ज्ञानार्णव मूल श्लोक (आचार्य शुभचन्द्र) | Gyanarnav Mool Shlok (Acharya Shubhchandra)

ज्ञानार्णव मूल श्लोक

आचार्य शुभचन्द्र

आचार्य शुभचन्द्र कृत ज्ञानार्णव (योगप्रदीपाधिकार) के संस्कृत मूल श्लोक, ४२ सर्गों में, क्रम से (कुल २१६६ श्लोक; ग्रंथ में श्लोक संख्या हर सर्ग में नए सिरे से शुरू होती है)। हर सर्ग इसी पोस्ट में अपने शीर्षक के साथ है। पाठ संलग्न ग्रंथ (श्रीमद् राजचन्द्र आश्रम, अगास संस्करण, पं. पन्नालाल बाकलीवाल कृत हिन्दी अनुवाद सहित) के अनुसार है; यहाँ केवल संस्कृत मूल श्लोक हैं, हिन्दी अर्थ ग्रंथ में देखें। टीका में उद्धृत अन्य ग्रंथों के श्लोक (“उक्तं च”) यहाँ नहीं लिए गए। जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस सर्ग के नीचे टिप्पणी दी।

स्रोत: gyanarnav.pdf

gyanarnav.pdf (36911 KB)

श्लोक और हर श्लोक का अर्थ साथ में: ज्ञानार्णव श्लोक एवं अर्थ (आचार्य शुभचन्द्र) | Gyanarnav Shlok Evam Arth (Acharya Shubhchandra)

पोस्ट की लंबाई की सीमा के कारण पूरा पाठ एक पोस्ट में नहीं आता; “सर्ग 19: कषाय की निंदा” से आगे का पाठ अगले 2 उत्तरों में है, वहाँ भी हर भाग अपने शीर्षक के साथ है।


सर्ग 1: सत्श्रुतप्रशंसा

ज्ञानलक्ष्मीघनाश्लेषप्रभवानन्दनन्दितम् ।
निष्ठितार्थमजं नौमि परमात्मानमव्ययम् ॥१॥

भुवनाम्भोजमार्त्तंडं धर्मामृतपयोधरम् ।
योगिकल्पतरुं नौमि देवदेवं वृषध्वजम् ॥२॥

भवज्वलनसंभ्रान्तसत्त्वशांतिसुधार्णवः ।
देवश्चन्द्रप्रभः पुष्यात् ज्ञानरत्नाकरश्रियम् ॥३॥

सत्संयमपयःपूरपवित्रितजगत्त्रयम् ।
शांतिनाथं नमस्यामि विश्वविघ्नौघशान्तये ॥४॥

श्रियं सकलकल्याणकुमुदाकरचन्द्रमाः ।
देवः श्रीवर्द्धमानाख्यः क्रियाद्भव्याभिनन्दिताम् ॥५॥

श्रुतस्कन्धनभश्चन्द्रं संयमश्रीविशेषकम् ।
इन्द्रभूतिं नमस्यामि योगीन्द्रं ध्यानसिद्धये ॥६॥

प्रशान्तमतिगम्भीरं विश्वविद्याकुलगृहम् ।
भव्यैकशरणं जीयाच्छ्रीमत्सर्वज्ञशासनम् ॥७॥

प्रबोधाय विवेकाय हिताय प्रशमाय च ।
सम्यक्तत्त्वोपदेशाय सतां सूक्तिः प्रवर्त्तते ॥८॥

तच्छ्रुतं तच्च विज्ञानं तद्ध्यानं तत्परं तपः ।
अयमात्मा यदासाद्य स्वस्वरूपे लयं व्रजेत् ॥९॥

दुरन्तदुरिताक्रान्तं निःसारमतिवञ्चकम् ।
जन्म विज्ञाय कः स्वार्थे मुह्यत्यङ्गी सचेतनः ॥१०॥

अविद्याप्रसरोद्भूतग्रहनिग्रहकोविदम् ।
ज्ञानार्णवमिमं वक्ष्ये सतामानन्दमन्दिरम् ॥११॥

अपि तीर्येत बाहुभ्यामपारो मकरालयः ।
न पुनः शक्यते वक्तुं मद्विधैर्योगिरञ्जकम् ॥१२॥

महामतिभिर्निःशेषसिद्धान्तपथपारगैः ।
क्रियते यत्र दिग्मोहस्तत्र कोऽन्यः प्रसर्पति ॥१३॥

समन्तभद्रादिकवीन्द्रभास्वतां स्फुरन्ति यत्रामलसूक्तिरश्मयः ।
व्रजन्ति खद्योतवदेव हास्यतां न तत्र किं ज्ञानलवोद्धता जनाः ॥१४॥

अपाकुर्वन्ति यद्वाचः कायवाक्चित्तसम्भवम् ।
कलङ्कमङ्गिनां सोऽयं देवनन्दी नमस्यते ॥१५॥

जयन्ति जिनसेनस्य वाचस्त्रैविद्यवन्दिताः ।
योगिभिर्यत्समासाद्य स्खलितं नात्मनिश्चये ॥१६॥

श्रीमद्भट्टाकलङ्कस्य पातु पुण्या सरस्वती ।
अनेकान्तमरुन्मार्गे चन्द्रलेखायितं यया ॥१७॥

भवप्रभवदुर्वारक्लेशसन्तापपीडितम् ।
योजयाम्यहमात्मानं पथि योगीन्द्रसेविते ॥१८॥

न कवित्वाभिमानेन न कीर्तिप्रसरेच्छया ।
कृतिः किन्तु मदीयेयं स्वबोधायैव केवलम् ॥१९॥

अयं जागर्ति मोक्षाय वेत्ति विद्यां भ्रमं त्यजेत् ।
आदत्ते शमसाम्राज्यं स्वतत्त्वाभिमुखीकृतः ॥२०॥

न हि केनाप्युपायेन जन्मजातङ्कसंभबा ।
विषयेषु महातृष्णा पश्य पुंसां प्रशाम्यति ॥२१॥

तस्याः प्रशान्तये पूज्यैः प्रतीकारः प्रदर्शितैः ।
जगज्जन्तूपकाराय तस्मिन्नस्यावधीरणा ॥२२॥

अनुद्विग्नैस्तथाप्यस्य स्वरूपं बन्धमोक्षयोः ।
कीर्त्यते येन निर्वेदपदवीमधिरोहति ॥२३॥

निरूप्य सच्च कोऽप्युच्चैरुपदेशोऽस्य दीयते ।
येनादत्ते परां शुद्धिं तथा त्यजति दुर्मतिम् ॥२४॥

अहो सति जगत्पूज्ये लोकद्वयविशुद्धिदे ।
ज्ञानशास्त्रे सुधीः कः स्वमसच्छास्त्रैर्विडम्बयेत् ॥२५॥

असच्छास्त्रप्रणेतारः प्रज्ञालवमदोद्धताः ।
सन्ति केचिच्च भूपृष्ठे कवयः स्वान्यवञ्चकाः ॥२६॥

स्वतत्त्वविमुखैर्मूढैः कीर्तिमात्रानुरञ्जितैः ।
कुशास्त्रच्छद्मना लोको वराको व्याकुलीकृतः ॥२७॥

अधीतैर्वा श्रुतैर्ज्ञातैः कुशास्त्रैः किं प्रयोजनम् ।
यैर्मनः क्षिप्यते क्षिप्रं दुरन्ते मोहसागरे ॥२८॥

क्षणं कर्णामृतं सूते कार्यशून्यं सतामपि ।
कुशास्त्रं तनुते पश्चादविद्यागरविक्रियाम् ॥२९॥

अज्ञानजनितश्चित्रं न विद्मः कोऽप्ययं ग्रहः ।
उपदेशशतेनापि यः पुंसामपसर्प्पति ॥३०॥

सम्यग्निरूप्य सद्वृत्तैर्विद्वद्भिर्वीतमत्सरैः ।
अत्र मृग्या गुणा दोषाः समाधाय मनः क्षणम् ॥३१॥

स्वसिद्ध्यर्थं प्रवृत्तानां सतामपि च दुर्धियः ।
द्वेषबुद्ध्या प्रवर्त्तन्ते केचिज्जगति जन्तवः ॥३२॥

साक्षाद्वस्तुविचारेषु निकषग्रावसन्निभाः ।
विभजन्ति गुणान्दोषान्धन्याः स्वच्छेन चेतसा ॥३३॥

प्रसादयति शीतांशुः पीडयत्यंशुमाञ्जगत् ।
निसर्गजनिता मन्ये गुणदोषाः शरीरिणाम् ॥३४॥

दूषयन्ति दुराचारा निर्दोषामपि भारतीम् ।
विधुबिम्बश्रियं कोकाः सुधारसमयीमिव ॥३५॥

अयमात्मा महामोहकलङ्की येन शुद्ध्यति ।
तदेव स्वहितं धाम तच्च ज्योतिः परं मतम् ॥३६॥

विलोक्य भुवनं भीमयमभोगीन्द्रशङ्कितम् ।
अविद्याव्रजमुत्सृज्य धन्या ध्याने लयं गताः ॥३७॥

हृषीकराक्षसाक्रान्तं स्मरशार्दूलचर्वितम् ।
दुःखार्णवगतं विश्वं विवेच्य विरतं बुधैः ॥३८॥

जन्मजातङ्कदुर्वारमहाव्यसनपीडितम् ।
जन्तुजातमिदं वीक्ष्य योगिनः प्रशमं गताः ॥३९॥

भवभ्रमणविभ्रान्ते मोहनिद्रास्तचेतने ।
एक एव जगत्यस्मिन् योगी जागर्त्यहर्निशम् ॥४०॥

रजस्तमोभिरुद्भूतं कषायविषमूर्च्छितम् ।
विलोक्य सत्त्वसंतानं सन्तः शान्तिमुपाश्रिताः ॥४१॥

मुक्तिस्त्रीवक्त्रशीतांशुं द्रष्टुमुत्कण्ठिताशयैः ।
मुनिभिर्मथ्यते साक्षाद्विज्ञानमकरालयः ॥४२॥

उपर्युपरिसंभूतदुःखवह्निक्षतं जगत् ।
वीक्ष्य सन्तः परिप्राप्ताः ज्ञानवारिनिधेस्तटम् ॥४३॥

अनादिकालसंलग्ना दुस्त्यजा कर्मकालिका ।
सद्यः प्रक्षीयते येन विधेयं तद्धि धीमताम् ॥४४॥

निष्कलङ्कं निराबाधं सानन्दं स्वस्वभावजम् ।
वदन्ति योगिनो मोक्षं विपक्षं जन्मसन्ततेः ॥४५॥

जीवितव्ये सुनिःसारे नृजन्मन्यतिदुर्लभे ।
प्रमादपरिहारेण विज्ञेयं स्वहितं नृणाम् ॥४६॥

विचारचतुरैर्धीरैरत्यक्षसुखलालसैः ।
अत्र प्रमादमुत्सृज्य विधेयः परमादरः ॥४७॥

न हि कालकलैकापि विवेकविकलाशयैः ।
अहो प्रज्ञाधनैर्नेया नृजन्मन्यतिदुर्लभे ॥४८॥

भृशं दुःखज्वालानिचयनिचितं जन्मगहनम्
यदक्षाधीनं स्यात्सुखमिह तदन्तेऽतिविरसम् ।
अनित्याः कामार्थाः क्षणरुचिचलं जीवितमिदं
विमृश्योच्चैः स्वार्थे क इह सुकृती मुह्यति जनः ॥४९॥

इति श्री ज्ञानार्णव योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते प्रथमः सर्गः ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक २१: ‘संभबा’ छपा है; ‘संभवा’ होना चाहिए
  • श्लोक ४३: ‘परिप्राप्ताः’ छपा है; ‘परिप्राप्ता’ होना चाहिए

सर्ग 2: द्वादश भावना

पीठिका एवं अनित्य भावना

सङ्गैः किं न विषाद्यते वपुरिदं किं छिद्यते नामयैः
मृत्युः किं न विजृम्भते प्रतिदिनं द्रुह्यन्ति किं नापदः ।
श्वभ्राः किं न भयानकाः स्वपनवद्भोगा न किं वञ्चकाः
येन स्वार्थमपास्य किन्नरपुरप्रख्ये भवे ते स्पृहा ॥१॥

नासादयसि कल्याणं न त्वं तत्त्वं समीक्षसे ।
न वेत्सि जन्मवैचित्र्यं भ्रातर्भूतैर्विडम्बितः ॥२॥

असद्विद्याविनोदेन मात्मानं मूढ वञ्चय ।
कुरु कृत्यं न किं वेत्सि विश्ववृत्तं विनश्वरम् ॥३॥

समत्वं भज भूतेषु निर्ममत्वं विचिन्तय ।
अपाकृत्य मनःशल्यं भावशुद्धिं समाश्रय ॥४॥

चिनु चित्ते भृशं भव्य भावना भावशुद्धये ।
याः सिद्धान्तमहातन्त्रे देवदेवैः प्रतिष्ठिताः ॥५॥

ताश्च संवेगवैराग्य-यमप्रशमसिद्धये ।
आलानिता मनःस्तम्भे मुनिभिर्मोक्तुमिच्छुभिः ॥६॥

अनित्याद्याः प्रशस्यन्ते द्वादशैता मुमुक्षुभिः ।
या मुक्तिसौधसोपानराजयोऽत्यन्तबन्धुराः ॥७॥

हृषीकार्थसमुत्पन्ने प्रतिक्षणविनश्वरे ।
सुखे कृत्वा रतिं मूढ विनष्टं भुवनत्रयं ॥८॥

भवाब्धिप्रभवाः सर्वे सम्बन्धा विपदास्पदम् ।
सम्भवन्ति मनुष्याणां तथान्ते सुष्ठु नीरसाः ॥९॥

वपुर्विद्धि रुजाक्रान्तं जराक्रान्तं च यौवनम् ।
ऐश्वर्यं च विनाशान्तं मरणान्तं च जीवितम् ॥१०॥

ये दृष्टिपथमायाताः पदार्थाः पुण्यमूर्त्तयः ।
पूर्वाह्णे न च मध्याह्ने ते प्रयान्तीह देहिनाम् ॥११॥

यज्जन्मनि सुखं मूढ ! यच्च दुःखं पुरःस्थितम् ।
तयोर्दुःखमनन्तं स्यात्तुलायां कल्प्यमानयोः ॥१२॥

भोगा भुजङ्गभोगाभाः सद्यः प्राणापहारिणः ।
सेव्यमानाः प्रजायन्ते संसारे त्रिदशैरपि ॥१३॥

वस्तुजातमिदं मूढ प्रतिक्षणविनश्वरम् ।
जानन्नपि न जानासि ग्रहः कोऽयमनौषधः ॥१४॥

क्षणिकत्वं वदन्त्यार्या घटीघातेन भूभृताम् ।
क्रियतामात्मनः श्रेयो गतेयं नागमिष्यति ॥१५॥

यद्यपूर्वं शरीरं स्याद्यदि वात्यन्तशाश्वतम् ।
युज्यते हि तदा कर्तुमस्यार्थे कर्म निन्दितम् ॥१६॥

अवश्यं यान्ति यास्यन्ति पुत्रस्त्रीधनबान्धवाः ।
शरीराणि तदेतेषां कृते किं खिद्यते वृथा ॥१७॥

नायाता नैव यास्यन्ति केनापि सह योषितः ।
तथाप्यज्ञाः कृते तासां प्रविशन्ति रसातलम् ॥१८॥

ये जाता रिपवः पूर्वं जन्मन्यस्मिन्विधेर्वशात् ।
त एव तव वर्त्तन्ते बान्धवा बद्धसौहृदः ॥१९॥

रिपुत्वेन समापन्नाः प्राक्तनास्तेऽत्र जन्मनि ।
बान्धवाः क्रोधरुद्धाक्षा दृश्यन्ते हन्तुमुद्यताः ॥२०॥

अङ्गनादिमहापाशैरतिगाढं नियन्त्रिताः ।
पतंत्यन्धमहाकूपे भवाख्ये भविनोऽध्वगाः ॥२१॥

पातयन्ति भवावर्त्ते ये त्वां ते नैव बान्धवाः ।
बन्धुतां ते करिष्यन्ति हितमुद्दिश्य योगिनः ॥२२॥

शरीरं शीर्यते नाशा गलत्यायुर्न पापधीः ।
मोहः स्फुरति नात्मार्थः पश्य वृत्तं शरीरिणाम् ॥२३॥

यास्यन्ति निर्दया नूनं यद्दत्वा दाहमूर्जितम् ।
हृदि पुंसां कथं ते स्युस्तव प्रीत्यै परिग्रहाः ॥२४॥

अविद्यारागदुर्वारप्रसरान्धीकृतात्मनाम् ।
श्वभ्रादौ देहिनां नूनं सोढव्या सुचिरं व्यथा ॥२५॥

वह्निं विशति शीतार्थं जीवितार्थं पिबेद्विषम् ।
विषयेष्वपि यः सौख्यमन्वेषयति मुग्धधीः ॥२६॥

कृते येषां त्वया कर्म कृतं श्वभ्रादिसाधकम् ।
त्वामेव यान्ति ते पापा वञ्चयित्वा यथायथम् ॥२७॥

अनेन नृशरीरेण यल्लोकद्वयशुद्धिदम् ।
विवेच्य तदनुष्ठेयं हेयं कर्म ततोऽन्यथा ॥२८॥

वर्द्धयन्ति स्वघाताय ते नूनं विषपादपम् ।
नरत्वेऽपि न कुर्वन्ति ये विवेच्यात्मनो हितम् ॥२९॥

यद्वद्देशान्तरादेत्य वसन्ति विहगा नगे ।
तथा जन्मान्तरान्मूढ प्राणिनः कुलपादपे ॥३०॥

प्रातस्तरुं परित्यज्य यथैते यान्ति पत्रिणः ।
स्वकर्मवशगाः शश्वत्तथैते क्वापि देहिनः ॥३१॥

गीयते यत्र सानन्दं पूर्वाह्णे ललितं गृहे ।
तस्मिन्नेव हि मध्याह्ने सदुःखमिह रुद्यते ॥३२॥

यस्य राज्याभिषेकश्रीः प्रत्यूषेऽत्र विलोक्यते ।
तस्मिन्नहनि तस्यैव चिताधूमश्च दृश्यते ॥३३॥

अत्र जन्मनि निर्वृत्तं यैः शरीरं तवाणुभिः ।
प्राक्तनान्यत्र तैरेव खण्डितानि सहस्रशः ॥३४॥

शरीरत्वं न ये प्राप्ता आहारत्वं न येऽणवः ।
भ्रमतस्ते चिरं भ्रातर्यन्न ते सन्ति तद्गृहे ॥३५॥

सुरोरगनरैश्वर्यं शक्रकार्मुकसन्निभम् ।
सद्यः प्रध्वंसमायाति दृश्यमानमपि स्वयम् ॥३६॥

यान्त्येव न निवर्त्तन्ते सरितां यद्वदूर्मयः ।
तथा शरीरिणां पूर्वा गता नायान्ति भूतयः ॥३७॥

क्वचित्सरित्तरङ्गाली गतापि विनिवर्त्तते ।
न रूपबललावण्यं सौन्दर्यं तु गतं नृणाम् ॥३८॥

गलत्येवायुरव्यग्रं हस्तन्यस्ताम्बुवत्क्षणे ।
नलिनीदलसंक्रान्तं प्रालेयमिव यौवनम् ॥३९॥

मनोज्ञविषयैः सार्द्धं संयोगाः स्वप्नसन्निभाः ।
क्षणादेव क्षयं यान्ति वञ्चनोद्धतबुद्धयः ॥४०॥

घनमालानुकारीणि कुलानि च बलानि च ।
राज्यालङ्कारवित्तानि कीर्त्तितानि महर्षिभिः ॥४१॥

फेनपुञ्जेऽथवा रम्भास्तम्भे सारः प्रतीयते ।
शरीरे न मनुष्याणां दुर्बुद्धे विद्धि वस्तुतः ॥४२॥

यातायातानि कुर्वन्ति ग्रहचन्द्रार्कतारकाः ।
ऋतवश्च शरीराणि न हि स्वप्नेऽपि देहिनाम् ॥४३॥

ये जाताः सातरूपेण पुद्गलाः प्राङ्मनःप्रियाः ।
पश्य पुंसां समापन्ना दुःखरूपेण तेऽधुना ॥४४॥

मोहाञ्जनमिवाक्षाणामिन्द्रजालोपमं जगत् ।
मुह्यत्यस्मिन्नयं लोको न विद्मः केन हेतुना ॥४५॥

ये चात्र जगतीमध्ये पदार्थाश्चेतनेतराः ।
ते ते मुनिभिरुद्दिष्टाः प्रतिक्षणविनश्वराः ॥४६॥

गगननगरकल्पं सङ्गमं वल्लभानाम्
जलदपटलतुल्यं यौवनं वा धनं वा ।
सुजनसुतशरीरादीनि विद्युच्चलानि
क्षणिकमिति समस्तं विद्धि संसारवृत्तम् ॥४७॥

अशरण भावना

न स कोऽप्यस्ति दुर्बुद्धे शरीरी भुवनत्रये ।
यस्य कण्ठे कृतान्तस्य न पाशः प्रसरिष्यति ॥१॥

समापतति दुर्वारे यमकण्ठीरवक्रमे ।
त्रायते तु न हिं प्राणी सोद्योगैस्त्रिदशैरपि ॥२॥

सुरासुरनराहीन्द्रनायकैरपि दुर्द्धरा ।
जीवलोकं क्षणार्धेन बध्नाति यमवागुरा ॥३॥

जगत्त्रयजयी वीर एक एवान्तकः क्षणे ।
इच्छामात्रेण यस्यैते पतन्ति त्रिदशेश्वराः ॥४॥

शोच्यन्ते स्वजनं मूर्खाः स्वकर्मफलभोगिनम् ।
नात्मानं बुद्धिविध्वंसा यमदंष्ट्रान्तरस्थितम् ॥५॥

यस्मिन्संसारकान्तारे यमभोगीन्द्रसेविते ।
पुराणपुरुषाः पूर्वमनन्ताः प्रलयं गताः ॥६॥

प्रतीकारशतेनापि त्रिदशैर्न निवार्यते ।
यत्रायमन्तकः पापी नृकीटैस्तत्र का कथा ॥७॥

गर्भादारभ्य नीयन्ते प्रतिक्षणमखण्डितैः ।
प्रयाणैः प्राणिनो मूढ कर्मणा यममन्दिरम् ॥८॥

यदि दृष्टः श्रुतो वास्ति यमाज्ञावञ्चको बली ।
तमाराध्य भज स्वास्थ्यं नैव चेत्किं वृथा श्रमः ॥९॥

परस्येव न जानाति विपत्तिं स्वस्य मूढधीः ।
वने सत्त्वसमाकीर्णे दह्यमाने तरुस्थवत् ॥१०॥

यथा बालं तथा वृद्धं यथाढ्यं दुर्विधं तथा ।
यथा शूरं तथा भीरुं साम्येन ग्रसतेऽन्तकः ॥११॥

गजाश्वरथसैन्यानि मन्त्रौषधबलानि च ।
व्यर्थीभवन्ति सर्वाणि विपक्षे देहिनां यमे ॥१२॥

विक्रमैकरसस्तावज्जनः सर्वोऽपि वल्गति ।
न शृणोत्यदयं यावत्कृतान्तहरिगर्जितम् ॥१३॥

अकृताभीष्टकल्याणमसिद्धारब्धवाञ्छितम् ।
प्रागेवागत्य निस्त्रिंशो हन्ति लोकं यमः क्षणे ॥१४॥

भ्रूभङ्गारम्भभीतं स्खलति जगदिदं ब्रह्मलोकावसानम्
सद्यस्त्रुट्यन्ति शैलाश्चरणगुरुभराक्रान्तधात्रीवशेन ।
येषां तेऽपि प्रवीराः कतिपयदिवसैः कालराजेन सर्वे
नीता वार्त्तावशेषं तदपि हतधियां जीवितेऽप्युद्धताशा ॥१५॥

रुद्राशागजदेवदैत्यखचरग्राहग्रहव्यन्तरा-
दिक्पालाः प्रतिशत्रवो हरिबला व्यालेन्द्रचक्रेश्वराः ।
ये चान्ये मरुदर्यमादिबलिनः संभूय सर्वे स्वयम्
नारब्धं यमकिङ्करैः क्षणमपि त्रातुं क्षमा देहिनम् ॥१६॥

आरब्धा मृगबालिकेव विपिने संहारदन्तिद्विषा
पुंसां जीवकला निरेति पवनव्याजेन भीता सती ।
त्रातुं न क्षमसे यदि क्रमपदप्राप्तां वराकीमिमां
न त्वं निर्घृण लज्जसेऽत्र जनने भोगेषु रन्तुं सदा ॥१७॥

पाताले ब्रह्मलोके सुरपतिभवने सागरान्ते वनान्ते
दिक्चक्रे शैलशृंगे दहनवनहिमध्वान्तवज्रासिदुर्गे ।
भूगर्भे सन्निविष्टं समदकरिघटासंकटे वा बलीयान्
कालोऽयं क्रूरकर्मा कवलयति बलाज्जीवितं देहभाजां ॥१८॥

अस्मिन्नन्तकभोगिवक्त्रविवरे संहारदंष्ट्राङ्किते
संसुप्तं भुवनत्रयं स्मरगरव्यापारमुग्धीकृतम् ।
प्रत्येकं गिलितोऽस्य निर्दयधियः केनाप्युपायेन वै
नास्मान्निःसरणं तवार्य कथमप्यत्यक्षबोधं विना ॥१९॥

संसार भावना

चतुर्गतिमहावर्त्ते दुःखवाडवदीपिते ।
भ्रमन्ति भविनोऽजस्रं वराका जन्मसागरे ॥१॥

उत्पद्यन्ते विपद्यन्ते स्वकर्मनिगडैर्वृताः ।
स्थिरेतरशरीरेषु सञ्चरन्तः शरीरिणः ॥२॥

कदाचिद्देवगत्यायुर्नामकर्मोदयादिह ।
प्रभवन्त्यङ्गिनः स्वर्गे पुण्यप्राग्भारसंभृताः ॥३॥

कल्पेषु च विमानेषु निकायेष्वितरेषु च ।
निर्विशन्ति सुखं दिव्यमासाद्य त्रिदिवश्रियम् ॥४॥

प्रच्यवन्ते ततः सद्यः प्रविशन्ति रसातलम् ।
भ्रमन्त्यनिलवद्विश्वं पतन्ति नरकोदरे ॥५॥

विडम्बयत्यसौ हन्त संसारः समयान्तरे ।
अधमोत्तमपर्यायैर्नियोज्य प्राणिनां गणम् ॥६॥

स्वर्गी पतति साक्रन्दं श्वा स्वर्गमधिरोहति ।
श्रोत्रियः सारमेयः स्यात् कृमिर्वा श्वपचोऽपि वा ॥७॥

रूपाण्येकानि गृह्णाति त्यजत्यन्यानि सन्ततम् ।
यथा रङ्गेऽत्र शैलूषस्तथायं यन्त्रवाहकः ॥८॥

सुतीव्रासातसंतप्ताः मिथ्यात्वातङ्कतर्किताः ।
पञ्चधा परिवर्त्तन्ते प्राणिनो जन्मदुर्गमे ॥९॥

द्रव्यक्षेत्रे तथा कालभवभावविकल्पतः ।
संसारो दुःखसंकीर्णः पञ्चधेति प्रपञ्चितः ॥१०॥

सर्वैः सर्वेऽपि सम्बन्धाः संप्राप्ता देहधारिभिः ।
अनादिकालसंभ्रान्तैस्त्रसस्थावरयोनिषु ॥११॥

देवलोके नृलोके च तिरश्चि नरकेऽपि च ।
न सा योनिर्न तद्रूपं न तद्देशो न तत्कुलम् ॥१२॥

न तद्दुःखं सुखं किञ्चिन्न पर्यायः स विद्यते ।
यत्रैते प्राणिनः शश्वद्यातायातैर्न खण्डिताः ॥१३॥

न के बन्धुत्वमायाताः न के जातास्तव द्विषः ।
दुरन्तागाधसंसारपङ्कमग्नस्य निर्दयम् ॥१४॥

भूपः कृमिर्भवत्यत्र कृमिश्चामरनायकः ।
शरीरी परिवर्त्तेत कर्मणा वञ्चितो बलात् ॥१५॥

माता पुत्री स्वसा भार्या सैव संपद्यतेऽङ्गजा ।
पिता पुत्रः पुनः सोऽपि लभते पौत्रिकं पदम् ॥१६॥

श्वभ्रे शूलंकुठारयन्त्रदहनक्षारक्षुरव्याहतै-
स्तिर्यक्षु श्रमदुःखपावकशिखासंभारभस्मीकृतैः ।
मानुष्येऽप्यतुलप्रयासवशगैर्देवेषु रागोद्धतैः
संसारेऽत्र दुरन्तदुर्गतिमये बम्भ्रम्यते प्राणिभिः ॥१७॥

एकत्व भावना

महाव्यसनसंकीर्णे दुःखज्वलनदीपिते ।
एकाक्येव भ्रमत्यात्मा दुर्गे भवमरुस्थले ॥१॥

स्वयं स्वकर्मनिर्वृत्तं फलं भोक्तुं शुभाशुभम् ।
शरीरान्तरमादत्ते एकः सर्वत्र सर्वथा ॥२॥

सङ्कल्पानन्तरोत्पन्नं दिव्यं स्वर्गसुखामृतम् ।
निर्विशत्ययमेकाकी स्वर्गश्रीरञ्जिताशयः ॥३॥

संयोगे विप्रयोगे च संभवे मरणेऽथवा ।
सुखदुःखविधौ वास्य न सखान्योऽस्ति देहिनः ॥४॥

मित्रपुत्रकलत्रादिकृते कर्म करोत्ययम् ।
यत्तस्य फलमेकाकी भुङ्क्ते श्वभ्रादिषु स्वयम् ॥५॥

सहाया अस्य जायन्ते भोक्तुं वित्तानि केवलम् ।
न तु सोढुं स्वकर्मोत्थं निर्दयां व्यसनावलीम् ॥६॥

एकत्वं किं न पश्यन्ति जडा जन्मग्रहार्दिताः ।
यज्जन्ममृत्युसम्पाते प्रत्यक्षमनुभूयते ॥७॥

अज्ञातस्वस्वरूपोऽयं लुप्तबोधादिलोचनः ।
भ्रमत्यविरतं जीव एकाकी विधिवञ्चितः ॥८॥

यदैक्यं मनुते मोहादयमर्थैः स्थिरेतरैः ।
तदा स्वं स्वेन बध्नाति तद्विपक्षैः शिवीभवेत् ॥९॥

एकाकित्वं प्रपन्नोऽस्मि यदाहं वीतविभ्रमः ।
तदैव जन्मसम्बन्धः स्वयमेव विशीर्यते ॥१०॥

एकः स्वर्गी भवति विबुधः स्त्रीमुखाम्भोजभृङ्गः
एकः श्वाभ्रं पिबति कलिलं छिद्यमानः कृपाणैः ।
एकः क्रोधाद्यनलकलितः कर्म बध्नाति विद्वान्
एकः सर्वावरणविगमे ज्ञानराज्यं भुनक्ति ॥११॥

अन्यत्व भावना

अयमात्मा स्वभावेन शरीरादेर्विलक्षणः ।
चिदानन्दमयः शुद्धो बन्धं प्रत्येकवानपि ॥१॥

अचिच्चिद्रूपयोरैक्यं बन्धं प्रति न वस्तुतः ।
अनादिश्चानयोः श्लेषः स्वर्णकालिकयोरिव ॥२॥

इह मूर्त्तममूर्त्तेन चलेनात्यन्तनिश्चलम् ।
शरीरमुह्यते मोहाच्चेतनेनास्तचेतनम् ॥३॥

अणुप्रचयनिष्पन्नं शरीरमिदमङ्गिनाम् ।
उपयोगात्मकोऽत्यक्षः शरीरी ज्ञानविग्रहः ॥४॥

अन्यत्वं किं न पश्यन्ति जडा जन्मग्रहार्दिताः ।
यज्जन्ममृत्युसंपाते सर्वेणापि प्रतीयते ॥५॥

मूर्तैर्विचेतनैश्चित्रैः स्वतन्त्रैः परमाणुभिः ।
यद्वपुर्विहितं तेन कः सम्बन्धस्तदात्मनः ॥६॥

अन्यत्वमेव देहेन स्याद्भृशं यत्र देहिनः ।
तत्रैक्यं बन्धुभिः सार्धं बहिरङ्गैः कुतो भवेत् ॥७॥

ये ये सम्बन्धमायाताः पदार्थाश्चेतनेतराः ।
ते ते सर्वेऽपि सर्वत्र स्वस्वरूपाद्विलक्षणाः ॥८॥

पुत्रमित्रकलत्राणि वस्तूनि च धनानि च ।
सर्वथाऽन्यस्वभावानि भावय त्वं प्रतिक्षणम् ॥९॥

अन्यः कश्चिद्भवेत्पुत्रः पितान्यः कोऽपि जायते ।
अन्येन केनचित्सार्द्धं कलत्रेणानुयुज्यते ॥१०॥

त्वत्स्वरूपमतिक्रम्य पृथक्पृथग्व्यवस्थिताः ।
सर्वेऽपि सर्वथा मूढ भावास्त्रैलोक्यवर्त्तिनः ॥११॥

मिथ्यात्वप्रतिबद्धदुर्नयपथभ्रान्तेन बाह्यानलं
भावान् स्वान् प्रतिपद्य जन्मगहने खिन्नं त्वया प्राक् चिरं ।
संप्रत्यस्तसमस्तविभ्रमभवश्चिद्रूपमेकं परम्
स्वस्थं स्वं प्रविगाह्य सिद्धिवनितावक्त्रं समालोकय ॥१२॥

अशुचि भावना

निसर्गमलिनं निन्द्यमनेकाशुचिसम्भृतम् ।
शुक्रादिबीजसम्भूतं घृणास्पदमिदं वपुः ॥१॥

असृग्मांसवसाकीर्णं शीर्णं कीकसपञ्जरम् ।
शिरानद्धं च दुर्गन्धं क्व शरीरं प्रशस्यते ॥२॥

प्रस्रवन्नवभिर्द्वारैः पूतिगन्धान्निरन्तरम् ।
क्षणक्षयं पराधीनं शश्वन्नरकलेवरम् ॥३॥

कृमिजालशताकीर्णे रोगप्रचयपीडिते ।
जराजर्जरिते काये कीदृशी महतां रतिः ॥४॥

यद्यद्वस्तु शरीरेऽत्र साधुबुद्ध्या विचार्यते ।
तत्तत्सर्वं घृणां दत्ते दुर्गन्धामेध्यमंदिरे ॥५॥

यदीदं शोध्यते दैवाच्छरीरं सागराम्बुभिः ।
दूषयत्यपि तान्येवं शोध्यमानमपि क्षणे ॥६॥

कलेवरमिदं न स्याद्यदि चर्मावगुण्ठितम् ।
मक्षिकाकृमिकाकेभ्यः स्यात्त्रातुं कस्तदा प्रभुः ॥७॥

सर्वदैव रुजाक्रान्तं सर्वदैवाशुचेर्गृहम् ।
सर्वदा पतनप्रायं देहिनां देहपञ्जरम् ॥८॥

तैरेव फलमेतस्य गृहीतं पुण्यकर्मभिः ।
विरज्य जन्मनः स्वार्थे यैः शरीरं कदर्थितम् ॥९॥

शरीरमेतदादाय त्वया दुःखं विसह्यते ।
जन्मन्यस्मिंस्ततस्तद्धि निःशेषानर्थमन्दिरम् ॥१०॥

भवोद्भवानि दुःखानि यानि यानीह देहिभिः ।
सह्यन्ते तानि तान्युच्चैर्वपुरादाय केवलम् ॥११॥

कर्पूरकुङ्कुमागुरुमृगमदहरिचन्दनादिवस्तूनि ।
भव्यान्यपि संसर्गान्मलिनयति कलेवरं नृणाम् ॥१२॥

अजिनपटलगूढं पञ्जरं कीकसानां
कुथितकुणपगन्धैः पूरितं मूढ गाढम् ।
यमवदननिषण्णं रोगभोगीन्द्रगेहं
कथमिह मनुजानां प्रीतये स्याच्छरीरम् ॥१३॥

आस्रव भावना

मनस्तनुवचःकर्म योग इत्यभिधीयते ।
स एवास्रव इत्युक्तस्तत्त्वज्ञानविशारदैः ॥१॥

वार्द्धेरन्तः समादत्ते यानपात्रं यथा जलम् ।
छिद्रैर्जीवस्तथा कर्म योगरन्ध्रैः शुभाशुभैः ॥२॥

यमप्रशमनिर्वेदतत्त्वचिन्तावलम्बितम् ।
मैत्र्यादिभावनारूढं मनः सूते शुभास्रवम् ॥३॥

कषायदहनोद्दीप्तं विषयैर्व्याकुलीकृतम् ।
सञ्चिनोति मनः कर्म जन्मसम्बन्धसूचकम् ॥४॥

विश्वव्यापारनिर्मुक्तं श्रुतज्ञानावलम्बितम् ।
शुभास्रवाय विज्ञेयं वचः सत्यं प्रतिष्ठितम् ॥५॥

अपवादास्पदीभूतमसन्मार्गोपदेशकम् ।
पापास्रवाय विज्ञेयमसत्यं परुषं वचः ॥६॥

सुगुप्तेन सुकायेन कायोत्सर्गेण वाऽनिशम् ।
सञ्चिनोति शुभं कर्म काययोगेन संयमी ॥७॥

सततारम्भयोगैश्च व्यापारैर्जन्तुघातकैः ।
शरीरं पापकर्माणि संयोजयति देहिनाम् ॥८॥

कषायाः क्रोधाद्याः स्मरसहचराः पञ्चविषयाः
प्रमादा मिथ्यात्वं वचनमनसी काय इति च ।
दुरन्ते दुर्ध्याने विरतिविरहश्चेति नियतं
स्रवन्त्येते पुंसां दुरितपटलं जन्मभयदम् ॥९॥

संवर भावना

सर्वास्रवनिरोधो यः संवरः स प्रकीर्तितः ।
द्रव्यभावविभेदेन स द्विधा भिद्यते पुनः ॥१॥

यः कर्मपुद्गलादानविच्छेदः स्यात्तपस्विनः ।
स द्रव्यसंवरः प्रोक्तो ध्याननिर्धूतकल्मषैः ॥२॥

या संसारनिमित्तस्य क्रियाया विरतिः स्फुटम् ।
स भावसंवरस्तज्ज्ञैर्विज्ञेयः परमागमात् ॥३॥

असंयममयैर्बाणैः संवृतात्मा न भिद्यते ।
यमी यथा सुसन्नद्धो वीरः समरसंकटे ॥४॥

जायते यस्य यः साध्यः स तेनैव निरुध्यते ।
अप्रमत्तैः समुद्युक्तैः संवरार्थं महर्षिभिः ॥५॥

क्षमा क्रोधस्य मानस्य मार्दवं त्वार्जवं पुनः ।
मायायाः सङ्गसंन्यासो लोभस्यैते द्विषः क्रमात् ॥६॥

रागद्वेषौ समत्वेन निर्ममत्वेन वाऽनिशम् ।
मिथ्यात्वं दृष्टियोगेन निराकुर्वन्ति योगिनः ॥७॥

अविद्याप्रसरोद्भूतं तमस्तत्त्वावरोधकम् ।
ज्ञानसूर्यांशुभिर्बाढं स्फेटयन्त्यात्मदर्शिनः ॥८॥

असंयमगरोद्गारं सत्संयमसुधाम्बुभिः ।
निराकरोति निःशङ्कं संयमी संवरोद्यतः ॥९॥

द्वारपालीव यस्योच्चैर्विचारचतुरा मतिः ।
हृदि स्फुरति तस्याघसूतिः स्वप्नेऽपि दुर्घटा ॥१०॥

विहाय कल्पनाजालं स्वरूपे निश्चलं मनः ।
यदाधत्ते तदैव स्यान्मुनेः परमसंवरः ॥११॥

सकलसमितिमूलः संयमोद्दामकाण्डः
प्रशमविपुलशाखो धर्मपुष्पावकीर्णः ।
अविकलफलबन्धैर्बन्धुरो भावनाभि-
र्जयति जितविपक्षः संवरोद्दामवृक्षः ॥१२॥

निर्जरा भावना

यया कर्माणि शीर्यन्ते बीजभूतानि जन्मनः ।
प्रणीता यमिभिः सेयं निर्जरा जीर्णबन्धनैः ॥१॥

सकामाकामभेदेन द्विधा सा स्याच्छरीरिणाम् ।
निर्जरा यमिनां पूर्वा ततोऽन्या सर्वदेहिनाम् ॥२॥

पाकः स्वयमुपायाच्च स्यात्फलानां तरोर्यथा ।
तथात्र कर्मणां ज्ञेयः स्वयं सोपायलक्षणः ॥३॥

विशुद्ध्यति हुताशेन सदोषमपि काञ्चनम् ।
यद्वत्तथैव जीवोऽयं तप्यमानस्तपोऽग्निना ॥४॥

चमत्कारकरं धीरैर्बाह्यमाध्यात्मिकं तपः ।
तप्यते जन्मसन्तानशङ्कितैरार्यसूरिभिः ॥५॥

तत्र बाह्यं तपः प्रोक्तमुपवासादिषड्विधम् ।
प्रायश्चित्तादिभिर्भेदैरन्तरङ्गं च षड्विधम् ॥६॥

निर्वेदपदवीं प्राप्य तपस्यति यथा यथा ।
यमी क्षपति कर्माणि दुर्जयानि तथा तथा ॥७॥

ध्यानानलसमालीढमप्यनादिसमुद्भवम् ।
सद्यः प्रक्षीयते कर्म शुद्ध्यत्यङ्गी सुवर्णवत् ॥८॥

तपस्तावद्बाह्यं चरति सुकृती पुण्यचरित-
स्ततश्चात्माधीनं नियतविषयं ध्यानपरमम् ।
क्षपत्यन्तर्लीनं चिरतरचितं कर्मपटलं
ततो ज्ञानाम्भोधिं विशति परमानन्दनिलयम् ॥९॥

धर्म भावना

पवित्रीक्रियते येन येनैवोद्ध्रियते जगत् ।
नमस्तस्मै दयार्द्राय धर्मकल्पाङ्घ्रिपाय वै ॥१॥

दशलक्ष्मयुतः सोऽयं जिनैर्धर्मः प्रकीर्तितः ।
यस्यांशमपि संसेव्य विन्दन्ति यमिनः शिवम् ॥२॥

न सम्यग्गदितुं शक्यं यत्स्वरूपं कुदृष्टिभिः ।
हिंसाक्षपोषकैः शास्त्रैरतस्तैस्तन्निगद्यते ॥३॥

चिन्तामणिर्निधिर्दिव्यः स्वर्धेनुः कल्पपादपाः ।
धर्मस्यैते श्रिया सार्द्धं मन्ये भृत्याश्चिरन्तनाः ॥४॥

धर्मो नरोरगाधीशनाकनायकवाञ्छिताम् ।
अपि लोकत्रयीपूज्यां श्रियं दत्ते शरीरिणाम् ॥५॥

धर्मो व्यसनसंपाते पाति विश्वं चराचरम् ।
सुखामृतपयः पूरैः प्रीणयत्यखिलं जगत् ॥६॥

पर्जन्यपवनार्केन्दुधराम्बुधिपुरन्दराः ।
अमी विश्वोपकारेषु वर्त्तन्ते धर्मरक्षिताः ॥७॥

मन्येऽसौ लोकपालानां व्याजेनाव्याहतक्रमः ।
जीवलोकोपकारार्थं धर्म एव विजृम्भितः ॥८॥

न तत्त्रिजगतीमध्ये भुक्तिमुक्त्योर्निबन्धनम् ।
प्राप्यते धर्मसामर्थ्यान्न यद्यमितमानसैः ॥९॥

नमन्ति पादराजीवराजिकां नतमौलयः ।
धर्मैकशरणीभूतचेतसां त्रिदशेश्वराः ॥१०॥

धर्मो गुरुश्च मित्रं च धर्मः स्वामी च बान्धवः ।
अनाथवत्सलः सोऽयं संत्राता कारणं विना ॥११॥

धत्ते नरकपाताले निमज्जज्जगतां त्रयम् ।
योजयत्यपि धर्मोऽयं सौख्यमत्यक्षमङ्गिनां ॥१२॥

नरकान्धमहाकूपे पततां प्राणिनां स्वयम् ।
धर्म एव स्वसामर्थ्याद्दत्ते हस्तावलम्बनम् ॥१३॥

महातिशयसम्पूर्णम् कल्याणोद्दाममन्दिरम् ।
धर्मो ददाति निर्विघ्नं श्रीमत् सर्वज्ञवैभवम् ॥१४॥

याति सार्द्धं तथा पाति करोति नियतं हितम् ।
जन्मपङ्कात्समुद्धृत्य स्थापयत्यमले पथि ॥१५॥

न धर्मसदृशः कश्चित्सर्वाभ्युदयसाधकः ।
आनन्दकुञ्जकन्दश्च हितः पूज्यः शिवप्रदः ॥१६॥

व्यालानलोरगव्याघ्रद्विपशार्दूलराक्षसाः ।
नृपादयोऽपि द्रुह्यन्ति न धर्माधिष्ठितात्मने ॥१७॥

निःशेषं धर्मसामर्थ्यं न सम्यग्वक्तुमीश्वरः ।
स्फुरद्वक्त्रसहस्रेण भुजङ्गेशोऽपि भूतले ॥१८॥

धर्मधर्मेति जल्पन्ति तत्त्वशून्याः कुदृष्टयः ।
वस्तुतत्त्वं न बुध्यन्ते तत्परीक्षाऽक्षमा यतः ॥१९॥

तितिक्षा मार्दवं शौचमार्जवं सत्यसंयमौ ।
ब्रह्मचर्यं तपस्त्यागाकिञ्चन्यं धर्म उच्यते ॥२०॥

यद्यत्स्वस्यानिष्टं तत्तद्वाक्चित्तकर्मभिः कार्यम् ।
स्वप्नेऽपि नो परेषामिति धर्मस्याग्रिमं लिङ्गम् ॥२१॥

धर्मः शर्मः भुजङ्गपुङ्गवपुरीसारं विधातुं क्षमो
धर्मः प्रापितमर्त्यलोकविपुलप्रीतिस्तदाशंसिनां ।
धर्मः स्वर्नगरीनिरन्तरसुखास्वादोदयस्यास्पदम्
धर्मः किं न करोति मुक्तिललनासंभोगयोग्यं जनम् ॥२२॥

यदि नरकनिपातस्त्यक्तुमत्यन्तमिष्ट-
स्त्रिदशपतिमहर्द्धिं प्राप्तुमेकान्ततो वा ।
यदि चरमपुमर्थः प्रार्थनीयस्तदानीं
किमपरमभिधेयं नाम धर्मं विधत्त ॥२३॥

लोक भावना

यत्र भावा विलोक्यन्ते ज्ञानिभिश्चेतनेतराः ।
जीवादयः स लोकः स्यात्ततोऽलोको नभः स्मृतः ॥१॥

वेष्टितः पवनैः प्रान्ते महावेगैर्महाबलैः ।
त्रिभिस्त्रिभुवनाकीर्णो लोकस्तालतरुस्थितिः ॥२॥

निष्पादितः स केनापि नैव नैवोद्धृतस्तथा ।
न भग्नः किन्त्वनाधारो गगने स स्वयं स्थितः ॥३॥

अनादिनिधनः सोऽयं स्वयं सिद्धोऽप्यनश्वरः ।
अनीश्वरोऽपि जीवादिपदार्थैः संभृतो भृशम् ॥४॥

अधो वेत्रासनाकारो मध्ये स्याज्झल्लरीनिभः ।
मृदङ्गसदृशश्चाग्रे स्यादित्थं स त्रयात्मकः ॥५॥

