श्री इष्टोपदेश, मूल श्लोक | आचार्य श्री पूज्यपाद स्वामी विरचित | Ishtopdesh Mool Shlok

श्री इष्टोपदेश

मूल श्लोक

रचयिता : आचार्य श्री पूज्यपाद स्वामी

कुल ५१ श्लोक

यस्य स्वयं स्वभावाप्तिरभावे कृत्स्नकर्मणः ।
तस्मै सञ्ज्ञानरूपाय नमोऽस्तु परमात्मने ॥१॥

योग्योपादानयोगेन दृषदः स्वर्णता मता ।
द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता ॥२॥

वरं व्रतैः पदं दैवं नाव्रतैर्वत नारकं ।
छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ॥३॥

यत्र भावः शिवं दत्ते द्यौः कियद् दूरवर्तिनी ।
यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ? ॥४॥

हृषीकज-मनातङ्कं दीर्घ-कालोपलालितम् ।
नाके नाकौकसां सौख्यं नाके नाकौकसामिव ॥५॥

वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् ।
तथा ह्युद्वेजयन्त्येते भोगा रोगा इवापदि ॥६॥

मोहेन संवृतं ज्ञानं स्वभावं लभते न हि ।
मत्तः पुमान् पदार्थानां यथा मदनकोद्रवैः ॥७॥

वपुर्गृहं धनं दाराः, पुत्राः मित्राणि शत्रवः ।
सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥८॥

दिग्देशेभ्यः खगा एत्य संवसन्ति नगे नगे ।
स्वस्वकार्यवशाद्यान्ति देशे दिक्षु प्रगे प्रगे ॥९॥

विराधकः कथं हन्त्रे, जनाय परिकुप्यति ।
त्र्यङ्गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते ॥१०॥

रागद्वेषद्वयीदीर्घ - नेत्राकर्षण - कर्मणा ।
अज्ञानात्सुचिरं जीवः संसाराब्धौ भ्रमत्यसौ ॥११॥

विपद्भवपदावर्ते पदिकेवातिवाह्यते ।
यावत्तावद्भवन्त्यन्याः, प्रचुरा विपदः पुरः ॥१२॥

दुरर्ज्येनासुरक्ष्येण नश्वरेण धनादिना ।
स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ॥१३॥

विपत्तिमात्मनो मूढः परेषामिव नेक्षते ।
दह्यमान - मृगाकीर्ण - वनान्तर - तरुस्थवत् ॥१४॥

आयुर्वृद्धिक्षयोत्कर्ष हेतुं कालस्य निर्गमम् ।
वाञ्छतां धनिनामिष्टं जीवितात्सुतरां धनम् ॥१५॥

त्यागाय श्रेयसे वित्तमवित्तः सञ्चिनोति यः ।
स्वशरीरं स पङ्केन स्नास्यामीति विलिम्पति ॥१६॥

आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान् ।
अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः ॥१७॥

भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि ।
स कायः सन्ततापायस्तदर्थं प्रार्थना वृथा ॥१८॥

यज्जीवस्योपकाराय, तद्देहस्यापकारकम् ।
यद्देहस्योपकाराय तज्जीवस्यापकारकम् ॥१९॥

इतश्चिन्तामणिर्दिव्य इतः पिण्याकखण्डकम् ।
ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिनः ॥२०॥

स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्ययः ।
अत्यन्तसौख्यवानात्मा, लोकालोकविलोकनः ॥२१॥

संयम्य करणग्राममेकाग्रत्वेन चेतसः ।
आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ॥२२॥

अज्ञानोपास्तिरज्ञानं ज्ञानं ज्ञानिसमाश्रयः ।
ददाति यत्तु यस्यास्ति सुप्रसिद्धमिदं वचः ॥२३॥

परीषहाद्यविज्ञानादास्त्रवस्य निरोधिनी ।
जायतेऽध्यात्मयोगेन कर्मणामाशु निर्जरा ॥२४॥

कटस्य कर्त्ताहमिति सम्बन्धः स्याद् द्वयोर्द्वयोः ।
ध्यानं ध्येयं यदात्मैव सम्बन्धः कीदृशस्तदा ॥२५॥

बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् ।
तस्मात्सर्वप्रयत्नेन निर्ममत्वं विचिन्तयेत् ॥२६॥

एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः ।
बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ॥२७॥

दुःखसंदोहभागित्वं संयोगादिह देहिनाम्।
त्यजाम्येनं ततः सर्वं मनोवाक्कायकर्मभिः ॥२८॥

न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा ।
नाहं बालो न वृद्धोऽहं न युवैतानि पुद्गले ॥२९॥

भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः ।
उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ॥३०॥

कर्म कर्म - हिताबन्धि जीवो जीवहितस्पृहः ।
स्वस्वप्रभावभूयस्त्वे स्वार्थं को वा न वाञ्छति ॥३१॥

परोपकृतिमुत्सृज्य स्वोपकारपरो भव ।
उपकुर्वन्परस्याज्ञो दृश्यमानस्य लोकवत् ॥३२॥

गुरूपदेशादभ्यासात् संवित्तेः स्वपरान्तरम् ।
जानाति यः स जानाति, मोक्षसौख्यं निरन्तरम् ॥३३॥

स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वतः ।
स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥३४॥

नाज्ञो विज्ञत्वमायाति विज्ञो नाज्ञत्वमृच्छति ।
निमित्तमात्रमन्यस्तु गतेर्धर्मास्तिकायवत् ॥३५॥

अभवच्चित्तविक्षेप एकान्ते तत्त्वसंस्थितः ।
अभ्यस्येदभियोगेन योगी तत्त्वं निजात्मनः ॥३६॥

यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् ।
तथा तथा न रोचन्ते विषयाः सुलभा अपि ॥३७॥

यथा यथा न रोचन्ते विषयाः सुलभा अपि ।
तथा तथा समायाति संवित्तौ तत्त्वमुत्तमम् ॥३८॥

निशामयति निश्शेषमिन्द्रजालोपमं जगत्।
स्पृहयत्यात्मलाभाय गत्वान्यत्रानुतप्यते ॥३९॥

इच्छत्येकान्तसंवासं निर्जनं जनितादरः ।
निजकार्यवशात्किञ्चिदुक्त्वा विस्मरति द्रुतम् ॥४०॥

ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति ।
स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति ॥४१॥

किमिदं कीदृशं कस्य कस्मात्क्वेत्यविशेषयन् ।
स्वदेहमपि नावैति योगी योगपरायणः ॥४२॥

यो यत्र निवसन्नास्ते स तत्र कुरुते रतिम् ।
यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥४३॥

अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते ।
अज्ञाततद्विशेषस्तु बध्यते न विमुच्यते ॥४४॥

परः परस्ततो दुःखमात्मैवात्मा ततः सुखम्।
अतएव महात्मानस्तन्निमित्तं कृतोद्यमाः ॥४५॥

अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत् ।
न जातु जन्तोःसामीप्यं, चतुर्गतिषु मुञ्चति ॥४६॥

आत्मानुष्ठाननिष्ठस्य व्यवहारबहिः स्थितेः ।
जायते परमानन्दः कश्चिद्योगेन योगिनः ॥४७॥

आनन्दो निर्दहत्युद्धं कर्मेन्धनमनारतम्।
न चासौ खिद्यते योगी बहिर्दुःखेष्वचेतनः ॥४८॥

अविद्याभिदुरं ज्योतिः, परं ज्ञानमयं महत् ।
तत्प्रष्टव्यं तदेष्टव्यं,तद्द्रष्टव्यं मुमुक्षुभिः ॥४९॥

जीवोऽन्यः पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रहः ।
यदन्यदुच्यते किञ्चित् सोऽस्तु तस्यैव विस्तरः ॥५०॥

इष्टोपदेशमिति सम्यगधीत्य धीमान्,
मानापमानसमतां स्वमताद्वितन्य ।
मुक्ताग्रहो विनिवसन् सजने वने वा,
मुक्तिश्रियं निरुपमामुपयाति भव्यः ॥५१॥

अर्थ सहित पाठ यहाँ पढ़ें : श्री इष्टोपदेश | आचार्य श्री पूज्यपाद स्वामी विरचित | Ishtopdesh

खोज: Ishtopdesh Mul Shlok

श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची, अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
अनुयोग सूची: अनुयोग अनुसार ग्रन्थ (अ से ज्ञ) | Anuyog Suchi: Granths by Anuyog (A to Gya)