे किन्नामादिप्रयोजनम् ।।
श्रीमतः स्वात्मतुष्टस्य कुन्थुसागरसूरिणः ।।८।। कलापकम्

प्रमादान्मे क्वचित्स्याद्वा ग्रन्थेऽस्मिन् स्खलनं यदि ।
शोधयन्तु मुदा सन्तो वस्तुतत्त्वविचारकाः ।।९।।

शान्तिसिन्धुस्सुधर्मौ मामवतु ह्यवतु स्वयम् ।
कुरु-कुरु स्वतुल्यान् नो वृषभादिजिनेश्वराः ।।१०।।

खोज: Shravakdharm Pradip Mul Shlok

श्रावकधर्मप्रदीप श्लोक एवं अर्थ (आचार्य कुन्थुसागर) | Shravakdharmpradip Shlok Evam Arth (Acharya Kunthusagar)
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
अनुयोग सूची: अनुयोग अनुसार ग्रन्थ (अ से ज्ञ)
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z