यत्रैते जन्तवः सर्वे नानागतिषु संस्थिताः ।
उत्पद्यन्ते विपद्यन्ते कर्मपाशवशंगताः ॥६॥

पवनवलयमध्ये संभृतोऽत्यन्तगाढं
स्थितिजननविनाशालिङ्गितैर्वस्तुजातैः ।
स्वयमिह परिपूर्णोऽनादिसिद्धः पुराणः
कृतिविलयविहीनः स्मर्यतामेष लोकः ॥७॥

बोधिदुर्लभ भावना

दुरन्तदुरितारातिपीडितस्य प्रतिक्षणम् ।
कृच्छ्रान्नरकपातालतलाज्जीवस्य निर्गमः ॥१॥

तस्माद्यदि विनिष्क्रान्तः स्थावरेषु प्रजायते ।
त्रसत्वमथवाप्नोति प्राणी केनापि कर्मणा ॥२॥

यत्पर्याप्तस्तथा संज्ञी पञ्चाक्षोऽवयवान्वितः ।
तिर्यक्ष्वपि भवत्यङ्गी तत्र स्वल्पाशुभक्षयात् ॥३॥

नरत्वं यद्गुणोपेतं देशजात्यादिलक्षितम् ।
प्राणिनः प्राप्नुवन्त्यत्र तन्मन्ये कर्मलाघवात् ॥४॥

आयुः सर्वाक्षसामग्री बुद्धिः साध्वी प्रशान्तता ।
यत्स्यात्तत्काकतालीयं मनुष्यत्वेऽपि देहिनाम् ॥५॥

ततो निर्विषयं चेतो यमप्रशमवासितम् ।
यदि स्यात्पुण्ययोगेन न पुनस्तत्त्वनिश्चयः ॥६॥

अत्यन्तदुर्लभेष्वेषु दैवाल्लब्धेष्वपि क्वचित् ।
प्रमादात्प्रच्यवन्तेऽत्र केचित्कामार्थलालसाः ॥७॥

मार्गमासाद्य केचिच्च सम्यग्रत्नत्रयात्मकम् ।
त्यजन्ति गुरुमिथ्यात्वविषव्यामूढचेतसः ॥८॥

स्वयं नष्टो जनः कश्चित्कश्चिन्नष्टैश्च नाशितः ।
कश्चित्प्रच्यवते मार्गाच्चण्डपाषण्डशासनैः ॥९॥

त्यक्त्वा विवेकमाणिक्यं सर्वाभिमतसिद्धिदम् ।
अविचारितरम्येषु पक्षेष्वज्ञः प्रवर्त्तते ॥१०॥

अविचारितरम्याणि शासनान्यसतां जनैः ।
अधमान्यपि सेव्यन्ते जिह्वोपस्थादिदण्डितैः ॥११॥

सुप्रापं न पुनः पुंसां बोधिरत्नं भवार्णवे ।
हस्ताद्भ्रष्टं यथा रत्नं महामूल्यं महार्णवे ॥१२॥

सुलभमिह समस्तं वस्तुजातं जगत्या-
मुरगसुरनरेन्द्रैः प्रार्थितं चाधिपत्यम् ।
कुलबलसुभगत्वोद्दामरामादि चान्यत्
किमुत तदिदमेकं दुर्लभं बोधिरत्नम् ॥१३॥

उपसंहार

दीव्यन्नाभिरयं ज्ञानी भावनाभिर्निरन्तरम् ।
इहैवाप्नोत्यनातङ्कं सुखमत्यक्षमक्षयम् ॥१॥

विध्याति कषायाग्निर्विगलति रागो विलीयते ध्वान्तम् ।
उन्मिषति बोधदीपो हृदि पुंसां भावनाभ्यासात् ॥२॥

एता द्वादशभावनाः खलु सखे सख्योऽपवर्गश्रिय-
स्तस्याः सङ्गमलालसैर्घटयितुं मैत्रीं प्रयुक्ता बुधैः ।
एतासु प्रगुणीकृतासु नियतं मुक्त्यङ्गना जायते
सानन्दा प्रणयप्रसन्नहृदया योगीश्वराणां मुदे ॥३॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते द्वादशभावनाप्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १९ (पीठिका एवं अनित्य भावना): ‘बद्धसौहृदः’ छपा है; ‘बद्धसौहृदाः’ होना चाहिए
  • श्लोक २ (अशरण भावना): ‘हिं’ छपा है; ‘हि’ होना चाहिए
  • श्लोक १७ (संसार भावना): ‘शूलंकुठार’ छपा है; ‘शूलकुठार’ होना चाहिए
  • श्लोक २२ (धर्म भावना): ‘शर्मः’ छपा है; ‘शर्म’ होना चाहिए

सर्ग 3: संक्षेप से ध्यान का स्वरूप

अस्मिन्ननादिसंसारे दुरन्ते सारवर्जिते ।
नरत्वमेव दुःप्राप्यं गुणोपेतं शरीरिभिः ॥१॥

काकतालीयकन्यायेनोपलब्धं यदि त्वया ।
तत्तर्हि सफलं कार्यं कृत्वात्मन्यात्मनिश्चयम् ॥२॥

नृजन्मनः फलं कैश्चित्पुरुषार्थः प्रकीर्त्तितः ।
धर्मादिकप्रभेदेन स पुनः स्याच्चतुर्विधः ॥३॥

धर्मश्चार्थश्च कामश्च मोक्षश्चेति महर्षिभिः ।
पुरुषार्थोऽयमुद्दिष्टश्चतुर्भेदः पुरातनैः ॥४॥

त्रिवर्गं तत्र सापायं जन्मजातङ्कदूषितम् ।
ज्ञात्वा तत्त्वविदः साक्षाद्यतन्ते मोक्षसाधने ॥५॥

निःशेषकर्मसम्बन्धपरिविध्वंसलक्षणः ।
जन्मनः प्रतिपक्षो यः स मोक्षः परिकीर्तितः ॥६॥

दृग्वीर्यादिगुणोपेतं जन्मक्लेशैः परिच्युतम् ।
चिदानन्दमयं साक्षान्मोक्षमात्यन्तिकं विदुः ॥७॥

अत्यक्षं विषयातीतं निरौपम्यं स्वभावजम् ।
अविच्छिन्नं सुखं यत्र स मोक्षः परिपठ्यते ॥८॥

निर्मलो निष्कलः शान्तो निष्पन्नोऽत्यन्तनिर्वृतः ।
कृतार्थः साधुबोधात्मा यत्रात्मा तत्पदं शिवम् ॥९॥

तस्यानन्तप्रभावस्य कृते त्यक्त्वाखिलभ्रमाः ।
तपश्चरन्त्यमी धीराः बन्धविध्वंसकारणम् ॥१०॥

सम्यग्ज्ञानादिकं प्राहुर्जिना मुक्तेर्निबन्धनम् ।
तेनैव साध्यते सिद्धिर्यस्मात्तदर्थिभिः स्फुटम् ॥११॥

भवक्लेशविनाशाय पिब ज्ञानसुधारसम् ।
कुरु जन्माब्धिमत्येतुं ध्यानपोतावलम्बनम् ॥१२॥

मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतः स्मृतः ।
ध्यानसाध्यं मतं तद्धि तस्मात्तद्धितमात्मनः ॥१३॥

अपास्य कल्पनाजालं मुनिभिर्मोक्तुमिच्छुभिः ।
प्रशमैकपरैर्नित्यं ध्यानमेवावलम्बितम् ॥१४॥

मोहं त्यज भज स्वास्थ्यं मुञ्च सङ्गान् स्थिरीभव ।
यतस्ते ध्यानसामग्री सविकल्पा निगद्यते ॥१५॥

उत्तितीर्षुर्महापङ्काज्जन्मसंज्ञाद्दुरुत्तरात् ।
यदि किं न तदा धत्से धैर्यं ध्याने निरन्तरम् ॥१६॥

चित्ते तव विवेकश्रीर्यद्यशङ्का स्थिरीभवेत् ।
कीर्त्यते ते तदा ध्यानलक्षणं स्वान्तशुद्धिदम् ॥१७॥

इयं मोहमहानिद्रा जगत्त्रयविसर्पिणी ।
यदि क्षीणा तदा क्षिप्रं पिब ध्यानसुधारसम् ॥१८॥

बाह्यान्तर्भूतनिःशेषसङ्गमूर्च्छा क्षयं गता ।
यदि तत्त्वोपदेशेन ध्याने चेतस्तदार्पय ॥१९॥

प्रमादविषयग्राहदन्तयन्त्राद्यदि च्युतः ।
त्वं तदा क्लेशसङ्घातघातकं ध्यानमाश्रय ॥२०॥

इमेऽनन्तभ्रमासारप्रसरैकपरायणाः ।
यदि रागादयः क्षीणस्तदा ध्यातुं विचेष्ट्यताम् ॥२१॥

यदि संवेगनिर्वेदविवेकैर्वासितं मनः ।
तदा धीर स्थिरीभूय स्वस्मिन् स्वान्तं निरूपय ॥२२॥

विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् ।
निर्ममत्वं यदि प्राप्तस्तदा ध्यातासि नान्यथा ॥२३॥

निर्विण्णोऽसि यदा भ्रातर्दुरन्ताज्जन्मसंक्रमात् ।
तदा धीर परां ध्यानधुरां धैर्येण धारय ॥२४॥

पुनात्याकर्णितं चेतो दत्ते शिवमनुष्ठितम् ।
ध्यानतन्त्रमिदं धीर धन्ययोगीन्द्रगोचरम् ॥२५॥

विस्तरेणैव तुष्यन्ति केऽप्यहो विस्तरप्रियाः ।
संक्षेपरुचयश्चान्ये विचित्राश्चित्तवृत्तयः ॥२६॥

संक्षेपरुचिभिः सूत्रात्तन्निरूप्यात्मनिश्चयात् ।
त्रिधैवाभिमतं कैश्चिद्यतो जीवाशयस्त्रिधा ॥२७॥

तत्र पुण्याशयः पूर्वस्तद्विपक्षोऽशुभाशयः ।
शुद्धोपयोगसंज्ञो यः स तृतीयः प्रकीर्त्तितः ॥२८॥

पुण्याशयवशाज्जातं शुद्धलेश्यावलम्बनात् ।
चिन्तनाद्वस्तुतत्त्वस्य प्रशस्तं ध्यानमुच्यते ॥२९॥

पापाशयवशान्मोहान्मिथ्यात्वाद्वस्तुविभ्रमात् ।
कषायाज्जायतेऽजस्रमसद्ध्यानं शरीरिणाम् ॥३०॥

क्षीणे रागादिसन्ताने प्रसन्ने चान्तरात्मनि ।
यः स्वरूपोपलम्भः स्यात्स शुद्धाख्यः प्रकीर्तितः ॥३१॥

शुभध्यानफलोद्भूतां श्रियं त्रिदशसंभवाम् ।
निर्विशन्ति नरा नाके क्रमाद्यान्ति परं पदम् ॥३२॥

दुर्ध्यानाद्दुर्गतेर्बीजं जायते कर्म देहिनाम् ।
क्षीयते यन्न कष्टेन महतापि कथञ्चन ॥३३॥

निःशेषक्लेशनिर्मुक्तं स्वभावजमनश्वरम् ।
फलं शुद्धोपयोगस्य ज्ञानराज्यं शरीरिणाम् ॥३४॥

इति संक्षेपतो ध्यानलक्षणं समुदाहृतम् ।
बन्धमोक्षफलोपेतं संक्षेपरुचिरञ्जकम् ॥३५॥

अविद्याविक्रान्तैश्चपलचरितैर्दुर्नयशतै-
र्जगल्लुप्तालोकं कृतमतिघनध्वान्तनिचितम् ।
त्वयोच्छेद्याशेषं परमततमोव्रातमतुलं
प्रणीतं भव्यानां शिवपदमयानन्दनिलयम् ॥३६॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते संक्षेपतो ध्यानलक्षणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १०: ‘त्यक्त्वाखिलभ्रमाः’ छपा है; ‘त्यक्त्वाखिलभ्रमान्’ होना चाहिए
  • श्लोक २१: ‘क्षीणस्तदा’ छपा है; ‘क्षीणास्तदा’ होना चाहिए

सर्ग 4: ध्यान का वर्णन

यच्चतुर्धा मतं तज्ज्ञैः क्षीणमोहैर्मुनीश्वरैः ।
पूर्वप्रकीर्णकाङ्गेषु ध्यानलक्ष्म सविस्तरम् ॥१॥

शतांशमपि तस्याद्य न कश्चिद्वक्तुमीश्वरः ।
तदेतत्सुप्रसिद्ध्यर्थं दिङ्मात्रमिह वर्ण्यते ॥२॥

अन्वयव्यतिरेकाभ्यां गुणदोषैः प्रपञ्चितम् ।
हेयोपादेयभावेन सविकल्पं निगद्यते ॥३॥

ध्याता ध्यानमितस्तदङ्गमखिलं दृग्बोधवृत्तान्वितं
ध्येयं तद्गुणदोषलक्षणयुतं नामानि कालः फलम् ।
एतत्सूत्रमहार्णवात्समुदितं यत्प्राक्प्रणीतं बुधैः
तत्सम्यक्परिभावयन्तु निपुणा अत्रोच्यमानं क्रमात् ॥४॥

ध्याता ध्यानं तथा ध्येयं फलं चेति चतुष्टयम् ।
इति सूत्रसमासेन सविकल्पं निगद्यते ॥५॥

मुमुक्षुर्जन्मनिर्विण्णः शान्तचित्तो वशी स्थिरः ।
जिताक्षः संवृतो धीरो ध्याता शास्त्रे प्रशस्यते ॥६॥

उदीर्णकर्मेन्धनसंभवेन दुःखानलेनातिकदर्थ्यमानम् ।
दन्दह्यते विश्वमिदं समन्तात्प्रमादमूढं च्युतसिद्धिमार्गम् ॥७॥

दह्यमाने जगत्यस्मिन्महता मोहवह्निना ।
प्रमादमदमुत्सृज्य निःक्रान्ता योगिनः परम् ॥८॥

न प्रमादजयः कर्तुं धीधनैरपि पार्यते ।
महाव्यसनसंकीर्णे गृहवासेऽतिनिन्दिते ॥९॥

शक्यते न वशीकर्तुं गृहिभिश्चपलं मनः ।
अतश्चित्तप्रशान्त्यर्थं सद्भिस्त्यक्ता गृहे स्थितिः ॥१०॥

प्रतिक्षणं द्वन्द्वशतार्त्तचेतसां नृणां दुराशाग्रहपीडितात्मनाम् ।
नितम्बिनीलोचनचौरसङ्कटे गृहाश्रमे स्वात्महितं न सिद्ध्यति ॥११॥

निरन्तरार्त्तानलदाहदुर्गमे कुवासनाध्वान्तविलुप्तलोचने ।
अनेकचिन्ताज्वरजिह्मितात्मनां नृणां गृहे नात्महितं प्रसिद्ध्यति ॥१२॥

विपन्महापङ्कनिमग्नबुद्धयः प्ररूढरागज्वरयन्त्रपीडिताः ।
परिग्रहव्यालविषाग्निमूर्च्छिता विवेकवीथ्यां गृहिणः स्खलन्त्यमी ॥१३॥

हिताहितविमूढात्मा स्वं शश्वद्वेष्टयेद् गृही ।
अनेकारम्भजैः पापैः कोशकारः कृमिर्यथा ॥१४॥

जेतुं जन्मशतेनापि रागाद्यरिपताकिनी ।
विना संयमशस्त्रेण न सद्भिरपि शक्यते ॥१५॥

प्रचण्डपवनैः प्रायश्चाल्यन्ते यत्र भूभृतः ।
तत्राङ्गनादिभिः स्वान्तं निसर्गतरलं न किम् ॥१६॥

खपुष्पमथवा शृङ्गं खरस्यापि प्रतीयते ।
न पुनर्देशकालेऽपि ध्यानसिद्धिर्गृहाश्रमे ॥१७॥

दुर्दृशामपि न ध्यानसिद्धिः स्वप्नेऽपि जायते ।
गृह्णतां दृष्टिवैकल्याद्वस्तुजातं यदृच्छया ॥१८॥

ध्यानसिद्धिर्यतित्वेऽपि न स्यात्पाषण्डिनां क्वचित् ।
पूर्वापरविरुद्धार्थमतसत्तावलम्बिनाम् ॥१९॥

किं च पाषण्डिनः सर्वे सर्वथैकान्तदूषिताः ।
अनेकान्तात्मकं वस्तु प्रभवन्ति न वेदितुम् ॥२०॥

नित्यतां केचिदाचक्षुः केचिच्चानित्यतां खलाः ।
मिथ्यात्वान्नैव पश्यन्ति नित्यानित्यात्मकं जगत् ॥२१॥

वस्तुतत्त्वापरिज्ञानात्किं ध्येयं क्व च भावना ।
ध्यानाभ्यासस्ततस्तेषां प्रयासायैव केवलम् ॥२२॥

ज्ञानादेवेष्टसिद्धिः स्यात्ततोऽन्यः शास्त्रविस्तरः ।
मुक्तेरुक्तमतो बीजं विज्ञानं ज्ञानवादिभिः ॥२३॥

कैश्चिच्च कीर्त्तिता मुक्तिर्दर्शनादेव केवलम् ।
वादिनां खलु सर्वेषामपाकृत्य नयान्तरम् ॥२४॥

अथान्यैर्वृत्तमेवैकं मुक्त्यङ्गं परिकीर्तितम् ।
अपास्य दर्शनज्ञाने तत्कार्यविफलश्रमे ॥२५॥

विज्ञानादित्रिवर्गेऽस्मिन्द्वे द्वे इष्टे तथा परैः ।
स्वसिद्धान्तावलेपेन जन्मसन्ततिशातने ॥२६॥

एकैकं च त्रिभिर्नष्टं द्वे द्वे नष्टे तथाऽपरैः ।
त्रयं न रुच्यतेऽन्यस्य सप्तैते दुर्दृशः स्मृताः ॥२७॥

कारकादिक्रमो लोके व्यवहारश्च जायते ।
न पक्षेऽन्विष्यमाणोऽपि सर्वथैकान्तवादिनाम् ॥२८॥

यस्य प्रज्ञा स्फुरत्युच्चैरनेकान्ते च्युतभ्रमा ।
ध्यानसिद्धिर्विनिश्चेया तस्य साध्वी महात्मनः ॥२९॥

ध्यानतन्त्रे निषिध्यन्ते नैते मिथ्यादृशः परं ।
मुनयोऽपि जिनेशाज्ञाप्रत्यनीकाश्चलाशयाः ॥३०॥

योग्यता न यतित्वेऽपि येषां ध्यातुमिह क्षणम् ।
अन्विष्य लिङ्गमेतेषां सूत्रसिद्धं निगद्यते ॥३१॥

यत्कर्मणि न तद्वाचि वाचि यत्तन्न चेतसि ।
यतेर्यस्य स किं ध्यानपदवीमधिरोहति ॥३२॥

सङ्गेनापि महत्त्वं ये मन्यन्ते स्वस्य लाघवम् ।
परेषां सङ्गवैकल्यात्ते स्वबुद्ध्यैव वञ्चिताः ॥३३॥

सत्संयमधुरां धृत्वा तुच्छशीलैर्मदोद्धतैः ।
त्यक्ता यैः सा च्युतस्थैर्यैर्ध्यातुमीशं क्व तन्मनः ॥३४॥

कीर्त्तिपूजाभिमानार्त्तैर्लोकयात्रानुरञ्जितैः ।
बोधचक्षुर्विलुप्तं यैस्तेषां ध्याने न योग्यता ॥३५॥

अन्तःकरणशुद्ध्यर्थं मिथ्यात्वविषमुद्धतम् ।
निष्ठ्यूतं यैर्न निःशेषं न तैस्तत्त्वं प्रमीयते ॥३६॥

दुःषमत्वादयं कालः कार्यसिद्धेर्न साधकम् ।
इत्युक्त्वा स्वस्य चान्येषां कैश्चिद्ध्यानं निषिध्यते ॥३७॥

संदिह्यते मतिस्तत्त्वे यस्य कामार्थलालसा ।
विप्रलुब्धोऽन्यसिद्धान्तैः स कथं ध्यातुमर्हति ॥३८॥

निसर्गचपलं चेतो नास्तिकैर्विप्रतारितम् ।
स्याद्यस्य स कथं ध्यानपरीक्षायां क्षमो भवेत् ॥३९॥

कान्दर्पीप्रमुखाः पञ्च भावना रागरञ्जिताः ।
येषां हृदि पदं चक्रुः क्व तेषां वस्तुनिश्चयः ॥४०॥

कान्दर्पी कैल्विषी चैव भावना चाभियोगिकी ।
दानवी चापि संमोही त्याज्या पञ्चतयी च सा ॥४१॥

मार्जाररसितप्रायं येषां वृत्तं त्रपाकरम् ।
तेषां स्वप्नेऽपि सद्ध्यानसिद्धिर्नैवोपजायते ॥४२॥

अनिरुद्धाक्षसन्ताना अजितोग्रपरीषहाः ।
अत्यक्तचित्तचापल्या प्रस्खलन्त्यात्मनिश्चये ॥४३॥

अनासादितनिर्वेदा अविद्याव्याधवञ्चिताः ।
असंवर्धितसंवेगा न विदन्ति परं पदम् ॥४४॥

न चेतः करुणाक्रान्तं न च विज्ञानवासितम् ।
विरतं च न भोगेभ्यो यस्य ध्यातुं न स क्षमः ॥४५॥

लोकानुरञ्जकैः पापैः कर्मभिर्गौरवं श्रिताः ।
अरञ्जितनिजस्वान्ता अक्षार्थगहने रताः ॥४६॥

अनुद्धृतमनःशल्या अकृताध्यात्मनिश्चयाः ।
अभिन्नभावदुर्लेश्या निषिद्धा ध्यानसाधने ॥४७॥

नर्मकौतुककौटिल्यपापसूत्रोपदेशकाः ।
अज्ञानज्वरशीर्णाङ्गा मोहनिद्रास्तचेतनाः ॥४८॥

अनुद्युक्तास्तपः कर्तुं विषयग्रासलालसाः ।
ससङ्गाः शङ्किता भीता मन्येऽमी दैववञ्चिताः ॥४९॥

एते तृणीकृतस्वार्था मुक्तिश्रीसङ्गनिःस्पृहाः ।
प्रभवन्ति न सद्ध्यानमन्वेषितुमपि क्षणम् ॥५०॥

पापाभिचारकर्माणि सातर्द्धिरसलम्पटैः ।
यैः क्रियन्तेऽधमैर्मोहाद्धा हतं तैः स्वजीवितम् ॥५१॥

वश्याकर्षणविद्वेषं मारणोच्चाटनं तथा ।
जलानलविषस्तम्भो रसकर्म रसायनम् ॥५२॥

पुरक्षोभेन्द्रजालं च बलस्तम्भो जयाजयौ ।
विद्याच्छेदस्तथा वेधं ज्योतिर्ज्ञानं चिकित्सितम् ॥५३॥

यक्षिणीमन्त्रपातालसिद्धयः कालवञ्चना ।
पादुकाञ्जननिस्त्रिंशभूतभोगीन्द्रसाधनम् ॥५४॥

इत्यादिविक्रियाकर्मरञ्जितैर्दुष्टचेष्टितैः ।
आत्मानमपि न ज्ञातुं नष्टं लोकद्वयच्युतैः ॥५५॥

यतित्वं जीवनोपायं कुर्वन्तः किं न लज्जिताः ।
मातुः पण्यमिवालम्ब्य यथा केचिद्गतघृणाः ॥५६॥

निस्त्रपाः कर्म कुर्वन्ति यतित्वेऽप्यतिनिन्दितम् ।
ततो विराध्य सन्मार्गं विशन्ति नरकोदरे ॥५७॥

अविद्याश्रयणं युक्तं प्राग्गृहावस्थितैर्वरम् ।
मुक्त्यङ्गं लिङ्गमादाय न श्लाघ्यं लोकदम्भनम् ॥५८॥

मनुष्यत्वं समासाद्य यतित्वं च जगन्नुतम् ।
हेयमेवाशुभं कार्यं विवेच्य सुहितं बुधैः ॥५९॥

अहो विभ्रान्तचित्तानां पश्य पुंसां विचेष्टितम् ।
यत्प्रपञ्चैर्यतित्वेऽपि नीयते जन्म निष्फलम् ॥६०॥

किं ते सन्ति न कोटिशोऽपि सुधियः स्फारैर्वचोभिः परम्
ये वार्तां प्रथयन्त्यमेयमहसां राशेः परब्रह्मणः ।
तत्रानन्दसुधासरस्वति पुनर्निर्मज्य मुञ्चन्ति ये
सन्तापं भवसम्भवं त्रिचतुरास्ते सन्ति वा नात्र वा ॥६१॥

एते पण्डितमानिनः शमदमस्वाध्यायचिन्ताच्युताः
रागादिग्रहवञ्चिता यतिगुणप्रध्वंसकृष्णाननाः ।
व्याकृष्टा विषयैर्मदैः प्रमुदिताः शङ्काभिरङ्गीकृताः
न ध्यानं न विवेचनं न च तपः कर्तुं वराकाः क्षमाः ॥६२॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्य विरचिते चतुर्थः सर्गः ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ४३: ‘अत्यक्तचित्तचापल्या’ छपा है; ‘अत्यक्तचित्तचापल्याः’ होना चाहिए

सर्ग 5: ध्याता की प्रशंसा

अथ निर्णीततत्त्वार्था धन्याः संविग्नमानसाः ।
कीर्त्यन्ते यमिनो जन्मसंभूतसुखनिःस्पृहाः ॥१॥

भवभ्रमणनिर्विण्णा भावशुद्धिं समाश्रिताः ।
सन्ति केचिच्च भूपृष्ठे योगिनः पुण्यचेष्टिताः ॥२॥

विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् ।
यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते ॥३॥

सत्संयमधुरा धीरैर्न हि प्राणात्ययेऽपि यैः ।
त्यक्ता महत्त्वमालम्ब्य ते हि ध्यानधनेश्वराः ॥४॥

परीषहमहाव्यालैर्ग्राम्यैर्वाक्कण्टकैर्दृढैः ।
मनागपि मनो येषां न स्वरूपात्परिच्युतम् ॥५॥

क्रोधादिभीमभोगीन्द्रै रागादिरजनीचरैः ।
अजय्यैरपि विध्वस्तं न येषां यमजीवितम् ॥६॥

मनः प्रीणयितुं येषां क्षमास्ता दिव्ययोषितः ।
मैत्र्यादयः सतां सेव्या ब्रह्मचर्येऽप्यनिन्दिते ॥७॥

तपस्तरलतीव्रार्चिःप्रचये पातितः स्मरः ।
यै रागरिपुभिः सार्द्धं पतङ्गप्रतिमीकृतः ॥८॥

निःसङ्गत्वं समासाद्य ज्ञानराज्यं समीप्सितम् ।
जगत्त्रयचमत्कारि चित्रभूतं विचेष्टितम् ॥९॥

अत्युग्रतपसाऽऽत्मानं पिडयन्तोऽपि निर्दयम् ।
जगद्विध्यापयन्त्युच्चैर्ये मोहदहनक्षतम् ॥१०॥

स्वभावजनिरातङ्कनिर्भरानन्दनन्दिताः ।
तृष्णार्चिःशान्तये धन्या येऽकालजलदोद्गमाः ॥११॥

अशेषसंगसंन्यासवशाञ्जितमनोद्विजाः ।
विषयोद्दाममातङ्गघटासंघट्टघातकाः ॥१२॥

वाक्पथातीतमाहात्म्या विश्वविद्याविशारदाः ।
शरीराहारसंसारकामभोगेषु निःस्पृहाः ॥१३॥

विशुद्धबोधपीयुषपानपुण्यीकृताशयाः ।
स्थिरेतरजगज्जन्तुकरुणावारिवार्द्धयः ॥१४॥

स्वर्णाचल इवाकम्प्या ज्योतिःपथ इवामलाः ।
समीर इव निःसङ्गा निर्ममत्वं समाश्रिताः ॥१५॥

हितोपदेशपर्जन्यैर्भव्यसारङ्गतर्पकाः ।
निरपेक्षाः शरीरेऽपि सापेक्षाः सिद्धिसङ्गमे ॥१६॥

इत्यादिपरमोदारपुण्याचरणलक्षिताः ।
ध्यानसिद्धेः समाख्याताः पात्रं मुनिमहेश्वराः ॥१७॥

तवारोढुं प्रवृत्तस्य मुक्तेर्भवनमुन्नतम् ।
सोपानराजिकाऽमीषां पदच्छाया भविष्यति ॥१८॥

ध्यानसिद्धिर्मता सूत्रे मुनीनामेव केवलम् ।
इत्याद्यमलविख्यातगुणलीलावलम्बिनाम् ॥१९॥

निष्पन्दीकृतचित्तचण्डविहगाः पञ्चाक्षकक्षान्तकाः
ध्यानध्वस्तसमस्तकल्मषविषा विद्याम्बुधेः पारगाः ।
लीलोन्मूलितकर्मकन्दनिचयाः कारुण्यपुण्याशया
योगीन्द्रा भवभीमदैत्यदलनाः कुर्वन्तु ते निर्वृतिम् ॥२०॥

विन्ध्याद्रिर्नगरं गुहा वसतिकाः शय्या शिला पार्वती
दीपाश्चन्द्रकरा मृगाः सहचरा मैत्री कुलीनाङ्गना ।
विज्ञानं सलिलं तपः सदशनं येषां प्रशान्तात्मनां
धन्यास्ते भवपङ्कनिर्गमपथप्रोद्देशकाः सन्तु नः ॥२१॥

रुद्धे प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे
नेत्रस्पन्दे निरस्ते प्रलयमुपगतेऽन्तर्विकल्पेन्द्रजाले ।
भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे
धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धुप्रवेशम् ॥२२॥

अहेयोपादेयं त्रिभुवनमपीदं व्यवसितः
शुभं वा पापं वा द्वयमपि दहन्कर्म महसा ।
निजानन्दास्वादव्यवधिविधुरीभूतविषयः
प्रतीत्योच्चैः कश्चिद्विगलितविकल्पं विहरति ॥२३॥

दुःप्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशयाः
विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थोद्यता देहिनः ।
आनन्दामृतसिन्धुशीकरचयैर्निर्वाप्य जन्मज्वरं
ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति द्वित्रा यदि ॥२४॥

यैः सुप्तं हिमशैलशृङ्गसुभगप्रासादगर्भान्तरे
पल्यङ्के परमोपधानरचिते दिव्याङ्गनाभिः सह ।
तैरेवाद्य निरस्तविश्वविषयैरन्तःस्फुरज्ज्योतिषि
क्षोणीरन्ध्रशिलादिकोटरगतैर्धन्यैर्निशा नीयते ॥२५॥

चित्ते निश्चलतां गते प्रशमिते रागाद्यविद्यामये
विद्राणेऽक्षकदम्बके विघटिते ध्वान्ते भ्रमारम्भके।
आनन्दे प्रविजृम्भिते पुरपतेर्ज्ञाने समुन्मीलिते
त्वां द्रक्ष्यन्ति कदा वनस्थमभितः पुस्तेच्छया श्वापदाः ॥२६॥

आत्मन्यात्मप्रचारे कृतसकलबहिःसंगसन्यासवीर्या-
दन्तर्ज्योतिःप्रकाशाद्विलयगतमहामोहनिद्रातिरेकः ।
निर्णीते स्वस्वरूपे स्फुरति जगदिदं यस्य शून्यं जडं वा
तस्य श्रीबोधवार्धेर्दिशतु तव शिवं पादपङ्केरुहश्रीः ॥२७॥

आत्मायत्तं विषयविरतं तत्त्वचिन्तावलीनं
निर्व्यापारं स्वहितनिरतं निर्वृतानन्दपूर्णं ।
ज्ञानारूढं शमयमतपोध्यानलब्धावकाशं
कृत्वाऽऽत्मानं कलय सुमते दिव्यबोधाधिपत्यम् ॥२८॥

दृश्यन्ते भुवि किं न ते कृतधियः संख्याव्यतीताश्चिरम्
ये लीलाः परमेष्ठिनः प्रतिदिनं तन्वन्ति वाग्भिः परम् ।
तं साक्षादनुभूय नित्यपरमानन्दाम्बुराशिं पुन-
र्ये जन्मभ्रममुत्सृजन्ति पुरुषा धन्यास्तु ते दुर्लभाः ॥२९॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्री शुभचन्द्राचार्यविरचिते योगिप्रशंसाप्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १०: ‘पिडयन्तोऽपि’ छपा है; ‘पीडयन्तोऽपि’ होना चाहिए
  • श्लोक १२: ‘वशाञ्जितमनोद्विजाः’ छपा है; ‘वशाज्जितमनोद्विजाः’ होना चाहिए
  • श्लोक १४: ‘पीयुष’ छपा है; ‘पीयूष’ होना चाहिए

सर्ग 6: सम्यग्दर्शन

सुप्रयुक्तैः स्वयं साक्षात्सम्यग्दृग्बोधसंयमैः ।
त्रिभिरेवापवर्गश्रीर्घनाश्लेषं प्रयच्छति ॥१॥

तैरेव हि विशीर्यन्ते विचित्राणि बलीन्यपि ।
दृग्बोधसंयमैः कर्मनिगडानि शरीरिणाम् ॥२॥

त्रिशुद्धिपूर्वकं ध्यानमामनन्ति मनीषिणः ।
व्यर्थ स्यात्तामनासाद्य तदेवात्र शरीरिणाम् ॥३॥

रत्नत्रयमनासाद्य यः साक्षाद्ध्यातुमिच्छति ।
खपुष्पैः कुरुते मूढः स वन्ध्यासुतशेखरम् ॥४॥

तत्त्वरुचिः सम्यक्त्वं तत्त्वप्रख्यापकं भवेज्ज्ञानम् ।
पापक्रियानिवृत्तिश्चरित्रमुक्तं जिनेन्द्रेण ॥५॥

यज्जीवादिपदार्थानां श्रद्धानं तद्धि दर्शनम् ।
निसर्गेणाधिगत्या वा तद्भव्यस्यैव जायते ॥६॥

क्षीणप्रशान्तमिश्रासु मोहप्रकृतिषु क्रमात् ।
तत् स्याद्द्रव्यादिसामग्र्या पुंसां सद्दर्शनं त्रिधा ॥७॥

द्रव्यादिकमथासाद्य तज्जीवैः प्राप्यते क्वचित् ।
पञ्चविंशतिमुत्सृज्य दोषांस्तच्छक्तिघातकम् ॥८॥

जीवाजीवास्रवा बन्धः संवरो निर्जरा तथा ।
मोक्षश्चैतानि सप्तैव तत्त्वान्यूचुर्मनीषिणः ॥९॥

अनन्तः सर्वदा सर्वो जीवराशिर्द्विधा स्थितः ।
सिद्धेतरविकल्पेन त्रैलोक्यभुवनोदरे ॥१०॥

सिद्धस्त्वेकस्वभावः स्याद्दृग्बोधानन्दशक्तिमान् ।
मृत्यूत्पादादिजन्मोत्थक्लेशप्रचयविच्युतः ॥११॥

चरस्थिरभवोद्भूतविकल्पैः कल्पिताः पृथक् ।
भवन्त्यनेकभेदास्ते जीवाः संसारवर्तिनः ॥१२॥

पृथिव्यादिविभेदेन स्थावराः पञ्चधा मताः ।
त्रसास्त्वनेकभेदास्ते नानायोनिसमाश्रिताः ॥१३॥

चतुर्धा गतिभेदेन भिद्यन्ते प्राणिनः परम् ।
मनुष्यामरतिर्यञ्चो नारकाश्च यथायथम् ॥१४॥

भ्रमन्ति नियतं जन्मकान्तारे कल्मषाशयाः ।
दुरन्तकर्मसम्पातप्रपञ्चवशवर्तिनः ॥१५॥

किन्तु तिर्यग्गतावेव स्थावरा विकलेन्द्रियाः ।
असंज्ञिनश्च नान्यत्र प्रभवन्त्यङ्गिनः क्वचित् ॥१६॥

उपसंहारविस्तारधर्मा दृग्बोधलाञ्छनः ।
कर्ता भोक्ता स्वयं जीवस्तनुमात्रोऽप्यमूर्त्तिमान् ॥१७॥

एको द्विधा त्रिधा जीवः चतुःसंक्रान्तिपञ्चमः ।
षट्कर्म सप्तभङ्गोऽष्टाश्रयो नवदशस्थितिः ॥१८॥

भव्याभव्यविकल्पोऽयं जीवराशिर्निसर्गजः ।
मतः पूर्वोऽपवर्गाय जन्मपङ्काय चेतरः ॥१९॥

सम्यग्ज्ञानादिरूपेण ये भविष्यन्ति जन्तवः ।
प्राप्य द्रव्यादिसामग्रीं ते भव्या मुनिभिर्मताः ॥२०॥

अन्धपाषाणकल्पं स्यादभव्यत्वं शरीरिणाम् ।
यस्माज्जन्मशतेनापि नात्मतत्त्वं पृथग्भवेत् ॥२१॥

अभव्यानां स्वभावेन सर्वदा जन्मसंक्रमः ।
भव्यानां भाविनी मुक्तिर्निःशेषदुरितक्षयात् ॥२२॥

यथा धातोर्मलैः सार्द्धं सम्बन्धोऽनादिसंभवः ।
तथा कर्ममलैर्ज्ञेयः संश्लेषोऽनादिदेहिनाम् ॥२३॥

द्वयोरनादिसंसारः सान्तः पर्यन्तवर्जितः ।
वस्तुस्वभावतो ज्ञेयो भव्याभव्याङ्गिनोः क्रमात् ॥२४॥

चतुर्दशसमासेषु मार्गणासु गुणेषु च ।
ज्ञात्वा संसारिणो जीवाः श्रद्धेयाः शुद्धदृष्टिभिः ॥२५॥

धर्माधर्मनभःकालाः पुद्गलैः सह योगिभिः ।
द्रव्याणि षट् प्रणीतानि जीवपूर्वाण्यनुक्रमात् ॥२६॥

तत्र जीवादयः पञ्च प्रदेशप्रचयात्मकाः ।
कायाः कालं विना ज्ञेया भिन्नप्रकृतयोऽप्यमी ॥२७॥

अचिद्रूपा विना जीवममूर्त्ताः पुद्गलं विना ।
पदार्था वस्तुतः सर्वे स्थित्युत्पत्तिव्ययात्मकाः ॥२८॥

अणुस्कन्धविभेदेन भिन्नाः स्युः पुद्गला द्विधा ।
मूर्ता वर्णरसस्पर्शगुणोपेताश्च रूपिणः ॥२९॥

किन्त्वेकं पुद्गलद्रव्यं षड्विकल्पं बुधैर्मतम् ।
स्थूलस्थूलादिभेदेन सूक्ष्मसूक्ष्मेण च क्रमात् ॥३०॥

प्रत्येकमेकद्रव्याणि धर्मादीनि यथायथम् ।
आकाशान्तान्यमूर्तानि निष्क्रियाणि स्थिराणि च ॥३१॥

स लोकगगनव्यापी धर्मः स्याद्गतिलक्षणः ।
तावन्मात्रोऽप्यधर्मोऽयं स्थितिलक्ष्मः प्रकीर्तितः ॥३२॥

स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वदा ।
धर्मोऽयं सहकारी स्याज्जलं यादोऽङ्गिनामिव ॥३३॥

दत्ते स्थितिं प्रपन्नानां जीवादीनामयं स्थितिम् ।
अधर्मः सहकारित्वाद्यथा छायाऽध्ववर्त्तिनाम् ॥३४॥

अवकाशप्रदं व्योम सर्वगं स्वप्रतिष्ठितम् ।
लोकालोकविकल्पेन तस्य लक्ष्म प्रकीर्त्तितम् ॥३५॥

लोकाकाशप्रदेशेषु ये भिन्ना अणवः स्थिताः ।
परिवर्त्ताय भावानां मुख्यकालः स वर्णितः ॥३६॥

समयादिकृतं यस्य मानं ज्योतिर्गणाश्रितम् ।
व्यवहाराभिधः कालः स कालज्ञैः प्रपञ्चितः ॥३७॥

यदमी परिवर्तन्ते पदार्था विश्ववर्तिनः ।
नवजीर्णादिरूपेण तत्कालस्यैव चेष्टितम् ॥३८॥

भाविनो वर्तमानत्वं वर्तमानास्त्वतीतताम् ।
पदार्थाः प्रतिपद्यन्ते कालकेलिकदर्थिताः ॥३९॥

धर्माधर्मनभःकाला अर्थपर्यायगोचराः ।
व्यञ्जनाख्यस्य सम्बन्धौ द्वावन्यौ जीवपुद्गलौ ॥४०॥

भावाः पञ्चैव जीवस्य द्वावन्त्यौ पुद्गलस्य च ।
धर्मादीनां तु शेषाणां स्याद्भावः पारिणामिकः ॥४१॥

अन्योन्यसंक्रमोत्पन्नो भावः स्यात्सान्निपातिकः ।
षड्विंशद्भेदभिन्नात्मा स षष्टो मुनिभिर्मतः ॥४२॥

धर्माधर्मैकजीवानां प्रदेशा गणनातिगाः ।
कियन्तोऽपि न कालस्य व्योम्नः पर्यन्तवर्जिताः ॥४३॥

एकादयः प्रदेशाः स्युः पुद्गलानां यथायथम् ।
संख्यातीताश्च संख्येया अनन्ता योगिकल्पिताः ॥४४॥

मूर्त्तो व्यञ्जनपर्यायो वाग्गम्योऽनश्वरः स्थिरः ।
सूक्ष्मः प्रतिक्षणध्वंसी पर्यायश्चार्थसंज्ञिकः ॥४५॥

प्रकृत्यादिविकल्पेन ज्ञेयो बन्धश्चतुर्विधः ।
ज्ञानावृत्यादिभेदेन सोऽष्टधा प्रथमः स्मृतः ॥४६॥

मिथ्यात्वाविरती योगः कषायाश्च यथाक्रमात् ।
प्रमादैः सह पञ्चैते विज्ञेया बन्धहेतवः ॥४७॥

उत्कर्षेणापकर्षेण स्थितिर्या कर्मणां मता ।
स्थितिबन्धः स विज्ञेय इतरस्तत्फलोदयः ॥४८॥

परस्परप्रदेशानुप्रवेशो जीवकर्मणोः ।
यः संश्लेषः स निर्दिष्टो बन्धो विध्वस्तबन्धनैः ॥४९॥

प्रागेव भावनातन्त्रे निर्जरास्रवसंवराः ।
कथिताः कीर्त्तयिष्यामि मोक्षमार्गं सहेतुकम् ॥५०॥

एवं द्रव्याणि तत्त्वानि पदार्थान् कायसंयुतान् ।
यः श्रद्धत्ते स्वसिद्धान्तात्स स्यान्मुक्तेः स्वयंवरः ॥५१॥

इति जीवादयो भावा दिङ्मात्रेणात्र वर्णिताः ।
विशेषरुचिभिः सम्यग्विज्ञेयाः परमागमात् ॥५२॥

सद्दर्शनमहारत्नं विश्वलोकैकभूषणम् ।
मुक्तिपर्यन्तकल्याणदानदक्षं प्रकीर्तितम् ॥५३॥

चरणज्ञानयोर्बीजं यमप्रशमजीवितम् ।
तपःश्रुताद्यधिष्टानं सद्भिः सद्दर्शनं मतम् ॥५४॥

अप्येकं दर्शनं श्लाघ्यं चरणज्ञानविच्युतम् ।
न पुनः संयमज्ञाने मिथ्यात्वविषदूषिते ॥५५॥

अत्यल्पमपि सूत्रज्ञैर्दृष्टिपूर्वं यमादिकम् ।
प्रणीतं भवसम्भूतक्लेशप्राग्भारभेषजम् ॥५६॥

मन्ये मुक्तः स पुण्यात्मा विशुद्धं यस्य दर्शनं ।
यतस्तदेव मुक्त्यङ्गमग्रिमं परिकीर्तितम् ॥५७॥

प्राप्नुवन्ति शिवं शश्वच्चरणज्ञानविश्रुताः ।
अपि जीवा जगत्यस्मिन्न पुनर्दर्शनं विना ॥५८॥

अतुलसुखनिधानं सर्वकल्याणबीजं
जननजलधिपोतं भव्यसत्त्वैकपात्रम् ।
दुरिततरुकुठारं पुण्यतीर्थप्रधानं
पिबत जितविपक्षं दर्शनाख्यं सुधाम्बुम् ॥५९॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते सम्यग्दर्शनप्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ३: ‘व्यर्थ’ छपा है; ‘व्यर्थं’ होना चाहिए
  • श्लोक ४२: ‘षष्टो’ छपा है; ‘षष्ठो’ होना चाहिए
  • श्लोक ५४: ‘तपःश्रुताद्यधिष्टानं’ छपा है; ‘तपःश्रुताद्यधिष्ठानं’ होना चाहिए

सर्ग 7: सम्यग्ज्ञान

त्रिकालगोचरानन्तगुणपर्यायसंयुताः ।
यत्र भावाः स्फुरन्त्युच्चैस्तज्ज्ञानं ज्ञानिनां मतम् ॥१॥

ध्रौव्यादिकलितैर्भावैर्निर्भरं कलितं जगत् ।
बिम्बितं युगपद्यत्र तज्ज्ञानं योगिलोचनम् ॥२॥

मतिश्रुतावधिज्ञानं मनःपर्ययकेवलम् ।
तदित्थं सान्वयैर्भेदैः पञ्चधेति प्रकल्पितम् ॥३॥

अवग्रहादिभिर्भेदैर्बह्वाद्यन्तर्भवैः परैः ।
षट्त्रिंशत्त्रिशतं प्राहुर्मतिज्ञानं प्रपञ्चतः ॥४॥

प्रसृतं बहुधाऽनेकैरङ्गपूर्वैः प्रकीर्णकैः ।
स्याच्छब्दलाञ्छितं तद्धि श्रुतज्ञानमनेकधा ॥५॥

देवनारकयोर्ज्ञेयस्त्ववधिर्भवसम्भवः ।
षड्विकल्पश्च शेषाणां क्षयोपशमलक्षणः ॥६॥

ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा ।
विशुद्ध्यप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥७॥

अशेषद्रव्यपर्यायविषयं विश्वलोचनम् ।
अनन्तमेकमत्यक्षं केवलं कीर्तितं बुधैः ॥८॥

कल्पनातीतमभ्रान्तं स्वपरार्थावभासकम् ।
जगज्ज्योतिरसंदिग्धमनन्तं सर्वदोदितम् ॥९॥

अनन्तानन्तभागेऽपि यस्य लोकश्चराचरः ।
अलोकश्च स्फुरत्युच्चैस्तज्ज्योतिर्योगिनां मतम् ॥१०॥

अगम्यं यन्मृगाङ्कस्य दुर्भेद्यं यद्रवेरपि ।
तद्दुर्बोधोद्धतं ध्वान्तं ज्ञानभेद्यं प्रकीर्त्तितम् ॥११॥

दुःखज्वलनतप्तानां संसारोग्रमरुस्थले ।
विज्ञानमेव जन्तूनां सुधाम्बु प्रीणनक्षमः ॥१२॥

निरालोकं जगत्सर्वमज्ञानतिमिराहतम् ।
तावदास्ते उदेत्युच्चैर्न यावज्ज्ञानभास्करः ॥१३॥

बोध एव दृढः पाशो हृषीकमृगबन्धने ।
गारुडश्च महामन्त्रः चित्तभोगिविनिग्रहे ॥१४॥

निशातं विद्धि निस्त्रिंशं भवारातिनिपातने ।
तृतीयमथवा नेत्रं विश्वतत्त्वप्रकाशने ॥१५॥

क्षीणतन्द्रा जितक्लेशा वीतसङ्गाः स्थिराशयाः ।
तस्यार्थेऽमी तपस्यन्ति योगिनः कृतनिश्चयाः ॥१६॥

वेष्टयत्याऽऽत्मनात्मानमज्ञानी कर्मबन्धनैः ।
विज्ञानी मोचयत्येव प्रबुद्धः समयान्तरे ॥१७॥

यज्ञन्मकोटिभिः पापं जयत्यज्ञस्तपोबलात् ।
तद्विज्ञानी क्षणार्द्धेन दहत्यतुलविक्रमः ॥१८॥

अज्ञानपूर्विका चेष्टा यतेर्यस्यात्र भूतले ।
स बध्नात्यात्मनात्मानं कुर्वन्नपि तपश्चिरम् ॥१९॥

ज्ञानपूर्वमनुष्टानं निःशेषं यस्य योगिनः ।
न तस्य बन्धमायाति कर्म कस्मिन्नपि क्षणे ॥२०॥

यत्र बालश्चरत्यस्मिन्पथि तत्रैव पण्डितः ।
बालः स्वमपि बध्नाति मुच्यते तत्त्वविद् ध्रुवम् ॥२१॥

दुरिततिमिरहंसं मोक्षलक्ष्मीसरोजं
मदनभुजगमन्त्रं चित्तमातङ्गसिंहं ।
व्यसनघनसमीरं विश्वतत्त्वैकदीपं
विषयशफरजालं ज्ञानमाराधय त्वं ॥२२॥

अस्मिन्संसारकक्षे यमभुजगविषाक्रान्तनिःशेषसत्त्वे
क्रोधाद्युत्तुङ्गशैले कुटिलगतिसरित्पातसन्तानभीमे ।
मोहान्धाः संचरन्ति स्खलनविधुरिताः प्राणिनस्तावदेते
यावद्विज्ञानभानुर्भवभयदमिदं नोच्छिनत्त्यन्धकारम् ॥२३॥

इति श्रीज्ञानार्णवे श्रीशुभचंद्राचार्यविरचिते योगप्रदीपाधिकारे सम्यग्ज्ञानप्रकरणं नाम सप्तमः सर्गः ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १८: ‘यज्ञन्मकोटिभिः’ छपा है; ‘यज्जन्मकोटिभिः’ होना चाहिए
  • श्लोक २०: ‘ज्ञानपूर्वमनुष्टानं’ छपा है; ‘ज्ञानपूर्वमनुष्ठानं’ होना चाहिए

सर्ग 8: अहिंसा महाव्रत

यद्विशुद्धेः परं धाम यद्योगिजनजीवितम् ।
तद्वृत्तं सर्वसावद्यपर्युदासैकलक्षणम् ॥१॥

सामायिकादिभेदेन पञ्चधा परिकीर्तितम् ।
ऋषभादिजिनैः पूर्वं चारित्रं सप्रपञ्चकम् ॥२॥

पञ्चमहाव्रतमूलं समितिप्रसरं नितान्तमनवद्यम् ।
गुप्तिफलभारनम्रं सन्मतिना कीर्त्तितं वृत्तम् ॥३॥

पञ्च पञ्च त्रिभिर्भेदैर्यदुक्तं मुक्तसंशयैः ।
भवभ्रमणभीतानां चरणं शरणं परम् ॥४॥

पञ्चव्रतं समित्पञ्च गुप्तित्रयपवित्रितम् ।
श्रीवीरवदनोद्गीर्णं चरणं चन्द्रनिर्मलम् ॥५॥

हिंसायामनृते स्तेये मैथुने च परिग्रहे ।
विरतिर्व्रतमित्युक्तं सर्वसत्त्वानुकम्पकैः ॥६॥

सत्याद्युत्तरनिःशेषयमजातनिबन्धनम् ।
शीलैश्वर्याद्यधिष्ठानमहिंसाख्यं महाव्रतम् ॥७॥

वाक्चित्ततनुभिर्यत्र न स्वप्नेऽपि प्रवर्त्तते ।
चरस्थिराङ्गिनां घातस्तदाद्यं व्रतमीरितम् ॥८॥

मृते वा जीविते वा स्याज्जन्तुजाते प्रमादिनाम् ।
बन्ध एव न बन्धः स्याद्धिंसायाः संवृतात्मनाम् ॥९॥

संरम्भादित्रिकं योगैः कषायैर्व्याहतं क्रमात् ।
शतमष्टाधिकं ज्ञेयं हिंसाभेदैस्तु पिण्डितम् ॥१०॥

अतः प्रमादमुत्सृज्य भावशुद्ध्याङ्गिसन्ततिम् ।
यमप्रशमसिद्ध्यर्थं बंधुबुद्ध्या विलोकय ॥११॥

यज्जन्तुवधसंजातकर्मपाकाच्छरीरिभिः ।
श्वभ्रादौ सह्यते दुःखं तद्वक्तुं केन पार्यते ॥१२॥

हिंसैव नरकागारप्रतोली प्रांशुविग्रहा ।
कुठारीव द्विधा कर्तुं भेत्तुं शूलोऽतिनिर्दया ॥१३॥

क्षमादिपरमोदारैर्यमैर्यो वर्द्धितश्चिरम् ।
हन्यते स क्षणादेव हिंसया धर्मपादपः ॥१४॥

तपोयमसमाधीनां ध्यानाध्ययनकर्मणां ।
तनोत्यविरतं पीडां हृदि हिंसा क्षणस्थिता ॥१५॥

अहो व्यसनविध्वस्तैर्लोकः पाखण्डिभिर्बलात् ।
नीयते नरकं घोरं हिंसाशास्त्रोपदेशकैः ॥१६॥

रौरवादिषु घोरेषु विशन्ति पिशिताशनाः ।
तेष्वेव हि कदर्थ्यन्ते जन्तुघातकृतोद्यमाः ॥१७॥

शान्त्यर्थं देवपूजार्थं यज्ञार्थमथवा नृभिः ।
कृतः प्राणभृतां घातः पातयत्यविलम्बितम् ॥१८॥

हिंसैव दुर्गतेर्द्वारं हिंसैव दुरितार्णवः ।
हिंसैव नरकं घोरं हिंसैव गहनं तमः ॥१९॥

निःस्पृहत्वं महत्त्वं च नैराश्यं दुष्करं तपः ।
कायक्लेशश्च दानं च हिंसकानामपार्थकम् ॥२०॥

कुलक्रमागता हिंसा कुलनाशाय कीर्तिता ।
कृता च विघ्नशान्त्यर्थं विघ्नौघायैव जायते ॥२१॥

सौख्यार्थे दुःखसन्तानं मङ्गलार्थेऽप्यमङ्गलम् ।
जीवितार्थे ध्रुवं मृत्युं कृता हिंसा प्रयच्छति ॥२२॥

तितीर्षति ध्रुवं मूढः स शिलाभिर्नदीपतिम् ।
धर्मबुद्ध्याऽधमो यस्तु घातयत्यङ्गिसंचयम् ॥२३॥

प्रमाणीकृत्य शास्त्राणि यैर्वधः क्रियतेऽधमैः ।
सह्यते परलोके तैः श्वभ्रे शूलाधिरोहणम् ॥२४॥

निर्दयेन हि किं तेन श्रुतेनाचरणेन च ।
यस्य स्वीकारमात्रेण जन्तवो यान्ति दुर्गतिम् ॥२५॥

वरमेकाक्षरं ग्राह्यं सर्वसत्त्वानुकम्पनम् ।
न त्वक्षपोषकं पापं कुशास्त्रं धूर्त्तचर्चितम् ॥२६॥

चरुमन्त्रौषधानां वा हेतोरन्यस्य वा क्वचित् ।
कृता सती नरैर्हिंसा पातयत्यविलम्बितम् ॥२७॥

विहाय धर्मं शमशीललाञ्छितं दयावहं भूतहितं गुणाकरम् ।
मदोद्धता अक्षकषायवञ्चिता दिशन्ति हिंसामपि दुःखशान्तये ॥२८॥

धर्मबुद्ध्याऽधमैः पापं जन्तुघातादिलक्षणम् ।
क्रियते जीवितस्यार्थे पीयते विषमं विषं ॥२९॥

एतत्समयसर्वस्वमेतत्सिद्धान्तजीवितम् ।
यज्जन्तुजातरक्षार्थं भावशुद्ध्या दृढं व्रतम् ॥३०॥

श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च ।
“अहिंसालक्षणो धर्मः” तद्विपक्षश्च पातकम् ॥३१॥

अहिंसैव जगन्माताऽहिंसैवानन्दपद्धतिः ।
अहिंसैव गतिः साध्वी श्रीरहिंसैव शाश्वती ॥३२॥

अहिंसैव शिवं सूते दत्ते च त्रिदिवश्रियं ।
अहिंसैव हितं कुर्याद् व्यसनानि निरस्यति ॥३३॥

सप्तद्वीपवतीं धात्रीं कुलाचलसमन्विताम् ।
नैकप्राणिवधोत्पन्नं दत्वा दोषं व्यपोहति ॥३४॥

सकलजलधिवेलावारिसीमां धरित्रीं
नगरनगसमग्रां स्वर्णरत्नादिपूर्णाम् ।
यदि मरणनिमित्ते कोऽपि दद्यात्कथंचित्
तदपि न मनुजानां जीविते त्यागबुद्धिः ॥३५॥

आत्मैवोत्क्षिप्य तेनाशु प्रक्षिप्तः श्वभ्रसागरे ।
स्नेहभ्रमभयेनापि येन हिंसा समर्थिता ॥३६॥

शूलचक्रासिकोदण्डैरुद्युक्ताः सत्त्वखण्डने ।
येऽधमास्तेऽपि निस्त्रिंशैर्देवत्वेन प्रकल्पिताः ॥३७॥

बलिभिर्दुर्बलस्यात्र क्रियते यः पराभवः ।
परलोके स तैस्तस्मादनन्तः प्रविषह्यते ॥३८॥

भयवेपितसर्वाङ्गाननाथान् जीवितप्रियान् ।
निघ्नद्भिः प्राणिनः किं तैः स्वं ज्ञातमजरामरं ॥३९॥

स्वपुत्रपौत्रसन्तानं वर्द्धयन्त्यादरैर्जनाः ।
व्यापादयन्ति वान्येषामत्र हेतुर्न बुद्ध्यते ॥४०॥

परमाणोः परं नाल्पं न महद्गगनात्परं ।
यथा किञ्चित्तथा धर्मो नाहिंसालक्षणात्परः ॥४१॥

तपः श्रुतयमज्ञानध्यानदानादिकर्मणां ।
सत्यशीलव्रतादीनामहिंसा जननी मता ॥४२॥

करुणार्द्रं च विज्ञानवासितं यस्य मानसम् ।
इन्द्रियार्थेषु निःसङ्गं तस्य सिद्धं समीहितम् ॥४३॥

निस्त्रिंश एव निस्त्रिंशं यस्य चेतोऽस्ति जन्तुषु ।
तपःश्रुताद्यनुष्ठानं तस्य क्लेशाय केवलम् ॥४४॥

द्वयोरपि समं पापं निर्णीतं परमागमे ।
वधानुमोदयोः कर्त्रोरसत्संकल्पसंश्रयात् ॥४५॥

संकल्पाच्छालिमत्स्योऽपि स्वयंभूरमणार्णवे ।
महामत्स्याशुभेन स्वं नियोज्य नरकं गतः ॥४६॥

अहिंसैकाऽपि यत्सौख्यं कल्याणमथवा शिवम् ।
दत्ते तद्देहिनां नायं तपःश्रुतयमोत्करः ॥४७॥

दूयते यस्तृणेनापि स्वशरीरे कदर्थिते ।
स निर्दयः परस्याङ्गे कथं शस्त्रं निपातयेत् ॥४८॥

जन्मोग्रभयभीतानामहिंसैवौषधिः परा ।
तथाऽमरपुरीं गन्तुं पाथेयं पथि पुष्कलम् ॥४९॥

किन्त्वहिंसैव भूतानां मातेव हितकारिणी ।
तथा रमयितुं कान्ता विनेतुं च सरस्वती ॥५०॥

स्वान्ययोरप्यनालोक्य सुखं दुःखं हिताहितम् ।
जन्तून् यः पातकी हन्यात्स नरत्वेऽपि राक्षसः ॥५१॥

अभयं यच्छ भूतेषु कुरु मैत्रीमनिन्दिताम् ।
पश्यात्मसदृशं विश्वं जीवलोकं चराचरम् ॥५२॥

जायन्ते भूतयः पुंसां याः कृपाक्रान्तचेतसाम् ।
चिरेणापि न ता वक्तुं शक्ता देव्यपि भारती ॥५३॥

किं न तप्तं तपस्तेन किं न दत्तं महात्मना ।
वितीर्णमभयं येन प्रीतिमालम्ब्य देहिनाम् ॥५४॥

यथा यथा हृदि स्थैर्यं करोति करुणा नृणाम् ।
तथा तथा विवेकश्रीः परां प्रीतिं प्रकाशते ॥५५॥

अन्ययोगव्यवच्छेदादहिंसा श्रीजिनागमे ।
परैश्च योगमात्रेण कीर्तिता सा यदृच्छया ॥५६॥

तन्नास्ति जीवलोके जिनेन्द्रदेवेन्द्रचक्रकल्याणम् ।
यत्प्राप्नुवन्ति मनुजा न जीवरक्षानुरागेण ॥५७॥

यत्किंचित्संसारे शरीरिणां दुःखशोकभयबीजम् ।
दौर्भाग्यादि समस्तं तद्धिंसासंभवं ज्ञेयम् ॥५८॥

ज्योतिश्चक्रस्य चन्द्रो हरिरमृतभुजां चण्डरोचिर्ग्रहाणाम्
कल्पाङ्गं पादपानां सलिलनिधिरपां स्वर्णशैलो गिरीणाम् ।
देवः श्रीवीतरागस्त्रिदशमुनिगणस्यात्र नाथो यथाऽयम्
तद्वच्छीलव्रतानां शमयमतपसां विद्ध्यहिंसां प्रधानाम् ॥५९॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते अहिंसामहाव्रतप्रकरणं ॥

सर्ग 9: सत्य महाव्रत

यः संयमधुरां धत्ते धैर्यमालम्ब्य संयमी ।
स पालयति यत्नेन वाग्वने सत्यपादपम् ॥१॥

अहिंसाव्रतरक्षार्थं यमजातं, जिनैर्मतम् ।
नारोहति परां कोटिं तदेवासत्यदूषितम् ॥२॥

असत्यमपि तत्सत्यं यत्सत्त्वाशंसकं वचः ।
सावद्यं यच्च पुष्णाति तत्सत्यमपि निन्दितम् ॥३॥

अनेकजन्मजक्लेशशुद्ध्यर्थं यस्तपस्यति ।
सर्वं सत्त्वहितं शश्वत्स ब्रूते सूनृतं वचः ॥४॥

सूनृतं करुणाक्रान्तमविरुद्धमनाकुलम् ।
अग्राम्यं गौरवाश्लिष्टं वचः शास्त्रे प्रशस्यते ॥५॥

मौनमेव हितं पुंसां शश्वत्सर्वार्थसिद्धये ।
वचो वाचि प्रियं तथ्यं सर्वसत्त्वोपकारि यत् ॥६॥

यो जिनैर्जगतां मार्गः प्रणीतोऽत्यन्तशाश्वतः ।
असत्यबलतः सोऽपि निर्दयैः कथ्यतेऽन्यथा ॥७॥

विचर्च्यासत्यसंदोहं खलैर्लोकः खलीकृतः ।
कुशास्त्रैः स्वमुखोद्गीर्णैरुत्पाद्य गहनं तमः ॥८॥

जयन्ति ते जगद्वन्द्या यैः सत्यकरुणामये ।
अवञ्चकेऽपि लोकोऽयं पथि शश्वत्प्रतिष्ठितः ॥९॥

असद्वदनवल्मीके विशाला विषसर्पिणी ।
उद्वेजयति वागेव जगदन्तर्विषोल्बणा ॥१०॥

न सास्ति काचिद्व्यवहारवर्तिनी न यत्र वाग्विस्फुरति प्रवर्तिका ।
ब्रुवन्नसत्यामिह तां हताशयः करोति विश्वव्यवहारविप्लवम् ॥११॥

पृष्टैरपि न वक्तव्यं न श्रोतव्यं कथंचन ।
वचः शङ्काकुलं पापं दोषाढ्यं चाभिसूयकम् ॥१२॥

मर्मच्छेदि मनःशल्यं च्युतस्थैर्यं विरोधकम् ।
निर्दयं च वचस्त्याज्यं प्राणैःकण्ठगतैरपि ॥१३॥

धन्यास्ते हृदये येषामुदीर्णः करुणाम्बुधिः ।
वाग्वीचिसञ्चयोल्लासैर्निर्वापयति देहिनः ॥१४॥

धर्मनाशे क्रियाध्वंसे सुसिद्धान्तार्थविप्लवे ।
अपृष्टैरपि वक्तव्यं तत्स्वरूपप्रकाशने ॥१५॥

या मुहुर्मोहयत्येव विश्रान्ता कर्णयोर्जनम् ।
विषमं विषमृत्सृज्य साऽवश्यं पन्नगी न गीः ॥१६॥

असत्येनैव विक्रम्य चार्वाकद्विजकौलिकैः ।
सर्वाक्षपोषकं धूर्तैः पश्य पक्षं प्रतिष्ठितम् ॥१७॥

मन्ये पुरजलावर्त्तप्रतिमं तन्मुखोदरम् ।
यतो वाचः प्रवर्त्तन्ते कश्मलाः कार्यनिष्फलाः ॥१८॥

प्राप्नुवन्त्यतिघोरेषु रौरवादिषु संभवम् ।
तिर्यक्ष्वथ निगोदेषु मृषावाक्येन देहिनः ॥१९॥

न तथा चन्दनं चन्द्रो मणयो मालतीस्रजः ।
कुर्वन्ति निर्वृतिं पुंसां यथा वाणी श्रुतिप्रिया ॥२०॥

अपि दावानलप्लुष्टं शाड्वलं जायते वनम् ।
न लोकः सुचिरेणापि जिह्वानलकदर्थितः ॥२१॥

सर्वलोकप्रिये तथ्ये प्रसन्ने ललिताक्षरे ।
वाक्ये सत्यपि किं ब्रूते निकृष्टः परुषं वचः ॥२२॥

सतां विज्ञाततत्त्वानां सत्यशीलावलम्बिनाम् ।
चरणस्पर्शमात्रेण विशुद्ध्यति धरातलम् ॥२३॥

यमव्रतगुणोपेतं सत्यश्रुतसमन्वितम् ।
यैर्जन्म सफलं नीतं ते धन्या धीमतां मताः ॥२४॥

नृजन्मन्यपि यः सत्यप्रतिज्ञाप्रच्युतोऽधमः ।
स केन कर्मणा पश्चाज्जन्मपङ्कात्तरिष्यति ॥२५॥

अदयैः संप्रयुक्तानि वाक्शस्त्राणीह भूतले ।
सद्यो मर्माणि कृन्तन्ति शितास्त्राणीव देहिनाम् ॥२६॥

व्रतश्रुतयमस्थानं विद्याविनयभूषणम् ।
चरणज्ञानयोर्बीजं सत्यसंज्ञं व्रतं मतम् ॥२७॥

न हि सत्यप्रतिज्ञस्य पुण्यकर्मावलम्बिनः ।
प्रत्यूहकरणे शक्ता अपि दैत्योरगादयः ॥२८॥

चन्द्रमूर्तिरिवानन्दं वर्द्धयन्ती जगत्त्रये ।
स्वर्गिभिर्ध्रियते मूर्ध्ना कीर्त्तिः सत्योत्थिता नृणां ॥२९॥

खण्डितानां विरूपाणां दुर्विधानां च रोगिणाम् ।
कुलजात्यादिहीनानां सत्यमेकं विभूषणम् ॥३०॥

यस्तपस्वी जटी मुण्डो नग्नो वा चीवरावृतः ।
सोऽप्यसत्यं यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥३१॥

कुटुम्बं जीवितं वित्तं यद्यसत्येन वर्द्धते ।
तथाऽपि युज्यते वक्तुं नासत्यं शीलशालिभिः ॥३२॥

एकतः सकलं पापं असत्योत्थं ततोऽन्यतः ।
साम्यमेव वदन्त्यार्यास्तुलायां धृतयोस्तयोः ॥३३॥

मूकता मतिवैकल्यं मूर्खता बोधविच्युतिः ।
बाधिर्यं मुखरोगित्वमसत्यादेव देहिनाम् ॥३४॥

श्वपाकोलूकमार्जारवृकगोमायुमण्डलाः ।
स्वीक्रियन्ते क्वचिल्लोकैर्न सत्यच्युतचेतसः ॥३५॥

प्रसन्नोन्नतवृत्तानां गुणानां चन्द्ररोचिषाम् ।
सङ्घातं घातयत्येव सकृदप्युदितं मृषा ॥३६॥

न हि स्वप्नेऽपि संसर्गमसत्यमलिनैः सह ।
कश्चित्करोति पुण्यात्मा दुरितोल्मुकशङ्कया ॥३७॥

जगद्वन्द्ये सतां सेव्ये भव्यव्यसनशुद्धिदे ।
शुभे कर्मणि योग्यः स्यान्नासत्यमलिनो जनः ॥३८॥

महामतिभिर्निष्ट्यूतं देवदेवैर्निषेधितम् ।
असत्यं पोषितं पापैर्दुःशीलाधमनास्तिकैः ॥३९॥

सुतस्वजनदारादिवित्तबन्धुकृतेऽथवा ।
आत्मार्थे न वचोऽसत्यं वाच्यं प्राणात्ययेऽथवा ॥४०॥

परोपरोधादतिनिन्दितं वचो ब्रुवन्नरो गच्छति नारकीं पुरीं ।
अनिन्द्यवृत्तोऽपि गुणी नरेश्वरो वसुर्यथाऽगादिति लोकविश्रुतिः ॥४१॥

चञ्चन्मस्तकमौलिरत्नविकटज्योतिश्छटाडम्बरे-
र्देवाः पल्लवयन्ति यच्चरणयोः पीठे लुठन्तोऽप्यमी ।
कुर्वन्ति ग्रहलोकपालखचरा यत् प्रातिहार्यं नृणां
शाम्यन्ति ज्वलनादयश्च नियतं तत्सत्यवाचः फलम् ॥४२॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्री शुभचन्द्राचार्यविरचिते सत्यमहाव्रतं नाम नवमं प्रकरणं ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १२: ‘चाभिसूयकम्’ छपा है; ‘चाभ्यसूयकम्’ होना चाहिए
  • श्लोक १६: ‘विषमृत्सृज्य’ छपा है; ‘विषमुत्सृज्य’ होना चाहिए
  • श्लोक ४२: ‘ज्योतिश्छटाडम्बरे-र्देवाः’ छपा है; ‘ज्योतिश्छटाडम्बरै-र्देवाः’ होना चाहिए

सर्ग 10: अस्तेय महाव्रत

अनासाद्य व्रतं नाम तृतीयं गुणभूषणम् ।
नापवर्गपथि प्रायः क्वचिद्धत्ते मुनिः स्थितिम् ॥१॥

यः समीप्सति जन्माब्धेः पारमाक्रमितुं सुधीः ।
स त्रिशुद्ध्यातिनिःशङ्को नादत्ते कुरुते मतिम् ॥२॥

वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् ।
तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥३॥

गुणा गौणत्वमायान्ति यान्ति विद्या विडम्बनाम् ।
चौर्येणाकीर्तयः पुंसां शिरस्यादधते पदम् ॥४॥

पुण्यानुष्टानजातानि प्रणश्यन्तीह देहिनाम् ।
परवित्तामिषग्रासलालसानां धरातले ॥५॥

परद्रव्यग्रहार्त्तस्य तस्करस्येह निर्दया ।
गुरुबन्धुसुतान्हन्तुं प्रायः प्रज्ञा प्रवर्त्तते ॥६॥

हृदि यस्य पदं धत्ते परवित्तामिषस्पृहा ।
करोति किं न किं तस्य कण्ठलग्नेव सर्पिणी ॥७॥

चुराशीलं विनिश्चित्य परित्यजति शङ्किता ।
वित्तापहारदोषेण जनन्यपि सुतं निजम् ॥८॥

भ्रातरः पितरः पुत्राः स्वकुल्या मित्रबान्धवाः ।
संसर्गमपि नेच्छन्ति क्षणार्द्धमिह तस्करैः ॥९॥

न जने न वने चेतः स्वस्थं चौरस्य जायते ।
मृगस्येवोद्धतव्याधादाशङ्क्य वधमात्मनः ॥१०॥

संत्रासोद्भ्रान्तचेतस्कश्चौरो जागर्त्यहर्निशम् ।
वध्येयात्र ध्रियेयात्र मार्येयात्रेति शङ्कितः ॥११॥

नात्मरक्षां न दाक्षिण्यं नोपकारं न धर्मतां ।
न सतां शंसितं कर्म चौरः स्वप्नेऽपि बुद्ध्यति ॥१२॥

गुरवो लाघवं नीता गुणिनोऽप्यत्र खण्डिताः ।
चौरसंश्रयदोषेण यतयो निधनं गताः ॥१३॥

तृणाङ्कुरमिवादाय घातयन्त्यविलम्बितम् ।
चौरं विज्ञाय निःशङ्कं धीमन्तोऽपि धरातले ॥१४॥

विशन्ति नरकं घोरं दुःखज्वालाकरालितं ।
अमुत्र नियतं मूढाः प्राणिनश्चौर्यचर्विताः ॥१५॥

सरित्पुरगिरिग्रामवनवेश्मजलादिषु ।
स्थापितं पतितं नष्टं परस्वं त्यज सर्वथा ॥१६॥

चिदचिद्रूपतापन्नं यत्परस्वमनेकधा ।
तत्त्याज्यं संयमोद्दामसीमासंरक्षणोद्यमैः ॥१७॥

आस्तां परधनादित्सां कर्त्तुं स्वप्नेऽपि धीमताम् ।
तृणमात्रमपि ग्राह्यं नादत्तं दन्तशुद्धये ॥१८॥

अतुलसुखसिद्धिहेतो-र्धर्मयशश्चरणरक्षणार्थं च ।
इह परलोकहितार्थं कलयत चित्तेऽपि मा चौर्यम् ॥१९॥

विषयविरतिमूलं संयमोद्दामशाखम्
यमदलशमपुष्पं ज्ञानलीलाफलाढ्यम् ।
विबुधजनशकुन्तैः सेवितं धर्मवृक्षं
दहति मुनिरपीह स्तेयतीव्रानलेन ॥२०॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्री शुभचंद्राचार्यविरचिते अस्तेय-महाव्रतप्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ५: ‘पुण्यानुष्टानजातानि’ छपा है; ‘पुण्यानुष्ठानजातानि’ होना चाहिए
  • श्लोक १२: ‘बुद्ध्यति’ छपा है; ‘बुध्यति’ होना चाहिए

सर्ग 11: ब्रह्मचर्य महाव्रत

विदन्ति परमं ब्रह्म यत्समालम्ब्य योगिनः ।
तद्व्रतं ब्रह्मचर्यं स्याद्धीरधौरेयगोचरम् ॥१॥

सप्रपञ्चं प्रवक्ष्यामि ज्ञात्वेदं गहनं व्रतम् ।
स्वल्पोऽपि न सतां क्लेशः कार्योऽस्यालोक्य विस्तरम् ॥२॥

एकमेव व्रतं श्लाघ्यं ब्रह्मचर्यं जगत्त्रये ।
यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥३॥

ब्रह्मव्रतमिदं जीयाच्चरणस्यैव जीवितम् ।
स्युः सन्तोऽपि गुणा येन विना क्लेशाय देहिनाम् ॥४॥

नाल्पसत्त्वैर्न निःशीलैर्न दीनैर्नाक्षनिर्जितैः ।
स्वप्नेऽपि चरितुं शक्यं ब्रह्मचर्यमिदं नरैः ॥५॥

पर्यन्तविरसं विद्धि दशधान्यच्च मैथुनम् ।
योषित्संगाद्विरक्तेन त्याज्यमेव मनीषिणा ॥६॥

आद्यं शरीरसंस्कारो द्वितीयं वृष्यसेवनम् ।
तौर्यत्रिकं तृतीयं स्यात्संसर्गस्तुर्यमिष्यते ॥७॥

योषिद्विषयसंकल्पः पञ्चमं परिकीर्त्तितम् ।
तदङ्गवीक्षणं षष्ठं संस्कारः सप्तमं मतम् ॥८॥

पूर्वानुभोगसंभोगस्मरणं स्यात्तदष्टमम् ।
नवमं भाविनी चिन्ता दशमं वस्तिमोक्षणम् ॥९॥

किम्पाकफलसंभोगसन्निभं तद्धि मैथुनम् ।
आपातमात्ररम्यं स्याद्विपाकेऽत्यन्तभीतिदम् ॥१०॥

विरज्य कामभोगेषु ये ब्रह्म समुपासते ।
एते दश महादोषास्तैस्त्याज्या भावशुद्धये ॥११॥

स्मरप्रकोपसंभूतान्स्त्रीकृतान्मैथुनोत्थितान् ।
संसर्गप्रभवान्ज्ञात्वा दोषान् स्त्रीषु विरज्यताम् ॥१२॥

सिक्तोऽप्यम्बुधरव्रातैः प्लावितोऽप्यम्बुराशिभिः ।
न हि त्यजति संतापं कामवह्निप्रदीपितः ॥१३॥

मूले ज्येष्टस्य मध्याह्ने व्यभ्रे नभसि भास्करः ।
न प्लोषति तथा लोकं यथा दीप्तः स्मरानलः ॥१४॥

हृदि ज्वलति कामाग्निः पूर्वमेव शरीरिणाम् ।
भस्मसात्कुरुते पश्चादङ्गोपाङ्गानि निर्दयः ॥१५॥

अचिन्त्यकामभोगीन्द्रविषव्यापारमूर्छितम् ।
वीक्ष्य विश्वं विवेकाय यतन्ते योगिनः परं ॥१६॥

स्मरव्यालविषोद्गारैर्वीक्ष्य विश्वं कदर्थितम् ।
यमिनः शरणं जग्मुर्विवेकविनतासुतम् ॥१७॥

एक एव स्मरो वीरः स चैकोऽचिन्त्यविक्रमः ।
अवज्ञयैव येनेदं पादपीठीकृतं जगत् ॥१८॥

एकाक्यपि नयत्येष जीवलोकं चराचरम् ।
मनोभूर्भङ्गमानीय स्वशक्त्याऽव्याहतक्रमः ॥१९॥

पीडयत्येव निःशङ्को मनोभूर्भुवनत्रयम् ।
प्रतीकारशतेनापि यस्य भङ्गो न भूतले ॥२०॥

कालकूटादहं मन्ये स्मरसंज्ञं महाविषम् ।
स्यात्पूर्वं सप्रतीकारं निःप्रतीकारमुत्तरम् ॥२१॥

जन्तुजातमिदं मन्ये स्मरवह्निप्रदीपितम् ।
मज्जत्यगाधमध्यास्य पुरन्ध्रीकायकर्दमम् ॥२२॥

अनन्तव्यसनासारदुर्गे भवमरुस्थले ।
स्मरज्वरपिपासार्त्ता विपद्यन्ते शरीरिणः ॥२३॥

घृणास्पदमतिक्रूरं पापाढ्यं योगिदूषितम् ।
जनोऽयं कुरुते कर्म स्मरशार्दूलचर्वितः ॥२४॥

दिग्मूढमथ विभ्रान्तमुन्मत्तं शङ्किताशयम् ।
विलक्ष्यं कुरुते लोकं स्मरवैरीविजृम्भितः ॥२५॥

न हि क्षणमपि स्वस्थं चेतः स्वप्नेऽपि जायते ।
मनोभवशरव्रातैर्भिद्यमानं शरीरिणाम् ॥२६॥

जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
लोकः कामानलज्वालाकलापकवलीकृतः ॥२७॥

भोगिदष्टस्य जायन्ते वेगाः सप्तैव देहिनः ।
स्मरभोगीन्द्रदष्टानां दश स्युस्ते भयानकाः ॥२८॥

प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति ।
तृतीये दीर्घनिश्वासाश्चतुर्थे भजते ज्वरम् ॥२९॥

पञ्चमे दह्यते गात्रं षष्टे भुक्तं न रोचते ।
सप्तमे स्यान्महामूर्च्छा उन्मत्तत्वमथाष्टमे ॥३०॥

नवमे प्राणसन्देहो दशमे मुच्यतेऽसुभिः ।
एतैर्वेगैः समाक्रान्तो जीवस्तत्त्वं न पश्यति ॥३१॥

संकल्पवशतस्तीव्रा वेगा मन्दाश्च मध्यमाः ।
कामज्वरप्रकोपेन प्रभवन्तीह देहिनाम् ॥३२॥

अपि मानसमुत्तुङ्गनगशृङ्गाग्रवर्तिनाम् ।
स्मरवीरः क्षणार्द्धेन विधत्ते मानखण्डनम् ॥३३॥

शीलशालमतिक्रम्य धीधनैरपि तन्यते ।
दासत्वमन्त्यजस्त्रीणां संभोगाय स्मराज्ञया ॥३४॥

प्रवृद्धमपि चारित्रं ध्वंसयत्याशु देहिनाम् ।
निरुणद्धि श्रुतं सत्यं धैर्यं च मदनव्यथा ॥३५॥

नासने शयने याने स्वजने भोजने स्थितिम् ।
क्षणमात्रमपि प्राणी प्राप्नोति स्मरशल्यतः ॥३६॥

वित्तवृत्तबलस्यान्तं स्वकुलस्य च लाञ्छनम् ।
मरणं वा समीपस्थं न स्मरार्त्तः प्रपश्यति ॥३७॥

न पिशाचोरगा रोगा न दैत्यग्रहराक्षसाः ।
पीडयन्ति तथा लोकं यथाऽयं मदनज्वरः ॥३८॥

अनासाद्य जनः कामी कामिनीं हृदयप्रियाम् ।
विषशस्त्रानलोपायैः सद्यः स्वं हन्तुमिच्छति ॥३९॥

दक्षो मूढः क्षमी क्रुद्धः शूरो भीरुर्गुरुर्लघुः ।
तीक्ष्णः कुण्ठो वशी भ्रष्टो जनः स्यात्स्मरवञ्चितः ॥४०॥

कुर्वन्ति वनिताहेतोरचिन्त्यमपि साहसम् ।
नराः कामहठात्कारविधुरीकृतमानसाः ॥४१॥

उन्मूलयत्यविश्रान्तं पूज्यं श्रीधर्मपादपम् ।
मनोभवमहादन्ती मनुष्याणां निरङ्कुशः ॥४२॥

प्रकुप्यति नरः कामी बहुलं ब्रह्मचारिणे ।
जनाय जाग्रते चौरो रजन्यां संचरन्निव ॥४३॥

स्नुषां श्वश्रूं सुतां धात्रीं गुरुपत्नीं तपस्विनीम् ।
तिरश्चीमपि कामार्तो नरः स्त्रीं भोक्तुमिच्छति ॥४४॥

किं च कामशरव्रातजर्जरे मनसि स्थितिम् ।
निमेषमपि बध्नाति न विवेकसुधारसः ॥४५॥

हरिहरपितामहाद्या बलिनोऽपि तथा स्मरेण विध्वस्ताः ।
त्यक्तत्रपा यथैते स्वाङ्कान्नारीं न मुञ्चन्ति ॥४६॥

यदि प्राप्तं त्वया मूढ नृत्वं जन्मोग्रसंक्रमात् ।
तदा तत्कुरु येनेयं स्मरज्वाला विलीयते ॥४७॥

स्मरदहनसुतीव्रानन्तसन्तापविद्धं
भुवनमिति समस्तं वीक्ष्य योगिप्रवीराः ।
विगतविषयसङ्गाः प्रत्यहं संश्रयन्ते
प्रशमजलधितीरं संयमारामरम्यम् ॥४८॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचंद्राचार्यविरचिते कामप्रकोपप्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १४: ‘ज्येष्टस्य’ छपा है; ‘ज्येष्ठस्य’ होना चाहिए
  • श्लोक ३०: ‘षष्टे’ छपा है; ‘षष्ठे’ होना चाहिए

सर्ग 12: स्त्रीस्वरूप वर्णन

कुर्वन्ति यन्मदोद्रेकदर्पिता भुवि योषितः ।
शतांशमपि तस्येह न वक्तुं कश्चिदीश्वरः ॥१॥

धारयन्त्यमृतं वाचि हृदि हालाहलं विषम् ।
निसर्गकुटिला नार्यो न विद्मः केन निर्मिताः ॥२॥

वज्रज्वलनलेखेव भोगिदंष्ट्रेव केवलम् ।
वनितेयं मनुष्याणां संतापभयदायिनी ॥३॥

उद्वासयति निश्शङ्का जगत्पूज्यं गुणव्रजम् ।
बध्नती वसतिं चित्ते सतामपि नितम्बिनी ॥४॥

वरमालिङ्गिता क्रुद्धा चलल्लोलाऽत्र सर्पिणी ।
न पुनः कौतुकेनापि नारी नरकपद्धतिः ॥५॥

हृदि दत्ते तथा दाहं न स्पृष्टा हुतभुक्शिखा ।
वनितेयं यथा पुंसामिन्द्रियार्थप्रकोपिनी ॥६॥

सन्ध्येव क्षणरागाढ्या निम्नगेवाधरप्रिया ।
वक्रा बालेन्दुलेखेव भवन्ति नियतं स्त्रियः ॥७॥

धूमावल्य इवाशङ्क्याः कुर्वन्ति मलिनं क्षणात् ।
मदनोन्मादसंभ्रान्ता योषितः स्वकुलं गृहम् ॥८॥

निर्दयत्वमनार्यत्वं मूर्खत्वमतिचापलम् ।
वञ्चकत्वं कुशीलत्वं स्त्रीणां दोषाः स्वभावजाः ॥९॥

विचरन्ति कुशीलेषु लंघयन्ति कुलक्रमम् ।
न स्मरन्ति गुरुं मित्रं पतिं पुत्रं च योषितः ॥१०॥

वश्याञ्जनादितन्त्राणि मन्त्रयन्त्राद्यनेकधा ।
व्यर्थीभवन्ति सर्वाणि वनिताराधनं प्रति ॥११॥

अगाधक्रोधवेगान्धाः कर्म कुर्वन्ति तत्स्त्रियः ।
सद्यः पतति येनैतद्भुवनं दुःखसागरे ॥१२॥

स्वातन्त्र्यमभिवाञ्छन्त्यः कुलकल्पमहीरुहम् ।
अविचार्यैव निध्नन्ति स्त्रियोऽभीष्टफलप्रदम् ॥१३॥

न दानं न च सौजन्यं न प्रतिष्ठां न गौरवम् ।
न च पश्यन्ति कामान्धा योषितः स्वान्ययोर्हितम् ॥१४॥

न तत् क्रुद्धा हरिव्याघ्रव्यालानलनरेश्वराः ।
कुर्वन्ति यत्करोत्येका नरि नारी निरङ्कुशा ॥१५॥

यामासाद्य त्वया कान्तां सोढव्या नारकी व्यथा ।
तस्या वार्त्ताऽपि न श्लाघ्या कथमालिङ्गनादिकम् ॥१६॥

स कोऽपि स्मर्यतां देवो मन्त्रो वाऽऽलम्ब्य साहसम् ।
यतोऽङ्गनापिशाचीयं ग्रसितुं नोपसर्पति ॥१७॥

एकैव वनिताव्याली दुर्विचिन्त्यपराक्रमा ।
लीलयैव यया मूढ खण्डितं जगतां त्रयम् ॥१८॥

न तद्दृष्टं श्रुतं ज्ञातं न तच्छास्त्रेषु चर्चितम् ।
यत्कुर्वन्ति महापापं स्त्रियः कामकलङ्किताः ॥१९॥

यमजिह्वानलज्वालावज्रविद्युद्विषाङ्कुरान् ।
समाहृत्य कृता मन्ये वेधसेयं विलासिनी ॥२०॥

मनस्यन्यद्वचस्यन्यद्वपुष्यन्यद्विचेष्टितम् ।
यासां प्रकृतिदोषेण प्रेम तासां कियत्स्थिरम् ॥२१॥

अप्युत्तुङ्गाः पतिष्यन्ति नरा नार्यङ्गसंगताः ।
यथा वामिति लोकस्य स्तनाभ्यां प्रकटीकृतम् ॥२२॥

यदीन्दुस्तीव्रतां धत्ते चण्डरोचिश्च शीतताम् ।
दैवात्तथाऽपि नो धत्ते नरि नारी स्थिरं मनः ॥२३॥

देवदैत्योरगव्यालग्रहचन्द्रार्कचेष्टितम् ।
विदन्ति ये महाप्राज्ञास्तेऽपि वृत्तं न योषिताम् ॥२४॥

सुखदुःखजयपराजयजीवितमरणानि ये विजानन्ति ।
मुह्यन्ति तेऽपि नूनं तत्त्वविदश्चेष्टिते स्त्रीणाम् ॥२५॥

जलधेर्यानपात्राणि ग्रहाद्या गगनस्य च ।
यान्ति पारं न तु स्त्रीणां दुश्चरित्रस्य केचन ॥२६॥

आरोपयन्ति संदेहतुलायामतिनिर्दयाः ।
नार्यः पतिं च पुत्रं च पितरं च क्षणादपि ॥२७॥

गृह्णन्ति विपिने व्याघ्रं शकुन्तं गगने स्थितम् ।
सरिद्ध्रदगतं मीनं न स्त्रीणां चपलं मनः ॥२८॥

न तदस्ति जगत्यस्मिन् मणिमन्त्रौषधाञ्जनम् ।
विद्याश्च येन सद्भावं प्रयास्यन्तीह योषितः ॥२९॥

मनोभवसमं शूरं कुलीनं भुवनेश्वरम् ।
हत्वा पतिं स्त्रियः सद्यो रमन्ते चेटिकासुतैः ॥३०॥

स्मरोत्सङ्गमपि प्राप्य वाञ्छन्ति पुरुषान्तरम् ।
नार्यः सर्वाः स्वभावेन वदन्तीत्यमलाशयाः ॥३१॥

विनाञ्जनेन तन्त्रेण मन्त्रेण विनयेन च ।
वञ्चयन्ति नरं नार्यः प्रज्ञाधनमपि क्षणात् ॥३२॥

कुलजातिगुणभ्रष्टं निकृष्टं दुष्टचेष्टितम् ।
अस्पृश्यमधमं प्रायो मन्ये स्त्रीणां प्रियं नरम् ॥३३॥

वैरिवारणदन्ताग्रे समारुह्य स्थिरीकृता ।
वीरश्रीर्यैर्महासत्त्वैर्योषिद्भिस्तेऽपि खण्डिताः ॥३४॥

गौरवेषु प्रतिष्ठासु गुणेष्वाराध्यकोटिषु ।
धृता अपि निमज्जन्ति दोषपङ्के स्वयं स्त्रियः ॥३५॥

दोषान्गुणेषु पश्यन्ति प्रिये कुर्वन्ति विप्रियम् ।
सन्मानिताः प्रकुप्यन्ति निसर्गकुटिलाः स्त्रियः ॥३६॥

कृत्वाऽपकार्यलक्षाणि प्रत्यक्षमपि योषितः ।
छादयन्त्येव निःशङ्का विश्ववञ्चनपण्डिताः ॥३७॥

दानसन्मानसंभोगप्रणतिप्रतिपत्तिभिः ।
अपि सेवापरं नाथं घ्नन्ति नार्योऽतिनिर्दयाः ॥३८॥

विषमध्ये सुधास्यन्दं सस्यजातं शिलोच्चये ।
संभाव्यं न तु संभाव्यं चेतः स्त्रीणामकश्मलम् ॥३९॥

वन्ध्याङ्गजस्य राज्यश्रीः पुष्पश्रीर्गगनस्य च ।
स्याद् दैवान्न तु नारीणां मनःशुद्धिर्मनागपि ॥४०॥

कुलद्वयमहाकक्षं भस्मसात्कुरुते क्षणात् ।
दुश्चरित्रसमीरालीप्रदीप्तो वनितानलः ॥४१॥

सुराचल इवाकम्पा अगाधा वार्द्धिवद्भृशम् ।
नीयन्तेऽत्र नराः स्त्रीभिरवधूतिं क्षणान्तरे ॥४२॥

वित्तहीनो जरी रोगी दुर्बलः स्थानविच्युतः ।
कुलीनाभिरपि स्त्रीभिः सद्यो भर्ता विमुच्यते ॥४३॥

भेत्तुं शूलमसिं छेत्तुं कर्त्तितुं क्रकचं दृढम् ।
नरान्पीडयितुं यन्त्रं वेधसा विहिताः स्त्रियः ॥४४॥

विधुर्वधूभिर्मन्येऽहं नभःस्थोऽपि प्रतारितः ।
अन्यथा क्षीयते कस्मात्कलङ्काऽपहतप्रभः ॥४५॥

यद्रागं सन्ध्ययोर्धत्ते यद्भ्रमत्यविलम्बितम् ।
तन्मन्ये वनितासार्थैर्विप्रलब्धः खरद्युतिः ॥४६॥

अन्तःशून्यो भृशं रौति वेलाव्याजेन वेपते ।
धीरोऽपि मथितो बद्धः स्त्रीनिमित्ते सरित्पतिः ॥४७॥

सुरेन्द्रप्रतिमा धीरा अप्यचिन्त्यपराक्रमाः ।
दशग्रीवादयो याताः कृते स्त्रीणां रसातलम् ॥४८॥

दुःखखानिरगाधेयं कलेर्मूलं भयस्य च ।
पापबीजं शुचां कन्दः श्वभ्रभूमिर्नितम्बिनी ॥४९॥

यदि मूर्त्ताः प्रजायन्ते स्त्रीणां दोषाः कथंचन ।
पूरयेयुस्तदा नूनं निःशेषं भुवनोदरम् ॥५०॥

कौतुकेन समाहर्तुं विश्ववर्त्त्यङ्गिसंचयम् ।
वेधसेयं कृता मन्ये नारी व्यसनवागुरा ॥५१॥

एकं दृशा परं भावैर्वाग्भिरन्यं तथेङ्गितैः ।
संज्ञयाऽन्यं रतैश्चान्यं रमयन्त्यङ्गना जनम् ॥५२॥

धीरैर्धैर्यं समालम्ब्य विवेकामललोचनैः ।
त्यक्ताः स्वप्नेऽपि निःसङ्गैर्नार्यः श्रीसूरिपुङ्गवैः ॥५३॥

यद्वक्तुं न बृहस्पतिः शतमखः श्रोतुं न साक्षात्क्षमः
तत्स्त्रीणामगुणव्रजं निगदितुं मन्ये न कोऽपि प्रभुः
आलोक्य स्वमनीषया कतिपयैर्वर्णैर्यदुक्तं मया
तच्छ्रुत्वा गुणिनस्त्यजन्तु वनितासम्भोगपापग्रहम् ॥५४॥

परिभवफलवल्लीं दुःखदावानलालीम्
विषयजलधिवेलां श्वभ्रसौधप्रतोलीम् ।
मदनभुजगदंष्ट्रां मोहतन्द्रासवित्रीम्
परिहर परिणामैर्धैर्यमालम्ब्य नारीम् ॥५५॥

यमिभिर्जन्मनिर्विण्णैर्दूषिता यद्यपि स्त्रियः ।
तथाऽप्येकान्ततस्तासां विद्यते नाघसंभवः ॥५६॥

ननु सन्ति जीवलोके काश्चिच्छमशीलसंयमोपेताः ।
निजवंशतिलकभूताः श्रुतसत्यसमन्विता नार्यः ॥५७॥

सतीत्वेन महत्त्वेन वृत्तेन विनयेन च ।
विवेकेन स्त्रियः काश्चिद् भूषयन्ति धरातलम् ॥५८॥

निर्विण्णैर्भवसंक्रमाच्छ्रुतधरैरेकान्ततो निःस्पृहै-
र्नार्यो यद्यपि दूषिताः शमधनैर्ब्रह्मव्रतालम्बिभिः ।
निन्द्यन्ते न तथाऽपि निर्मलयमस्वाध्यायवृत्ताङ्किता
निर्वेदप्रशमादिपुण्यचरितैर्याः शुद्धिभूता भुवि ॥५९॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते स्त्रीस्वरूपवर्णनरूपो द्वादशः सर्गः ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ६: ‘इन्द्रियार्थप्रकोपिनी’ छपा है; ‘इन्द्रियार्थप्रकोपिणी’ होना चाहिए
  • श्लोक १३: ‘निध्नन्ति’ छपा है; ‘निघ्नन्ति’ होना चाहिए

सर्ग 13: मैथुनत्यागोपदेश

स्मरज्वलनसंभ्रान्तो यः प्रतीकारमिच्छति ।
मैथुनेन स दुर्बुद्धिराज्येनाग्निं निषेधति ॥१॥

वरमाज्यच्छटासिक्तः परिरब्धो हुताशनः ।
न पुनर्दुर्गतेर्द्वारं योषितां जघनस्थलम् ॥२॥

स्मरशीतज्वरातङ्कशङ्किताः शीर्णबुद्धयः ।
विशन्ति वनितापङ्के तत्प्रतीकारवाञ्छया ॥३॥

वासनाजनितं मन्ये सौख्यं स्त्रीसङ्गसंभवम् ।
सेव्यमानं यदन्ते स्याद्वैरस्यायैव केवलम् ॥४॥

प्रपश्यति यथोन्मत्तः शश्वल्लोष्टेऽपि काञ्चनम् ।
मैथुनेऽपि तथा सौख्यं प्राणी रागान्धमानसः ॥५॥

अपथ्यानि यथा रोगी पथ्यबुद्ध्या निषेवते ।
सुखबुद्ध्या तथाऽङ्गानि स्त्रीणां कामी गतत्रपः ॥६॥

कश्चिद् ब्रूते यथा दीपं निर्वाणमपि नन्दितम् ।
स्मरमूढः सुखं तद्वद् दुःखमप्यत्र मैथुने ॥७॥

किम्पाकफलसमानं वनितासंभोगसंभवं सौख्यम् ।
आपाते रमणीयं प्रजायते विरसमवसाने ॥८॥

मैथुनाचरणे कर्म निर्घृणैः क्रियतेऽधमम् ।
पीयते वदनं स्त्रीणां लालाम्बुकलुषीकृतम् ॥९॥

कण्डूयनतनुस्वेदाद्वेत्ति कुष्टी यथा सुखम् ।
तीव्रस्मररुजातङ्कपीडितो मैथुनं तथा ॥१०॥

अशुचीन्यङ्गनाङ्गानि स्मराशीविषमूर्छिताः ।
जिह्वाभिर्विलिहन्त्युच्चैः शुनीनामिव कुक्कुराः ॥११॥

ग्लानिर्मूर्च्छा भ्रमः कम्पः श्रमः स्वेदोऽङ्गविक्रिया ।
क्षयरोगादयो दोषा मैथुनोत्थाः शरीरिणाम् ॥१२॥

अनेकदुःखसन्ताननिदानं विद्धि मैथुनम् ।
कथं तदपि सेवन्ते हन्त रागान्धबुद्धयः ॥१३॥

कुष्टव्रणमिवाजस्रं वाति स्रवति पूतिकम् ।
यत्स्त्रीणां जघनद्वारं रतये तद्धि रागिणाम् ॥१४॥

काकः कृमिकुलाकीर्णे करङ्के कुरुते रतिं ।
यथा तद्वद्वराकोऽयं कामी स्त्रीगुह्यमन्थने ॥१५॥

वक्तुमपि लज्जनीये दुर्गन्धे मूत्रशोणितद्वारे ।
जघनबिले वनितानां रमते बालो न तत्त्वज्ञः ॥१६॥

स्वतालुरक्तं किल कुक्कुराधमैः प्रपीयते यद्वदिहास्थिचर्वणात् ।
तथा विटैर्विद्धि वपुर्विडम्बनैर्निषेव्यते मैथुनसंभवं सुखम् ॥१७॥

अशुचिष्वङ्गनाङ्गेषु संगताः पश्य रागिणः ।
जुगुप्सां जनयन्त्येते लोलन्तः कृमयो यथा ॥१८॥

योनिरन्ध्रमिदं स्त्रीणां दुर्गतेर्द्वारमग्रिमम् ।
तत्त्यजन्ति ध्रुवं धन्या न दीना दैववञ्चिताः ॥१९॥

मालतीव मृदून्यासां विद्धि चाङ्गानि योषितां ।
दारयिष्यन्ति मर्माणि विपाके ज्ञास्यसि स्वयम् ॥२०॥

मैथुनाचरणे मूढ म्रियन्ते जन्तुकोटयः ।
योनिरन्ध्रसमुत्पन्ना लिंगसंगप्रपीडिताः ॥२१॥

बीभत्सानेकदुर्गन्धमलाक्तं स्वकलेवरम् ।
यत्र तत्र वपुः स्त्रीणां कस्यास्तु रतये भुवि ॥२२॥

उत्तानोच्छूनमण्डूकदारितोदरसन्निभे ।
चर्मरन्ध्रे मनुष्याणामपूर्वः कोऽप्यसद्ग्रहः ॥२३॥

सर्वाशुचिमये काये दुर्गन्धामेध्यसंभृते ।
रमन्ते रागिणः स्त्रीणां विरमन्ति तपस्विनः ॥२४॥

कुथितकुणपगन्धं योषितां योनिरन्ध्रं
कृमिकुलशतपूर्णं निर्झरत्क्षारवारि ।
त्यजति मुनिनिकायः क्षीणजन्मप्रबन्धो
भजति मदनवीरप्रेरितोऽङ्गी वराकः ॥२५॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे शुभचन्द्राचार्यविरचिते मैथुनप्रकरणं नाम त्रयोदशः सर्गः ॥

सर्ग 14: स्त्रीसंसर्गनिषेध

विरज्याशेषसंगेभ्यो यो वृणीते शिवश्रियम् ।
स क्रुद्धाहेरिव स्त्रीणां संसर्गाद्विनिवर्त्तते ॥१॥

यथा सद्यो विलीयन्ते गिरयो वज्रताडिताः ।
तथा मत्ताङ्गनापाङ्गप्रहारेणाल्पचेतसः ॥२॥

यस्तपस्वी व्रती मौनी संवृतात्मा जितेन्द्रियः ।
कलङ्कयति निःशङ्कं स्त्रीसखः सोऽपि संयमं ॥३॥

मासे मासे व्यतिक्रान्ते यः पिबत्यम्बु केवलम् ।
विमुह्यति नरः सोऽपि संगमासाद्य सुभ्रुवः ॥४॥

सर्वत्राप्युपचीयन्ते संयमाद्यास्तपस्विनाम् ।
गुणाः किन्त्वङ्गनासङ्गं प्राप्य यान्ति क्षयं क्षणात् ॥५॥

संचरन्ति जगत्यस्मिन्स्वेच्छया यमिनां गुणाः ।
विलीयन्ते पुनर्नारीवदनेन्दु विलोकनात् ॥६॥

तावद्धत्ते मुनिः स्थैर्यं श्रुतं शीलं कुलक्रमं ।
यावन्मत्ताङ्गनानेत्रवागुराभिर्न रुद्ध्यते ॥७॥

नवनीतनिभं पुंसां मनः सद्यो विलीयते ।
वनितावह्निसंतप्तं सतामपि न संशयः ॥८॥

अन्तःसुप्तोऽपि जागर्त्ति स्मरः संगेन योषिताम् ।
रोगव्रज इवापथ्यसेवासंभावितात्मनाम् ॥९॥

क्रियते यैर्मनः स्वस्थं श्रुतप्रशमसंयमैः ।
तेऽपि संसर्गमासाद्य वनितानां क्षयं गताः ॥१०॥

स्थिरीकृत्य मनस्तत्त्वे तावत्तिष्ठति संयमी ।
यावन्नितम्बिनीभोगिभृकुटिं न समीक्षते ॥११॥

यासां संकल्पलेशोऽपि तनोति मदनज्वरम् ।
प्रत्यासत्तिर्न किं तासां रुणद्धि चरणश्रियम् ॥१२॥

यस्याः संसर्गमात्रेण यतिभावः कलङ्क्यते ।
तस्याः किं न कथालापैर्भ्रूभङ्गैश्चारुविभ्रमैः ॥१३॥

सुचिरं सुष्टु निर्णीतं लब्धं वा वृद्धसन्निधौ ।
लुप्यते स्त्रीमुखालोकाद्वृत्तरत्नं शरीरिणाम् ॥१४॥

पुस्तोपलविनिष्पन्नं दारुचित्रादिकल्पितम् ।
अपि वीक्ष्य वपुः स्त्रीणां मुह्यत्यङ्गी न संशयः ॥१५॥

दृष्टिपातो भवेत्पूर्वं व्यामुह्यति ततो मनः ।
प्रणिधत्ते जनः पश्चात्तत्कथागुणकीर्तने ॥१६॥

ततः प्रेमानुबन्धः स्यादुभयोरपि निर्भरम् ।
उत्कण्ठते ततश्चेतः प्रेमकाष्ठप्रतिष्ठितम् ॥१७॥

दानदाक्षिण्यविश्वासैरुभयोर्वर्द्धते स्मरः ।
ततः शाखोपशाखाभिः प्रीतिवल्ली विसर्पति ॥१८॥

मनो मिलति चान्योऽन्यं निःशङ्कं संगलालसं ।
प्रणश्यति ततो लज्जा प्रेमप्रसरपीडिता ॥१९॥

निःशङ्कं कुरुते नर्म रहोजल्पावलम्बितम् ।
वीक्षणादीन्धनोद्भूतः कामाग्निः प्रविजृम्भते ॥२०॥

बहिरन्तस्ततस्तेन दह्यमानोऽग्निना भृशम् ।
अविचार्य जनः शीघ्रं ततः पापे प्रवर्त्तते ॥२१॥

श्रुतं सत्यं तपः शीलं विज्ञानं वृत्तमुत्तमम् ।
इन्धनीकुरुते मूढः प्रविश्य वनितानले ॥२२॥

स्फुरन्ति हृदि संकल्पा ये स्त्रीव्यासक्तचेतसां ।
रागिणां तानि हे भ्रातर्न कोऽपि गदितुं क्षमः ॥२३॥

संसर्गप्रभवा नूनं गुणा दोषाश्च देहिनाम् ।
एकान्ततः स दोषाय स्त्रीभिः सार्द्धं कृतः क्षणम् ॥२४॥

पुण्यानुष्टानसम्भूतं महत्त्वं क्षीयते नृणाम् ।
सद्यः कलङ्क्यते वृत्तं साहचर्येण योषिताम् ॥२५॥

अपवादमहापङ्के निमज्जन्ति न संशयः ।
यमिनोऽपि जगद्वन्द्यवृत्ता रामास्पदं श्रिताः ॥२६॥

अनन्तमहिमाकीर्णं प्रोत्तुङ्गं वृत्तपादपम् ।
वामा कुठारधारेव विच्छिनत्त्याशु देहिनाम् ॥२७॥

लोचनेषु मृगाक्षीणां क्षिप्तं किञ्चित्तदञ्जनम् ।
येनापाङ्गैः क्षणादेव मुह्यत्यासां जगत्त्रयम् ॥२८॥

कौतुकेन भ्रमेणापि दृष्टिर्लग्नाङ्गनामुखे ।
क्रष्टुं न शक्यते लोकैः पङ्कमग्नेव हस्तिनी ॥२९॥

एकत्र वसतिः साध्वी वरं व्याघ्रोरगैः सह ।
पिशाचैर्वा न नारीभिर्निमेषमपि शस्यते ॥३०॥

भ्रूलताचलनैर्येषां स्खलत्यमरमण्डली ।
तेऽपि संसर्गमात्रेण वनितानां विडम्बिताः ॥३१॥

त्यजन्ति वनिताचौररुद्धाश्चारित्रमौक्तिकम् ।
यतयोऽपि तपोभङ्गकलङ्कमलिनाननाः ॥३२॥

ब्रह्मचर्यच्युतः सद्यो महानप्यवमन्यते ।
सर्वैरपि जनैर्लोके विध्यात इव पावकः ॥३३॥

विशुद्ध्यति जगद्येषां स्वीकृतं पादपांसुभिः ।
वञ्चिता बहुशस्तेऽपि वनितापाङ्गवीक्षणात् ॥३४॥

तपःश्रुतकृताभ्यासा ध्यानधैर्यावलम्बिनः ।
श्रूयन्ते यमिनः पूर्वं योषाभिः कश्मलीकृताः ॥३५॥

उह्यते यत्र मातङ्गैर्नगोत्तुङ्गैर्जलप्लवे ।
तत्र व्यूढा न संदेहः प्रागेव मृगशावकाः ॥३६॥

इह हि वदनकञ्जं हावभावालसाढ्यं
मृगमदललिताङ्कं विस्फुरद्भ्रूविलासम् ।
क्षणमपि रमणीनां लोचनैर्वीक्ष्यमाणं
जनयति हृदि कम्पं धैर्यनाशं च पुंसाम् ॥३७॥

यासां सीमन्तिनीनां कुरबकतिलकाशोकमाकन्दवृक्षाः
प्राप्योच्चैर्विक्रियन्ते ललितभुजलतालिङ्गनादीन्विलासान् ।
तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलारसाढ्यं
को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् ॥३८॥

तावद्धत्ते प्रतिष्ठां परिहरति मनश्चापलं चैष तावत्
तावत्सिद्धान्तसूत्रं स्फुरति हृदि परं विश्वतत्त्वैकदीपम् ।
क्षीराकूपारवेलावलयविलसितैर्मानिनीनां कटाक्षै-
र्यावन्नो हन्यमानं कलयति हृदयं दीर्घदोलायितानि ॥३९॥

संसर्गाद्दुर्बलां दीनां संत्रस्तामप्यनिच्छतीम् ।
कुष्ठिनीं रोगिणीं जीर्णां दुःखितां क्षीणविग्रहाम् ॥४०॥

निन्दितां निन्द्यजातीयां स्वजातीयां तपस्विनीम् ।
बालामपि तिरश्चीं स्त्रीं कामी भोक्तुं प्रवर्तते ॥४१॥

अङ्गनापाङ्गबाणालीं प्रपतन्तीं निवारय ।
विधाय हृदयं धीर दृढं वैराग्यवर्मितम् ॥४२॥

ब्रह्मचर्यविशुद्ध्यर्थं सङ्गः स्त्रीणां न केवलम् ।
त्याज्यः पुंसामपि प्रायो विटविद्यावलम्बिनाम् ॥४३॥

मदान्धैः कामुकैः पापैर्वञ्चकैर्मार्गविच्युतैः ।
स्तब्धलुब्धाधमैः सार्द्धं संगो लोकद्वयान्तकः ॥४४॥

सूत्रे दत्तावधानाः प्रशमयमतपोध्यानलब्धावकाशाः
शश्वत्संन्यस्तसंगा विमलगुणमणिग्रामभाजः स्वयं ये ।
श्रूयन्ते कामिनीनां स्तनजघनमुखालोकनात्तेऽपि भग्ना
मज्जन्तो मोहवार्धौ जिनपतियतयः प्राक् प्रसिद्धाः कथासु ॥४५॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते ब्रह्मचर्यमहाव्रतान्तर्गतस्त्रीसंसर्गनिषेधवर्णनं
नाम चतुर्दशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १४: ‘सुष्टु’ छपा है; ‘सुष्ठु’ होना चाहिए
  • श्लोक २५: ‘पुण्यानुष्टान’ छपा है; ‘पुण्यानुष्ठान’ होना चाहिए

सर्ग 15: वृद्धसेवा की प्रशंसा

लोकद्वयविशुद्ध्यर्थं भावशुद्ध्यर्थमञ्जसा ।
विद्याविनयवृद्ध्यर्थं वृद्धसेवैव शस्यते ॥१॥

कषायदहनः शान्तिं याति रागादिभिः समम् ।
चेतः प्रसत्तिमाधत्ते वृद्धसेवावलम्बिनाम् ॥२॥

निर्मलीकुरु वैराग्यं चित्तदैत्यं नियन्त्रय ।
आसादय वरां बुद्धिं दुर्बुद्धे वृद्धसाक्षिकम् ॥३॥

स्वतत्त्वनिकषोद्भूतं विवेकालोकवर्धितम् ।
येषां बोधमयं चक्षुस्ते वृद्धा विदुषां मताः ॥४॥

तपःश्रुतधृतिध्यानविवेकयमसंयमैः ।
ये वृद्धास्तेऽत्र शस्यन्ते न पुनः पलिताङ्कुरैः ॥५॥

प्रत्यासत्तिं समायातैर्विषयैः स्वान्तरञ्जकैः ।
न धैर्यं स्खलितं येषां ते वृद्धा विबुधैर्मताः ॥६॥

न हिं स्वप्नेऽपि संजाता येषां सद्वृत्तवाच्यता ।
यौवनेऽपि मता वृद्धास्ते धन्याः शीलशालिभिः ॥७॥

प्रायःशरीरशैथिल्यात्स्यात्स्वस्था मतिरङ्गिनाम् ।
यौवने तु क्वचित्कुर्याद्दृष्टतत्त्वोऽपि विक्रियाम् ॥८॥

वार्धक्येन वपुर्धत्ते शैथिल्यं च यथा यथा ।
तथा तथा मनुष्याणां विषयाशा निवर्त्तते ॥९॥

हीनाचरणसंभ्रान्तो वृद्धोऽपि तरुणायते ।
तरुणोऽपि सतां धत्ते श्रियं सत्संगवासितः ॥१०॥

साक्षाद्वृद्धानुसेवेयं मातेव हितकारिणी ।
विनेत्री वागिवाप्तानां दीपिकेवार्थदर्शिनी ॥११॥

कदाचिद्दैववैमुख्यान्माताऽपि विकृतिं भजेत् ।
न देशकालयोः क्वापि वृद्धसेवा कृता सती ॥१२॥

अन्ध एव वराकोऽसौ न सतां यस्य भारती ।
श्रुतिरन्ध्रं समासाद्य प्रस्फुरत्यधिकं हृदि ॥१३॥

सत्संसर्गसुधास्यन्दैः पुंसां हृदि पवित्रिते ।
ज्ञानलक्ष्मीः पदं धत्ते विवेकमुदिता सती ॥१४॥

वृद्धोपदेशघर्मांशुं प्राप्य चित्तकुशेशयम् ।
न प्राबोधि कथं तत्र संयमश्रीः स्थितिं दधे ॥१५॥

अनुपास्यैव यो वृद्धमण्डलीं मन्दविक्रमः ।
जगत्तत्त्वस्थितिं वेत्ति स मिमीते नभः करैः ॥१६॥

शीतांशुरश्मिसंपर्काद्विसर्पति यथाम्बुधिः ।
तथा सद्वृत्तसंसर्गान्नृणां प्रज्ञापयोनिधिः ॥१७॥

नैराश्यमनुबध्नाति विध्याप्याशाहविर्भुजं ।
आसाद्य यमिनां योगी वाक्पथातीतसंयमम् ॥१८॥

वृद्धानुजीविनामेव स्युश्चारित्रादिसम्पदः ।
भवत्यपि च निर्लेपं मनः क्रोधादिकश्मलम् ॥१९॥

सुलभेष्वपि भोगेषु नृणां तृष्णा निवर्तते ।
सत्संसर्गसुधास्यन्दैः शश्वदार्द्रीकृतात्मनाम् ॥२०॥

कातरत्वं परित्यज्य धैर्यमेवावलम्बते ।
सत्संगजपरिज्ञानरञ्जितात्मा जनः स्वयम् ॥२१॥

पुण्यात्मनां गुणग्रामसीमासंसक्तमानसैः ।
तीर्यते यमिभिः किं न कुविद्यारागसागरः ॥२२॥

तत्त्वे तपसि वैराग्ये परां प्रीतिं समश्नुते ।
हृदि स्फुरति यस्योच्चैर्वृद्धवाग्दीपसन्ततिः ॥२३॥

मिथ्यात्वादिनगोत्तुङ्गशृङ्गभङ्गाय कल्पितः ।
विवेकः साधुसंगोत्थो वज्रादप्यजयो नृणाम् ॥२४॥

अप्यनादिसमुद्भूतं क्षीयते निबिडं तमः ।
वृद्धानुयायिनां च स्याद्विश्वतत्त्वैकनिश्चयः ॥२५॥

अन्तःकरणजं कर्म यः स्फोटयितुमिच्छति ।
स योगिवृन्दमाराध्य करोत्यात्मन्यवस्थितिम् ॥२६॥

एकैव महतां सेवा स्याज्जेत्री भुवनत्रये ।
ययैव यमिनामुच्चैरन्तर्ज्योतिर्विजृम्भते ॥२७॥

दृष्ट्वा श्रुत्वा यमी योगिपुण्यानुष्ठानमूर्जितम् ।
आक्रामति निरातङ्कः पदवीं तैरुपासिताम् ॥२८॥

विश्वविद्यासु चातुर्यं विनयेष्वतिकौशलम् ।
भावशुद्धिः स्वसिद्धान्ते सत्संगादेव देहिनाम् ॥२९॥

यथात्र शुद्धिमाधत्ते स्वर्णमत्यन्तमग्निना ।
मनःसिद्धिं तथा ध्यानी योगिसंसर्गवह्निना ॥३०॥

भयलज्जाभिमानेन धैर्यमेवावलम्बते ।
साहचर्यं समासाद्य संयमी पुण्यकर्मणाम् ॥३१॥

शरीराहारसंसारकामभोगेष्वपि स्फुटम् ।
विरज्यति नरः क्षिप्रं सद्भिः सूत्रे प्रतिष्ठितः ॥३२॥

यथा यथा मुनिर्धत्ते चेतः सत्संगवासितम् ।
तथा तथा तपोलक्ष्मीः परां प्रीतिं प्रकाशयेत् ॥३३॥

तपः कुर्वन्तु वा मा वा चेद्वृद्धान्समुपासते ।
तीर्त्वा व्यसनकान्तारं यान्ति पुण्यां गतिं नराः ॥३४॥

कुर्वन्नपि तपस्तीव्रं विदन्नपि श्रुतार्णवम् ।
नासादयति कल्याणं चेद्वृद्धानवमन्यते ॥३५॥

मनोऽभिमतनिःशेषफलसंपादनक्षमं ।
कल्पवृक्षमिवोदारं साहचर्यं महात्मनाम् ॥३६॥

जायते यत्समासाद्य न हि स्वप्नेऽपि दुर्मतिः ।
मुक्तिबीजं तदेकं स्यादुपदेशाक्षरं सताम् ॥३७॥

तन्न लोके परं धाम न तत्कल्याणमग्रिमं ।
यद्योगिपदराजीवसंश्रितैर्नाधिगम्यते ॥३८॥

अन्तर्लीनमपि ध्वान्तमनादिप्रभवं नृणाम् ।
क्षीयते साधुसंसर्गप्रदीपप्रसराहतम् ॥३९॥

दहति दुरितकक्षं कर्मबन्ध लुनीते
वितरति यमसिद्धिं भावशुद्धिं तनोति ।
नयति जननतीरं ज्ञानराज्यं च दत्ते
ध्रुवमिह मनुजानां वृद्धसेवैव साध्वी ॥४०॥

विरम विरम सङ्गान्मुञ्च मुञ्च प्रपंचं
विसृज विसृज मोहं विद्धि विद्धि स्वतत्त्वम् ।
कलय कलय वृत्तं पश्य पश्य स्वरूपं
कुरु कुरु पुरुषार्थं निर्वृतानन्दहेतोः ॥४१॥

अतुलसुखनिधानं ज्ञानविज्ञानबीजं
विलयगतकलङ्कं शान्तविश्वप्रचारम् ।
गलितसकलशङ्कं विश्वरूपं विशालं
भज विगतविकारं स्वात्मनात्मानमेव ॥४२॥

धन्यास्ते मुनिमण्डलस्य गुरुतां प्राप्ताः स्वयं योगिनः
शुद्ध्यत्येव जगत्त्रयी शमवतां श्रीपादरागाङ्किता ।
तेषां संयमसिद्धयः सुकृतिनां स्वप्नेऽपि येषां मनो
नालीढं विषयैर्न कामविशिखैर्नैवाङ्गनालोचनैः ॥४३॥

येषां वाग्भुवनोपकारचतुरा प्रज्ञा विवेकास्पदम्
ध्यानं ध्वस्तसमस्तकर्मकवचं वृत्तं कलङ्कोज्झितम् ।
सम्यग्ज्ञानसुधातरङ्गनिचयैश्चेतश्च निर्वापितं
धन्यास्ते शमयन्त्वनङ्गविशिखव्यापारजाता रुजः ॥४४॥

चञ्चद्भिश्चिरमप्यनङ्गपरशुप्रख्यैर्वधूलोचनै-
र्येषामिष्टफलप्रदः कृतधियां नाच्छेदि शीलद्रुमः ।
धन्यास्ते शमयन्तु सन्ततमिलद्दुर्वारकामानल-
ज्वालाजालकरालमानसमिदं विश्वं विवेकाम्बुभिः ॥४५॥

यदि विषयपिशाची निर्गता देहगेहात्
सपदि यदि विशीर्णो मोहनिद्रातिरेकः ।
यदि युवतिकरङ्के निर्ममत्वं प्रपन्नो
झगिति ननु विधेहि ब्रह्मवीथीविहारम् ॥४६॥

स्मरभोगीन्द्रदुर्वारविषानलकरालितम् ।
जगद्यैः शान्तिमानीतं ते जिनाः सन्तु शान्तये ॥४७॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते ब्रह्मचर्यमहाव्रतवर्णनं नाम
पञ्चदशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ७: ‘हिं’ छपा है; ‘हि’ होना चाहिए
  • श्लोक ४०: ‘कर्मबन्ध’ छपा है; ‘कर्मबन्धं’ होना चाहिए

सर्ग 16: परिग्रहत्याग महाव्रत

यानपात्रमिवाम्भोधौ गुणवानपि मज्जति ।
परिग्रहगुरुत्वेन संयमी जन्मसागरे ॥१॥

बाह्यान्तर्भूतभेदेन द्विधा ते स्युः परिग्रहाः ।
चिदचिद्रूपिणो बाह्या अन्तरङ्गास्तु चेतनाः ॥२॥

दश ग्रन्था मता बाह्या अन्तरङ्गाश्चतुर्दश ।
तान्मुक्त्वा भव निःसंगो भावशुद्ध्या भृशं मुने ॥३॥

वास्तु क्षेत्रं धनं धान्यं द्विपदाश्च चतुष्पदाः ।
शयनासनयानं च कुप्यं भाण्डममी दश ॥४॥

निःसङ्गोऽपि मुनिर्न स्यात्समूर्च्छः संगवर्जितः ।
यतो मूर्च्छैव तत्त्वज्ञैः संगसूतिः प्रकीर्तिता ॥५॥

स्वजनधनधान्यदाराः पशुपुत्रपुराकरा गृहं भृत्याः ।
मणिकनकरचितशय्या वस्त्राभरणादि बाह्यार्थाः ॥६॥

संवृतस्य सुवृत्तस्य जिताक्षस्यापि योगिनः ।
व्यामुह्यति मनः क्षिप्रं धनाशाव्यालविप्लुतम् ॥७॥

त्याज्य एवाखिलः सङ्गो मुनिभिर्मोक्तुमिच्छुभिः ।
स चेत्त्यक्तुं न शक्नोति कार्यस्तर्ह्यात्मदर्शिभिः ॥८॥

नाणवोऽपि गुणा लोके दोषा शैलेन्द्रसन्निभाः ।
भवन्त्यत्र न सन्देहः संगमासाद्य देहिनाम् ॥९॥

अन्तर्बाह्यभुवोः शुद्ध्योर्योगाद्योगी विशुद्ध्यति ।
नह्येकं पत्रमालम्ब्य व्योम्नि पत्री विसर्पति ॥१०॥

साध्वीयं स्याद्बहिःशुद्धिरन्तःशुद्ध्याऽत्र देहिनाम् ।
फल्गुभावं भजत्येव बाह्या त्वाध्यात्मिकीं विना ॥११॥

संगात्कामस्ततः क्रोधस्तस्माद्धिंसा तयाऽशुभम् ।
तेन श्वाभ्री गतिस्तस्यां दुःखं वाचामगोचरम् ॥१२॥

संग एव मतः सूत्रे निःशेषानर्थमन्दिरं ।
येनासन्तोऽपि सूयन्ते रागाद्या रिपवः क्षणे ॥१३॥

रागादिविजयः सत्यं क्षमा शौचं वितृष्णता ।
मुनेः प्रच्याव्यते नूनं सङ्गैर्व्यामोहितात्मनः ॥१४॥

सङ्गाः शरीरमासाद्य स्वीक्रियन्ते शरीरिभिः ।
तत्प्रागेव सुनिःसारं योगिभिः परिकीर्तितम् ॥१५॥

हृषीकराक्षसानीकं कषायभुजगव्रजम् ।
वित्तामिषमुपादाय धत्ते कामप्युदीर्णतां ॥१६॥

उन्मूलयति निर्वेदविवेकद्रुममञ्जरीः ।
प्रत्यासत्तिं समायातः सतामपि परिग्रहः ॥१७॥

लुप्यते विषयव्यालैर्भिद्यते मारमार्गणैः ।
रुध्यते वनिताव्याधैर्नरः सङ्गैरभिद्रुतः ॥१८॥

यः संगपङ्कनिर्मग्नोऽप्यपवर्गाय चेष्टते ।
स मूढः पुष्पनाराचैर्विभिन्द्यात्त्रिदशाचलम् ॥१९॥

अणुमात्रादपि ग्रन्थान्मोहग्रन्थिर्दृढीभवेत् ।
विसर्पति ततस्तृष्णा यस्यां विश्वं न शान्तये ॥२०॥

परीषहरिपुव्रातं तृच्छवृत्तैकभीतिदम् ।
वीक्ष्य धैर्यं विमुञ्चन्ति यतयः सङ्गसङ्गताः ॥२१॥

सर्वसंगपरित्यागः कीर्त्यते श्रीजिनागमे ।
यस्तमेवान्यथा ब्रूते स हीनः स्वान्यघातकः ॥२२॥

यमप्रशमजं राज्यं तपःश्रुतपरिग्रहं ।
योगिनोऽपि विमुञ्चन्ति वित्तवेतालपीडिताः ॥२३॥

पुण्यानुष्टानजातेषु निःशेषाभीष्टसिद्धिषु ।
कुर्वन्ति नियतं पुंसां प्रत्यूहं धनसंग्रहाः ॥२४॥

अत्यक्तसंगसन्तानो मोक्तुमात्मानमुद्यतः ।
बध्नन्नपि न जानाति स्वं धनैः कर्मबन्धनैः ॥२५॥

अपि सूर्यस्त्यजेद्धाम स्थिरत्वं वा सुराचलः ।
न पुनः संगसंकीर्णो मुनिः स्यात्संवृतेन्द्रियः ॥२६॥

बाह्यानपि च यः सङ्गान्परित्यक्तुमनीश्वरः ।
स क्लीबः कर्मणां सैन्यं कथमग्रे हनिष्यति ॥२७॥

स्मरभोगीन्द्रवल्मीकं रागाद्यरिनिकेतनं ।
क्रीडास्पदमविद्यानां बुधैर्वित्तं प्रकीर्तितम् ॥२८॥

अत्यल्पे धनजम्बाले निमग्नो गुणवानपि ।
जगत्यस्मिन् जनः क्षिप्रं दोषलक्षैः कलङ्क्यते ॥२९॥

संन्यस्तसर्वसंगेभ्यो गुरुभ्योऽप्यतिशङ्क्यते ।
धनिभिर्धनरक्षार्थं रात्रावपि न सुप्यते ॥३०॥

सुतस्वजनभूपालदुष्टचौरारिविड्वरात् ।
बन्धुमित्रकलत्रेभ्यो धनिभिः शङ्क्यते भृशं ॥३१॥

कर्म बध्नाति यज्जीवो धनाशाकश्मलीकृतः ।
तस्य शान्तिर्यदि क्लेशाद्बहुभिर्जन्मकोटिभिः ॥३२॥

सर्वसंगविनिर्मुक्तः संवृताक्षः स्थिराशयः ।
धत्ते ध्यानधुरां धीरः संयमी वीरवर्णितां ॥३३॥

सङ्गपङ्कात्समुत्तीर्णो नैराश्यमवलम्बते ।
ततो नाक्रम्यते दुःखैः पारतन्त्र्यैः क्वचिन्मुनिः ॥३४॥

विजने जनसंकीर्णे सुस्थिते दुःस्थितेऽपि वा ।
सर्वत्राप्रतिबद्धः स्यात्संयमी संगवर्जितः ॥३५॥

दुःखमेव धनव्यालविषविध्वस्तचेतसां ।
अर्जने रक्षणे नाशे पुंसां तस्य परिक्षये ॥३६॥

स्वजातीयैरपि प्राणी सद्योऽभिद्रूयते धनी ।
यथात्र सामिषः पक्षी पक्षिभिर्बद्धमण्डलैः ॥३७॥

आरम्भो जन्तुघातश्च कषायाश्च परिग्रहात् ।
जायन्तेऽत्र ततः पातः प्राणिनां श्वभ्रसागरे ॥३८॥

न स्याद्ध्यातुं प्रवृत्तस्य चेतः स्वप्नेऽपि निश्चलं ।
मुनेः परिग्रहग्राहैर्भिद्यमानमनेकधा ॥३९॥

सकलविषयबीजं सर्वसावद्यमूलं
नरकनगरकेतुं वित्तजातं विहाय ।
अनुसर मुनिवृन्दानन्दि सन्तोषराज्य-
मभिलषसि यदि त्वं जन्मबन्धव्यपायम् ॥४०॥

एनः किं न धनप्रसक्तमनसां नासादि हिंसादिना
कस्तस्यार्जनरक्षणक्षयकृतैर्नादाहि दुःखानलैः ।
तत्प्रागेव विचार्य वर्जय वरं व्यामूढ वित्तस्पृहां
येनैकास्पदतां न यासि विषयैः पापस्य तापस्य च ॥४१॥

एवं तावदहं लभेय विभवं रक्षेयमेवं तत-
स्तद्वृद्धिं गमयेयमेवमनिशं भुञ्जीय चैवं पुनः ।
द्रव्याशारसरुद्धमानस भृशं नात्मानमुत्पश्यसि
क्रुद्ध्यत्क्रूरकृतान्तदन्तपटलीयन्त्रान्तरालस्थितम् ॥४२॥

इति श्री ज्ञानार्णवे योगप्रदीपाधिकारे श्री शुभचन्द्राचार्यविरचिते षोडशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ९: ‘दोषा’ छपा है; ‘दोषाः’ होना चाहिए
  • श्लोक २१: ‘तृच्छवृत्तैकभीतिदम्’ छपा है; ‘तुच्छवृत्तैकभीतिदम्’ होना चाहिए
  • श्लोक २४: ‘पुण्यानुष्टानजातेषु’ छपा है; ‘पुण्यानुष्ठानजातेषु’ होना चाहिए

सर्ग 17: आशा की निंदा

बाह्यान्तर्भूतनिःशेषसंगसंन्याससिद्धये ।
आशां सद्भिर्निराकृत्य नैराश्यमवलंब्यते ॥१॥

यावद्यावच्छरीराशा धनाशा वा विसर्पति ।
तावत्तावन्मनुष्याणां मोहग्रन्थिर्दृढीभवेत् ॥२॥

अनिरुद्धा सती शश्वदाशा विश्वं प्रसर्पति ।
ततो निबद्धमूलाऽसौ पुनश्छेत्तुं न शक्यते ॥३॥

यद्याशा शान्तिमायाता तदा सिद्धं समीहितम् ।
अन्यथा भवसंभूतो दुःखवार्धिर्दुरुत्तरः ॥४॥

यमप्रशमराज्यस्य सद्बोधार्कोदयस्य च ।
विवेकस्यापि लोकानामाशैव प्रतिषेधिका ॥५॥

आशामपि न सर्पन्तीं यः क्षणं रक्षितुं क्षमः ।
तस्यापवर्गसिद्ध्यर्थं वृथा मन्ये परिश्रमम् ॥६॥

आशैव मदिराऽक्षाणामाशैव विषमञ्जरी ।
आशा मूलानि दुःखानि प्रभवन्तीह देहिनाम् ॥७॥

त एव सुखिनो धीरा यैराशाराक्षसी हता ।
महाव्यसनसंकीर्णश्चोत्तीर्णः क्लेशसागरः ॥८॥

येषामाशा कुतस्तेषां मनःशुद्धिः शरीरिणाम् ।
अतो नैराश्यमालंब्य शिवीभूता मनीषिणः ॥९॥

सर्वाशां यो निराकृत्य नैराश्यमवलम्बते ।
तस्य क्वचिदपि स्वान्तं संगपङ्कैर्न लिप्यते ॥१०॥

तस्य सत्यं श्रुतं वृत्तं विवेकस्तत्त्वनिश्चयः ।
निर्ममत्वं च यस्याशापिशाची निधनं गता ॥११॥

यावदाशानलश्चित्ते जाज्वलीति विशृङ्खलः ।
तावत्तव महादुःखदाहशान्तिः कुतस्तनी ॥१२॥

निराशतासुधापूरैर्यस्य चेतः पवित्रितम् !
तमालिङ्गति सोत्कण्ठं शमश्रीर्बद्धसौहृदा ॥१३॥

न मज्जति मनो येषामाशाम्भसि दुरुत्तरे ।
तेषामेव जगत्यस्मिन्फलितो ज्ञानपादपः ॥१४॥

शक्रोऽपि न सुखी स्वर्गे स्यादाशानलदीपितः ।
विध्याप्याशानलज्वालां श्रयन्ति यमिनः शिवम् ॥१५॥

चरस्थिरार्थजातेषु यस्याशा प्रलयं गता ।
किं किं न तस्य लोकेऽस्मिन्मन्ये सिद्धं समीहितं ॥१६॥

चापलं त्यजति स्वान्तं विक्रियाश्चाक्षदन्तिनः ।
प्रशाम्यति कषायाग्निर्नैराश्याधिष्ठितात्मनाम् ॥१७॥

किमत्र बहुनोक्तेन यस्याशा निधनं गता ।
स एव महतां सेव्यो लोकद्वयविशुद्धये ॥१८॥

आशा जन्मोग्रपङ्काय शिवायाशाविपर्ययः ।
इति सम्यक्समालोच्य यद्धितं तत्समाचर ॥१९॥

न स्याद्विक्षिप्तचित्तानां स्वेष्टसिद्धिः क्वचिन्नृणाम् ।
कथं प्रक्षीणविक्षेपा भवन्त्याशाग्रहक्षताः ॥२०॥

विषयविपिनवीथीसंकटे पर्यटन्ती
झटिति घटितवृद्धिः क्वापि लब्धावकाशा ।
अपि नियमिनरेन्द्रानाकुलत्वं नयन्ती
छलयति खलु कं वा नेयमाशापिशाची ॥२१॥

इति श्रीज्ञानार्णवे श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे आशापिशाचीवर्णनं नाम
सप्तदशं प्रकरणम् ॥

सर्ग 18: पंचसमिति आदि का वर्णन

महत्त्वहेतोर्गुणिभिः श्रितानि महान्ति मत्वा त्रिदशैर्नुतानि ।
महासुखज्ञाननिबन्धनानि महाव्रतानीति सतां मतानि ॥१॥

महाव्रतविशुद्ध्यर्थं भावनाः पञ्चविंशतिः ।
परमासाद्य निर्वेदपदवीं भव्य भावय ॥२॥

ईर्या भाषैषणादाननिक्षेपोत्सर्गसंज्ञकाः ।
सद्भिः समितयः पञ्च निर्दिष्टाः संयतात्मभिः ॥३॥

वाक्कायचित्तजानेकसावद्यप्रतिषेधकं ।
त्रियोगरोधनं वा स्याद्यत्तद्गुप्तित्रयं मतम् ॥४॥

सिद्धक्षेत्राणि सिद्धानि जिनबिम्बानि वन्दितुम् ।
गुर्वाचार्यतपोवृद्धान्सेवितुं व्रजतोऽथवा ॥५॥

दिवा सूर्यकरैः स्पष्टं मार्गं लोकातिवाहितम् ।
दयार्द्रस्याङ्गिरक्षार्थं शनैः संश्रयतो मुनेः ॥६॥

प्रागेवालोक्य यत्नेन युगमात्राहितेऽक्षिणः ।
प्रमादरहितस्यास्य समितीर्या प्रकीर्तिता ॥७॥

धूर्तकामुकक्रव्यादचौरचार्वाकसेविता ।
शङ्कासङ्केतपापाढ्या त्याज्या भाषा मनीषिभिः ॥८॥

दशदोषविनिर्मुक्तां सूत्रोक्तां साधुसम्मताम् ।
गदतोऽस्य मुनेर्भाषां स्याद्भाषासमितिः परा ॥९॥

उद्गमोत्पादसंज्ञैस्तैर्धूमाङ्गारादिगैस्तथा ।
दोषैर्मलैर्विनिर्मुक्तं विघ्नशङ्कादिवर्जितम् ॥१०॥

शुद्धं काले परैर्दत्तमनुद्दिष्टमयाचितम् ।
अदतोऽन्नं मुनेर्ज्ञेया एषणासमितिः परा ॥११॥

शय्यासनोपधानानि शास्त्रोपकरणानि च ।
पूर्वं सम्यक्समालोच्य प्रतिलिख्य पुनः पुनः ॥१२॥

गृह्णतोऽस्य प्रयत्नेन क्षिपतो वा धरातले ।
भवत्यविकला साधोरादानसमितिः स्फुटं ॥१३॥

विजन्तुकधरापृष्ठे मूत्रश्लेष्ममलादिकम् ।
क्षिपतोऽतिप्रयत्नेन व्युत्सर्गसमितिर्भवेत् ॥१४॥

विहाय सर्वसंकल्पान् रागद्वेषावलम्बितान् ।
स्वाधीनं कुरुते चेतः समत्वे सुप्रतिष्ठितम् ॥१५॥

सिद्धान्तसूत्रविन्यासे शश्वत्प्रेरयतोऽथवा ।
भवत्यविकला नाम मनोगुप्तिर्मनीषिणः ॥१६॥

साधुसंवृतवाग्वृत्तैर्मौनारूढस्य वा मुनेः ।
संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामुनेः ॥१७॥

स्थिरीकृतशरीरस्य पर्यङ्कसंस्थितस्य वा ।
परीषहप्रपातेऽपि कायगुप्तिर्मता मुनेः ॥१८॥

जनन्यो यमिनामष्टौ रत्नत्रयविशुद्धिदाः ।
एताभी रक्षितं दोषैर्मुनिवृन्दं न लिप्यते ॥१९॥

इति कतिपयवर्णैश्चर्चितं चित्ररूपं चरणमनघमुच्चैश्चेतसां शुद्धिधाम ।
अविदितपरमार्थैर्यन्न साध्यं विपक्षैस्तदिदमनुसरन्तु ज्ञानिनः शान्तदोषाः ॥२०॥

सम्यगेतत्समासाद्य त्रयं त्रिभुवनार्चितम् ।
द्रव्यक्षेत्रादिसामग्र्या भव्यः सपदि मुच्यते ॥२१॥

एतत्समयसर्वस्वं मुक्तेश्चैतन्निबन्धनम् ।
हितमेतद्धि जीवानामेतदेवाग्रिमं पदम् ॥२२॥

ये याता यान्ति यास्यन्ति यमिनः पदमव्ययम् ।
समाराध्यैव ते नूनं रत्नत्रयमखण्डितम् ॥२३॥

साक्षादिदमनासाद्य जन्मकोटिशतैरपि ।
दृश्यते न हि केनापि मुक्तिश्रीमुखपङ्कजम् ॥२४॥

दृग्बोधचरणान्याहुः स्वमेवाध्यात्मवेदिनः ।
यतस्तन्मय एवासौ शरीरी वस्तुतः स्थितः ॥२५॥

निर्णीतेऽस्मिन्स्वयं साक्षान्नापरः कोऽपि मृग्यते ।
यतो रत्नत्रयस्यैषः प्रसूतेरग्रिमं पदम् ॥२६॥

जानाति यः स्वयं स्वस्मिन्स्वस्वरूपं गतभ्रमः ।
तदेव तस्य विज्ञानं तद्वृत्तं तच्च दर्शनम् ॥२७॥

स्वज्ञानादेव मुक्तिः स्याज्जन्मबन्धस्ततोऽन्यथा ।
एतदेव जिनोद्दिष्टं सर्वस्वं बन्धमोक्षयोः ॥२८॥

आत्मैव मम विज्ञानं दृग्वृत्तं चेति निश्चयः ।
मत्तः सर्वेऽप्यमी भावा बाह्याः संयोगलक्षणाः ॥२९॥

अयमात्मैव सिद्धात्मा स्वशक्त्याऽपेक्षया स्वयम् ।
व्यक्तीभवति सद्ध्यानवह्निनाऽत्यन्तसाधितः ॥३०॥

एतदेव परं तत्त्वं ज्ञानमेतद्धि शाश्वतम् ।
अतोऽन्यो यः श्रुतस्कन्धः स तदर्थं प्रपञ्चितः ॥३१॥

अपास्य कल्पनाजालं चिदानन्दमये स्वयम् ।
यः स्वरूपे लयं प्राप्तः स स्याद्रत्नत्रयास्पदम् ॥३२॥

सुप्तेष्वक्षेषु जागर्ति पश्यत्यात्मानमात्मनि ।
वीतविश्वविकल्पोऽसौ सः स्वदर्शी बुधैर्मतः ॥३३॥

निःशेषक्लेशनिर्मुक्तममूर्त्तं परमाक्षरम् ।
निष्प्रपञ्चं व्यतीताक्षं पश्य स्वं स्वात्मनि स्थितम् ॥३४॥

नित्यानन्दमयं शुद्धं चित्स्वरूपं सनातनम् ।
पश्यात्मनि परं ज्योतिरद्वितीयमनव्ययम् ॥३५॥

यस्यां निशि जगत्सुप्तं तस्यां जागर्ति संयमी ।
निष्पन्नं कल्पनातीतं स वेत्त्यात्मानमात्मनि ॥३६॥

या निशा सर्वभूतेषु तस्यां जागर्त्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥३७॥

यस्य हेयं न वाऽऽदेयं निःशेषं भुवनत्रयम् ।
उन्मीलयति विज्ञानं तस्य स्वान्यप्रकाशकम् ॥३८॥

दृश्यन्ते भुवि किं न तेऽल्पमतयः संख्याव्यतीताश्चिरम्
ये लीलां परमेष्ठिनो निजनिजैस्तन्वन्ति वाग्भिः परम् ।
तं साक्षादनुभूय नित्यपरमानन्दाम्बुराशिं पुन-
र्ये जन्मभ्रममुत्सृजन्ति सहसा धन्यास्तु ते दुर्लभाः ॥३९॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्रीशुभचन्द्राचार्यविरचिते रत्नत्रयवर्णनं नाम
अष्टादशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक २६: ‘रत्नत्रयस्यैषः’ छपा है; ‘रत्नत्रयस्यैष’ होना चाहिए
  • श्लोक ३३: ‘सः’ छपा है; ‘स’ होना चाहिए

खोज: Gyanarnav Mul Shlok

श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
अनुयोग सूची: अनुयोग अनुसार ग्रन्थ (अ से ज्ञ)
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
ज्ञानार्णव श्लोक एवं अर्थ (आचार्य शुभचन्द्र) | Gyanarnav Shlok Evam Arth (Acharya Shubhchandra)

सर्ग 19: कषाय की निंदा

सत्संयममहारामं यमप्रशमजीवितम् ।
देहिनां निर्दहत्येव क्रोधवह्निः समुत्थितः ॥१॥

दृग्बोधादिगुणानर्घ्यरत्नप्रचयसंचितम् ।
भाण्डागारं दहत्येव क्रोधवह्निः समुत्थितः ॥२॥

संयमोत्तमपीयूषं सर्वाभिमतसिद्धिदम् ।
कषायविषसेकोऽयं निःसारीकुरुते क्षणात् ॥३॥

तपःश्रुतयमाधारं वृत्तविज्ञानवर्द्धितम् ।
भस्मीभवति रोषेण पुंसां धर्मात्मकं वपुः ॥४॥

अयं समुत्थितः क्रोधो धर्मसारं सुरक्षितम् ।
निर्दहत्येव निःशङ्कं शुष्कारण्यमिवानलः ॥५॥

पूर्वमात्मानमेवासौ क्रोधान्धो दहति ध्रुवम् ।
पश्चादन्यन्न वा लोको विवेकविकलाशयः ॥६॥

कुर्वन्ति यतयोऽप्यत्र क्रुद्धास्तत्कर्म निन्दितम् ।
हत्वा लोकद्वयं येन विशन्ति धरणीतलम् ॥७॥

क्रोधाद्दीपायनेनापि कृतं कर्मातिगर्हितम् ।
दग्ध्वा द्वारावती नाम पूः स्वर्गनगरीनिभा ॥८॥

लोकद्वयविनाशाय पापाय नरकाय च ।
स्वपरस्यापकाराय क्रोधः शत्रुः शरीरिणाम् ॥९॥

अनादिकालसंभूतः कषायविषमग्रहः ।
स एवानन्तदुर्वारदुःखसंपादनक्षमः ॥१०॥

तस्मात्प्रशममालम्ब्य क्रोधवैरी निवार्यताम् ।
जिनागममहाम्भोधेरवगाहश्च सेव्यताम् ॥११॥

क्रोधवह्नेः क्षमैकेयं प्रशान्तौ जलवाहिनी ।
उद्दामसंयमारामवृत्तिर्वाऽत्यन्तनिर्भरा ॥१२॥

जयन्ति यमिनः क्रोधं लोकद्वयविरोधकं ।
तन्निमित्तेऽपि संप्राप्ते भजन्तो भावनामिमां ॥१३॥

यद्यद्य कुरुते कोऽपि मां स्वस्थं कर्मपीडितम् ।
चिकित्सित्वा स्फुटं दोषं स एवाकृत्रिमः सुहृत् ॥१४॥

हत्वा स्वपुण्यसन्तानं मद्दोषं यो निकृन्तति ।
तस्मै यदिह रुष्यामि मदन्यः कोऽधमस्तदा ॥१५॥

आक्रुष्टोऽहं हतो नैव हतो वा न द्विधाकृतः ।
मारितो न हतो धर्मो मदीयोऽनेन बन्धुना ॥१६॥

संभवन्ति महाविघ्ना इह निःश्रेयसार्थिनाम् ।
ते चेत् किल समायाताः समत्वं संश्रयाम्यतः ॥१७॥

चेन्मामुद्दिश्य भ्रश्यन्ति शीलशैलात्तपस्विनः ।
अमी अतोऽत्र मज्ञन्म परक्लेशाय केवलम् ॥१८॥

प्राङ्मया यत्कृतं कर्म तन्मयैवोपभुज्यते ।
मन्ये निमित्तमात्रोऽन्यः सुखदुःखोद्यतो जनः ॥१९॥

मदीयमपि चेच्चेतः क्रोधाद्यैर्विप्रलुप्यते ।
अज्ञातज्ञाततत्त्वानां को विशेषस्तदा भवेत् ॥२०॥

न्यायमार्गे प्रपन्नेऽस्मिन्कर्मपाके पुरःस्थिते ।
विवेकी कस्तदात्मानं क्रोधादीनां वशं नयेत् ॥२१॥

सहस्व प्राक्तनासातफलं स्वस्थेन चेतसा ।
निष्प्रतीकारमालोक्य भविष्यद्दुःखशङ्कितः ॥२२॥

उद्दीपयन्तो रोषाग्निं बहु विक्रम्य विद्विषः ।
मन्ये विलोपयिष्यन्ति क्वचिन्मत्तः शमश्रियम् ॥२३॥

अप्यसह्ये समुत्पन्ने महाक्लेशसमुत्करे ।
तुष्यत्यपि च विज्ञानी प्राक्कर्मविलयोद्यतः ॥२४॥

यदि वाक्कण्टकैर्विद्धो नावलम्बे क्षमामहम् ।
ममाप्याक्रोशकादस्मात्को विशेषस्तदा भवेत् ॥२५॥

विचित्रैर्वधबन्धादिप्रयोगैर्न चिकित्सति ।
यद्यसौ मां तदा क्व स्यात्संचितासातनिष्क्रियः ॥२६॥

यः शमः प्राक्समभ्यस्तो विवेकज्ञानपूर्वकः ।
तस्यैतेऽद्य परीक्षार्थं प्रत्यनीकाः समुत्थिताः ॥२७॥

यदि प्रशममर्यादां भित्वा रुष्यामि शत्रवे ।
उपयोगः कदाऽस्य स्यात्तदा मे ज्ञानचक्षुषः ॥२८॥

अयत्नेनापि सैवेयं संजाता कर्मनिर्जरा ।
चित्रोपायैर्ममानेन यत्कृता भर्त्स्ययातना ॥२९॥

अपारयन्बोधयितुं पृथग्जनानसत्प्रवृत्तेष्वपि नाऽसदाचरेत् ।
अशक्नुवन्पीतविषं चिकित्सितुं पिबेद्विषं कः स्वयमप्यबालिशः ॥३०॥

न चेदयं मां दुरितैः प्रकम्पयेदहं यतेयं प्रशमाय नाधिकम् ।
अतोऽतिलाभोऽयमिति प्रतर्कयन् विचाररूढा हि भवन्ति निश्चलाः ॥३१॥

परपरितोषनिमित्तं त्यजन्ति केचिद्घनं शरीरं वा ।
दुर्वचनबन्धनाद्यैर्वयं रुषन्तो न लज्जामः ॥३२॥

हन्तुर्हानिर्ममात्मार्थसिद्धिः स्यान्नात्र संशयः ।
हतो यदि न रुष्यामि रोषश्चेद् व्यत्ययस्तदा ॥३३॥

प्राणात्ययेऽपि सम्पन्ने प्रत्यनीकप्रतिक्रिया ।
मता सद्भिः स्वसिद्ध्यर्थं क्षमैका स्वस्थचेतसाम् ॥३४॥

इयं निकषभूरद्य सम्पन्ना पुण्ययोगतः ।
शमत्वं किं प्रपन्नोऽस्मि न वेत्यद्य परीक्ष्यते ॥३५॥

स एव प्रशमः श्लाघ्यः स च श्रेयोनिबन्धनम् ।
अदयैर्हन्तुकामैर्यो न पुंसाः कश्मलीकृतः ॥३६॥

चिराभ्यस्तेन किं तेन शमेनास्त्रेण वा फलम् ।
व्यर्थीभवति यत्कार्ये समुत्पन्ने शरीरिणाम् ॥३७॥

प्रत्यनीके समुत्पन्ने यद्धैर्यं तद्धि शस्यते ।
स्यात्सर्वोऽपि जनः स्वस्थः सत्यशौचक्षमास्पदः ॥३८॥

वासीचन्दनतुल्यान्तर्वृत्तिमालम्ब्य केवलम् ।
आरब्धं सिद्धिमानीतं प्राचीनैर्मुनिसत्तमैः ॥३९॥

कृतैर्वान्यैः स्वयं जातैरुपसर्गैः कलङ्कितम् ।
येषां चेतः कदाचित्तैर्न प्राप्ताः स्वेष्टसम्पदः ॥४०॥

प्राकृताय न रुष्यन्ति कर्मणे निर्विवेकिनः ।
तस्मिन्नपि च क्रुध्यन्ति यस्तदेव चिकित्सति ॥४१॥

यः श्वभ्रान्मां समाकृष्य क्षिप्यत्यात्मानमस्तधीः ।
वधबन्धनिमित्तेऽपि कस्तस्मै विप्रियं चरेत् ॥४२॥

यस्यैव कर्मणो नाशाज्जन्मदाहः प्रशाम्यति ।
तच्चेद्भुक्तिसमायातं सिद्धं तर्ह्यद्य वांछितम् ॥४३॥

अनन्तक्लेशसप्तार्चिः प्रदीप्तेयं भवाटवी ।
तत्रोत्पन्नैर्न किं सह्यस्तदुत्थो व्यसनोत्करः ॥४४॥

सम्यग्ज्ञानविवेकशून्यमनसः सिद्धान्तसूत्रद्विषो
निस्त्रिंशाः परलोकनष्टमतयो मोहानलोद्दीपिताः ।
दौर्जन्यादिकलङ्किता यदि नरा न स्युर्जगत्यां तदा
कस्मात्तीव्रतपोभिरुन्नतधियः कांक्षन्ति मोक्षश्रियम् ॥४५॥

वयमिह परमात्मध्यानदत्तावधानाः
परिकलितपदार्थास्त्यक्तसंसारमार्गाः ।
यदि निकषपरीक्षासु क्षमा नो तदानीं
भजति विफलभावं सर्वथैष प्रयासः ॥४६॥

अहो कैश्चित्कर्मानुदयगतमानीय रभसा-
दशेषं निर्द्धूतं प्रबलतपसा जन्मचकितैः ।
स्वयं यद्यायांतं तदिह मुदमालम्ब्य मनसा
न किं सह्यं धीरैरतुलसुखसिद्धेर्व्यवसितैः ॥४७॥

कुलजातीश्वरत्वादिमदविध्वस्तबुद्धिभिः ।
सद्यः संचीयते कर्म नीचैर्गतिनिबन्धनम् ॥४८॥

मानग्रन्थिर्मनस्युच्चैर्यावदास्ते दृढस्तदा ।
तावद्विवेकमाणिक्यं प्राप्तमप्यपसर्पति ॥४९॥

प्रोत्तुङ्गमानशैलाग्रवर्तिभिर्लुप्तबुद्धिभिः ।
क्रियते मार्गमुल्लंघ्य पूज्यपूजाव्यतिक्रमः ॥५०॥

लुप्यते मानतः पुंसां विवेकामललोचनम् ।
प्रच्यवन्ते ततः शीघ्रं शीलशैलाग्रसंक्रमात् ॥५१॥

ज्ञानरत्नमपाकृत्य गृह्णात्यज्ञानपन्नगम् ।
गुरूनपि जनो मानी विमानयति गर्वतः ॥५२॥

करोत्युद्धतधीर्मानाद्विनयाचारलंघनम् ।
विराध्याराध्यसन्तानं स्वेच्छाचारेण वर्तते ॥५३॥

मानमालम्ब्य मूढात्मा विधत्ते कर्म निन्दितम् ।
कलङ्कयति चाशेषचरणं चन्द्रनिर्मलम् ॥५४॥

गुणरिक्तेन किं तेन मानेनार्थः प्रसिद्ध्यति ।
तन्मन्ये मानिनां मानं यल्लोकद्वयशुद्धिदम् ॥५५॥

अपमानकरं कर्म येन दूरान्निषिध्यते ।
स उच्चैश्चेतसां मानः परः स्वपरघातकः ॥५६॥

क्व मानो नाम संसारे जन्तुव्रजविडम्बके ।
यत्र प्राणी नृपो भूत्वा विष्टामध्ये कृमिर्भवेत् ॥५७॥

जन्मभूमिरविद्यानामकीर्तेर्वासमन्दिरम् ।
पापपङ्कमहागर्तो निकृतिः कीर्तिता बुधैः ॥५८॥

अर्गलेवापवर्गस्य पदवी श्वभ्रवेश्मनः ।
शीलशालवने वह्निर्मायेयमवगम्यताम् ॥५९॥

कूटद्रव्यमिवासारं स्वप्नराज्यमिवाफलम् ।
अनुष्टानं मनुष्याणां मन्ये मायावलम्बिनाम् ॥६०॥

लोकद्वयहितं केचित्तपोभिः कर्त्तुमुद्यताः ।
निकृत्या वर्त्तमानस्ते हन्त हीना न लज्जिताः ॥६१॥

मुक्तेरविप्लुतैश्चोक्ता गतिर्ऋज्वी जिनेश्वरैः ।
तत्र मायाविनां स्थातुं न स्वप्नेऽप्यस्ति योग्यता ॥६२॥

व्रती निःशल्य एव स्यात्सशल्यो व्रतघातकः ।
मायाशल्यं मतं साक्षात्सूरिभिर्भूरिभीतिदम् ॥६३॥

इहाकीर्तिं समादत्ते मृतो यात्येव दुर्गतिम् ।
मायाप्रपञ्चदोषेण जनोऽयं जिह्मिताशयः ॥६४॥

छाद्यमानमपि प्रायः कुकर्म स्फुटति स्वयम् ।
अलं मायाप्रपञ्चेन लोकद्वयविरोधिना ॥६५॥

क्व मायाचरणं हीनं क्व सन्मार्गपरिग्रहः ।
नापवर्गपथि भ्रातः संचरन्तीह वञ्चकाः ॥६६॥

बकवृत्तिं समालम्ब्य वञ्चकैर्वञ्चितं जगत् ।
कौटिल्यकुशलैः पापैः प्रसन्नं कश्मलाशयैः ॥६७॥

नयन्ति विफलं जन्म प्रयासैर्मृत्युगोचरैः ।
वराकाः प्राणिनोऽजस्रं लोभादप्राप्तवाञ्छिताः ॥६८॥

शाकेनापीच्छया जातु न भर्तुमुदरं क्षमाः ।
लोभात्तथाऽपि वाञ्छन्ति नराश्चक्रेश्वरश्रियम् ॥६९॥

स्वामिगुरुबन्धुवृद्धानबलाबालांश्च जीर्णदीनादीन् ।
व्यापाद्य विगतशङ्को लोभार्तो वित्तमादत्ते ॥७०॥

ये केचित्सिद्धान्ते दोषाः श्वभ्रस्य साधकाः प्रोक्ताः ।
प्रभवन्ति निर्विचारं ते लोभादेव जन्तूनाम् ॥७१॥

शमाम्बुभिः क्रोधशिखी निवार्यताम् नियम्यतां मानमुदारमार्दवैः ।
इयं च मायाऽऽर्जवतः प्रतिक्षणं निरीहतां चाश्रय लोभशान्तये ॥७२॥

यत्र यत्र प्रसूयन्ते तव क्रोधादयो द्विषः ।
तत्तत्प्रागेव मोक्तव्यं वस्तु तत्सूतिशान्तये ॥७३॥

येन येन निवार्यन्ते क्रोधाद्याः परिपन्थिनः ।
स्वीकार्यमप्रमत्तेन तत्तत्कर्म मनीषिणा ॥७४॥

गुणाधिकतया मन्ये स योगी गुणिनां गुरुः ।
तन्निमित्तेऽपि नाक्षिप्तं क्रोधाद्यैर्यस्य मानसं ॥७५॥

यदि क्रोधादयः क्षीणास्तदा किं खिद्यते वृथा ।
तपोभिरथ तिष्टन्ति तपस्तत्राप्यपार्थकम् ॥७६॥

स्वसंवित्तिं समायाति यमिनां तत्त्वमुत्तमम् ।
आसमन्ताच्छमं नीते कषायविषमज्वरे ॥७७॥

इति श्रीज्ञानार्णवे योगप्रदीपाधिकारे श्री शुभचन्द्राचार्यविरचिते एकोनविंशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १८: ‘मज्ञन्म’ छपा है; ‘मज्जन्म’ होना चाहिए
  • श्लोक २८: ‘भित्वा’ छपा है; ‘भित्त्वा’ होना चाहिए
  • श्लोक ३६: ‘पुंसाः’ छपा है; ‘पुंसां’ होना चाहिए
  • श्लोक ६०: ‘अनुष्टानं’ छपा है; ‘अनुष्ठानं’ होना चाहिए
  • श्लोक ७६: ‘तिष्टन्ति’ छपा है; ‘तिष्ठन्ति’ होना चाहिए

सर्ग 20: इन्द्रियजय का उपदेश

अजिताक्षः कषायाग्निं विनेतुं न प्रभुर्भवेत् ।
अतः क्रोधादिकं जेतुमक्षरोधः प्रशस्यते ॥१॥

विषयाशाभिभूतस्य विक्रियन्तेऽक्षदन्तिनः ।
पुनस्त एव दृश्यन्ते क्रोधादिगहनं श्रिताः ॥२॥

इदमक्षकुलं धत्ते मदोद्रेकं यथा यथा ।
कषायदहनः पुंसां विसर्पति तथा तथा ॥३॥

कषायवैरिव्रजनिर्जयं यमी करोतु पूर्वं यदि संवृतेन्द्रियः ।
किलानयोर्निग्रहलक्षणो विधिर्न हि क्रमेणात्र बुधैर्विधीयते ॥४॥

यदक्षविषयोद्भूतं दुःखमेव न तत्सुखम् ।
अनन्तजन्मसन्तानक्लेशसंपादकं यतः ॥५॥

दुर्दमेन्द्रियमातङ्गाशीलशाले नियन्त्रय ।
धीर विज्ञानपाशेन विकुर्वन्तो यदृच्छया ॥६॥

हृषीकभीमभोगीन्द्रक्रुद्धदर्पोपशान्तये ।
स्मरन्ति वीरनिर्दिष्टं योगिनः परमाक्षरम् ॥७॥

निरुध्य बोधपाशेन क्षिप्ता वैराग्यपञ्जरे ।
हृषीकहरयो येन स मुनीनां महेश्वरः ॥८॥

हृदि स्फुरति तस्योच्चैर्बोधिरत्नं सुनिर्मलम् ।
शीलशालो न यस्याक्षदन्तिभिः प्रविदारितः ॥९॥

दुःखमेवाक्षजं सौख्यमविद्याव्याललालितम् ।
मूर्खास्तत्रैव रज्यन्ते न विद्मः केन हेतुना ॥१०॥

यथा यथा हृषीकाणि स्ववशं यान्ति देहिनाम् ।
तथा तथा स्फुरत्युच्चैर्हृदि विज्ञानभास्करः ॥११॥

विषयेषु यथा चित्तं जन्तोर्मग्नमनाकुलम् ।
तथा यद्यात्मनस्तत्त्वे सद्यः को न शिवीभवेत् ॥१२॥

अतृप्तिजनकं मोहदाववह्नेर्महेन्धनम् ।
असातसन्ततेर्बीजमक्षसौख्यं जगुर्जिनाः ॥१३॥

नरकस्यैव सोपानं पाथेयं वा तदध्वनि ।
अपवर्गपुरद्वारकपाटयुगलं दृढम् ॥१४॥

विघ्नबीजं विपन्मूलमन्यापेक्षं भयास्पदम् ।
करणग्राह्यमेतद्धि यदक्षार्थोत्थितं सुखम् ॥१५॥

जगद्वञ्चनचातुर्यं विषयाणां न केवलम् ।
नरान्नरकपाताले नेतुमप्यतिकौशलम् ॥१६॥

निसर्गचपलैश्चित्रैविषयैर्वञ्चितं जगत् ।
प्रत्याशा निर्दयेष्वेषु कीदृशी पुण्यकर्मणाम् ॥१७॥

वर्द्धते गृद्धिरश्रान्तं सन्तोषश्चापसर्पति ।
विवेको विलयं याति विषयैर्वञ्चितात्मनाम् ॥१८॥

विषस्य कालकूटस्य विषयाख्यस्य चान्तरम् ।
वदन्ति ज्ञाततत्त्वार्थाः मेरुसर्षपयोरिव ॥१९॥

अनासादितनिर्वेदं विषयैर्व्याकुलीकृतम् ।
पतत्येव जगज्जन्मदुर्गे दुःखाग्निदीपिते ॥२०॥

इन्द्रियाणि न गुप्तानि नाभ्यस्तश्चित्तनिर्जयः ।
न निर्वेदः कृतो मित्र नात्मा दुःखेन भावितः ॥२१॥

एवमेवापवर्गाय प्रवृत्तैर्ध्यानसाधने ।
स्वमेव वञ्चितं मूढैर्लोकद्वयपथच्युतैः ॥२२॥

अध्यात्मजं यदत्यक्षं स्वसंवेद्यमनश्वरम् ।
आत्माधीनं निराबाधमनन्तं योगिनां मतम् ॥२३॥

अपास्य करणग्रामं यदात्मन्यात्मना स्वयम् ।
सेव्यते योगिभिस्तद्धि सुखमाध्यात्मिकं मतम् ॥२४॥

आपातमात्ररम्याणि विषयोत्थानि देहिनाम् ।
विषपाकानि पर्यन्ते विद्धि सौख्यानि सर्वथा ॥२५॥

हृषीकतस्करानीकं चित्तदुर्गान्तराश्रितम् ।
पुंसां विवेकमाणिक्यं हरत्येवानिवारितम् ॥२६॥

त्वामेव वञ्चितुं मन्ये प्रवृत्ता विषया इमे ।
स्थिरीकुरु तथा चित्तं यथैतैर्न कलङ्क्यते ॥२७॥

उदधिरुदकपूरैरिन्धनैश्चित्रभानु-
र्यदि कथमपि दैवात्तृप्तिमासादयेताम् ।
न पुनरिह शरीरी कामभोगैर्विसंख्यै-
श्चिरतरमपि भुक्तैस्तृप्तिमायाति कैश्चित् ॥२८॥

यद्यपि दुर्गतिबीजं तृष्णासन्तापपापसंकलितम् ।
तदपि न सुखसंप्राप्यं विषयसुखं वाञ्छितं नृणाम् ॥२९॥

अपि संकल्पिताः कामाः संभवन्ति यथा यथा ।
तथा तथा मनुष्याणां तृष्णा विश्वं विसर्पति ॥३०॥

अनिषिध्याक्षसंदोहं यः साक्षान्मोक्तुमिच्छति ।
विदारयति दुर्बुद्धिः शिरसा स महीधरम् ॥३१॥

इदमिह विषयोत्थं यत्सुखं तद्धि दुःखं
व्यसनविपिनबीजं तीव्रसंतापविद्धम् ।
कटुतरपरिपाकं निन्दितं ज्ञानवृद्धैः
परिहर किमिहान्यैर्धूर्त्तवाचां प्रपञ्चैः ॥३२॥

तत्तत्कारकपारतन्त्र्यमचिरान्नाशः सतृष्णान्वयै-
स्तैरेभिर्निरुपाधिसंयमभृतो बाधानिदानैः परैः ।
शर्मभ्यः स्पृहयन्ति हन्त विषयानाश्रित्य यद्देहिन-
स्तत्क्रुध्यत्फणिनायकाग्रदशनैः कण्डूविनोदः स्फुटम् ॥३३॥

निःशेषाभिमतेन्द्रियार्थरचनासौन्दर्यसंदानितः
प्रीतिप्रस्तुतलोभलंघितमनाः को नाम निर्वेद्यताम् ।
अस्माकं तु नितान्तघोरनरकज्वालाकलापः पुरः
सोढव्यः कथमित्यसौ तु महती चिन्ता मनः कृन्तति ॥३४॥

मीना मृत्युं प्रयाता रसनवशमिता दन्तिनः स्पर्शरुद्धाः
बद्धास्ते वारिबन्धे ज्वलनमुपगताः पत्रिणश्चाक्षिदोषात् ।
भृङ्गाः गन्धोद्धताशाः प्रलयमुपगताः गीतलोलाः कुरङ्गाः
कालव्यालेन दष्टास्तदपि तनुभृतामिन्द्रियार्थेषु रागः ॥३५॥

एकैककरणपरवशमपि मृत्युं याति जन्तुजातमिदम् ।
सकलाक्षविषयलोलः कथमिह कुशली जनोऽन्यः स्यात् ॥३६॥

संवृणोत्यक्षसैन्यं यः कूर्मोऽङ्गानीव संयमी ।
स लोके दोषपङ्काढ्ये चरन्नपि न लिप्यते ॥३७॥

अयत्नेनापि जायन्ते तस्यैता दिव्यसिद्धयः ।
विषयैर्न मनो यस्य मनागपि कलङ्कितम् ॥३८॥

इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवे योगप्रदीपाधिकारे अक्षविषयनिरोधो नाम विंशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ६: ‘दुर्दमेन्द्रियमातङ्गाशीलशाले’ छपा है; ‘दुर्दमेन्द्रियमातङ्गान् शीलशाले’ होना चाहिए
  • श्लोक १७: ‘चित्रैविषयैर्वञ्चितं’ छपा है; ‘चित्रैर्विषयैर्वञ्चितं’ होना चाहिए
  • श्लोक ३५: ‘भृङ्गाः’ छपा है; ‘भृङ्गा’ होना चाहिए (इसी चरण में ‘उपगताः गीतलोलाः’ छपा है; ‘उपगता गीतलोलाः’ होना चाहिए)

सर्ग 21: त्रितत्त्व वर्णन

अयमात्मा स्वयं साक्षाद्गुणरत्नमहार्णवः ।
सर्वज्ञः सर्वदृक् सार्वः परमेष्ठी निरञ्जनः ॥१॥

तत्स्वरूपमजानानो जनोऽयं विधिवञ्चितः ।
विषयेषु सुखं वेत्ति यत्स्यात्पाके विषान्नवत् ॥२॥

यत्सुखं वीतरागस्य मुनेः प्रशमपूर्वकम् ।
न तस्यानन्तभागोऽपि प्राप्यते त्रिदशेश्वरैः ॥३॥

अनन्तबोधवीर्यादिनिर्मला गुणिभिर्गुणाः ।
स्वस्मिन्नेव स्वयं मृग्या अपास्य करणान्तरम् ॥४॥

अहो अनन्तवीर्योऽयमात्मा विश्वप्रकाशकः ।
त्रैलोक्यं चालयत्येव ध्यानशक्तिप्रभावतः ॥५॥

अस्य वीर्यमहं मन्ये योगिनामप्यगोचरम् ।
यत्समाधिप्रयोगेण स्फुरत्यव्याहतं क्षणे ॥६॥

अयमात्मा स्वयं साक्षात्परमात्मेति निश्चयः ।
विशुद्धध्याननिर्धूत-कर्मेन्धनसमुत्करः ॥७॥

ध्यानादेव गुणग्राममस्याशेषं स्फुटी भवेत् ।
क्षीयते च तथानादिसंभवा कर्मसन्ततिः ॥८॥

शिवोऽयं वैनतेयश्च स्मरश्चात्मैव कीर्त्तितः ।
अणिमादिगुणानर्घ्यरत्नवार्धिर्बुधैर्मतः ॥९॥

यथान्तर्बहिर्भूतनिजनिजानन्दसन्दोहसंपाद्यमानद्रव्यादिचतुष्कसकलसामग्रीस्वभावप्रभा-
वात्परिस्फुरितरत्नत्रयातिशयसमुल्लसितस्वशक्तिनिराकृतसकलतदावरणप्रादुर्भूतशुक्लध्यानानल-
बहुलज्वालाकलापकवलितगहनान्तरालादिसकलजीवप्रदेशघनघटितसंसारकारणज्ञानावरणादि-
द्रव्यभावबन्धनविश्लेषस्ततो युगपत्प्रादुर्भूतानन्तचतुष्टयो घनपटलविगमे सवितुः प्रतापप्रकाशाभि-
व्यक्तिवत् स खल्वयमात्मैव परमात्मव्यपदेशभाग्भवतीति शिवतत्त्वम् ॥१०॥

अविरलमरीचिमञ्जरीपुञ्जपिञ्जरितभासुरतरशिरोमणिमण्डलीसहस्रमण्डितविकटतरफूत्कार-
मारुतपरंपरोत्पातप्रेङ्खोलितकुलाचलसंमिलितशिखिशिखासन्तापद्रवत्काञ्चनकान्तिकपिशनिज-
कायकान्तिच्छटापटलजटिलितदिग्वलयक्षत्रियभुजङ्गपुङ्गवद्वितयपरिक्षिप्तक्षितिबीजविसृष्टप्रकट-
पविपञ्जरपिनद्धसवनगिरिचतुरस्रमेदिनीमण्डलावलम्बनगजपतिपृष्ठप्रतिष्ठितपरिकलितकुलि-
शकरशचीप्रमुखविलासिनीशृङ्गारदर्शनोल्लसितलोचनसहस्रश्रीत्रिदशपतिमुद्रालंकृतसमस्त-
भुवनावलम्बिसुनासीर-परिकलितजानुद्वयः । इति पृथ्वीतत्त्वम् ॥११॥

तदुपरिपुनरानाभिविपुलतरसुधासमुद्रसन्निभसमुल्लसन्निजशरीरप्रभापटलव्याप्तसकलगगना-
न्तरालवैश्याशीविषधरावनद्धवारुणबीजाक्षरमण्डनपुण्डरीकलक्ष्मोपलक्षितपारावारमयखण्डेन्दु-
मण्डलाकारवरुणपुरप्रतिष्ठितविपुलतरप्रचण्डमुद्राग्रहेति विकीर्णशिशिरतरपयःकणाक्रान्ति-
कर्बुरितसकलककुप्चक्रकरिमकरमारूढप्रशस्तपाशपाणिवरुणामृतमुद्राबन्धविधुरितनिःशेषविषानल-
संतानभगवद्वरुणनिर्गूढोत्संगप्रदेशः । इति अप्तत्त्वम् ॥१२॥

विस्फुरितनिजवपुर्बहुलज्वालावलीपरिकलितसकलदिग्वलयद्विजदन्दशूकरक्षिताशुशुक्षणिवर्ण-
विस्फुरितविस्तीर्णस्वस्तिकोपपन्नत्रिकोणतेजोमयपुरमध्यबद्धवसतिवस्ताधिरूढज्वलदलातहस्तानल-
मुद्रोद्दीपितसकललोकवह्निविरचितोरःप्रदेशः । इति वह्नितत्त्वम् ॥१३॥

अविरतपरिस्फुरत्स्फूत्कारमारुतान्दोलितसकलभुवनाभोगपरिभूतषट्चरणचक्रवाल-
कालिमानिजतनुसमुच्छलद्बहुलकान्तिपटलपिहितनिखिलनभस्तलशूद्रकाद्रवेयवलयितमरुन्मुद्रो-
पपन्नबिन्दुसन्दोहसुन्दरमहामारुतवलयत्रितयात्मकसकलभुवनाभोगवायुपरिमण्डलनभ-
स्वत्पुरान्तर्गतवाहनकुरङ्गवेगविहरणदुर्ललितकरतलकलितचलविटपकोटिकिशलयशालशालि-
मरुन्मुद्रोच्छलितसकलभुवनपवनमयवदनारविन्दः इति वायुतत्त्वम् ॥१४॥

गगनगोचरामूर्त्तजयविजयभुजङ्गभूषणोऽनन्ताकृतिपरमविभुर्नभस्तलनिलीनसमस्त-
तत्त्वात्मकः समस्तज्वररोगविषधरोड्डामरडाकिनीग्रहयक्षकिन्नरनरेन्द्रारिमारिपरयन्त्रतन्त्र-
मुद्रामण्डलज्वलनहरिशरभशार्दूलद्विपदैत्यदुष्टप्रभृतिसमस्तोपसर्गनिर्मूलनकारिसामर्थ्यः
परिकलितसमस्तगारुडमुद्रामण्डलाडम्बरसमस्ततत्त्वात्मकः सन्नात्मैव गारुडगीर्गोचरत्वमवगाहते ।
इति विपतत्त्वम् ॥१५॥

यदि पुनरसौ सकलजगच्चमत्कारिकार्मुकास्पदनिवेशितमण्डलीकृतसरसेक्षुकाण्डस्वरसहित-
कुसुमसायकविधिलक्ष्यीकृतदुर्लभमोक्षलक्ष्मीसमागमोत्कण्ठितकठोरतरमुनिमनाः । स्फुरन्मकर-
केतुः । कमनीयसकलललनावृन्दवन्दितसौन्दर्यरतिकेलिकलापदुर्ललितचेताश्चतुरश्चेष्टितभ्रूभङ्गमात्र-
वशीकृतजगत्त्रयस्त्रैणसाधनो दुरधिगमागाधगहनरागसागरान्तर्दोलितसुरासुरनरभुजगयक्ष-
सिद्धगन्धर्वविद्याधरादिवर्गः । स्त्रीपुरुषभेदभिन्नसमस्तसत्त्वपरस्परमनःसंघटनसूत्रधारः ।
विविधवनराजिमञ्जरीपरिमलपरिमिलितमधुकरकुलविकसितकुसुमस्तबकतरलितकटाक्ष-
प्रकटसौभाग्येन सहकारलताकिशलयकरोन्मुक्तमञ्जरीपरागपिष्टातकपिशुनितप्रवेशोत्सवेन
मदमुखरमधुकरकुटुम्बिनीकोमलालापसंवलितमांसलितकोकिलाकुलकणत्कारसंगीतकप्रियेण
मलयगिरिमेखलावनकृतनिलयचन्दनलतालास्योपदेशकुशलैः सुरतभरखिन्नपन्नगनितम्बिनी-
जनवदनकवलितशिखैरपि विरहिणीनिश्वासमांसलीकृतकायैः केरलीकुरलान्दोलनदक्षैरुत्कम्पित-
कुन्तलकामिनीकुन्तलैः परिगतसुरतखेदोन्मिषितलाटीललाटस्वेदाम्बुकणिकापानदोहदवद्भिरासा-
दितानेकनिर्ज्झरशिशिरशीकरैर्बकुलामोदसन्दर्भनिर्भरैः परिलुण्ठितपाटलासौरभैः परिमिलितनव-
मालिकामोदैर्मन्दसंचरणशीलैराकुलीकृतसकलभुवनजनमनोभिर्मलयमारुतैः समुल्लसितसौभाग्येन
वसन्तसुहृदा दूरमारोपितप्रतापः । प्रारब्धोत्तमतपस्तपनश्रान्तमुनि-जनप्रार्थितप्रवेशोत्सवेन
स्वर्गापवर्गद्वारसंविघटनवज्रार्गलः । सकलजगद्विजयवैजयन्तीकृतचतुर-कामिनीभ्रूविभ्रमः ।
क्षोभणादिमुद्राविशेषशाली । सकलजगद्वशीकरणसमर्थः इति चिन्त्यते तदायमात्मैव कामोक्ति-
विषयतामनुभवतीति कामतत्त्वम् ॥१६॥

तदेवं यदिह जगति शरीरविशेषसमवेतं किमपि सामर्थ्यमुपलभामहे तत्सकलमात्मन एवेति
विनिश्चयः । आत्मप्रवृत्तिपरंपरोत्पादितत्त्वाद्विग्रहग्रहणस्येति ॥१७॥

यदिह जगति किञ्चिद्विस्मयोत्पत्तिबीजं भुजगमनुजदेवेष्वस्ति सामर्थ्यमुच्चैः ।
तदखिलमपि मत्वा नूनमात्मैकनिष्ठं भजत नियतचित्ताः शश्वदात्मानमेव ॥१८॥

अचिन्त्यमस्य सामर्थ्यं प्रवक्तुं कः प्रभुर्भवेत् ।
तच्च नानाविधध्यानपदवीमधितिष्ठति ॥१९॥

तदस्य कर्तुं जगदंघ्रिलीनं तिरोहिताऽऽस्ते सहजैव शक्तिः ।
प्रबोधितस्तां समभिव्यनक्ति प्रसह्य विज्ञानमयः प्रदीपः ॥२०॥

अयं त्रिजगतीभर्त्ता विश्वज्ञोऽनन्तशक्तिमान् ।
नात्मानमपि जानाति स्वस्वरूपात्परिच्युतः ॥२१॥

अनादिकालसम्भूतैः कलङ्कैः कश्मलीकृतः ।
स्वेच्छयार्थान्समादत्ते स्वतोऽत्यन्तविलक्षणान् ॥२२॥

दृग्बोधनयनः सोऽयमज्ञानतिमिराहतः ।
जानन्नपि न जानाति पश्यन्नपि न पश्यति ॥२३॥

अविद्योद्भूतरागादिगरव्यग्रीकृताशयः ।
पतत्यनन्तदुःखाग्निप्रदीप्ते जन्मदुर्गमे ॥२४॥

लोष्टेष्वपि यथोन्मत्तः स्वर्णबुद्ध्या प्रवर्त्तते ।
अर्थेष्वनात्मभूतेषु स्वेच्छयाऽयं तथा भ्रमात् ॥२५॥

वासनाजनितान्येव सुखदुःखानि देहिनाम् ।
अनिष्टमपि येनायमिष्टमित्यभिमन्यते ॥२६॥

अविश्रान्तमसौ जीवो यथा कामार्थलालसः ।
विद्यतेऽत्र यदि स्वार्थे तथा किं न विमुच्यते ॥२७॥

इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवे योगप्रदीपाधिकारे त्रितत्त्ववर्णनं नाम
एकविंशं प्रकरणम् ॥

सर्ग 22: मन वश करने का उपदेश

उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् ।
मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिद्ध्यति ॥१॥

एतान्येवाहुः केचिच्च मनःस्थैर्याय शुद्धये ।
तस्मिन् स्थिरीकृते साक्षात्स्वार्थसिद्धिर्ध्रुवं भवेत् ॥२॥

यमादिषु कृताभ्यासो निःसंगो निर्ममो मुनिः ।
रागादिक्लेशनिर्मुक्तं करोति स्ववशं मनः ॥३॥

अष्टावङ्गानि योगस्य यान्युक्तान्यार्यसूरिभिः ।
चित्तप्रसत्तिमार्गेण बीजं स्युस्तानि मुक्तये ॥४॥

अङ्गान्यष्टावपि प्रायः प्रयोजनवशात्क्वचित् ।
उक्तान्यत्रैव तान्युच्चैर्विदांकुर्वन्तु योगिनः ॥५॥

मनोरोधे भवेद्रुद्धं विश्वमेव शरीरिभिः ।
प्रायोऽसंवृतचित्तानां शेषरोधोऽप्यपार्थकः ॥६॥

कलङ्कविलयः साक्षान्मनःशुद्ध्यैव देहिनाम् ।
तस्मिन्नपि समीभूते स्वार्थसिद्धिरुदाहृता ॥७॥

चित्तप्रपञ्चजानेकविकारप्रतिबन्धकाः ।
प्राप्नुवन्ति नरा नूनं मुक्तिकान्ताकरग्रहम् ॥८॥

अतस्तदेव संरुध्य कुरु स्वाधीनमञ्जसा ।
यदि छेत्तुं समुद्युक्तस्त्वं कर्मनिगडं दृढम् ॥९॥

सम्यगस्मिन्समं नीते दोषा जन्मभ्रमोद्भवाः ।
जन्मिनां खलु शीर्यन्ते ज्ञानश्रीप्रतिबन्धकाः ॥१०॥

एक एव मनोदैत्यजयः सर्वार्थसिद्धिदः ।
अन्यत्र विफलः क्लेशो यमिनां तज्जयं विना ॥११॥

एक एव मनोरोधः सर्वाभ्युदयसाधकः ।
यमेवालम्ब्य संप्राप्ता योगिनस्तत्त्वनिश्चयम् ॥१२॥

पृथक्करोति यो धीरः स्वपरावेकतां गतौ ।
स चापलं निगृह्णाति पूर्वमेवान्तरात्मनः ॥१३॥

मनःशुद्ध्यैव शुद्धिः स्याद्देहिनां नात्र संशयः ।
वृथा तद्व्यतिरेकेण कायस्यैव कदर्थनम् ॥१४॥

ध्यानशुद्धिं मनःशुद्धिः करोत्येव न केवलम् ।
विच्छिन्नत्त्यपि निःशङ्कं कर्मजालानि देहिनाम् ॥१५॥

पादपङ्कजसंलीनं तस्यैतद्भुवनत्रयम् ।
यस्य चित्तं स्थिरीभूय स्वस्वरूपे लयं गतम् ॥१६॥

मनः कृत्वाशु निःसङ्गं निःशेषविषयच्युतम् ।
मुनिभृङ्गैः समालीढं मुक्तेर्वदनपङ्कजम् ॥१७॥

यथा यथा मनःशुद्धिर्मुनेः साक्षात्प्रजायते ।
तथा तथा विवेकश्रीर्हृदि धत्ते स्थिरं पदम् ॥१८॥

चित्तशुद्धिमनासाद्य मोक्तुं यः सम्यगिच्छति ।
मृगतृष्णातरङ्गिण्यां स पिबत्यम्बु केवलम् ॥१९॥

तद्ध्यानं तद्धि विज्ञानं तद्ध्येयं तत्त्वमेव वा ।
येनाविद्यामतिक्रम्य मनस्तत्त्वे स्थिरी भवेत् ॥२०॥

विषयग्रासलुब्धेन चित्तदैत्येन सर्वथा ।
विक्रम्य स्वेच्छयाजस्रं जीवलोकः कदर्थितः ॥२१॥

अवार्यविक्रमः सोऽयं चित्तदन्ती निवार्यताम् ।
न यावद्धिंसयत्येष सत्संयमनिकेतनम् ॥२२॥

विभ्रमद्विषयारण्ये चलच्चेतोवलीमुखः ।
येन रुद्धो ध्रुवं सिद्धं फलं तस्यैव वाञ्छितम् ॥२३॥

चित्तमेकं न शक्नोति जेतुं स्वातन्त्र्यवर्ति यः ।
ध्यानवार्तां ब्रुवन्मूढः स किं लोके न लज्ञते ॥२४॥

यदसाध्यं तपोनिष्टैर्मुनिभिर्वीतमत्सरैः ।
तत्पदं प्राप्यते धीरैश्चित्तप्रसरबन्धकैः ॥२५॥

अनन्तजन्मजानेककर्मबन्धस्थितिर्दृढा ।
भावशुद्धिं प्रपन्नस्य मुनेः प्रक्षीयते क्षणात् ॥२६॥

यस्य चित्तं स्थिरीभूतं प्रसन्नं ज्ञानवासितम् ।
सिद्धमेव मुनेस्तस्य साध्यं किं कायदण्डनैः ॥२७॥

तपःश्रुतयमज्ञान-तनुक्लेशादिसंश्रयम् ।
अनियन्त्रितचित्तस्य स्यान्मुनेस्तुषखण्डनम् ॥२८॥

एकैव हि मनःशुद्धिर्लोकाग्रपथदीपिका ।
स्खलितं बहुभिस्तत्रतामनासाद्य निर्मलाम् ॥२९॥

असन्तोऽपि गुणाः सन्ति यस्यां सत्यां शरीरिणाम् ।
सन्तोऽपि यां विना यान्ति सा मनःशुद्धिः शस्यते ॥३०॥

अपि लोकत्रयैश्वर्यं सर्वाक्षप्रीणनक्षमम् ।
भजत्यचिन्त्यवीर्योऽयं चित्तदैत्यो निरङ्कुशः ॥३१॥

शमश्रुतयमोपेता जिताक्षाः शंसितव्रताः ।
विदन्त्यनिर्जितस्वान्ताः स्वस्वरूपं न योगिनः ॥३२॥

विलीनविषयं शान्तं निःसङ्गं त्यक्तविक्रियम् ।
स्वस्थं कृत्वा मनः प्राप्तं मुनिभिः पदमव्ययम् ॥३३॥

दिक्चक्रं दैत्यधिष्ण्यं त्रिदशपतिपुराण्यम्बुवाहान्तरालं
द्वीपाम्भोधिप्रकाण्डं खचरनरसुराहीन्द्रवासं समग्रम् ।
एतत्त्रैलोक्यनीडं पवनचयचितं चापलेन क्षणार्द्धे-
नाश्रान्तं चित्तदैत्यो भ्रमति तनुमतां दुर्विचिन्त्यप्रभावः ॥३४॥

प्रशमयमसमाधिध्यानविज्ञानहेतो-र्विनयनयविवेकोदारचारित्रशुद्ध्यै ।
य इह जयति चेतःपन्नगं दुर्निवारं स खलु जगति योगिव्रातवन्द्यो मुनीन्द्रः ॥३५॥

इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवे योगप्रदीपाधिकारे मनोव्यापारप्रतिपादनस्वरूपं द्वाविंशं प्रकरणं ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १५: ‘विच्छिन्नत्त्यपि’ छपा है; ‘विच्छिनत्त्यपि’ होना चाहिए
  • श्लोक २४: ‘लज्ञते’ छपा है; ‘लज्जते’ होना चाहिए
  • श्लोक २५: ‘तपोनिष्टैर्’ छपा है; ‘तपोनिष्ठैर्’ होना चाहिए

सर्ग 23: रागद्वेष रोकने का वर्णन

निःशेषविषयोत्तीर्णं विकल्पव्रजवर्जितम् ।
स्वतत्त्वैकपरं धत्ते मनीषी नियतं मनः ॥१॥

क्रियमाणमपि स्वस्थं मनः सद्योऽभिभूयते ।
अनाद्युत्पन्नसंबद्धे रागादिरिपुभिर्बलात् ॥२॥

स्वतत्त्वानुगतं चेतः करोति यदि संयमी ।
रागादयस्तथाऽप्येते क्षिपन्ति भ्रमसागरे ॥३॥

आत्माधीनमपि स्वान्तं सद्यो रागैः कलङ्क्यते ।
अस्ततन्द्रैरतः पूर्वमत्र यत्नो विधीयताम् ॥४॥

अयत्नेनापि जायन्ते चित्तभूमौ शरीरिणाम् ।
रागादयः स्वभावोत्थज्ञानराज्याङ्गघातकाः ॥५॥

इन्द्रियार्थानपाकृत्य स्वतत्त्वमवलम्बते ।
यदि योगी तथाऽप्येते छलयन्ति मुहुर्मनः ॥६॥

क्वचिन्मूढं क्वचिद्भ्रान्तं क्वचिद्भीतं क्वचिद्रतम् ।
शङ्कितं च क्वचित्क्लिष्टं रागाद्यैः क्रियते मनः ॥७॥

अजस्रं रुध्यमानेऽपि चिराभ्यासाद् दृढीकृताः ।
चरन्ति हृदि निःशङ्का नृणां रागादिराक्षसाः ॥८॥

प्रयासैः फल्गुभिर्मूढ किमात्मा दण्ड्यतेऽधिकम् ।
शक्यते न हि चेच्चेतः कर्तुं रागादिवर्जितम् ॥९॥

क्षीणरागं च्युतद्वेषं ध्वस्तमोहं सुसंवृतम् ।
यदि चेतः समापन्नं तदा सिद्धं समीहितम् ॥१०॥

मोहपङ्के परिक्षीणे प्रशान्ते रागविभ्रमे ।
पश्यन्ति यमिनः स्वस्मिन्स्वरूपं परमात्मनः ॥११॥

महाप्रशमसंग्रामे शिवश्रीसंगमोत्सुकैः ।
योगिभिर्ज्ञानशस्त्रेण रागमल्लो निपातितः ॥१२॥

असंक्लिष्टमविभ्रान्तमविप्लुतमनाकुलम् ।
स्ववशं च मनः कृत्वा वस्तुतत्त्वं निरूपय ॥१३॥

रागाद्यभिहतं चेतः स्वतत्त्वविमुखं भवेत् ।
ततः प्रच्यवते क्षिप्रं ज्ञानरत्नाद्रिमस्तकात् ॥१४॥

रागद्वेषभ्रमाभावे मुक्तिमार्गे स्थिरीभवेत् ।
संयमी जन्मकान्तारसंक्रमक्लेशशङ्कितः ॥१५॥

रागादिभिरविश्रान्तं वञ्च्यमानं मुहुर्मनः ।
न पश्यति परं ज्योतिः पुण्यपापेन्धनानलम् ॥१६॥

रागादिपङ्कविश्लेषात्प्रसन्ने चित्तवारिणि ।
परिस्फुरति निःशेषं मुनेर्वस्तुकदम्बकम् ॥१७॥

स कोऽपि परमानन्दो वीतरागस्य जायते ।
येन लोकत्रयैश्वर्यमप्यचिन्त्यं तृणायते ॥१८॥

प्रशाम्यति विरागस्य दुर्बोधविषमग्रहः ।
स एव वर्द्धतेऽजस्रं रागार्त्तस्येह देहिनः ॥१९॥

स्वभावजमनातङ्कं वीतरागस्य यत्सुखम् ।
न तस्यानन्तभागोऽपि प्राप्यते त्रिदशेश्वरैः ॥२०॥

एतावनादि संभूतौ रागद्वेषौ महाग्रहौ ।
अनन्तदुःखसन्तानप्रसूतेः प्रथमाङ्कुरौ ॥२१॥

तद्विवेच्य ध्रुवं धीर ज्ञानार्कालोकमाश्रय ।
विशुष्यति च यं प्राप्य रागकल्लोलमालिनी ॥२२॥

चिदचिद्रूपभावेषु सूक्ष्मस्थूलेष्वपि क्षणम् ।
रागः स्याद्यदि वा द्वेषः क्व तदाध्यात्मनिश्चयः ॥२३॥

नित्यानन्दमयीं साध्वीं शाश्वतीं चात्मसंभवाम् ।
वृणोति वीतसंरंभो वीतरागः शिवश्रियम् ॥२४॥

यत्र रागः पदं धत्ते द्वेषस्तत्रेति निश्चयः ।
उभावेतौ समालम्ब्य विक्रामत्यधिकं मनः ॥२५॥

सकलज्ञानसाम्राज्यं स्वीकर्त्तुं यः समीप्सति ।
स धन्यः शमशस्त्रेण रागशत्रुं निकृन्तति ॥२६॥

यथोत्पाताक्षमः पक्षी लूनपक्षः प्रजायते ।
रागद्वेषच्छदच्छेदे स्वान्तपत्ररथस्तथा ॥२७॥

चित्तप्लवङ्गदुर्वृत्तं स हि नूनं विजेष्यति ।
यो रागद्वेषसंतानतरुमूलं निकृन्तति ॥२८॥

अयं मोहवशाज्जन्तुः क्रुध्यति द्वेष्टि रज्यते ।
अर्थेष्वन्यस्वभावेषु तस्मान्मोहो जगज्जयी ॥२९॥

रागद्वेषविषोद्यानं मोहबीजं जिनैर्मतम् ।
अतः स एव निःशेषदोषसेनानरेश्वरः ॥३०॥

असावेव भवोद्भूतदाववह्निः शरीरिणाम् ।
तथा दृढतरानन्तकर्मबन्धनिबन्धनम् ॥३१॥

रागादिगहने खिन्नं मोहनिद्रावशीकृतम् ।
जगन्मिथ्याग्रहाविष्टं जन्मपङ्के निमज्जति ॥३२॥

स पश्यति मुनिः साक्षाद्विश्वमध्यक्षमञ्जसा ।
यः स्फोटयति मोहाख्यं पटलं ज्ञानचक्षुषा ॥३३॥

इयं मोहमहाज्वाला जगत्त्रयविसर्पिणी ।
क्षणादेव क्षयं याति प्लाव्यमाना शमाम्बुभिः ॥३४॥

यस्मिन्सत्येव संसारी यद्वियोगे शिवीभवेत् ।
जीवः स एव पापात्मा मोहमल्लो निवार्यताम् ॥३५॥

यत्संसारस्य वैचित्र्यं नानात्वं यच्छरीरिणाम् ।
यदात्मीयेष्वनात्मास्था तन्मोहस्यैव वल्गितम् ॥३६॥

रागादिवैरिणः क्रूरान्मोहभूपेन्द्रपालितान् ।
निकृत्य शमशस्त्रेण मोक्षमार्गं निरूपय ॥३७॥

इति मोहवीरवृत्तं रागादिवरूथिनीसमाकीर्णम् ।
सुनिरूप्य भावशुद्ध्या यतस्व तद्बन्धमोक्षाय ॥३८॥

इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवे योगप्रदीपाधिकारे रागद्वेषवर्णनं नाम
त्रयोविंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक २: ‘संबद्धे’ छपा है; ‘संबद्धै’ होना चाहिए

सर्ग 24: साम्यभाव का वर्णन

मोहवह्निमपाकर्त्तुं स्वीकर्त्तुं संयमश्रियम् ।
छेत्तुं रागद्रुमोद्यानं समत्वमवलम्ब्यताम् ॥१॥

चिदचिल्लक्षणैर्भावैरिष्टानिष्टतया स्थितैः ।
न मुह्यति मनो यस्य तस्य साम्ये स्थितिर्भवेत् ॥२॥

विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् ।
समत्वं भज सर्वज्ञज्ञानलक्ष्मीकुलास्पदम् ॥३॥

छित्वा प्रशमशस्त्रेण भवव्यसनवागुराम् ।
मुक्तेः स्वयंवरागारं वीर व्रज शनैः शनैः ॥४॥

साम्यसूर्यांशुभिर्भिन्ने रागादितिमिरोत्करे ।
प्रपश्यति यमी स्वस्मिन्स्वरूपं परमात्मनः ॥५॥

साम्यसीमानमालम्ब्य कृत्वात्मन्यात्मनिश्चयम् ।
पृथक् करोति विज्ञानी संश्लिष्टे जीवकर्मणी ॥६॥

साम्यवारिणि शुद्धानां सतां ज्ञानैकचक्षुषाम् ।
इहैवानन्तबोधादिराज्यलक्ष्मीः सखी भवेत् ॥७॥

भावयस्व तथाऽऽत्मानं समत्वेनातिनिर्भरम् ।
न यथा द्वेषरागाभ्यां गृह्णात्यर्थकदम्बकम् ॥८॥

रागादिविपिनं भीमं मोहशार्दूलपालितम् ।
दग्धं मुनिमहावीरैः साम्यधूमध्वजार्चिषा ॥९॥

मोहपङ्के परिक्षीणे शीर्णे रागादिबन्धने ।
नृणां हृदि पदं धत्ते साम्यश्रीर्विश्ववन्दिता ॥१०॥

आशाः सद्यो विपद्यन्ते यान्त्यविद्याः क्षयं क्षणात् ।
म्रियते चित्तभोगीन्द्रो यस्य सा साम्यभावना ॥११॥

साम्यकोटिं समारूढो यमी जयति कर्म यत् ।
निमिषान्तेन तज्जन्मकोटिभिस्तपसेतरः ॥१२॥

साम्यमेव परं ध्यानं प्रणीतं विश्वदर्शिभिः ।
तस्यैव व्यक्तये नूनं मन्येऽयं शास्त्रविस्तरः ॥१३॥

साम्यभावितभावानां स्यात्सुखं यन्मनीषिणाम् ।
तन्मन्ये ज्ञानसाम्राज्यसमत्वमवलम्बते ॥१४॥

यः स्वभावोत्थितां साध्वीं विशुद्धिं स्वस्य वाञ्छति ।
स धारयति पुण्यात्मा समत्वाधिष्ठितं मनः ॥१५॥

तनुत्रयविनिर्मुक्तं दोषत्रयविवर्जितम् ।
यदा वेत्त्यात्मनात्मानं तदा साम्ये स्थितिर्भवेत् ॥१६॥

अशेषपरपर्यायैरन्यद्रव्यैर्विलक्षणम् ।
निश्चिनोति यदात्मानं तदा साम्यं प्रसूयते ॥१७॥

तस्यैवाविचलं सौख्यं तस्यैव पदमव्ययम् ।
तस्यैव बन्धविश्लेषः समत्वं यस्य योगिनः ॥१८॥

यस्य हेयं न चादेयं जगद्विश्वं चराचरम् ।
स्यात्तस्यैव मुनेः साक्षाच्छुभाशुभमलक्षयः ॥१९॥

शाम्यति जन्तवः क्रूरा बद्धवैराः परस्परम् ।
अपि स्वार्थे प्रवृत्तस्य मुनेः साम्यप्रभावतः ॥२०॥

भजन्ति जन्तवो मैत्रीमन्योऽन्यं त्यक्तमत्सराः ।
समत्वालम्बिनां प्राप्य पादपद्मार्चितां क्षितिम् ॥२१॥

शाम्यन्ति योगिभिः क्रूराः जन्तवो नेति शङ्क्यते ।
दावदीप्तमिवारण्यं यथा वृष्टैर्बलाहकैः ॥२२॥

भवन्त्यतिप्रसन्नानि कश्मलान्यपि देहिनाम् ।
चेतांसि योगिसंसर्गेऽगस्त्ययोगे जलानिवत् ॥२३॥

क्षुभ्यन्ति ग्रहयक्षकिन्नरनरास्तुष्यन्ति नाकेश्वराः
मुञ्चन्ति द्विपदैत्यसिंहशरभव्यालादयः क्रूरताम् ।
रुग्वैरप्रतिबन्धविभ्रमभयभ्रष्टं जगज्जायते
स्याद्योगीन्द्रसमत्वसाध्यमथवा किं किं न सद्यो भुवि ॥२४॥

चन्द्रः सान्द्रैर्विकिरति सुधामंशुभिर्जीवलोके
भास्वानुग्रैः किरणपटलैरुच्छिनत्त्यन्धकारम् ।
धात्री धत्ते भुवनमखिलं विश्वमेतच्च वायु-
र्यद्वत्साम्याच्छमयति तथा जन्तुजातं यतीन्द्रः ॥२५॥

सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥२६॥

एकः पूजां रचयति नरः पारिजातप्रसूनैः
क्रुद्ध कण्ठे क्षिपति भुजगं हन्तुकामस्ततोऽन्यः ।
तुल्या वृत्तिर्भवति च तयोर्यस्य नित्यं स योगी
साम्यारामं विशति परमज्ञानदत्तावकाशम् ॥२७॥

नोऽरण्यान्नगरं न मित्रमहिताल्लोष्टान्न जाम्बूनदं
न स्रग्दाम भुजङ्गमान्न दृषदस्तल्पं शशाङ्कोज्ज्वलम् ।
यस्यान्तःकरणे बिभर्ति कलया नोत्कृष्टतामीषद-
प्यार्यास्तं परमोपशान्तपदवीमारूढमाचक्षते ॥२८॥

सौधोत्सङ्गे स्मशाने स्तुतिशपनविधौ कर्दमे कुंकुमे वा
पल्यङ्के कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुकेषु ।
शीर्णाङ्गे दिव्यनार्यामसमशमवशाद्यस्य चित्तं विकल्पै-
र्नालीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासं ॥२९॥

चलत्यचलमालेयं कदाचिद्दैवयोगतः ।
नोपसर्गैरपि स्वान्तं मुनेः साम्यप्रतिष्ठितम् ॥३०॥

उन्मत्तमथ विभ्रान्तं दिग्मूढं सुप्तमेव वा ।
साम्यस्थस्य जगत्सर्वं योगिनः प्रतिभासते ॥३१॥

वाचस्पतिरपि ब्रूते यद्यजस्रं समाहितः ।
वक्तुं तथाऽपि शक्नोति न हि साम्यस्य वैभवम् ॥३२॥

दुष्प्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशया
विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थोदिता देहिनः ।
आनन्दामृतसिन्धुशीकरचयैर्निर्वाप्य जन्मानलं
ये मुक्तेर्वदनेन्दुवीक्षणपरास्ते सन्ति द्वित्रा यदि ॥३३॥

इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवे योगप्रदीपाधिकारे साम्यवर्णनं नाम चतुर्विंशं प्रकरणं
समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक २०: ‘शाम्यति’ छपा है; ‘शाम्यन्ति’ होना चाहिए
  • श्लोक २७: ‘क्रुद्ध’ छपा है; ‘क्रुद्धः’ होना चाहिए

सर्ग 25: आर्त्तध्यान का वर्णन

साम्यश्रीर्नातिनिःशङ्कं सतामपि हृदि स्थितिम् ।
धत्ते सुनिश्चलध्यानसुधासम्बन्धवर्जिते ॥१॥

यस्य ध्यानं सुनिष्कम्पं समत्वं तस्य निश्चलम् ।
नानयोर्विद्ध्यधिष्टानमन्योऽन्यं स्याद्विभेदतः ॥२॥

साम्यमेव न सद्ध्यानात्स्थिरीभवति केवलम् ।
शुद्ध्यत्यपि च कर्मौघकलङ्की यन्त्रवाहकः ॥३॥

यदैव संयमी साक्षात्समत्वमवलम्बते ।
स्यात्तदैव परं ध्यानं तस्य कर्मौघघातकम् ॥४॥

अनादिविभ्रमोद्भूतं रागादितिमिरं घनम् ।
स्फुटयत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः ॥५॥

भवज्वलनसम्भूतमहादाहप्रशान्तये ।
शश्वद्ध्यानाम्बुधेर्धीरैरवगाहः प्रशस्यते ॥६॥

ध्यानमेवापवर्गस्य मुख्यमेकं निबन्धनम् ।
तदेव दुरितव्रातगुरुकक्षहुताशनम् ॥७॥

अपास्य खण्डविज्ञानरसिकां पापवासनाम् ।
असद्ध्यानानि चादेयं ध्यानं मुक्तिप्रसाधकम् ॥८॥

अहो कैश्चिन्महामूढैरज्ञैः स्वपरवञ्चकैः ।
ध्यानान्यपि प्रणीतानि श्वभ्रपाताय केवलम् ॥९॥

विषायतेऽमृतं यत्र ज्ञानं मोहायतेऽथवा ।
ध्यानं श्वभ्रायते कष्टं नृणां चित्रं विचेष्टितम् ॥१०॥

अभिचारपरैः कैश्चित्कामक्रोधादिवञ्चितैः ।
भोगार्थमरिघातार्थं क्रियते ध्यानमुद्धतैः ॥११॥

ख्यातिपूजाभिमानार्त्तैः कैश्चिच्चोक्तानि सूरिभिः ।
पापाभिचारकर्माणि क्रूरशास्त्राण्यनेकधा ॥१२॥

अनाप्ता वञ्चकाः पापाः दीना मार्गद्वयच्युताः ।
दिशंत्वज्ञेष्वनात्मज्ञा ध्यानमत्यन्तभीतिदम् ॥१३॥

संसारसंभ्रमश्रान्तो यः शिवाय विचेष्टते ।
स युक्त्यागमनिर्णीते विवेच्य पथि वर्त्तते ॥१४॥

उत्कृष्टकायबन्धस्य साधोरन्तर्मुहूर्त्ततः ।
ध्यानमाहुरथैकाग्रचिन्तारोधो बुधोत्तमाः ॥१५॥

एकचिन्तानिरोधो यस्तद्ध्यानं भावना परा ।
अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते ॥१६॥

प्रशस्तेतरसंकल्पवशात्तद्भिद्यते द्विधा ।
इष्टानिष्टफलप्राप्तेर्बीजभूतं शरीरिणाम् ॥१७॥

अस्तरागो मुनिर्यत्र वस्तुतत्त्वं विचिन्तयेत् ।
तत्प्रशस्तं मतं ध्यानं सूरिभिः क्षीणकल्मषैः ॥१८॥

अज्ञातवस्तुतत्त्वस्य रागाद्युपहतात्मनः ।
स्वातन्त्र्यवृत्तिर्या जन्तोस्तदसद्ध्यानमुच्यते ॥१९॥

आर्त्तरौद्रविकल्पेन दुर्ध्यानं देहिनां द्विधा ।
द्विधा प्रशस्तमप्युक्तं धर्मशुक्लविकल्पतः ॥२०॥

स्यातां तत्रार्त्तरौद्रे द्वे दुर्ध्यानेऽत्यन्तदुःखदे ।
धर्मशुक्ले ततोऽन्ये द्वे कर्मनिर्मूलनक्षमे ॥२१॥

प्रत्येकं च चतुर्भेदैश्चतुष्टयमिदं मतम् ।
अनेकवस्तुसाधर्म्यवैधर्म्यालम्बनं यतः ॥२२॥

ऋते भवमथार्त्तं स्यादसद्ध्यानं शरीरिणाम् ।
दिग्मोहोन्मत्ततातुल्यमविद्यावासनावशात् ॥२३॥

अनिष्टयोगजन्माद्यं तथेष्टार्थात्ययात्परम् ।
रुक्प्रकोपात्तृतीयं स्यान्निदानार्त्तुर्यमङ्गिनाम् ॥२४॥

ज्वलनवनविषास्त्रव्यालशार्दूलदैत्यैः स्थलजलबिलसत्त्वैर्दुर्जनारातिभूपैः ।
स्वजनधनशरीरध्वंसिभिस्तैरनिष्टै-र्भवति यदिह योगादाद्यमार्त्तं तदेतत् ॥२५॥

तथा चरस्थिरैर्भावैरनेकैः समुपस्थितैः ।
अनिष्टैर्यन्मनः क्लिष्टं स्यादार्त्तं तत्प्रकीर्तितम् ॥२६॥

श्रुतैर्दृष्टैः स्मृतैर्ज्ञातैः प्रत्यासत्तिं च संसृतैः ।
योऽनिष्टार्थैर्मनःक्लेशः पूर्वमार्त्तं तदिष्यते ॥२७॥

अशेषानिष्टसंयोगे तद्वियोगानुचिन्तनम् ।
यत्स्यात्तदपि तत्त्वज्ञैः पूर्वमार्त्तं प्रकीर्त्तितम् ॥२८॥

राज्यैश्वर्यकलत्रबान्धवसुहृत्सौभाग्यभोगात्यये
चित्तप्रीतिकरप्रसन्नविषयप्रध्वंसभावेऽथवा ।
संत्रासभ्रमशोकमोहविवशैर्यत्खिद्यतेऽहर्निशं
तत्स्यादिष्टवियोगजं तनुमतां ध्यानं कलङ्कास्पदम् ॥२९॥

दृष्टश्रुतानुभूतैस्तैः पदार्थैश्चित्तरञ्जकैः ।
वियोगे यन्मनः खिन्नं स्यादार्त्तं तद्द्वितीयकम् ॥३०॥

मनोज्ञवस्तुविध्वंसे मनस्तत्संगमार्थिभिः ।
क्लिश्यते यत्तदेतत्स्याद्द्वितीयार्त्तस्य लक्षणम् ॥३१॥

कासश्वासभगन्दरोदरजराकुष्ठातिसारज्वरैः ।
पित्तश्लेष्ममरुत्प्रकोपजनितैरोगैः शरीरान्तकैः ।
स्यात्सत्त्वप्रबलैः प्रतिक्षणभवैर्यद्व्याकुलत्वं नृणां
तद्रोगार्त्तमनिन्दितैः प्रकटितं दुर्वारदुःखाकरं ॥३२॥

स्वल्पानामपि रोगाणां माभूत्स्वप्नेऽपि संभवः ।
ममेति या नृणां चिंता स्यादार्त्तं तत्तृतीयकम् ॥३३॥

भोगा भोगीन्द्रसेव्यास्त्रिभुवनजयिनी रूपसाम्राज्यलक्ष्मी
राज्यं क्षीणारिचक्रं विजितसुरवधूलास्यलीलायुवत्यः ।
अन्यच्चानन्दभूतं कथमिह भवतीत्यादि चिन्तासुभाजां
यत्तद्भोगार्त्तमुक्तं परमगुणधरैर्जन्मसन्तानमूलं ॥३४॥

पुण्यानुष्टानजातैरभिलषति पदं यज्जिनेन्द्रामराणां
यद्वा तैरेव वांछत्यहितकुलकुजच्छेदमत्यन्तकोपात् ।
पूजासत्कारलाभप्रभृतिकमथवा याचते यद्विकल्पैः
स्यादार्त्तं तन्निदानप्रभवमिह नृणां दुःखदावोग्रधाम ॥३५॥

इष्टभोगादिसिद्ध्यर्थं रिपुघातार्थमेव वा ।
यन्निदानं मनुष्याणां स्यादार्त्तं तत्तुरीयकं ॥३६॥

इत्थं चतुर्भिः प्रथितैर्विकल्पैरार्त्तं समासादिह हि प्रणीतम् ।
अनन्तजीवाशयभेदभिन्नं ब्रूते समग्रं यदि वीरनाथः ॥३७॥

अपथ्यमपि पर्यन्ते रम्यमप्यग्रिमक्षणे ।
विद्ध्यसद्ध्यानमेतद्धि षड्गुणस्थानभूमिकम् ॥३८॥

संयतासंयतेष्वेतच्चतुर्भेदं प्रजायते ।
प्रमत्तसंयतानां तु निदानरहितं त्रिधा ॥३९॥

कृष्णनीलाद्यसल्लेश्याबलेन प्रविजृम्भते ।
इदं दुरितदावार्चिःप्रसूतेरिन्धनोपमं ॥४०॥

एतद्विनापि यत्नेन स्वयमेव प्रसूयते ।
अनाद्यसत्समुद्भूतसंस्कारादेव देहिनाम् ॥४१॥

अनन्तदुःखसंकीर्णमस्य तिर्यग्गतेः फलम् ।
क्षायोपशमिको भावः कालश्चान्तर्मुहूर्त्तकः ॥४२॥

शङ्काशोकभयप्रमादकलहश्चित्तभ्रमोद्भ्रान्तयः
उन्मादो विषयोत्सुकत्वमसकृन्निद्राङ्गजाड्यश्रमाः ।
मूर्च्छादीनि शरीरिणामविरतं लिङ्गानि बाह्यान्यल-
मार्त्ताधिष्ठितचेतसां श्रुतधरैर्व्यावर्णितानि स्फुटम् ॥४३॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे आर्त्तध्यानवर्णनं नाम पञ्चविंशं प्रकरणं समाप्तं ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक २: ‘विद्ध्यधिष्टानम्’ छपा है; ‘विद्ध्यधिष्ठानम्’ होना चाहिए
  • श्लोक १३: ‘पापाः’ छपा है; ‘पापा’ होना चाहिए
  • श्लोक २४: ‘निदानार्त्तुर्यमङ्गिनाम्’ छपा है; ‘निदानात्तुर्यमङ्गिनाम्’ होना चाहिए
  • श्लोक ३५: ‘पुण्यानुष्टान’ छपा है; ‘पुण्यानुष्ठान’ होना चाहिए

सर्ग 26: रौद्रध्यान का वर्णन

रुद्राशयभवं भीममपि रौद्रं चतुर्विधम् ।
कीर्त्यमानं विदन्त्वार्याः सर्वसत्त्वाभयप्रदाः ॥१॥

रुद्रः क्रूराशयः प्राणी प्रणीतस्तत्त्वदर्शिभिः ।
रुद्रस्य कर्मभावो वा रौद्रमित्यभिधीयते ॥२॥

हिंसानन्दान्मृषानन्दाच्चौर्यात्संरक्षणात्तथा ।
प्रभवत्यङ्गिनां शश्वदपि रौद्रं चतुर्विधम् ॥३॥

हते निष्पीडिते ध्वस्ते जन्तुजाते कदर्थिते ।
स्वेन चान्येन यो हर्षस्तद्धिंसारौद्रमुच्यते ॥४॥

अनारतं निष्करुणस्वभावः स्वभावतः क्रोधकषायदीप्तः ।
मदोद्धतः पापमतिः कुशीलः स्यान्नास्तिको यः स हि रौद्रधामा ॥५॥

हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशं
दाक्ष्यं नास्तिकशासने प्रतिदिनं प्राणातिपाते रतिः ।
संवासः सह निर्दयैरविरतं नैसर्गिकी क्रूरता
यत्स्याद्देहभृतां तदत्र गदितं रौद्रं प्रशान्ताशयैः ॥६॥

केनोपायेन घातो भवति तनुमतां कः प्रवीणोऽत्र हन्ता
हन्तुं कस्यानुरागः कतिभिरिह दिनैर्हन्यते जन्तुजातम् ।
हत्वा पूजां करिष्ये द्विजगुरुमरुतां कीर्तिशान्त्यर्थमित्थं
यत्स्याद्धिंसाभिनन्दो जगति तनुभृतां तद्धि रौद्रं प्रणीतम् ॥७॥

गगनवनधरित्रीचारिणां देहभाजां
दलनदहनबन्धच्छेदघातेषु यत्नम् ।
दृतिनखकरनेत्रोत्पाटने कौतुकं यत्
तदिह गदितमुच्चैश्चेतसां रौद्रमित्थम् ॥८॥

अस्य घातो जयोऽन्यस्य समरे जायतामिति ।
स्मरत्यङ्गी तदप्याहू रौद्रमध्यात्मवेदिनः ॥९॥

श्रुते दृष्टे स्मृते जन्तुवधाद्युरुपराभवे ।
यो हर्षस्तद्धि विज्ञेयं रौद्रं दुःखानलेन्धनम् ॥१०॥

अहं कदा करिष्यामि पूर्ववैरस्य निष्क्रियम् ।
अस्य चित्रैर्वधैश्चेति चिन्ता रौद्राय कल्पिता ॥११॥

किं कूर्मः शक्तिवैकल्याज्जीवन्त्यद्यापि विद्विषः ।
तर्ह्यमुत्र हनिष्यामः प्राप्य कालं तथा बलम् ॥१२॥

अभिलषति नितान्तं यत्परस्यापकारं
व्यसनविशिखभिन्नं वीक्ष्य यत्तोषमेति ।
यदिह गुणगरिष्टं द्वेष्टि दृष्ट्वान्यभूतिं
भवति हृदि सशल्यस्तद्धि रौद्रस्य लिङ्गम् ॥१३॥

हिंसानन्दोद्भवं रौद्रं वक्तुं कस्यास्ति कौशलम् ।
जगज्जन्तुसमुद्भूतविकल्पशतसम्भवम् ॥१४॥

हिंसोपकरणादानं क्रूरसत्त्वेष्वनुग्रहं ।
निस्त्रिंशतादिलिङ्गानि रौद्रे बाह्यानि देहिनः ॥१५॥

असत्यकल्पनाजालकश्मलीकृतमानसः ।
चेष्टते यज्जनस्तद्धि मृषारौद्रं प्रकीर्त्तितम् ॥१६॥

विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य निर्दयम् ।
प्रपात्य व्यसने लोकं भोक्ष्येऽहं वाञ्छितं सुखम् ॥१७॥

असत्य चातुर्यबलेन लोकाद्वित्तं ग्रहीष्यामि बहुप्रकारं ।
तथाश्वमातङ्गपुराकराणि कन्यादिरत्नानि च बन्धुराणि ॥१८॥

असत्यवाग्वञ्चनया नितान्तं प्रवर्त्तयत्यत्र जनं वराकम् ।
सद्धर्ममार्गादतिवर्त्तनेन मदोद्धतो यः स हि रौद्रधामा ॥१९॥

असत्यसामर्थ्यवशादरातीन् नृपेण वान्येन च घातयामि ।
अदोषिणां दोषचयं विधाय चिन्तेति रौद्राय मता मुनीन्द्रैः ॥२०॥

पातयामि जनं मूढं व्यसनेऽनर्थसंकटे ।
वाक्कौशल्यप्रयोगेण वाञ्छितार्थप्रसिद्धये ॥२१॥

इमान् जडान् बोधविचारविच्युतान् प्रतारयाम्यद्य वचोभिरुन्नतैः ।
अमी प्रवर्त्स्यन्ति मदीयकौशला-दकार्यवर्गेष्विति नात्र संशयः ॥२२॥

अनेकासत्यसंकल्पैर्यः प्रमोदः प्रजायते ।
मृषानन्दात्मकं रौद्रं तत्प्रणीतं पुरातनैः ॥२३॥

चौर्योपदेशबाहुल्यं चातुर्यं चौर्यकर्मणि ।
यच्चौर्यैकपरं चेतस्तच्चौर्यानन्द इष्यते ॥२४॥

यच्चौर्याय शरीरिणामहरहश्चिन्ता समुत्पद्यते
कृत्वा चौर्यमपि प्रमोदमतुलं कुर्वन्ति यत्संततम् ।
चौर्येणापि हृते परैः परधने यज्जायते संभ्रम-
स्तच्चौर्यप्रभवं वदन्ति निपुणा रौद्रं सुनिन्दास्पदम् ॥२५॥

कृत्वा सहायं वरवीरसैन्यं तथाभ्युपायांश्च बहुप्रकारान् ।
धनान्यलभ्यानि चिरार्जितानि सद्यो हरिष्यामि जनस्य धात्र्याम् ॥२६॥

द्विपदचतुष्पदसारं धनधान्यवराङ्गनासमाकीर्णम् ।
वस्तु परकीयमपि मे स्वाधीनं चौर्यसामर्थ्यात् ॥२७॥

इत्थं चुरायां विविधप्रकारः शरीरिभिर्यः क्रियतेऽभिलाषः ।
अपारदुःखार्णवहेतुभूतं रौद्रं तृतीयं तदिह प्रणीतम् ॥२८॥

बह्वारम्भपरिग्रहेषु नियतं रक्षार्थमभ्युद्यते
यत्संकल्पपरम्परां वितनुते प्राणीह रौद्राशयः ।
यच्चालम्ब्य महत्त्वमुन्नतमना राजेत्यहं मन्यते
तत्तुर्यं प्रवदन्ति निर्मलधियो रौद्रं भवाशंसिनाम् ॥२९॥

आरोप्य चापं निशितैः शरौघैर्निकृत्य वैरिव्रजमुद्धताशम् ।
दग्ध्वा पुरग्रामवराकराणि प्राप्स्येऽहमैश्वर्यमनन्यसाध्यम् ॥३०॥

आच्छिद्य गृह्णन्ति धरां मदीयां कन्यादिरत्नानि च दिव्यनारीं ।
ये शत्रवः सम्प्रति लुब्धचित्तास्तेषां करिष्ये कुलकक्षदाहम् ॥३१॥

सकलभुवनपूज्यं वीरवर्गोपसेव्यं स्वजनधनसमृद्धं रत्नरामाभिरामम् ।
अमितविभवसारं विश्वभोगाधिपत्यं प्रबलरिपुकुलान्तं हन्त कृत्वा मयाप्तम् ॥३२॥

भित्त्वा भुवं जन्तुकुलानि हत्वा प्रविश्य दुर्गाण्युदधिं विलङ्घ्य ।
कृत्वा पदं मूर्ध्नि मदोद्धतानां मयाधिपत्यं कृतमत्युदारम् ॥३३॥

जलानलव्यालविषप्रयोगै-र्विश्वासभेदप्रणिधिप्रपञ्चैः ।
उत्साद्य निःशेषमरातिचक्रं स्फुरत्ययं मे प्रबलप्रतापः ॥३४॥

इत्यादिसंरक्षणसन्निबन्धं सचिन्तनं यत्क्रियते मनुष्यैः ।
संरक्षणानन्दभवं तदेतद्रौद्रं प्रणीतं जगदेकनाथैः ॥३५॥

कृष्णलेश्याबलोपेतं श्वभ्रपातफलाङ्कितम् ।
रौद्रमेतद्धि जीवानां स्यात्पञ्चगुणभूमिकम् ॥३६॥

क्रूरता दण्डपारुष्यं वञ्चकत्वं कठोरता ।
निस्त्रिंशत्वं च लिङ्गानि रौद्रस्योक्तानि सूरिभिः ॥३७॥

विस्फुलिङ्गनिभे नेत्रे भ्रूवक्रा भीषणाकृतिः ।
कम्पः स्वेदादिलिङ्गानि रौद्रे बाह्यानि देहिनाम् ॥३८॥

क्षायोपशमिको भावः कालश्चान्तर्मुहूर्त्तकः ।
दुष्टाशयवशादेतदप्रशस्तावलम्बनम् ॥३९॥

दहत्येव क्षणार्द्धेन देहिनामिदमुत्थितम् ।
असद्ध्यानं त्रिलोकश्रीप्रसवं धर्मपादपम् ॥४०॥

इत्यार्त्तरौद्रे गृहिणामजस्रं ध्याने सुनिन्द्ये भवतः स्वतोऽपि ।
परिग्रहारम्भकषायदोषैः कलङ्कितेऽन्तःकरणे विशङ्कम् ॥४१॥

क्वचित्क्वचिदमी भावाः प्रवर्त्तन्ते मुनेरपि ।
प्राक्कर्मगौरवाच्चित्रं प्रायः संसारकारणम् ॥४२॥

स्वयमेव प्रजायन्ते विना यत्नेन देहिनाम् ।
अनादिदृढसंस्काराद् दुर्ध्यानानि प्रतिक्षणम् ॥४३॥

इति विगतकलंकैर्वर्णितं चित्ररूपं
दुरितविपिनबीजं निन्द्यदुर्ध्यानयुग्मम् ।
कटुकतरफलाढ्यं सम्यगालोच्य धीर
त्यज सपदि यदि त्वं मोक्षमार्गे प्रवृत्तः ॥४४॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे आर्त्तरौद्रध्याननाम षड्विंशं प्रकरणं ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ११: ‘निष्क्रियम्’ छपा है; ‘निष्क्रयम्’ होना चाहिए
  • श्लोक १२: ‘कूर्मः’ छपा है; ‘कुर्मः’ होना चाहिए
  • श्लोक १३: ‘गुणगरिष्टं’ छपा है; ‘गुणगरिष्ठं’ होना चाहिए

सर्ग 27: ध्यानविरुद्ध स्थानों का वर्णन

अथ प्रशममालम्ब्य विधाय स्ववशं मनः ।
विरज्य कामभोगेषु धर्मध्यानं निरूपय ॥१॥

तदेव प्रक्रमायातं सविकल्पं समासतः ।
आरम्भफलपर्यन्तं प्रोच्यमानं विबुध्यताम् ॥२॥

ज्ञानवैराग्यसंपन्नः संवृतात्मा स्थिराशयः ।
मुमुक्षुरुद्यमी शान्तो ध्याता धीरः प्रशस्यते ॥३॥

चतस्रो भावना धन्याः पुराणपुरुषाश्रिताः ।
मैत्र्यादयश्चिरं चित्ते ध्येया धर्मस्य सिद्धये ॥४॥

क्षुद्रेतरविकल्पेषु चरस्थिरशरीरिषु ।
सुखदुःखाद्यवस्थासु संसृतेषु यथायथम् ॥५॥

नानायोनिगतेष्वेषु समत्वेनाविराधिका ।
साध्वी महत्त्वमापन्ना मतिर्मैत्रीति पठ्यते ॥६॥

जीवन्तु जन्तवः सर्वे क्लेशव्यसनवर्जिताः ।
प्राप्नुवन्तु सुखं त्यक्त्वा वैरं पापं पराभवम् ॥७॥

दैन्यशोकसमुत्त्रास रोगपीडार्दितात्मसु ।
वधबन्धनरुद्धेषु याचमानेषु जीवितम् ॥८॥

क्षुत्तृट्श्रमाभिभूतेषु शीताद्यैर्व्यथितेषु च ।
अविरुद्धेषु निस्त्रिंशैर्यात्यमानेषु निर्दयम् ॥९॥

मरणार्त्तेषु जीवेषु यत्प्रतीकारवाञ्छया ।
अनुग्रहमतिः सेयं करुणेति प्रकीर्त्तिता ॥१०॥

तपःश्रुतयमोद्युक्तचेतसां ज्ञानचक्षुषाम् ।
विजिताक्षकषायाणां स्वतत्त्वाभ्यासशालिनाम् ॥११॥

जगत्त्रयचमत्कारिचरणाधिष्ठितात्मनाम् ।
तद्गुणेषु प्रमोदो यः सद्भिः सा मुदिता मता ॥१२॥

क्रोधविद्धेषु सत्त्वेषु निस्त्रिंशक्रूरकर्मसु ।
मधुमांससुरान्यस्त्रीलुब्धेष्वत्यन्तपापिषु ॥१३॥

देवागमयतिव्रातनिन्दकेष्वात्मशंसिषु ।
नास्तिकेषु च माध्यस्थ्यं यत्सोपेक्षा प्रकीर्त्तिता ॥१४॥

एता मुनिजनानन्दसुधास्यन्दैकचन्द्रिकाः ।
ध्वस्तरागाद्युरुक्लेशा लोकाग्रपथदीपिकाः ॥१५॥

एताभिरनिशं योगी क्रीडन्नत्यन्तनिर्भरम् ।
सुखमात्मोत्थमत्यक्षमिहैवास्कन्दति ध्रुवम् ॥१६॥

भावनास्वासु संलीनः करोत्यध्यात्मनिश्चयम् ।
अवगम्य जगद्वृत्तं विषयेषु न मुह्यति ॥१७॥

योगनिद्रा स्थितिं धत्ते मोहनिद्रापसर्पति ।
आसु सम्यक्प्रणीतासु स्यान्मुनेस्तत्त्वनिश्चयः ॥१८॥

आभिर्यदानिशं विश्वं भावयत्यखिलं वशी ।
तदौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् ॥१९॥

रागादिवागुराजालं निकृत्याचिन्त्यविक्रमः ।
स्थानमाश्रयते धन्यो विविक्तं ध्यानसिद्धये ॥२०॥

कानिचित्तत्र शस्यन्ते दूष्यन्ते कानिचित्पुनः ।
ध्यानाध्ययनसिद्ध्यर्थं स्थानानि मुनिसत्तमैः ॥२१॥

विकीर्यते मनः सद्यः स्थानदोषेण देहिनाम् ।
तदेव स्वस्थतां धत्ते स्थानमासाद्य बन्धुरम् ॥२२॥

म्लेच्छाधमजनैर्जुष्टं दुष्टभूपालपालितम् ।
पाषण्डिमण्डलाक्रान्तं महामिथ्यात्ववासितम् ॥२३॥

कौलकापालिकावासं रुद्रक्षुद्रादिमन्दिरम् ।
उद्भ्रान्तभूतवेतालं चण्डिकाभवनाजिरम् ॥२४॥

पण्यस्त्रीकृतसंकेतं मन्दचारित्रमन्दिरम् ।
क्रूरकर्माभिचाराढ्यं कुशास्त्राभ्यासवञ्चितम् ॥२५॥

क्षेत्रजातिकुलोत्पन्नशक्तिस्वीकारदर्पितम् ।
मिलितानेकदुःशीलकल्पिताचिन्त्यसाहसम् ॥२६॥

द्यूतकारसुरापानविटबन्दिव्रजान्वितम् ।
पापिसत्त्वसमाक्रान्तं नास्तिकासारसेवितम् ॥२७॥

क्रव्यादकामुकाकीर्णं व्याधविध्वस्तश्वापदं ।
शिल्पिकारुकविक्षिप्तमग्निजीविजनाञ्चितम् ॥२८॥

प्रतिपक्षशिरःशूले प्रत्यनीकावलम्बितम् ।
आत्रेयीखण्डितव्यङ्गसंसृतं च परित्यजेत् ॥२९॥

विद्रवन्ति जना पापाः सञ्चरन्त्यभिसारिकाः ।
क्षोभयन्तीङ्गिताकारैर्यत्र नार्योऽपशङ्किताः ॥३०॥

किं च क्षोभाय मोहाय यद्विकाराय जायते ।
स्थानं तदपि मोक्तव्यं ध्यानविध्वंसशङ्कितैः ॥३१॥

तृणकण्टकवल्मीकविषमोपलकर्दमैः ।
भस्मोच्छिष्टास्थिरक्ताद्यैर्दूषितां सन्त्यजेद्भुवम् ॥३२॥

काककौशिकमार्जारखरगोमायुमण्डलैः ।
अवघुष्टं हि विघ्नाय ध्यातुकामस्य योगिनः ॥३३॥

ध्यानध्वंसनिमित्तानि तथान्यान्यपि भूतले ।
न हि स्वप्नेऽपि सेव्यानि स्थानानि मुनिसत्तमैः ॥३४॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे ध्यानविरुद्धस्थानवर्णनं नाम
सप्तविंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ३०: ‘जना’ छपा है; ‘जनाः’ होना चाहिए

सर्ग 28: आसनजय का वर्णन

सिद्धक्षेत्रे महातीर्थे पुराणपुरुषाश्रिते ।
कल्याणकलिते पुण्ये ध्यानसिद्धिः प्रजायते ॥१॥

सागरान्ते वनान्ते वा शैलशृङ्गान्तरेऽथवा ।
पुलिने पद्मखण्डान्ते प्राकारे शालसङ्कटे ॥२॥

सरितां सङ्गमे द्वीपे प्रशस्ते तरुकोटरे ।
जीर्णोद्याने स्मशाने वा गुहागर्भे विजन्तुके ॥३॥

सिद्धकूटे जिनागारे कृत्रिमेऽकृत्रिमेऽपि वा ।
महर्द्धिकमहाधीरयोगिसंसिद्धवाञ्छिते ॥४॥

मनः प्रीतिप्रदे शस्ते शङ्काकोलाहलच्युते ।
सर्वर्त्तुसुखदे रम्ये सर्वोपद्रववर्जिते ॥५॥

शून्यवेश्मन्यथ ग्रामे भूगर्भे कदलीगृहे ।
पुरोपवनवेद्यन्ते मण्डपे चैत्यपादपे ॥६॥

वर्षातपतुषारादिपवनासारवर्जिते ।
स्थाने जागर्त्यविश्रान्तं यमी जन्मार्त्तिशान्तये ॥७॥

यत्र रागादयो दोषा अजस्रं यान्ति लाघवम् ।
तत्रैव वसतिः साध्वी ध्यानकाले विशेषतः ॥८॥

दारुपट्टे शिलापट्टे भूमौ वा सिकतास्थले ।
समाधिसिद्धये धीरो विदध्यात्सुस्थिरासनम् ॥९॥

पर्यङ्कमर्द्धपर्यङ्क वज्रं वीरासनं तथा ।
सुखारविन्दपूर्वे च कायोत्सर्गश्च सम्मतः ॥१०॥

येन येन सुखासीना विदध्युर्निश्चलं मनः ।
तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुरासनम् ॥११॥

कायोत्सर्गश्च पर्यङ्कः प्रशस्तं कैश्चिदीरितं ।
देहिनां वीर्यवैकल्यात्कालदोषेण संप्रति ॥१२॥

वज्रकाया महासत्त्वा निष्कम्पाः सुस्थिरासनाः ।
सर्वावस्थास्वलं ध्यात्वा गताः प्राग्योगिनः शिवम् ॥१३॥

उपसर्गैरपि स्फीतैर्देवदैत्यारिकल्पितैः ।
स्वरूपालम्बितं येषां न चेतश्चाल्यते क्वचित् ॥१४॥

श्रूयन्ते संवृतस्वान्ताः स्वतत्त्वकृतनिश्चयाः ।
विसह्योग्रोपसर्गाग्निं ध्यानसिद्धिं समाश्रिताः ॥१५॥

केचिज्ज्वालावलीढा हरिशरभगजव्यालविध्वस्तदेहाः
केचित्क्रूरादिदैत्यैरदयमतिहताश्चक्रशूलासिदण्डैः ।
भूकम्पोत्पातवातप्रबलपविघनव्रातरुद्धास्तथान्ये
कृत्वा स्थैर्यं समाधौ सपदि शिवपदं निष्प्रपञ्चं प्रपन्नाः ॥१६॥

तद्धैर्यं यमिनां मन्ये न संप्रति पुरातनम् ।
अथ स्वप्नेऽपि नामास्थां प्राचीनां कर्तुमक्षमाः ॥१७॥

निःशेषविषयोत्तीर्णो निर्विण्णो जन्मसंक्रमात् ।
आत्माधीनमनाः शश्वत्सर्वदा ध्यातुमर्हति ॥१८॥

अविक्षिप्तं यदा चेतः स्वतत्त्वाभिमुखं भवेत् ।
मुनेस्तदैव निर्विघ्ना ध्यानसिद्धिरुदाहृता ॥१९॥

स्थानासनविधानानि ध्यानसिद्धेर्निबन्धनम् ।
नैकं मुक्त्वा मुनेः साक्षाद्विक्षेपरहितं मनः ॥२०॥

संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः ।
सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति ॥२१॥

विजने जनसंकीर्णे सुस्थिते दुःस्थितेऽपि वा ।
यदि धत्ते स्थिरं चित्तं न तदास्ति निषेधनम् ॥२२॥

पूर्वाशाभिमुखः साक्षादुत्तराभिमुखोऽपि वा ।
प्रसन्नवदनो ध्याता ध्यानकाले प्रशस्यते ॥२३॥

चरणज्ञानसम्पन्ना जिताक्षा वीतमत्सराः ।
प्रागनेकास्ववस्थासु संप्राप्ता यमिनः शिवम् ॥२४॥

मुख्योपचारभेदेन द्वौ मुनी स्वामिनौ मतौ ।
अप्रमत्तप्रमत्ताख्यौ धर्मस्यैतौ यथायथम् ॥२५॥

अप्रमत्तः सुसंस्थानो वज्रकायो वशी स्थिरः ।
पूर्ववित्संवृतो धीरो ध्याता संपूर्णलक्षणः ॥२६॥

श्रुतेन विकलेनापि स्वामी सूत्रे प्रकीर्त्तितः ।
अधःश्रेण्यां प्रवृत्तात्मा धर्मध्यानस्य सुश्रुतः ॥२७॥

किं च कैश्चिच्च धर्मस्य चत्वारः स्वामिनः स्मृताः ।
सद्दृष्ट्याद्यप्रमत्तान्ता यथायोग्येन हेतुना ॥२८॥

ध्यातारस्त्रिविधा ज्ञेयास्तेषां ध्यानान्यपि त्रिधा ।
लेश्याविशुद्धियोगेन फलसिद्धिरुदाहृता ॥२९॥

अथासनजयं योगी करोतु विजितेन्द्रियः ।
मनागपि न खिद्यन्ते समाधौ सुस्थिरासनाः ॥३०॥

आसनाभ्यासवैकल्याद्वपुःस्थैर्यं न विद्यते ।
खिद्यते त्वङ्गवैकल्यात्समाधिसमये ध्रुवम् ॥३१॥

वातातपतुषाराद्यैर्जन्तुजातैरनेकशः ।
कृतासनजयो योगी खेदितोऽपि न खिद्यते ॥३२॥

आसाद्याभिमतं रम्यं स्थानं चित्तप्रसत्तिदम् ।
उद्भिन्नपुलकः श्रीमान्पर्यङ्कमधितिष्ठति ॥३३॥

पर्यङ्कदेशमध्यस्थे प्रोत्ताने करकुड्मले ।
करोत्युत्फुल्लराजीवसन्निभे च्युतचापले ॥३४॥

नासाग्रदेशविन्यस्ते धत्ते नेत्रेऽतिनिश्चले ।
प्रसन्ने सौम्यतापन्ने निष्पन्दे मन्दतारके ॥३५॥

भ्रूवल्लीविक्रियाहीनं सुश्लिष्टाधरपल्लवम् ।
सुप्तमत्स्यह्रदप्रायं विदध्यान्मुखपङ्कजम् ॥३६॥

अगाधकरुणाम्भोधौ मग्नः संविग्नमानसः ।
ऋज्वायतं वपुर्धत्ते प्रशस्तं पुस्तमूर्तिवत् ॥३७॥

विवेकवार्द्धिकल्लोलैर्निर्मलीकृतमानसः ।
ज्ञानमन्त्रोद्धृताशेषरागादिविषमग्रहः ॥३८॥

रत्नाकर इवागाधः सुराद्रिरिव निश्चलः ।
प्रशान्तविश्वविस्पन्दप्रणष्टसकलभ्रमः ॥३९॥

किमयं लोष्टनिष्पन्नः किं वा पुस्तप्रकल्पितः ।
समीपस्थैरपि प्रायः प्राज्ञैर्ध्यानीति लक्ष्यते ॥४०॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे आसनजयो नाम अष्टाविंशं प्रकरणं ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १०: ‘पर्यङ्कमर्द्धपर्यङ्क’ छपा है; ‘पर्यङ्कमर्द्धपर्यङ्कं’ होना चाहिए

सर्ग 29: प्राणायाम वर्णन

सुनिर्णीतसुसिद्धान्तैः प्राणायामः प्रशस्यते ।
मुनिभिर्ध्यानसिद्ध्यर्थं स्थैर्यार्थं चान्तरात्मनः ॥१॥

अतः साक्षात्स विज्ञेयः पूर्वमेव मनीषिभिः ।
मनागप्यन्यथा शक्यो न कर्त्तुं चित्तनिर्जयः ॥२॥

त्रिधा लक्षणभेदेन संस्मृतः पूर्वसूरिभिः ।
पूरकः कुम्भकश्चैव रेचकस्तदनन्तरम् ॥३॥

द्वादशान्तात्समाकृष्य यः समीरः प्रपूर्यते ।
स पूरक इति ज्ञेयो वायुविज्ञानकोविदैः ॥४॥

निरुणद्धि स्थिरीकृत्य श्वसनं नाभिपङ्कजे ।
कुम्भवन्निर्भरः सोऽयं कुम्भकः परिकीर्त्तितः ॥५॥

निःसार्यतेऽतियत्नेन यत्कोष्टाच्छ्वसनं शनैः ।
स रेचक इति प्राज्ञैः प्रणीतः पवनागमे ॥६॥

नाभिस्कन्धाद्विनिष्क्रान्तं हृत्पद्मोदरमध्यगम् ।
द्वादशान्ते सुविश्रान्तं तज्ज्ञेयं परमेश्वरम् ॥७॥

तस्य चारं गतिं बुद्ध्वा संस्थां चैवात्मनः सदा ।
चिन्तयेत्कालमायुश्च शुभाशुभफलोदयम् ॥८॥

अत्राभ्यासं प्रयत्नेन प्रास्ततन्द्रः प्रतिक्षणम् ।
कुर्वन् योगी विजानाति यन्त्रनाथस्य चेष्टितम् ॥९॥

शनैः शनैः मनोऽजस्रं वितन्द्रः सह वायुना ।
प्रवेश्य हृदयाम्भोजकर्णिकायां नियन्त्रयेत् ॥१०॥

विकल्पा न प्रसूयन्ते विषयाशा निवर्त्तते ।
अन्तः स्फुरति विज्ञानं तत्र चित्ते स्थिरीकृते ॥११॥

एवं भावयतः स्वान्ते यात्यविद्या क्षयं क्षणात् ।
विमदीस्युस्तथाक्षाणि कषायरिपुभिः समम् ॥१२॥

कुत्र श्वसनविश्रामः का नाड्यः संक्रमः कथम् ।
का मण्डलगतिः केयं प्रवृत्तिरिति बुद्ध्यते ॥१३॥

स्थिरी भवन्ति चेतांसि प्राणायामावलम्बिनाम् ।
जगद्वृत्तं च निःशेषं प्रत्यक्षमिव जायते ॥१४॥

यः प्राणायाममध्यास्ते स मंडलचतुष्टयम् ।
निश्चिनोतु यतः साध्वी ध्यानसिद्धिः प्रजायते ॥१५॥

घोणाविवरमध्यास्य स्थितं पुरचतुष्टयम् ।
पृथक् पवनसंवीतं लक्ष्यलक्षणभेदतः ॥१६॥

अचिन्त्यमतिदुर्लक्ष्यं तन्मण्डलचतुष्टयम् ।
स्वसंवेद्यं प्रजायेत महाभ्यासात्कथंचन ॥१७॥

तत्रादौ पार्थिवं ज्ञेयं वारुणं तदनन्तरम् ।
मरुत्पुरं ततः स्फीतं पर्यन्ते वह्निमण्डलम् ॥१८॥

क्षितिबीजसमाक्रान्तं द्रुतहेमसमप्रभम् ।
स्याद्वज्रलाञ्छनोपेतं चतुरस्रं धरापुरम् ॥१९॥

अर्द्धचन्द्रसमाकारं वारुणाक्षरलक्षितम् ।
स्फुरत्सुधाम्बुसंसिक्तं चन्द्राभं वारुणं पुरम् ॥२०॥

सुवृत्तं बिंदुसंकीर्णं नीलाञ्जनघनप्रभम् ।
चञ्चलं पवनोपेतं दुर्लक्ष्यं वायुमण्डलम् ॥२१॥

स्फुलिङ्गपिङ्गलं भीममूर्ध्वज्वालाशतार्चितम् ।
त्रिकोणं स्वस्तिकोपेतं तद्बीजं वह्निमण्डलम् ॥२२॥

ततस्तेषु क्रमाद्वायुः संचरत्यविलम्बितम् ।
स विज्ञेयो यथाकालं प्रणिधानपरैर्नरैः ॥२३॥

घोणाविवरमापूर्य किञ्चिदुष्णं पुरन्दरः ।
वहत्यष्टाङ्गुलः स्वस्थः पीतवर्णः शनैः शनैः ॥२४॥

त्वरितः शीतलोऽधस्तात्सितरुक् द्वादशाङ्गुलः ।
वरुणः पवनस्तज्ज्ञैर्वहनेनावसीयते ॥२५॥

तिर्यग्वहत्यविश्रान्तः पवनाख्यः षडङ्गुलः ।
पवनः कृष्णवर्णोऽसौ उष्णः शीतश्च लक्ष्यते ॥२६॥

बालार्कसन्निभश्चोर्ध्वं सावर्त्तश्चतुरङ्गुलः ।
अत्युष्णो ज्वलनाभिख्यः पवनः कीर्त्तितो बुधैः ॥२७॥

स्तम्भादिके महेन्द्रो वरुणः शस्तेषु सर्वकार्येषु ।
चलमलिनेषु च वायुर्वश्यादौ वह्निरुद्देश्यः ॥२८॥

छत्रगजतुरगचामररामाराज्यादिसकलकल्याणम् ।
माहेन्द्रो वदति फलं मनोगतं सर्वकार्येषु ॥२९॥

अभिमतफलनिकुरम्बं विद्यावीर्यादिभूतिसंकीर्णम् ।
सुतयुवतिवस्तुसारं वरुणो योजयति जन्तूनाम् ॥३०॥

भयशोकदुःखपीडा-विघ्नौघपरम्परां विनाशं च ।
व्याचष्टे देहभृतां दहनो दाहस्वभावोऽयम् ॥३१॥

सिद्धमपि याति विलयं सेवाकृष्यादिकं समस्तमपि चैव ।
मृत्युभयकलहवैरं पवने त्रासादिकं च स्यात् ॥३२॥

सर्वे प्रवेशकाले कथयन्ति मनोगतं फलं पुंसाम् ।
अहितमतिदुःखनिचितं त एव निःसरणवेलायाम् ॥३३॥

सर्वेऽपि प्रविशन्तो रविशशिमार्गेण वायवः सततम् ।
विदधति परां सुखास्थां निर्गच्छन्तो विपर्यस्ताम् ॥३४॥

वामेन प्रविशन्तौ वरुणमहेन्द्रो समस्तसिद्धिकरौ ।
इतरेण निःसरन्तौ हुतभुक्पवनौ विनाशाय ॥३५॥

अथ मण्डलेषु वायोः प्रवेशनिःसरणकालमवगम्य ।
उपदिशति भुवनवस्तुषु विचेष्टितं सर्वथा सर्वम् ॥३६॥

वामायां विचरन्तौ दहनसमीरौ तु मध्यमौ कथितौ ।
वरुणेन्द्रावितरस्यां तथाविधावेव निर्दिष्टौ ॥३७॥

उदये वामा शस्ता सितपक्षे दक्षिणा पुनः कृष्णे ।
त्रीणि त्रीणि दिनानि तु शशिसूर्यस्योदयः श्लाघ्यः ॥३८॥

उदयश्चन्द्रेण हितः सूर्येणास्तं प्रशस्यते वायोः ।
रविणोदये तु शशिना शिवमस्तमनं सदा नृणाम् ॥३९॥

सितपक्षे रव्युदये प्रतिपद्दिवसे समीक्ष्यते सम्यक् ।
शस्तेतरप्रचारौ वायोर्यत्नेन विज्ञानी ॥४०॥

व्यस्तः प्रथमे दिवसे चित्तोद्वेगाय जायते पवनः ।
धनहानिकृद्द्वितीये प्रवासदः स्यात्तृतीयेऽह्नि ॥४१॥

इष्टार्थनाशविभ्रमस्वपदभ्रंशास्तथा महायुद्धम् ।
दुःखं च पञ्च दिवसैः क्रमशः संजायते त्वपरैः ॥४२॥

वामा सुधामयी ज्ञेया हिता शश्वच्छरीरिणाम् ।
संहर्त्री दक्षिणा नाडी समस्तानिष्टसूचिका ॥४३॥

अमृतमिव सर्वगात्रं प्रीणयति शरीरिणां ध्रुवं वामा ।
क्षपयति तदेव शश्वद्वहमाना दक्षिणा नाडी ॥४४॥

संग्रामसुरतभोजनविरुद्धकार्येषु दक्षिणेष्टा स्यात् ।
अभ्युदयहृदयवाञ्छितसमस्तशस्तेषु वामैव ॥४५॥

नेष्टघटनेऽसमर्था राहुग्रहकालचन्द्रसूर्याद्याः ।
क्षितिवरुणौ त्वमृतगतौ समस्तकल्याणदौ ज्ञेयौ ॥४६॥

पूर्णे पूर्वस्य जयो रिक्ते त्वितरस्य कथ्यते तज्ज्ञैः ।
उभयोर्युद्धनिमित्ते दूतेनाशंसिते प्रश्ने ॥४७॥

ज्ञातुर्नाम प्रथमं पश्चाद्यद्यातुरस्य गृह्णाति ।
दूतस्तदेष्टसिद्धिस्तद्व्यस्ते स्याद्विपर्यस्ता ॥४८॥

जयति समाक्षरनामा वामावाहस्थितेन दूतेन ।
विषमाक्षरस्तु दक्षिणदिक्संस्थेनास्त्रसंपाते ॥४९॥

भूतादिगृहीतानां रोगार्त्तानां च सर्पदष्टानां ।
पूर्वोक्त एव च विधिर्बोद्धव्यो मान्त्रिकावश्यम् ॥५०॥

पूर्णे वरुणे प्रविशति यदि वामा जायते क्वचित्पुण्यैः ।
सिद्ध्यन्त्यचिन्तितान्यपि कार्याण्यारभ्यमाणानि ॥५१॥

जयजीवितलाभाद्या येऽर्थाः पूर्वं तु सूचिताः शास्त्रे ।
स्युस्ते सर्वेऽप्यफला मृत्युस्थे मरुति लोकानाम् ॥५२॥

अनिलमवबुध्य सम्यक्पुष्पं हस्तात्प्रपातयेज्ज्ञानी ।
मृतजीवितविज्ञाने ततः स्वयं निश्चयं कुरुते ॥५३॥

वरुणे त्वरितो लाभश्चिरेण भौमे तदर्थिने वाच्यम् ।
तुच्छतरः पवनाख्ये सिद्धोऽपि विनश्यते वह्नौ ॥५४॥

आयाति गतो वरुणे भौमे तत्रैव तिष्टति सुखेन ।
यात्यन्यत्र श्वसने मृत इति वह्नौ समादेश्यम् ॥५५॥

घोरतरः संग्रामो हुताशने मरुति भङ्ग एव स्यात् ।
गगने सैन्यविनाशं मृत्युर्वा युद्धपृच्छायाम् ॥५६॥

ऐन्द्रे विजयः समरे ततोऽधिको वाञ्छितश्च वरुणे स्यात् ।
सन्धिर्वा रिपुभङ्गात्स्वसिद्धिसंसूचनोपेतः ॥५७॥

वर्षति भौमे मघवान्वरुणेऽभिमतो मतस्तथाजस्रम् ।
दुर्दिनघनाश्च पवने वह्नौ वृष्टिः कियन्मात्रा ॥५८॥

सस्यानां निष्पत्तिः स्याद्वरुणे पार्थिवि च सुश्लाघ्या ।
स्वल्पापि न चाग्नेये वाय्वाकाशे तु मध्यस्था ॥५९॥

नृपतिगुरुबन्धुवृद्धा अपरेऽप्यभिलषितसिद्धयेः लोकाः ।
पूर्णाङ्गे कर्त्तव्या विदुषा वीतप्रपञ्चेन ॥६०॥

शयनासनेषु दक्षैः पूर्णाङ्गनिवेशितासु योषासु ।
ह्रियते चेतस्त्वरितं नातोऽन्यद्वश्यविज्ञानम् ॥६१॥

अरिऋणिकचौरदुष्टा अपरेऽप्युपसर्गविग्रहाद्याश्च ।
रिक्ताङ्गे कर्त्तव्या जयलाभसुखार्थिभिः पुरुषैः ॥६२॥

रिपुशस्त्रसंप्रहारे रक्षति यः पूर्णगात्रभूभागम् ।
बलिभिरपि वैरिवर्गैर्न भेद्यते तस्य सामर्थ्यम् ॥६३॥

वरुणमहेन्द्रौ शस्तौ प्रश्ने गर्भस्य पुत्रदौ ज्ञेयौ ।
इतरौ स्त्रीजन्मकरौ शून्यं गर्भस्य नाशाय ॥६४॥

नासाप्रवाहदिग्भागे गर्भार्थं यस्तु पृच्छति ।
पुरुषः पुरुषादेशं शून्यभागे तथाङ्गना ॥६५॥

विज्ञेयः सम्मुखे षण्ढः सुषुम्नायामुभौ शिशू ।
गर्भहानिस्तु संक्रान्तौ समे क्षेमं विनिर्दिशेत् ॥६६॥

ज्ञायेत यदि न सम्यग्मरुत्तदा बिन्दुभिः स निश्चेयः ।
सितपीतारुणकृष्णैर्वरुणावनिपवनदहनोत्थैः ॥६७॥

कर्णाक्षिनासिकापुटमङ्गुष्ठप्रथममध्यमाङ्गुलिभिः ।
द्वाभ्यां च पिधाय मुखं करणेन हि दृश्यते बिन्दुः ॥६८॥

दक्षिणामथवा वामां यो निषेद्धुं समीप्सति ।
तदङ्गं पीडयेदन्यां नासानाडीं समाश्रयेत् ॥६९॥

अग्रे वामविभागे चन्द्रक्षेत्रं वदन्ति तत्त्वविदः ।
पृष्टे च दक्षिणाङ्गे रवेस्तदेवाहुराचार्याः ॥७०॥

अवनिवनदहनमंडलविचलनशीलस्य तावदनिलस्य ।
गति ऋजुरेव मरुत्पुरविहारिणः सा तिरश्चीना ॥७१॥

पवनप्रवेशकाले जीव इति प्रोच्यते महामतिभिः ।
निष्क्रमणे निर्जीवः फलमपि च तयोस्तथा ज्ञेयम् ॥७२॥

जीवे जीवति विश्वं मृते मृतं सूरिभिः समुद्दिष्टम् ।
सुखदुःखजयपराजयलाभालाभादिमार्गोऽयम् ॥७३॥

संचरति यदा वायुस्तत्त्वात्तत्त्वान्तरं तदा ज्ञेयम् ।
यत्त्यजति तद्धि रिक्तं तत्पूर्णं यत्र संक्रमति ॥७४॥

ग्रामपुरयुद्धजनपदगृहराजकुलप्रवेशनिःकाशे ।
पूर्णाङ्गपादमग्रे कृत्वा व्रजतोऽस्य सिद्धिः स्यात् ॥७५॥

कुर्वीत पूरके सत्याकृष्टिं कुम्भके तथा स्तम्भम् ।
उच्चाटनं च योगी रेचकविज्ञानसामर्थ्यात् ॥७६॥

इदमखिलं श्वसनभवं सामर्थ्यं स्यान्मुनेर्ध्रुवं तस्य ।
यो नाडिकाविशुद्धिं सम्यक् कर्त्तुं विजानाति ॥७७॥

यद्यपि समीरचारश्चपलतरो योगिभिः सुदुर्लक्ष्यः ।
जानाति विगततन्द्रस्तथाऽपि नाड्यां कृताभ्यासः ॥७८॥

सकलं बिन्दुसनाथं रेफाक्रान्तं हवर्णमनवद्यम् ।
चिन्तयति नाभिकमले सुबन्धुरं कर्णिकारूढम् ॥७९॥

रेचयति ततः शीघ्रं पतङ्गमार्गेण भासुराकारम् ।
ज्वालाकलापकलितं स्फुलिङ्गमालाकराक्रान्तम् ॥८०॥

तरलतडिदुग्रवेगं धूमशिखावर्त्तरुद्धदिक्चक्रम् ।
गच्छन्तं गगनतले दुर्द्धर्षं देवदैत्यानाम् ॥८१॥

शरदिन्दुधामधवलं गगनतलान्मन्दमन्दमवतीर्णम् ।
क्षरदमृतमिव सुधांशोः पूरयति यथा पुनः पुरतः ॥८२॥

आनीय नाभिकमलं निवेश्य तस्मिन्पुनः पुनश्चैव ।
अनलसमनसा कार्यं प्रवेशनिःसरणमनवरतम् ॥८३॥

अथ नाभिपुण्डरीकाच्छनैः शनैर्हृदयकमलनालेन ।
निःसारयति समीरं पुनः प्रवेशयति सोद्योगम् ॥८४॥

नाडीशुद्धिं कुरुते दहनपुरं दिनकरस्य मार्गेण ।
निष्क्रामद्विशदिंदोः पुरमितरेणेति केऽप्याहुः ॥८५॥

इति नाडिकाविशुद्धिपरिकलिताभ्यासकौशलो योगी ।
आत्मेच्छयैव घटयति पुटयोः पवनं क्षणार्द्धेन ॥८६॥

एकस्यामयमास्ते कालं नालीयुगद्वयं सार्द्धम् ।
तामुत्सृज्य ततोऽन्यामधितिष्ठति नालिकामनिलः ॥८७॥

षोडशप्रमितः कैश्चिन्निर्णीतो वायुसंक्रमः ।
अहोरात्रमिते काले द्वयोर्नाड्योर्यथा क्रमम् ॥८८॥

षट्शतान्यधिकान्याहुः सहस्राण्येकविंशतिम् ।
अहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमौ ॥८९॥

संक्रान्तिमपि नो वेत्ति यः समीरस्य मुग्धधीः ।
स तत्त्वनिर्णयं कर्त्तुं प्रवृत्तः किं न लज्जते ॥९०॥

अथ कौतूहलहेतोः करोति वेधं समाधिसामर्थ्यात् ।
सम्यग्विनीतपवनः शनैः शनैरर्कतूलेषु ॥९१॥

तत्र कृतनिश्चयोऽसौ जातीबकुलादिगन्धद्रव्येषु ।
स्थिरलक्ष्यतया शश्वत्करोति वेधं वितन्द्रात्मा ॥९२॥

कर्पूरकुंकुमागुरुमलयजकुष्टादिगन्धद्रव्येषु ।
वरुणपवनेन वेधं करोति लक्ष्ये स्थिराभ्यासः ॥९३॥

एतेषु लब्धलक्ष्यस्ततोऽपि सूक्ष्मेषु पत्रिकायेषु ।
वेधं करोति वायुप्रपञ्चसंयोजने चतुरः ॥९४॥

मधुकरपतङ्गपत्रिषु तथाणुज्येष्ठेषु मृगशरीरेषु ।
संचरति जातलक्ष्यस्त्वनन्यचेता वशी धीरः ॥९५॥

नरतुरगकरिशरीरे क्रमेण संचरति निःसरत्येव ।
पुस्तोपलरूपेषु च यदृच्छया संक्रमं कुर्यात् ॥९६॥

इति परपुरप्रवेशाभ्यासोत्थसमाधिपरमसामर्थ्यात् ।
विचरति यदृच्छयासौ मुक्त इवात्यन्तनिर्लेपः ॥९७॥

कौतुकमात्रफलोऽयं परपुरप्रवेशो महाप्रयासेन ।
सिद्ध्यति न वा कथञ्चिन्महतामपि कालयोगेन ॥९८॥

स्मरगरलमनोविजयं समस्तरोगक्षयं वपुःस्थैर्यम् ।
पवनप्रचारचतुरः करोति योगी न सन्देहः ॥९९॥

जन्मशतजनितमुग्रं प्राणायामाद्विलीयते पापम् ।
नाडीयुगलस्यान्ते यतेर्जिताक्षरस्य वीरस्य ॥१००॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे स्थानासनपूर्वकं
प्राणायामवर्णनं नाम एकोनत्रिंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ६: ‘यत्कोष्टाच्छ्वसनं’ छपा है; ‘यत्कोष्ठाच्छ्वसनं’ होना चाहिए
  • श्लोक ३५: ‘वरुणमहेन्द्रो’ छपा है; ‘वरुणमहेन्द्रौ’ होना चाहिए
  • श्लोक ५५: ‘तिष्टति’ छपा है; ‘तिष्ठति’ होना चाहिए
  • श्लोक ५९: ‘पार्थिवि’ छपा है; ‘पार्थिवे’ होना चाहिए
  • श्लोक ६०: ‘सिद्धयेः’ छपा है; ‘सिद्धये’ होना चाहिए
  • श्लोक ७०: ‘पृष्टे’ छपा है; ‘पृष्ठे’ होना चाहिए
  • श्लोक ९३: ‘कुष्टादि’ छपा है; ‘कुष्ठादि’ होना चाहिए

सर्ग 30: प्रत्याहार धारणा वर्णन

समाकृष्येन्द्रियार्थेभ्यः साक्षं चेतः प्रशान्तधीः ।
यत्र यत्रेच्छया धत्ते स प्रत्याहार उच्यते ॥१॥

निःसंगः संवृतस्वान्तः कूर्मवत्संवृतेन्द्रियः ।
यमी समत्वमापन्नो ध्यानतन्त्रे स्थिरी भवेत् ॥२॥

गोचरेभ्यो हृषीकाणि तेभ्यश्चित्तमनाकुलम् ।
पृथक्कृत्य वशी धत्ते ललाटेऽत्यन्तनिश्चलम् ॥३॥

सम्यक्समाधिसिद्ध्यर्थं प्रत्याहारः प्रशस्यते ।
प्राणायामेन विक्षिप्तं मनः स्वास्थ्यं न विन्दति ॥४॥

प्रत्याहृतं पुनः स्वस्थं सर्वोपाधिविवर्जितम् ।
चेतः समत्वमापन्नं स्वस्मिन्नेव लयं व्रजेत् ॥५॥

वायोः संचारचातुर्यमणिमाद्यङ्गसाधनम् ।
प्रायः प्रत्यूहबीजं स्यान्मुनेर्मुक्तिमभीप्सतः ॥६॥

किमनेन प्रपञ्चेन स्वसन्देहार्त्तहेतुना ।
सुविचार्यैव तज्ज्ञेयं यन्मुक्तेर्बीजमग्रिमम् ॥७॥

संविग्नस्य प्रशान्तस्य वीतरागस्य योगिनः ।
वशीकृताक्षवर्गस्य प्राणायामो न शस्यते ॥८॥

प्राणस्यायमने पीडा तस्यां स्यादार्त्तसम्भवः ।
तेन प्रच्याव्यते नूनं ज्ञाततत्त्वोऽपि लक्ष्यतः ॥९॥

पूरणे कुम्भके चैव तथा श्वसननिर्गमे ।
व्यग्री भवन्ति चेतांसि क्लिश्यमानानि वायुभिः ॥१०॥

नातिरिक्तं फलं सूत्रे प्राणायामात्प्रकीर्त्तितम् ।
अतस्तदर्थमस्माभिर्नातिरिक्तः कृतः श्रमः ॥११॥

निरुद्ध्य करणग्रामं समत्वमवलम्ब्य च ।
ललाटदेशसंलीनं विदध्यान्निश्चलं मनः ॥१२॥

नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे ललाटे ।
वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रूयुगान्ते
ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे ।
तेष्वेकस्मिन्विगतविषयं चित्तमालम्बनीयम् ॥१३॥

स्थानेष्वेतेषु विश्रान्तं मुनेर्लक्ष्यं वितन्वतः ।
उत्पद्यन्ते स्वसंवित्तेर्बहवो ध्यानप्रत्ययाः ॥१४॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे प्रत्याहारधारणावर्णनं नाम
त्रिंशं प्रकरणम् समाप्तम् ॥

सर्ग 31: सवीर्यध्यान का वर्णन

अनन्तगुणराजीवबन्धुरप्यत्र वञ्चितः ।
अहो भवमहाकक्षे प्रागहं कर्मवैरिभिः ॥१॥

स्वविभ्रमसमुद्भूतै रागाद्यतुलबन्धनैः ।
बद्धो विडम्बितः कालमनन्तं जन्मदुर्गमे ॥२॥

अद्य रागज्वरो जीर्णो मोहनिद्राद्य निर्गता ।
ततः कर्मरिपुं हन्मि ध्याननिस्त्रिंशधारया ॥३॥

आत्मानमेव पश्यामि निर्द्धूयाज्ञानजं तमः ।
प्लोषयामि तथाऽत्युग्रं कर्मेन्धनसमुत्करम् ॥४॥

प्रबलध्यानवज्रेण दुरितद्रुमसंक्षयम् ।
तथा कुर्मो यथा दत्ते न पुनर्भवसंभवम् ॥५॥

जन्मज्वरसमुद्भूतमहामूर्च्छान्धचक्षुषा ।
स्वविज्ञानोद्भवः साक्षान्मोक्षमार्गो न वीक्षितः ॥६॥

मयात्मापि न विज्ञातो विश्वलोकैकलोचनः ।
अविद्याविषमग्राहदन्तचर्वितचेतसा ॥७॥

परमात्मा परंज्योतिर्जगज्ज्येष्ठोऽपि वञ्चितः ।
आपातमात्ररम्यैस्तैर्विषयैरन्तनीरसैः ॥८॥

अहं च परमात्मा च द्वावेतौ ज्ञानलोचनौ ।
अतस्तं ज्ञातुमिच्छामि तत्स्वरूपोपलब्धये ॥९॥

मम शक्त्या गुणग्रामो व्यक्त्या च परमेष्ठिनः ।
एतावानावयोर्भेदः शक्तिव्यक्तिस्वभावतः ॥१०॥

तावन्मां पीडयत्येव महादाहो भवोद्भवः ।
यावज्ज्ञानसुधाम्भोधौ नावगाहः प्रवर्तते ॥११॥

अहं न नारको नाम न तिर्यग्नापि मानुषः ।
न देवः किन्तु सिद्धात्मा सर्वोऽयं कर्मविक्रमः ॥१२॥

अनन्तवीर्यविज्ञानदृगानन्दात्मकोऽप्यहम् ।
किं न प्रोन्मूलयाम्यद्य प्रतिपक्षविषद्रुमम् ॥१३॥

अद्यासाद्य स्वसामर्थ्यं प्रविश्यानन्दमन्दिरम् ।
न स्वरूपाच्यविष्येऽहं बाह्यार्थेषु गतस्पृहः ॥१४॥

मयाद्यैव विनिश्चेयं स्वस्वरूपं हि वस्तुतः ।
छित्त्वाप्यनादिसंभूतामविद्यावैरिवागुराम् ॥१५॥

इति प्रतिज्ञां प्रतिपद्य धीरः समस्तरागादिकलङ्कमुक्तः ।
आलम्बते धर्म्यमचञ्चलात्मा शुक्लं च यद्यस्ति बलं विशालं ॥१६॥

ध्येयं वस्तु वदन्ति निर्मलधियस्तच्चेतनाचेतनम्
स्थित्युत्पत्तिविनाशलाञ्छनयुतं मूर्त्तेतरं च क्रमात् ।
शुद्धध्यानविशीर्णकर्मकवचो देवश्च मुक्तेर्वरः
सर्वज्ञः सकलः शिवः स भगवान्सिद्धः परो निष्कलः ॥१७॥

अमी जीवादयो भावाश्चिदचिल्लक्षलाञ्छिताः ।
तत्स्वरूपाविरोधेन ध्येया धर्मे मनीषिभिः ॥१८॥

ध्याने ह्युपरते धीमान् मनः कुर्यात्समाहितम् ।
निर्वेदपदमापन्नं मग्नं वा करुणाम्बुधौ ॥१९॥

अथ लोकत्रयीनाथममूर्त्तं परमेश्वरम् ।
ध्यातुं प्रक्रमते साक्षात्परमात्मानमव्ययम् ॥२०॥

त्रिकालविषयं साक्षाच्छक्तिव्यक्तिविवक्षया ।
सामान्येन नयेनैकं परमात्मानमामनेत् ॥२१॥

साकारं निर्गताकारम् निष्क्रियं परमाक्षरम् ।
निर्विकल्पं च निष्कम्पं नित्यमानन्दमन्दिरम् ॥२२॥

विश्वरूपमविज्ञातस्वरूपं सर्वदोदितम् ।
कृतकृत्यं शिवं शान्तं निष्कलं करुणच्युतम् ॥२३॥

निःशेषभवसम्भूतक्लेशद्रुमहुताशनम् ।
शुद्धमत्यन्तनिर्लेपं ज्ञानराज्यप्रतिष्ठितम् ॥२४॥

विशुद्धादर्शसंक्रान्तप्रतिबिम्बसमप्रभम् ।
ज्योतिर्मयं महावीर्यं परिपूर्णं पुरातनम् ॥२५॥

विशुद्धाष्टगुणोपेतं निर्द्वन्द्वं निर्गतामयम् ।
अप्रमेयं परिच्छिन्नं विश्वतत्त्वव्यवस्थितम् ॥२६॥

यदग्राह्यं बहिर्भावैर्ग्राह्यं चान्तर्मुखैः क्षणात् ।
तत्स्वभावात्मकं साक्षात्स्वरूपं परमात्मनः ॥२७॥

अणोरपि च यः सूक्ष्मो महानाकाशतोऽपि च ।
जगद्वन्द्यः स सिद्धात्मा निष्पन्नोऽत्यन्तनिर्वृतः ॥२८॥

यस्याणुध्यानमात्रेण शीर्यन्ते जन्मजा रुजः ।
नान्यथा जन्मिनां सोऽयं जगतां प्रभुरच्युतः ॥२९॥

विज्ञातमपि निःशेषं यदज्ञानादपार्थकम् ।
यस्मिंश्च विदिते विश्वं ज्ञातमेव न संशयः ॥३०॥

यत्स्वरूपापरिज्ञानान्नात्मतत्त्वे स्थितिर्भवेत् ।
यज्ज्ञात्वा मुनिभिः साक्षात्प्राप्तं तस्यैव वैभवम् ॥३१॥

स एव नियतं ध्येयः स विज्ञेयो मुमुक्षुभिः ।
अनन्यशरणीभूय तद्गतेनान्तरात्मना ॥३२॥

अवाग्गोचरमव्यक्तमनन्तं शब्दवर्जितम् ।
अजं जन्मभ्रमातीतं निर्विकल्पं विचिन्तयेत् ॥३३॥

यद्बोधानन्तभागेऽपि द्रव्यपर्यायसंभृतम् ।
लोकालोकं स्थितिं धत्ते स स्याल्लोकत्रयीगुरुः ॥३४॥

तत्स्वरूपाहितस्वान्तस्तद्गुणग्रामरञ्जितः ।
यो जयत्यात्मनात्मानं तस्मिंस्तद्रूपसिद्धये ॥३५॥

इत्यजस्रं स्मरन्योगी तत्स्वरूपावलम्बितः ।
तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् ॥३६॥

अनन्यशरणीभूय स तस्मिंल्लीयते तथा ।
ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ॥३७॥

सोऽयं समरसीभावस्तदेकीकरणं स्मृतम् ।
अपृथक्त्वेन यत्रात्मा लीयते परमात्मनि ॥३८॥

अनन्यशरणस्तद्धि तत्संलीनैकमानसः ।
तद्गुणस्तत्स्वभावात्मा स तादात्म्याच्च संवसन् ॥३९॥

कटस्य कर्ताहमिति सम्बन्धः स्याद्द्वयोर्द्वयोः ।
ध्यानं ध्येयं यदात्मैव सम्बन्धः कीदृशस्तदा ॥४०॥

यदज्ञानाज्जन्मी भ्रमति नियतं जन्मगहने
विदित्वा यं सद्यस्त्रिदशगुरुतो याति गुरुताम् ।
स विज्ञेयः साक्षात्सकलभुवनानन्दनिलयः
परं ज्योतिस्त्राता परमपुरुषोऽचिन्त्यचरितः ॥४१॥

इत्थं यत्रानवच्छिन्नभावनाभिर्भवच्युतम् ।
भावयत्यनिशं ध्यानी तत्सवीर्यं प्रकीर्तितम् ॥४२॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे सवीर्यध्यानवर्णनं नाम
एकत्रिंशं प्रकरणं समाप्तम् ॥

सर्ग 32: शुद्धोपयोग का वर्णन

अज्ञातस्वस्वरूपेण परमात्मा न बुध्यते ।
आत्मैव प्राग्विनिश्चेयो विज्ञातुं पुरुषं परम् ॥१॥

आत्मतत्त्वानभिज्ञस्य न स्यादात्मन्यवस्थितिः ।
मुह्यत्यन्तः पृथक् कर्त्तुं स्वरूपं देहदेहिनोः ॥२॥

तयोर्भेदापरिज्ञानान्नात्मलाभः प्रजायते ।
तदभावात्स्वविज्ञानसूतिः स्वप्नेऽपि दुर्घटा ॥३॥

अतः प्रागेव निश्चेयः सम्यगात्मा मुमुक्षुभिः ।
अशेषपरपर्यायकल्पनाजालवर्जितः ॥४॥

त्रिप्रकारं स भूतेषु सर्वेष्वात्मा व्यवस्थितः ।
बहिरन्तः परश्चेति विकल्पैर्वक्ष्यमाणकैः ॥५॥

आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् ।
बहिरात्मा स विज्ञेयो मोहनिद्रास्तचेतनः ॥६॥

बहिर्भावानतिक्रम्य यस्यात्मन्यात्मनिश्चयः ।
सोऽन्तरात्मा मतस्तज्ज्ञैर्विभ्रमध्वान्तभास्करैः ॥७॥

निर्लेपो निष्कलः शुद्धो निष्पन्नोऽत्यन्तनिर्वृतः ।
निर्विकल्पश्च शुद्धात्मा परमात्मेति वर्णितः ॥८॥

कथं तर्हि पृथक् कृत्वा देहाद्यर्थकदम्बकात् ।
आत्मानमभ्यसेद्योगी निर्विकल्पमतीन्द्रियम् ॥९॥

अपास्य बहिरात्मानं सुस्थिरेणान्तरात्मना ।
ध्यायेद्विशुद्धमत्यन्तं परमात्मानमव्ययम् ॥१०॥

संयोजयति देहेन चिदात्मानं विमूढधीः ।
बहिरात्मा ततो ज्ञानी पृथक् पश्यति देहिनम् ॥११॥

अक्षद्वारैरविश्रान्तं स्वतत्त्वविमुखैर्भृशम् ।
व्यापृतो बहिरात्मायं वपुरात्मेति मन्यते ॥१२॥

सुरं त्रिदशपर्यायैर्नृपर्यायैस्तथा नरम् ।
तिर्यञ्चं च तदङ्गे स्वं नारकाङ्गे च नारकम् ॥१३॥

वेत्त्यविद्यापरिश्रान्तो मूढस्तन्न पुनस्तथा ।
किन्त्वमूर्तं स्वसंवेद्यं तद्रूपं परिकीर्तितम् ॥१४॥

स्वशरीरमिवान्विष्य पराङ्गं च्युतचेतनम् ।
परमात्मानमज्ञानी परबुद्ध्याऽध्यवस्यति ॥१५॥

स्वात्मेतरविकल्पैस्तैः शरीरेष्ववलम्बितम् ।
प्रवृत्तैर्वञ्चितं विश्वमनात्मन्यात्मदर्शिभिः ॥१६॥

ततः सोऽत्यन्तभिन्नेषु पशुपुत्राङ्गनादिषु ।
आत्मत्वं मनुते शश्वदविद्याज्वरजिह्मितः ॥१७॥

साक्षात्स्वानेव निश्चित्य पदार्थांश्चेतनेतरान् ।
स्वस्यैव मन्यते मूढस्तन्नाशोपचयादिकम् ॥१८॥

अनादिप्रभवः सोऽयमविद्याविषमग्रहः ।
शरीरादीनि पश्यन्ति येन स्वमिति देहिनः ॥१९॥

वपुष्यात्मेति विज्ञानं वपुषा घटयत्यमून् ।
स्वस्मिन्नात्मेति बोधस्तु भिनत्त्यङ्गं शरीरिणाम् ॥२०॥

वपुष्यात्ममतिः सूते बन्धुवित्तादिकल्पनम् ।
स्वस्य संपदमेतेन मन्वानं मुषितं जगत् ॥२१॥

तनावात्मेति यो भावः स स्याद्बीजं भवस्थितेः ।
बहिर्वीताक्षविक्षेपस्तत्त्यक्त्वान्तर्विशेत्ततः ॥२२॥

अक्षद्वारैस्ततश्च्युत्वा निमग्नो गोचरेष्वहम् ।
तानासाद्याहमित्येतन्न हि सम्यगवेदिषम् ॥२३॥

बाह्यात्मानमपास्यैवमन्तरात्मा ततस्त्यजेत् ।
प्रकाशयत्ययं योगः स्वरूपं परमेष्ठिनः ॥२४॥

यद्यद्दृश्यमिदं रूपं तत्तदन्यन्न चान्यथा ।
ज्ञानवच्च व्यतीताक्षमतः केनाऽत्र वच्म्यहम् ॥२५॥

यज्जनैरपि बोध्योऽहं यज्जनान्बोधयाम्यहम् ।
तद्विभ्रमपदं यस्मादहं विधुतकल्मषः ॥२६॥

यः स्वमेव समादत्ते नादत्ते यः स्वतोऽपरम् ।
निर्विकल्पः स विज्ञानी स्वसंवेद्योऽस्मि केवलम् ॥२७॥

जातसर्पमतेर्यद्वच्छृङ्खलायां क्रियाभ्रमः ।
तथैव मे क्रियाः पूर्वास्तन्वादौ स्वमिति भ्रमात् ॥२८॥

शृङ्खलायां यथा वृत्तिर्विनष्टे भुजगभ्रमे ।
तन्वादौ मे तथा वृत्तिर्नष्टात्मविभ्रमस्य वै ॥२९॥

एतदेवैष एकं द्वे बहूनीति धियः पदम् ।
नाहं यच्चात्मनात्मानं वेत्त्यात्मनि तदस्म्यहम् ॥३०॥

यदबोधे मया सुप्तं यद्बोधे पुनरुत्थितम् ।
तद्रूपं मम प्रत्यक्षं स्वसंवेद्यमहं किल ॥३१॥

ज्योतिर्मयं ममात्मानं पश्यतोऽत्रैव यान्त्यमी ।
क्षयं रागादयस्तेन नारिः कोऽपि प्रियो न मे ॥३२॥

अदृष्टमत्स्वरूपोऽयं जनो नारिर्न मे प्रियः ।
साक्षात्सुदृष्टरूपोऽपि जनो नारिः सुहृन्न मे ॥३३॥

अतः प्रभृति निःशेषं पूर्वं पूर्वं विचेष्टितम् ।
ममाद्य ज्ञाततत्त्वस्य भाति स्वप्नेन्द्रजालवत् ॥३४॥

यो विशुद्धः प्रसिद्धात्मा परं ज्योतिः सनातनः ।
सोऽहं तस्मात्प्रपश्यामि स्वस्मिन्नात्मानमच्युतम् ॥३५॥

बाह्यात्मानमपि त्यक्त्वा प्रसन्नेनान्तरात्मना ।
विधूतकल्पनाजालं परमात्मानमामनेत् ॥३६॥

बन्धमोक्षावुभावेतौ भ्रमेतरनिबन्धनौ ।
बन्धश्च परसम्बन्धाद्भेदाभ्यासात्ततः शिवम् ॥३७॥

अलौकिकमहो वृत्तं ज्ञानिनः केन वर्ण्यते ।
अज्ञानी बध्यते यत्र ज्ञानी तत्रैव मुच्यते ॥३८॥

यज्जन्मगहने खिन्नं प्राङ्मया दुःखसंकुले ।
तदात्मेतरयोर्नूनमभेदेनावधारणात् ॥३९॥

मयि सत्यपि विज्ञानप्रदीपे विश्वदर्शिनि ।
किं निमज्जत्ययं लोको वराको जन्मकर्दमे ॥४०॥

आत्मन्येवात्मनात्मायं स्वयमेवानुभूयते ।
अतोऽन्यत्रैव मां ज्ञातुं प्रयासः कार्यनिष्फलः ॥४१॥

स एवाहं स एवाहमित्यभ्यस्यन्ननारतम् ।
वासनां दृढयन्नेव प्राप्नोत्यात्मन्यवस्थितिम् ॥४२॥

स्याद्यद्यत्प्रीतयेऽज्ञस्य तत्तदेवापदास्पदम् ।
बिभेत्ययं पुनर्यस्मिंस्तदेवानन्दमन्दिरम् ॥४३॥

सुसंवृतेन्द्रियग्रामे प्रसन्ने चान्तरात्मनि ।
क्षणं स्फुरति यत्तत्त्वं तद्रूपं परमेष्ठिनः ॥४४॥

यः सिद्धात्मा परः सोऽहं योऽहं स परमेश्वरः ।
मदन्यो न मयोपास्यो मदन्येन न चाप्यहम् ॥४५॥

आकृष्य गोचरव्याघ्रमुखादात्मानमात्मना ।
स्वस्मिन्नेव स्थिरीभूतश्चिदानन्दमये स्वयम् ॥४६॥

पृथगित्थं न मां वेत्ति यस्तनोर्वीतविभ्रमः ।
कुर्वन्नपि तपस्तीव्रं न स मुच्येत बन्धनैः ॥४७॥

स्वपरान्तरविज्ञानसुधास्पन्दाभिनन्दितः ।
खिद्यते न तपः कुर्वन्नपि क्लेशैः शरीरजैः ॥४८॥

रागादिमलविश्लेषाद्यस्य चित्तं सुनिर्मलम् ।
सम्यक् स्वं स हि जानाति नान्यः केनापि हेतुना ॥४९॥

निर्विकल्पं मनस्तत्त्वं न विकल्पैरभिद्रुतम् ।
निर्विकल्पमतः कार्यं सम्यक्तत्त्वस्य सिद्धये ॥५०॥

अज्ञानविप्लुतं चेतः स्वतत्त्वादपवर्त्तते ।
विज्ञानवासितं तद्धि पश्यत्यन्तःपुरः प्रभुम् ॥५१॥

मुनेर्यदि मनो मोहाद्रागाद्यैरभिभूयते ।
तन्नियोज्यात्मनस्तत्त्वे तान्येव क्षिप्यते क्षणात् ॥५२॥

यत्राज्ञात्मा रतः काये तस्माद्व्यावर्त्तितो धिया ।
चिदानन्दमये रूपे योजितः प्रीतिमुत्सृजेत् ॥५३॥

स्वविभ्रमोद्भवं दुःखं स्वज्ञानेनैव हीयते ।
तपसाऽपि न तच्छेद्यमात्मविज्ञानवर्जितैः ॥५४॥

रूपायुर्बलवित्तादि-सम्पत्तिं स्वस्य वाञ्छति ।
बहिरात्माथ विज्ञानी साक्षात्तेभ्योऽपि विच्युतिम् ॥५५॥

कृत्वाहंमतिमन्यत्र बध्नाति स्वं स्वतश्च्युतः ।
आत्मन्यात्ममतिं कृत्वा तस्माद् ज्ञानी विमुच्यते ॥५६॥

आत्मानं वेत्त्यविज्ञानी त्रिलिङ्गी संगतं वपुः ।
सम्यग्वेदी पुनस्तत्त्वं लिङ्गसंगतिवर्जितम् ॥५७॥

समभ्यस्तं सुविज्ञातं निर्णीतमपि तत्त्वतः ।
अनादिविभ्रमात्तत्त्वं प्रस्खलत्येव योगिनः ॥५८॥

अचिद्दृश्यमिदं रूपं न चिद्दृश्यं ततो वृथा ।
मम रागादयोऽर्थेषु स्वरूपं संश्रयाम्यहम् ॥५९॥

करोत्यज्ञो ग्रहत्यागौ बहिरन्तस्तु तत्त्ववित् ।
शुद्धात्मा न बहिर्वान्तस्तौ विदध्यात्कथंचन ॥६०॥

वाक्कायाभ्यां पृथक् कृत्वा मनसात्मानमभ्यसेत् ।
वाक्तनुभ्यां प्रकुर्वीत कार्यमन्यन्न चेतसा ॥६१॥

विश्वासानन्दयोः स्थानं स्याज्जगदज्ञचेतसाम् ।
क्वानन्दः क्व च विश्वासः स्वस्मिन्नेवात्मवेदिनाम् ॥६२॥

स्वबोधादपरं किञ्चिन्न स्वान्ते विभूयात्क्षणम् ।
कुर्यात्कार्यवशात्किञ्चिद्वाक्कायाभ्यामनादृतः ॥६३॥

यदक्षविषयं रूपं मुद्रूपात्तद्विलक्षणम् ।
आनन्दनिर्भरं रूपमन्तर्ज्योतिर्मयं मम ॥६४॥

अन्तर्दुःखं बहिः सौख्यं योगाभ्यासोद्यतात्मनाम् ।
सुप्रतिष्ठितयोगानां विपर्यस्तमिदं पुनः ॥६५॥

तद्विज्ञेयं तदाख्येयं तच्छ्रव्यं चिन्त्यमेव वा ।
येन भ्रान्तिमपास्योच्चैः स्यादात्मन्यात्मनः स्थितिः ॥६६॥

विषयेषु न तत्किञ्चित्स्याद्धितं यच्छरीरिणाम् ।
तथाऽप्येष्वेव कुर्वन्ति प्रीतिमज्ञा न योगिनः ॥६७॥

अनाख्यातमिवाख्यातमपि न प्रतिपद्यते ।
आत्मानं जडधीस्तेन वन्ध्यस्तत्र ममोद्यमः ॥६८॥

तन्नाहं यन्मया किञ्चित्प्रज्ञापयितुमिष्यते ।
योऽहं न स परग्राह्यस्तन्मुधा बोधनोद्यमः ॥६९॥

निरुद्धज्योतिरज्ञोऽन्तः स्वतोऽन्यत्रैव तुष्यति ।
तुष्यत्यात्मनि विज्ञानी बहिर्विगतविभ्रमः ॥७०॥

यावदात्मेच्छयाऽऽदत्ते वाक्चित्तवपुषां व्रजम् ।
जन्म तावदमीषां तु भेदज्ञानाद्भवच्युतिः ॥७१॥

जीर्णे रक्ते घने ध्वस्ते नात्मा जीर्णादिकः पटे ।
एवं वपुषि जीर्णादौ नात्मा जीर्णादिकस्तथा ॥७२॥

चलमप्यचलप्रख्यं जगद्यस्यावभासते ।
ज्ञानयोगक्रियाहीनं स एवास्कन्दति ध्रुवम् ॥७३॥

तनुत्रयावृतो देही ज्योतिर्मयवपुः स्वयम् ।
न वेत्ति यावदात्मानं क्व तावद्बन्धविच्युतिः ॥७४॥

गलन्मिलदणुव्रातसंनिवेशात्मकं वपुः ।
वेत्ति मूढस्तदात्मानमनाद्युत्पन्नविभ्रमात् ॥७५॥

मुक्तिरेव मुनेस्तस्य यस्यात्मन्यचला स्थितिः ।
न तस्यास्ति ध्रुवं मुक्तिर्न यस्यात्मन्यवस्थितिः ॥७६॥

दृढः स्थूलः स्थिरो दीर्घो जीर्णः शीर्णो लघुर्गुरुः ।
वपुषैवमसंबध्नन्स्वं विन्द्याद्वेदनात्मकम् ॥७७॥

जनसंसर्गे वाक्चित्तपरिस्पन्दमनोभ्रमाः ।
उत्तरोत्तरबीजानि ज्ञानी जनस्ततस्त्यजेत् ॥७८॥

नगग्रामादिषु स्वस्य निवासं वेत्त्यनात्मवित् ।
सर्वावस्थासु विज्ञानी स्वस्मिन्नेवास्तविभ्रमः ॥७९॥

आत्मेति वपुषि ज्ञानं कारणं कायसन्ततेः ।
स्वस्मिन्स्वमिति विज्ञानं स्याच्छरीरान्तरच्युतेः ॥८०॥

आत्माऽऽत्मनां भवं मोक्षमात्मनः कुरुते यतः ।
अतो रिपुर्गुरुश्चायमात्मैव स्फुटमात्मनः ॥८१॥

पृथग् दृष्ट्वात्मनः कायं कायादात्मानमात्मवित् ।
तथा त्यजत्यशङ्कोऽङ्गं यथा वस्त्रं घृणास्पदम् ॥८२॥

अन्तर्दृष्ट्वाऽऽत्मनस्तत्त्वं बहिर्दृष्ट्वा ततस्तनुम् ।
उभयोर्भेदनिष्णातो न स्खलत्यात्मनिश्चये ॥८३॥

तर्कयेज्ञगदुन्मत्तं प्रागुत्पन्नात्मनिश्चयः ।
पश्चाल्लोष्टमिवाचष्टे तद्दृढाभ्यासवासितः ॥८४॥

शरीराद्भिन्नमात्मानं शृण्वन्नपि वदन्नपि ।
तावन्न मुच्यते यावन्न भेदाभ्यासनिष्ठितः ॥८५॥

व्यतिरिक्तं तनोस्तद्वद्भाव्य आत्माऽऽत्मनाऽऽत्मनि ।
स्वप्नेऽप्ययं यथाऽभ्येति पुनर्नाङ्गेन संगतिम् ॥८६॥

यतो व्रताव्रते पुंसां शुभाशुभनिबन्धने ।
तदभावात्पुनर्मोक्षो मुमुक्षुस्ते ततस्त्यजेत् ॥८७॥

प्रागसंयममुत्सृज्य संयमैकरतो भवेत् ।
ततोऽपि विरमेत्प्राप्य सम्यगात्मन्यवस्थितिम् ॥८८॥

जातिलिङ्गमिति द्वन्द्वमङ्गमाश्रित्य वर्त्तते ।
अङ्गात्मकश्च संसारस्तस्मात्तद्द्वितयं त्यजेत् ॥८९॥

अभेदविद्यथा पङ्गोर्वेत्ति चक्षुरचक्षुपि ।
अङ्गेऽपि च तथा वेत्ति संयोगाद्दृश्यमात्मनः ॥९०॥

भेदविन्न यथा वेत्ति पङ्गोश्चक्षुरचक्षुषि ।
विज्ञातात्मा तथा वेत्ति न काये दृश्यमात्मनः ॥९१॥

मत्तोन्मत्तादिचेष्टासु यथाज्ञस्य स्वविभ्रमः ।
तथा सर्वास्ववस्थासु न क्वचित्तत्त्वदर्शिनः ॥९२॥

देहात्मदृग्न मुच्येत चेज्जागर्ति पठत्यपि ।
सुप्तोन्मत्तोऽपि मुच्येत स्वस्मिन्नुत्पन्ननिश्चयः ॥९३॥

आत्मानं सिद्धमाराध्य प्राप्नोत्यात्मापि सिद्धताम् ।
वर्तिः प्रदीपमासाद्य यथाभ्येति प्रदीपताम् ॥९४॥

आराध्यात्मानमेवात्मा परमात्मत्वमश्नुते ।
यथा भवति वृक्षः स्वं स्वेनोद्धृष्य हुताशनः ॥९५॥

इत्थं वाग्गोचरातीतं भावयन्परमेष्ठिनम् ।
आसादयति तद्यस्मान्न भूयो विनिवर्तते ॥९६॥

अयत्नजनितं मन्ये ज्ञानिनां परमं पदम् ।
यदात्मन्यात्मविज्ञानमात्रमेव समीहते ॥९७॥

स्वप्ने दृष्टविनाशोऽपि यथाऽऽत्मा न विनश्यति ।
जागरेऽपि तथा भ्रान्तेरुभयत्राविशेषतः ॥९८॥

अतीन्द्रियमनिर्देश्यममूर्तं कल्पनाच्युतम् ।
चिदानन्दमयं विद्धि स्वस्मिन्नात्मानमात्मना ॥९९॥

मुच्येताधीतशास्त्रोऽपि नात्मेति कल्पयन्वपुः ।
आत्मन्यात्मानमन्विष्यन् श्रुतशून्योऽपि मुच्यते ॥१००॥

पराधीनसुखास्वादनिर्वेदविशदस्य ते ।
आत्मैवामृततां गच्छन्नविच्छिन्नं स्वमीक्षते ॥१०१॥

यदभ्यस्तं सुखाद् ज्ञानं तद्दुःखेनापसर्पति ।
दुःखैकशरणस्तस्माद्योगी तत्त्वं निरूपयेत् ॥१०२॥

निखिलभुवनतत्त्वोद्भासनैकप्रदीपं निरुपधिमधिरूढं निर्भरानन्दकाष्ठाम् ।
परममुनिमनीषोद्भेदपर्यन्तभूतं परिकलय विशुद्धं स्वात्मनात्मानमेव ॥१०३॥

इति साधारणं ध्येयं ध्यानयोर्धर्मशुक्लयोः ।
विशुद्धिस्वामिभेदेन भेदः सूत्रे निरूपितः ॥१०४॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारस्वरूपे ज्ञानार्णवे शुद्धोपयोगवर्णनं नाम
द्वात्रिंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ६३: ‘विभूयात्क्षणम्’ छपा है; ‘बिभृयात्क्षणम्’ होना चाहिए
  • श्लोक ६४: ‘मुद्रूपात्तद्विलक्षणम्’ छपा है; ‘मद्रूपात्तद्विलक्षणम्’ होना चाहिए
  • श्लोक ८४: ‘तर्कयेज्ञगदुन्मत्तं’ छपा है; ‘तर्कयेज्जगदुन्मत्तं’ होना चाहिए (तर्कयेत् + जगत् की संधि से ज्ज बनता है, ज्ञ नहीं)
  • श्लोक ९०: ‘अचक्षुपि’ छपा है; ‘अचक्षुषि’ होना चाहिए

सर्ग 33: आज्ञाविचय धर्मध्यान

अनादिविभ्रमान्मोहादनभ्यासादसंग्रहात् ।
ज्ञातमप्यात्मनस्तत्त्वं प्रस्खलत्येव योगिनः ॥१॥

अविद्यावासनावेशविशेषविवशात्मनाम् ।
योज्यमानमपि स्वस्मिन् न चेतः कुरुते स्थितिम् ॥२॥

साक्षात्कर्तुमतः क्षिप्रं विश्वतत्त्वं यथास्थितम् ।
विशुद्धिं चात्मनः शश्वद्वस्तुधर्मे स्थिरीभवेत् ॥३॥

अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात्सूक्ष्मं विचिन्तयेत् ।
सालम्बाच्च निरालम्बं तत्त्ववित्तत्त्वमञ्जसा ॥४॥

आज्ञापायविपाकानां क्रमशः संस्थितेस्तथा ।
विचयो यः पृथक् तद्धि धर्मध्यानं चतुर्विधम् ॥५॥

वस्तुतत्त्वं स्वसिद्धान्तं प्रसिद्धं यत्र चिन्तयेत् ।
सर्वज्ञाज्ञाभियोगेन तदाज्ञाविचयो मतः ॥६॥

अनन्तगुणपर्यायसंयुतं तत् त्रयात्मकम् ।
त्रिकालविषयं साक्षाज्जिनाज्ञासिद्धमामनेत् ॥७॥

प्रमाणनयनिक्षेपैर्निर्णीतं तत्त्वमञ्जसा ।
स्थित्युत्पत्तिव्ययोपेतं चिदचिल्लक्षणं स्मरेत् ॥८॥

श्रीमत्सर्वज्ञदेवोक्तं श्रुतज्ञानं च निर्मलम् ।
शब्दार्थनिचितं चित्रमत्र चिन्त्यमविप्लुतम् ॥९॥

परिस्फुरति यत्रैतद्विश्वविद्याकदम्बकम् ।
द्रव्यभावभिदा तद्धि शब्दार्थज्योतिरग्रिमम् ॥१०॥

अपारमतिगम्भीरं पुण्यतीर्थं पुरातनम् ।
पूर्वापरविरोधादिकलङ्कपरिवर्जितम् ॥११॥

नयोपनयसंपातगहनं गणिभिः स्तुतम् ।
विचित्रमपि चित्रार्थसंकीर्णं विश्वलोचनम् ॥१२॥

अनेकपदविन्यासैरङ्गपूर्वैः प्रकीर्णकैः ।
प्रसृतं यद्विभात्युच्चै रत्नाकर इवापरः ॥१३॥

मदमत्तोद्धतक्षुद्रशासनाशीविषान्तकम् ।
दुरन्तघनमिथ्यात्वध्वान्तघर्मांशुमण्डलम् ॥१४॥

यत्पवित्रं जगत्यस्मिन्विशुद्ध्यति जगत्त्रयी ।
येन तद्धि सतां सेव्यं श्रुतज्ञानं चतुर्विधम् ॥१५॥

स्थित्युत्पत्तिव्ययोपेतं तृतीयं योगिलोचनम् ।
नयद्वयसमावेशात्साद्यनादि व्यवस्थितम् ॥१६॥

निःशेषनयनिक्षेपनिकषग्रावसन्निभम् ।
स्याद्वादपविनिर्घातभग्नान्यमतभूधरम् ॥१७॥

इत्यादिगुणसंदर्भनिर्भरं भव्यशुद्धिदम् ।
ध्यायन्तु धीमतां श्रेष्ठाः श्रुतज्ञानमहार्णवम् ॥१८॥

यज्जन्मज्वरघातकं त्रिभुवनाधीशैर्यदभ्यर्चितं
यत्स्याद्वादमहाध्वजं नयशताकीर्णं च यत्पठ्यते ।
उत्पादस्थितिभङ्गलाञ्छनयुता यस्मिन्पदार्थाः स्थिता-
स्तच्छ्रीवीरमुखारविन्दगदितं दद्याच्छ्रुतं वः शिवम् ॥१९॥

वाग्देव्याः कुलमन्दिरं बुधजनानन्दैकचन्द्रोदयं
मुक्तेर्मङ्गलमग्रिमं शिवपथप्रस्थानदिव्यानकम् ।
तत्त्वाभासकुरङ्गपञ्चवदनं भव्यान्विनेतुं क्षमं
तच्छ्रोत्राञ्जलिभिः पिबन्तु गुणिनः सिद्धान्तवार्द्धेः पयः ॥२०॥

येनैते निपतन्ति वादिगिरयस्तुष्यन्ति योगीश्वराः
भव्या येन विदन्ति निर्वृतिपदं मुञ्चन्ति मोहं बुधाः ।
यद्बन्धुर्यमिनां यदक्षयसुखस्याधारभूतं नृणां
तल्लोकद्वयशुद्धिदं जिनवचः पुष्याद्विवेकश्रियम् ॥२१॥

सर्वज्ञाज्ञां पुरस्कृत्य सम्यगर्थान् विचिन्तयेत् ।
यत्र तद्ध्यानमाम्नातमाज्ञाख्यं योगिपुङ्गवैः ॥२२॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे आज्ञाविचयध्यानवर्णननाम
त्रयस्त्रिंशं प्रकरणं समाप्तम् ॥

सर्ग 34: अपायविचय धर्मध्यान

अपायविचयं ध्यानं तद्वदन्ति मनीषिणः ।
अपायः कर्मणां यत्र सोपायः स्मर्यते बुधैः ॥१॥

श्रीमत्सर्वज्ञनिर्दिष्टं मार्गं रत्नत्रयात्मकम् ।
अनासाद्य भवारण्ये चिरं नष्टाः शरीरिणः ॥२॥

मज्जनोन्मज्जनं शश्वद्भजन्ति भवसागरे ।
वराकाः प्राणिनोऽप्राप्य यानपात्रं जिनेश्वरम् ॥३॥

महाव्यसनसप्तार्चिःप्रदीप्ते जन्मकानने ।
भ्रमताऽद्य मया प्राप्तं सम्यग्ज्ञानाम्बुधेस्तटम् ॥४॥

अद्यापि यदि निर्वेदविवेकागेन्द्रमस्तकात् ।
स्खलेत्तदैव जन्मान्ध-कूपपातोऽनिवारितः ॥५॥

अनादिभ्रमसंभूतं कथं निर्वार्यते मया ।
मिथ्यात्वाविरतिप्रायं कर्मबन्धनिबन्धनम् ॥६॥

सोऽहं सिद्धः प्रसिद्धात्मा दृग्बोधविमलेक्षणः ।
जन्मपङ्के चिरं खिन्नः खण्ड्यमानः स्वकर्मणा ॥७॥

एकतः कर्मणां सैन्यमहमेकस्ततोऽन्यतः ।
स्थातव्यमप्रमत्तेन मयास्मिन्नरिसंकटे ॥८॥

निर्द्धूय कर्मसंघातं प्रबलध्यानवह्निना ।
कदा स्वं शोधयिष्यामि धातुस्थमिव काञ्चनम् ॥९॥

किमुपेयो ममात्मायं किंवा विज्ञानदर्शने ।
चरणं वापवर्गाय त्रिभिः सार्द्धं स एव वा ॥१०॥

कोऽहं ममास्रवः कस्मात्कथं बन्धः क्व निर्जरा ।
का मुक्तिः किं विमुक्तस्य स्वरूपं च निगद्यते ॥११॥

जन्मनः प्रतिपक्षस्य मोक्षस्यात्यन्तिकं सुखम् ।
अव्याबाधं स्वभावोत्थं केनोपायेन लभ्यते ॥१२॥

मय्येव विदिते साक्षाद्विज्ञातं भुवनत्रयम् ।
यतोऽहमेव सर्वज्ञः सर्वदर्शी निरञ्जनः ॥१३॥

यावद्यावच्च सम्बन्धो मम स्याद्बाह्यवस्तुभिः ।
तावत्तावत्स्वयं स्वस्मिन्स्थितिः स्वप्नेऽपि दुर्घटा ॥१४॥

तथैवैतेऽनुभूयन्ते पदार्थाः सूत्रसूचिताः ।
अतो मार्गेऽत्र लग्नोऽहं प्राप्त एव शिवास्पदम् ॥१५॥

इत्युपायो विनिश्चेयो मार्गाच्च्यवनलक्षणः ।
कर्मणां च तथापाय उपायश्चात्मसिद्धये ॥१६॥

इति नयशतसीमालम्बि निर्द्धूतदोषं
च्युतसकलकलङ्कैः कीर्त्तितं ध्यानमेतत् ।
अविरतमनुपूर्वं ध्यायतोऽस्तप्रमादं
स्फुरति हृदि विशुद्धे ज्ञानभास्वत्प्रकाशः ॥१७॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे अपायविचयवर्णनं नाम
चतुस्त्रिंशं प्रकरणं समाप्तम् ॥

सर्ग 35: विपाकविचय धर्मध्यान

स विपाक इति ज्ञेयो यः स्वकर्मफलोदयः ।
प्रतिक्षणसमुद्भूतश्चित्ररूपः शरीरिणाम् ॥१॥

कर्मजातं फलं दत्ते विचित्रमिह देहिनाम् ।
आसाद्य नियतं नाम द्रव्यादिकचतुष्टयम् ॥२॥

स्रक्शय्यासनयानवस्त्रवनितावादित्रमित्राङ्गजान् ।
कर्पूरागुरुचन्द्रचन्दनवनक्रीडाद्रिसौधध्वजान्
मातङ्गांश्च विहङ्गचामरपुरीभक्षान्नपानानि वा ।
छत्रादीनुपलभ्य वस्तुनिचयान्सौख्यं श्रयन्तेऽङ्गिनः ॥३॥

क्षेत्राणि रमणीयानि सर्वर्तुसुखदानि च ।
कामभोगास्पदान्युच्चैः प्राप्य सौख्यं निषेव्यते ॥४॥

प्रासासिक्षुरयन्त्रपन्नगगरव्यालानलोग्रग्रहान्
शीर्णाङ्गान्कृमिकीटकण्टकरजःक्षारास्थिपङ्कोपलान् ।
काराशृङ्खलशङ्कुकाण्डनिगडक्रूरारिवैरांस्तथा
द्रव्याण्याप्य भजन्ति दुःखमखिलं जीवा भवाध्वस्थिताः ॥५॥

निसर्गेणातिरौद्राणि भयक्लेशास्पदानि च ।
दुःखमेवाप्नुवन्त्युच्चैः क्षेत्राण्यासाद्य जन्तवः ॥६॥

अरिष्टोत्पातनिर्मुक्तो वातवर्षादिवर्जितः ।
शीतोष्णरहितः कालः स्यात्सुखाय शरीरिणाम् ॥७॥

वर्षातपतुषाराढ्य ईत्युत्पातादिसंकुलः ।
कालः सदैव सत्त्वानां दुःखानलनिबन्धनम् ॥८॥

प्रशमादिसमुद्भूतो भावः सौख्याय देहिनाम् ।
कर्मगौरवजः सोऽयं महाव्यसनमन्दिरम् ॥९॥

मूलप्रकृतयस्तत्र कर्मणामष्ट कीर्तिताः ।
ज्ञानावरणपूर्वास्ता जन्मिनां बन्धहेतवः ॥१०॥

ज्ञानावृतिकरं कर्म पञ्चभेदं प्रपञ्चितम् ।
निरुद्धं येन जीवानां मतिज्ञानादिपञ्चकम् ॥११॥

नवभेदं मतं कर्म दृगावरणसंज्ञकम् ।
रुद्ध्यते येन जन्तूनां शश्वदिष्टार्थदर्शनम् ॥१२॥

वेदनीयं विदुः प्राज्ञा द्विधा कर्म शरीरिणाम् ।
यन्मधूच्छिष्टतद्व्यक्त-शस्त्रधारासमप्रभम् ॥१३॥

सुरोरगनराधीशसेवितं श्रयते सुखम् ।
सातोदयवशात्प्राणी संकल्पानन्तरोद्भवम् ॥१४॥

असद्वेद्योदयात्तीव्रं शारीरं मानसं द्विधा ।
जीवो विसह्यते दुःखं शश्वच्छ्वभ्रादिभूमिषु ॥१५॥

दृष्टिमोहप्रकोपेन दृष्टिः साध्वी विलुप्यते ।
तद्विलोपान्निमज्जन्ति प्राणिनः श्वभ्रसागरे ॥१६॥

चारित्रमोहपाकेन नाङ्गिभिर्लभ्यते क्षणम् ।
भावशुद्ध्या स्वसात्कर्तुं चरणं स्वान्तशुद्धिदम् ॥१७॥

लब्ध्वाऽपि यत्प्रमाद्यन्ति यत्स्खलन्त्यथ संयमात् ।
सोऽपि चारित्रमोहस्य विपाकः परिकीर्त्तितः ॥१८॥

सुरायुरारम्भककर्मपाकात्संभूय नाके प्रथितप्रभावैः ।
समर्थ्यते देहिभिरायुरग्र्यं सुखामृतस्वादनलोलचित्तैः ॥१९॥

नरायुषः कर्मविपाकयोगान्नरत्वमासाद्य शरीरभाजः ।
सुखासुखाक्रान्तधियो नितान्तं नयन्ति कालं बहुभिः प्रपञ्चैः ॥२०॥

चरस्थिरविकल्पासु तिर्यग्गतिषु जन्तुभिः ।
तिर्यगायुःप्रकोपेन दुःखमेवानुभूयते ॥२१॥

नारकायुःप्रकोपेन नरकेऽचिन्त्यवेदने ।
निपतन्त्यङ्गिनस्तूर्णं कृतार्त्तिकरुणस्वनाः ॥२२॥

नामकर्मोदयः साक्षाद्धत्ते चित्राण्यनेकधा ।
नामानि गतिजात्यादिविकल्पानीह देहिनाम् ॥२३॥

गोत्राख्यं जन्तुजातस्य कर्म दत्ते स्वकं फलम् ।
शस्ताशस्तेषु गोत्रेषु जन्म निष्पाद्य सर्वथा ॥२४॥

निरुणद्धिः स्वसामर्थ्याद्दानलाभादिपञ्चकम् ।
विघ्नसन्ततिविन्यासैर्विघ्नकृत्कर्म देहिनाम् ॥२५॥

मन्दवीर्याणि जायन्ते कर्माण्यतिबलान्यपि ।
अपक्वपाचनायोगात्फलानीव वनस्पतेः ॥२६॥

अपक्वपाकः क्रियतेऽस्ततन्द्रैस्तपोभिरुग्रैर्वरशुद्धियुक्तैः ।
क्रमाद्गुणश्रेणिसमाश्रयेण सुसंवृतान्तःकरणैर्मुनीन्द्रैः ॥२७॥

द्रव्याद्युत्कृष्टसामग्रीमासाद्योग्रतपोबलात् ।
कर्माणि घातयन्त्युच्चैस्तुर्यध्यानेन योगिनः ॥२८॥

विलीनाशेषकर्माणि स्फुरन्तमतिनिर्मलम् ।
स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥२९॥

इति विविधविकल्पं कर्म चित्रस्वरूपं
प्रतिसमयमुदीर्णं जन्मवर्त्त्यङ्गभाजाम् ।
स्थिरचरविषयाणां भावयन्नस्ततन्द्रो
दहति दुरितकक्षं संयमी शान्तमोहः ॥३०॥

इत्थं कर्मकटुप्रपाककलिताः संसारघोरार्णवे
जीवा दुर्गतिदुःखवाडवशिखासन्तानसंतापिताः ।
मृत्यूत्पत्तिमहोर्मिजालनिचिता मिथ्यात्ववातेरिताः
क्लिश्यन्ते तदिदं स्मरन्तु नियतं धन्याः स्वसिद्ध्यर्थिनः ॥३१॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे विपाकविचयवर्णनं नाम
पञ्चत्रिंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १२: ‘रुद्ध्यते’ छपा है; ‘रुध्यते’ होना चाहिए
  • श्लोक २५: ‘निरुणद्धिः’ छपा है; ‘निरुणद्धि’ होना चाहिए (नि+√रुध् का लट् प्रथम पुरुष एकवचन क्रियापद है, जिसका कर्ता ‘विघ्नकृत्कर्म’ है; विसर्ग अशुद्ध है)
  • श्लोक २९: ‘विलीनाशेषकर्माणि’ छपा है; ‘विलीनाशेषकर्माणं’ होना चाहिए

सर्ग 36: संस्थानविचय धर्मध्यान

अनन्तानन्तमाकाशं सर्वतः स्वप्रतिष्ठितम् ।
तन्मध्येऽयं स्थितो लोकः श्रीमत्सर्वज्ञवर्णितः ॥१॥

स्थित्युत्पत्तिव्ययोपेतैः पदार्थैश्चेतनेतरैः ।
सम्पूर्णोऽनादिसंसिद्धः कर्तृव्यापारवर्जितः ॥२॥

ऊर्ध्वाधोमध्यभागैर्यो बिभर्ति भुवनत्रयम् ।
अतः स एव सूत्रज्ञैस्त्रैलोक्याधार इष्यते ॥३॥

उपर्युपरि संक्रान्तैः सर्वतोऽपि निरन्तरैः ।
त्रिभिर्वायुभिराकीर्णो महावेगैर्महाबलैः ॥४॥

घनाब्धिः प्रथमस्तेषां ततोऽन्यो घनमारुतः ।
तनुवातस्तृतीयोऽन्ते विज्ञेया वायवः क्रमात् ॥५॥

उद्धृत्य सकलं लोकं स्वशक्त्यैव व्यवस्थिताः ।
पर्यन्तरहिते व्योम्नि मरुतः प्रांशुविग्रहाः ॥६॥

घनाब्धिवलये लोकः स च नान्ते व्यवस्थितः ।
तनुवातान्तरे सोऽपि स चाकाशे स्थितः स्वयम् ॥७॥

अधो वेत्रासनाकारो मध्ये स्याज्झल्लरीनिभः ।
मृदङ्गाभस्ततोऽप्यूर्ध्वं स त्रिधेति व्यवस्थितः ॥८॥

अस्य प्रमाणमुन्नत्या सप्त सप्त च रज्जवः ।
सप्तैका पञ्च चैका च मूलमध्यान्तविस्तरे ॥९॥

तत्राधोभागमासाद्य संस्थिताः सप्तभूमयः ।
यासु नारकषण्ढानां निवासाः सन्ति भीषणाः ॥१०॥

काश्चिद्वज्रानलप्रख्याः काश्चिच्छीतोष्णसंकुलाः ।
तुषारबहुलाः काश्चिद् भूमयोऽत्यन्तभीतिदाः ॥११॥

उदीर्णानलदीप्तासु निसर्गोष्णासु भूमिषु ।
मेरुमात्रोऽप्ययःपिण्डः क्षिप्तः सद्यो विलीयते ॥१२॥

शीतभूमिष्वपि प्राप्तो मेरुमात्रोऽपि शीर्यते ।
शतधासावयःपिण्डः प्राप्य भूमिं क्षणान्तरे ॥१३॥

हिंसास्तेयानृताब्रह्मबह्वारम्भादिपातकैः ।
विशन्ति नरकं घोरं प्राणिनोऽत्यन्तनिर्दयाः ॥१४॥

मिथ्यात्वाविरतिक्रोधरौद्रध्यानपरायणाः ।
पतन्ति जन्तवः श्वभ्रे कृष्णलेश्यावशं गताः ॥१५॥

असिपत्रवनाकीर्णे शस्त्रशूलासिसंकुले ।
नरकेऽत्यन्तदुर्गन्धे वसासृक्कृमिकर्दमे ॥१६॥

शिवाश्वव्याघ्रकङ्काढ्ये मांसाशिविहगान्विते ।
वज्रकण्टकसंकीर्णे शूलशाल्मलिदुर्गमे ॥१७॥

संभूय कोष्टिकामध्ये ऊर्ध्वपादा अधोमुखाः ।
ततः पतन्ति साक्रन्दं वज्रज्वलनभूतले ॥१८॥

अयःकण्टककीर्णासु द्रुतलोहाग्निवीथिषु ।
छिन्नभिन्नविशीर्णाङ्गा उत्पतन्ति पतन्ति च ॥१९॥

दुःसहा निष्प्रतीकारा ये रोगाः सन्ति केचन ।
साकल्येनैव गात्रेषु नारकाणां भवन्ति ते ॥२०॥

अदृष्टपूर्वमालोक्य तस्य रौद्रं भयास्पदम् ।
दिशः सर्वाः समीक्षन्ते वराकाः शरणार्थिनः ॥२१॥

न तत्र सुजनः कोऽपि न मित्रं न च बान्धवाः ।
सर्वे ते निर्दयाः पापाः क्रूरा भीमोग्रविग्रहाः ॥२२॥

सर्वे च हुण्डसंस्थानाः स्फुलिङ्गसदृशेक्षणाः ।
विवर्द्धिताशुभध्यानाः प्रचण्डाश्चण्डशासनाः ॥२३॥

तत्राक्रन्दरवैः सार्द्धं श्रूयन्ते कर्कशाः स्वनाः ।
दृश्यन्ते गृध्रगोमायुसर्पशार्दूलमण्डलाः ॥२४॥

घ्रायन्ते पूतयो गन्धाः स्पृश्यन्ते वज्रकण्टकाः ।
जलानि पूतिगन्धीनि नद्योऽसृग्मांसकर्दमाः ॥२५॥

चिन्तयन्ति तदालोक्य रौद्रमत्यन्तशङ्किताः ।
केयं भूमिः क्व चानीताः के वयं केन कर्मणा ॥२६॥

ततो विदुर्विभङ्गात्स्वं पतितं श्वभ्रसागरे ।
कर्मणाऽत्यन्तरौद्रेण हिंसाद्यारम्भजन्मना ॥२७॥

ततः प्रादुर्भवत्युच्चैः पश्चात्तापोऽति दुःसहः ।
दहन्नविरतं चेतो वज्राग्निरिव निर्दयः ॥२८॥

मनुष्यत्वं समासाद्य तदा कैश्चिन्महात्मभिः ।
अपवर्गाय संविग्नैः कर्म पूज्यमनुष्ठितम् ॥२९॥

विषयाशामपाकृत्य विध्याप्य मदनानलम् ।
अप्रमत्तैस्तपश्चीर्णं धन्यैर्जन्मार्त्तिशान्तये ॥३०॥

उपसर्गाग्निपातेऽपि धैर्यमालम्ब्य चोन्नतम् ।
तैः कृतं तदनुष्ठानं येन सिद्धं समीहितम् ॥३१॥

प्रमादमदमुत्सृज्य भावशुद्ध्या मनीषिभिः ।
केनाप्यचिन्त्यवृत्तेन स्वर्गो मोक्षश्च साधितः ॥३२॥

शिवाभ्युदयदं मार्गं दिशन्तोऽप्यतिवत्सलाः ।
मयावधीरिताः सन्तो निर्भर्त्स्य कटुकाक्षरैः ॥३३॥

तस्मिन्नपि मनुष्यत्वे परलोकैकशुद्धिदे ।
मया तत्संचितं कर्म यज्जातं श्वभ्रशंबलम् ॥३४॥

अविद्याक्रान्तचित्तेन विषयान्धीकृतात्मना ।
चरस्थिराङ्गिसंघातो निर्दोषोऽपि हतो मया ॥३५॥

परवित्तामिषासक्तः परस्त्रीसंगलालसः ।
बहुव्यसनविध्वस्तो रौद्रध्यानपरायणः ॥३६॥

यत्स्थितः प्राक् चिरं कालं तस्यैतत्फलमागतम् ।
अनन्तयातनासारे दुरन्ते नरकार्णवे ॥३७॥

यन्मया वञ्चितो लोको वराको मूढमानसः ।
उपायैर्बहुभिः पापैः स्वाक्षसन्तर्पणार्थिना ॥३८॥

कृतः पराभवो येषां धनभूस्त्रीकृते मया ।
घातश्च तेऽत्र संप्राप्ताः कर्त्तुं तस्याद्य निष्क्रियाम् ॥३९॥

ये तदा शशकप्राया मया बलवता हताः ।
तेऽद्य जाता मृगेन्द्राभा मां हन्तुं विविधैर्वधैः ॥४०॥

मानुष्येऽपि स्वतन्त्रेण यत्कृतं नात्मनो हितम् ।
तदद्य किं करिष्यामि दैवपौरुषवर्जितः ॥४१॥

मदान्धेनापि पापेन निस्त्रिंशेनास्तबुद्धिना ।
विराध्याराध्यसन्तानं कृतं कर्मातिनिन्दितम् ॥४२॥

यत्पुरग्रामविन्ध्येषु मया क्षिप्तो हुताशनः ।
जलस्थलबिलाकाशचारिणो जन्तवो हताः ॥४३॥

कृन्तन्ति मम मर्माणि स्मर्यमाणान्यनारतम् ।
प्राचीनान्यद्य कर्माणि क्रकचानीव निर्दयम् ॥४४॥

किं करोमि क्व गच्छामि कर्मजाते पुरःस्थिते ।
शरणं कं प्रपश्यामि वराको दैववञ्चितः ॥४५॥

यन्निमेषमपि स्मर्तुं द्रष्टुं श्रोतुं न शक्यते ।
तद्दुःखमत्र सोढव्यं वर्द्धमानं कथं मया ॥४६॥

एतान्यदृष्टपूर्वाणि बिलानि च कुलानि च ।
यातनाश्च महाघोरा नारकाणां मयेक्षिताः ॥४७॥

विषज्वलनसंकीर्णं वर्द्धमानं प्रतिक्षणम् ।
मम मूर्ध्नि विनिक्षिप्तं दुःखं दैवेन निर्दयम् ॥४८॥

न दृश्यन्तेऽत्र ते भृत्या न पुत्रा न च बान्धवाः ।
येषां कृते मया कर्म कृतं स्वस्यैव घातकम् ॥४९॥

न कलत्राणि मित्राणि न पापप्रेरको जनः ।
पदमप्येकमायातो मया सार्द्धं गतत्रपः ॥५०॥

आश्रयन्ति यथा वृक्षं फलितं पत्रिणः पुरा ।
फलापाये पुनर्यान्ति तथा ते स्वजना गताः ॥५१॥

शुभाशुभानि कर्माणि यान्त्येव सह देहिभिः ।
स्वार्जितानीति यत्प्रोचुः सन्तस्तत्सत्यतां गतम् ॥५२॥

धर्म एव समुद्धर्त्तुं शक्तोऽस्माच्छ्वभ्रसागरात् ।
न स स्वप्नेऽपि पापेन मया सम्यक्पुरार्जितः ॥५३॥

सहायः कोऽपि कस्यापि नाभून्न च भविष्यति ।
मुक्त्वैकं प्राक्कृतं कर्म सर्वसत्त्वाभिनन्दकम् ॥५४॥

तत्कुर्वन्त्यधमाः कर्म जिह्वोपस्थादिदण्डिताः ।
येन श्वभ्रेषु पच्यन्ते कृतार्त्तकरुणस्वनाः ॥५५॥

चक्षुरुन्मेषमात्रस्य सुखस्यार्थे कृतं मया ।
तत्पापं येन सम्पन्ना अनन्ता दुःखराशयः ॥५६॥

याति सार्द्धं ततः पाति करोति नियतं हितम् ।
हन्ति दुःखं सुखं दत्ते यः स बन्धुर्न पोषितः ॥५७॥

परिग्रहमहाग्राहसंग्रस्तेनार्तचेतसा ।
न दृष्टा यमशार्दूलचपेटा जीवनाशिनी ॥५८॥

पातयित्वा महाघोरे मां श्वभ्रेऽचिन्त्यवेदने ।
क्व गतास्तेऽधुना पापा मद्वित्तफलभोगिनः ॥५९॥

इत्यजस्रं सुदुःखार्त्ता विलापमुखराननाः ।
शोचन्ते पापकर्माणि वसन्ति नरकालये ॥६०॥

इति चिन्तानलेनोच्चैर्दह्यमानस्य ते तदा ।
धावन्ति शरशूलासिकराः क्रोधाग्निदीपिताः ॥६१॥

वैरं पराभवं पापं स्मारयित्वा पुरातनम् ।
निर्भर्त्स्य कटुकालापैः पीडयन्त्यतिनिर्दयम् ॥६२॥

उत्पाटयन्ति नेत्राणि चूर्णयन्त्यस्थिसंचयम् ।
दारयन्त्युदरं क्रुद्धास्त्रोटयन्त्यन्त्रमालिकाम् ॥६३॥

निष्पीडयन्ति यन्त्रेषु दलन्ति विषमोपलैः ।
शाल्मलीषु निघर्षन्ति कुम्भीषु क्वाथयन्ति च ॥६४॥

असह्यदुःखसन्तानदानदक्षाः कलिप्रियाः ।
तीक्ष्णदंष्ट्रा करालास्या भिन्नाञ्जनसमप्रभाः ॥६५॥

कृष्णलेश्योद्धताः पापा रौद्रध्यानैकभाविताः ।
भवन्ति क्षेत्रदोषेण सर्वे ते नारकाः खलाः ॥६६॥

वैक्रियिकशरीरत्वाद्विक्रियन्ते यदृच्छया ।
यन्त्राग्निश्वापदाङ्गैस्ते हन्तुं चित्रैर्वधैः परान् ॥६७॥

न तत्र बान्धवः स्वामी मित्रभृत्याङ्गनाङ्गजाः ।
अनन्तयातनासारे नरकेऽत्यन्तभीषणे ॥६८॥

तत्र ताम्रमुखा गृध्रा लोहतुण्डाश्च वायसाः ।
दारयन्त्येव मर्माणि चञ्चुभिर्नखरैः खरैः ॥६९॥

कृमयः पूतिकुण्डेषु वज्रसूचीसमाननाः ।
भित्वा चर्मास्थिमांसानि पिबन्त्याकृष्य लोहितम् ॥७०॥

बलाद्विदार्य संदंशैर्वदनं क्षिप्यते क्षणात् ।
विलीनं प्रज्वलत्ताम्रं यैः पीतं मद्यमुद्धतैः ॥७१॥

परमांसानि यैः पापैर्भक्षितान्यतिनिर्दयैः ।
शूलपक्वानि मांसानि तेषां खादन्ति नारकाः ॥७२॥

यैः प्राक्परकलत्राणि सेवितान्यात्मवञ्चकैः ।
योज्यन्ते प्रज्वलन्तीभिः स्त्रीभिस्ते ताम्रजन्मभिः ॥७३॥

न सौख्यं चक्षुरुन्मेषमात्रमप्युपलभ्यते ।
नरके नारकैर्दीनैर्हन्यमानैः परस्परम् ॥७४॥

किमत्र बहुनोक्तेन जन्मकोटिशतैरपि ।
केनापि शक्यते वक्तुं न दुःखं नरकोद्भवम् ॥७५॥

विस्मृतं यदि केनापि कारणेन क्षणान्तरे ।
स्मारयन्ति तदाभ्येत्य पूर्ववैरं सुराधमाः ॥७६॥

बुभुक्षा जायतेऽत्यर्थं नरके तत्र देहिनाम् ।
यां न शामयितुं शक्तः पुद्गलप्रचयोऽखिलः ॥७७॥

तृष्णा भवति या तेषु वाडवाग्निरिवोल्बणा ।
न सा शाम्यति निःशेषपीतैरप्यम्बुराशिभिः ॥७८॥

बिन्दुमात्रं न तैर्वारि प्राप्यते पातुमातुरैः ।
तिलमात्रोऽपि नाहारो ग्रसितुं लभ्यते हि तैः ॥७९॥

तिलादप्यतिसूक्ष्माणि कृतखण्डानि निर्दयैः ।
वपुर्मिलति वेगेन पुनस्तेषां विधेर्वशात् ॥८०॥

यातनारुक्शरीरायुर्लेश्यादुःखभयादिकम् ।
वर्द्धमानं विनिश्चेयमधोऽधः श्वभ्रभूमिषु ॥८१॥

मध्यभागस्ततो मध्ये तत्रास्ते झल्लरीनिभः ।
यत्र द्वीपसमुद्राणां व्यवस्था वलयाकृतिः ॥८२॥

जम्बूद्वीपादयो द्वीपा लवणोदादयोऽर्णवाः ।
स्वयम्भूरमणान्तास्ते प्रत्येकं द्वीपसागराः ॥८३॥

द्विगुणा द्विगुणा भोगाः प्रावर्त्यान्योन्यमास्थिताः ।
सर्वे ते शुभनामानो वलयाकारधारिणः ॥८४॥

मानुषोत्तरशैलेन्द्रमध्यस्थमतिसुन्दरम् ।
नरक्षेत्रं सरिच्छैलसुराचलविराजितम् ॥८५॥

तत्रार्यम्लेच्छखण्डानि भूरिभेदानि तेष्वमी ।
आर्या म्लेच्छा नराः सन्ति तत्क्षेत्रजनितैर्गुणैः ॥८६॥

क्वचित्कुमानुषोपेतं क्वचिद्व्यन्तरसंभृतम् ।
क्वचिद्भोगधराकीर्णं नरक्षेत्रं निरन्तरम् ॥८७॥

ततो नभसि तिष्टन्ति विमानानि दिवौकसाम् ।
चरस्थिरविकल्पानि ज्योतिष्काणां यथाक्रमम् ॥८८॥

तदूर्ध्वे सन्ति देवेशकल्पाः सौधर्मपूर्वकाः ।
ते षोडशाच्युतस्वर्गपर्यन्ता नभसि स्थिताः ॥८९॥

उपर्युपरि देवेशनिवासयुगलं क्रमात् ।
अच्युतान्तं ततोऽप्यूर्ध्वमेकैकत्रिदशास्पदम् ॥९०॥

निशादिनविभागोऽयं न तत्र त्रिदशास्पदे ।
रत्नालोकः स्फुरत्युच्चैः सततं नेत्रसौख्यदः ॥९१॥

वर्षातपतुषारादिसमयैः परिवर्जितः ।
सुखदाः सर्वदा सौम्यस्तत्र कालः प्रवर्त्तते ॥९२॥

उत्पातभयसन्तापभङ्गचौरारिविड्वराः ।
न हि स्वप्नेऽपि दृश्यन्ते क्षुद्रसत्त्वाश्च दुर्जनाः ॥९३॥

चन्द्रकान्तशिलानद्धाः प्रवालदलदन्तुराः ।
वज्रेन्द्रनीलनिर्माणा विचित्रास्तत्र भूमयः ॥९४॥

माणिक्यरोचिषां चक्रैः कर्बुरीकृतदिङ्मुखाः ।
वाप्यः स्वर्णाम्बुजच्छन्ना रत्नसोपानराजिताः ॥९५॥

सरांस्यमलवारीणि हंसकारण्डमण्डलैः ।
वाचालै रुद्धतीर्थानि दिव्यनारीजनेन च ॥९६॥

गावः कामदुघाः सर्वाः कल्पवृक्षाश्च पादपाः ।
चिन्तारत्नानि रत्नानि स्वर्गलोके स्वभावतः ॥९७॥

ध्वजचामरछत्राङ्कैर्विमानैर्वनितासखाः ।
संचरन्ति सुरासारैः सेव्यमानाः सुरेश्वराः ॥९८॥

यक्षकिन्नरनारीभिर्मन्दारवनवीथिषु ।
कान्ताश्लिष्टाभिरानन्दं गीयन्ते त्रिदशेश्वराः ॥९९॥

क्रीडागिरिनिकुञ्जेषु पुष्पशय्यागृहेषु वा ।
रमन्ते त्रिदशा यत्र वरस्त्रीवृन्दवेष्टिताः ॥१००॥

मन्दारचम्पकाशोकमालतीरेणुरञ्जिताः ।
भ्रमन्ति यत्र गन्धाढ्या गन्धवाहाः शनैः शनैः ॥१०१॥

लीलावनविहारैश्च पुष्पावचयकौतुकैः ।
जलक्रीडादिविज्ञानैर्विलासास्तत्र योषिताम् ॥१०२॥

वीणामादाय रत्यन्ते कलं गायन्ति योषितः ।
ध्वनन्ति मुरजा धीरं दिवि देवाङ्गनाहताः ॥१०३॥

कोकिलाः कल्पवृक्षेषु चैत्यागारेषु योषितः ।
विबोधयन्ति देवेशांल्ललितैर्गीतनिःस्वनैः ॥१०४॥

नित्योत्सवयुतं रम्यं सर्वाभ्युदयमन्दिरम् ।
सुखसंपद्गुणाधारं कैः स्वर्गमुपमीयते ॥१०५॥

पञ्चवर्णमहारत्ननिर्माणाः सप्तभूमिकाः ।
प्रासादाः पुष्करिण्यश्च चन्द्रशाला वनान्तरे ॥१०६॥

प्राकारपरिखावप्रगोपुरोत्तुङ्गतोरणैः ।
चैत्यद्रुमसुरागारैर्नगर्यो रत्नराजिताः ॥१०७॥

इन्द्रायुधश्रियं धत्ते यत्र नित्यं नभस्तलम् ।
हर्म्याग्रलग्नमाणिक्यमयूखैः कर्बुरीकृतम् ॥१०८॥

सप्तभिस्त्रिदशानीकैर्विमानैरङ्गनान्वितैः ।
कल्पद्रुमगिरीन्द्रेषु रमन्ते विबुधेश्वराः ॥१०९॥

हस्त्यश्वरथपादातवृषगन्धर्वनर्त्तकि ।
सप्तानीकानि सन्त्यस्य प्रत्येकं च महत्तरम् ॥११०॥

शृङ्गारसारसंपूर्णा लावण्यवनदीर्घिकाः ।
पीनस्तनभराक्रान्ताः पूर्णचन्द्रनिभाननाः ॥१११॥

विनीताः कामरूपिण्यो महर्द्धिमहिमान्विताः ।
हावभावविलासाढ्या नितम्बभरमन्थराः ॥११२॥

मन्ये शृङ्गारसर्वस्वमेकीकृत्य विनिर्मिताः ।
स्वर्गवासविलासिन्यः सन्ति मूर्त्ता इव श्रियः ॥११३॥

गीतवादित्रविद्यासु शृङ्गाररसभूमिषु ।
परिरम्भादि सर्वेषु स्त्रीणां दाक्ष्यं स्वभावतः ॥११४॥

सर्वावयवसम्पूर्णा दिव्यलक्षणलक्षिताः ।
अनङ्गप्रतिमा धीराः प्रसन्नाः प्रांशुविग्रहाः ॥११५॥

हारकुण्डलकेयूरकिरीटाङ्गदभूषिताः ।
मन्दारमालतीगन्धा अणिमादिगुणान्विताः ॥११६॥

प्रसन्नामलपूर्णेन्दुकान्ताः कान्ताजनप्रियाः ।
शक्तित्रयगुणोपेताः सत्त्वशीलावलम्बिनः ॥११७॥

विज्ञानविनयोद्दामप्रीतिप्रसरसंभृताः ।
निसर्गसुभगाः सर्वे भवन्ति त्रिदिवौकसः ॥११८॥

न तत्र दुःखितो दीनो वृद्धो रोगी गुणच्युतः ।
विकलाङ्गो गतश्रीकः स्वर्गलोके विलोक्यते ॥११९॥

सभ्यसामानिकामात्यलोकपालप्रकीर्णकाः ।
मित्राद्यभिमतस्तेषां पार्श्ववर्ती परिग्रहः ॥१२०॥

बन्दिगायनसैरन्ध्रीस्वाङ्गरक्षाः पदातयः ।
नटवेत्रिविलासिन्यः सुराणां सेवको जनः ॥१२१॥

तत्रातिभव्यताधारे विमाने कुन्दकोमले ।
उपपादिशिलागर्भे संभवन्ति स्वयं सुराः ॥१२२॥

सर्वाक्षसुखदे रम्ये नित्योत्सवविराजिते ।
गीतवादित्रलीलाढ्ये जयजीवस्वनाकुले ॥१२३॥

दिव्याकृतिसुसंस्थानाः सप्तधातुविवर्जिताः ।
कायकान्तिपयःपूरैः प्रसादितदिगन्तराः ॥१२४॥

शिरीषसुकुमाराङ्गाः पुण्यलक्षणलक्षिताः ।
अणिमादिगुणोपेता ज्ञानविज्ञानपारगाः ॥१२५॥

मृगाङ्कमूर्त्तिसंकाशाः शान्तदोषाः शुभाशयाः ।
अचिन्त्यमहिमोपेता भयक्लेशार्त्तिवर्जिताः ॥१२६॥

वर्द्धमानमहोत्साहा वज्रकाया महाबलाः ।
अचिन्त्यपुण्ययोगेन गृह्णन्ति वपुरूर्जितम् ॥१२७॥

सुखामृतमहाम्भोधेर्मध्यादिव विनिर्गताः ।
भवन्ति त्रिदशाः सद्यः क्षणेन नवयौवनाः ॥१२८॥

किं च पुष्पफलाक्रान्तैः प्रवालदलदन्तुरैः ।
तेषां कोकिलवाचालैर्द्रुमैर्जन्म निगद्यते ॥१२९॥

गीतवादित्रनिर्घोषैर्जयमङ्गलपाठकैः ।
विबोध्यन्ते शुभैः शब्दैः सुखनिद्रात्यये यथा ॥१३०॥

किञ्चिद्भ्रममपाकृत्य वीक्षते स शनैः शनैः ।
यावदाशा मुहुः स्निग्धैस्तदा कर्णान्तलोचनैः ॥१३१॥

इन्द्रजालमथ स्वप्नः किं नु माया भ्रमो नु किम् ।
दृश्यमानमिदं चित्रं मम नायाति निश्चयम् ॥१३२॥

इदं रम्यमिदं सेव्यमिदं श्लाघ्यमिदं हितम् ।
इदं प्रियमिदं भव्यमिदं चित्तप्रसत्तिदम् ॥१३३॥

एतत्कन्दलितानन्दमेतत्कल्याणमन्दिरम् ।
एतन्नित्योत्सवाकीर्णमेतदत्यन्तसुन्दरम् ॥१३४॥

सर्वर्द्धिमहिमोपेतं महर्द्धिकसुरार्चितम् ।
सप्तानीकान्वितं भाति त्रिदशेन्द्रसभाजिरम् ॥१३५॥

मामेवोद्दिश्य सानन्दः प्रवृत्तः किमयं जनः ।
पुण्यमूर्त्तिः प्रियः श्लाघ्यो विनीतोऽत्यन्तवत्सलः ॥१३६॥

त्रैलोक्यनाथसंसेव्यः कोऽयं देशः सुखाकरः ।
अनन्तमहिमाधारो विश्वलोकाभिनन्दितः ॥१३७॥

इदं पुरमतिस्फीतं वनोपवनराजितम् ।
अभिभूय जगद्भूत्या वल्गतीव ध्वजांशुकैः ॥१३८॥

आकलय्य तदाकूतं सचिवा दिव्यचक्षुषः ।
नतिपूर्वं प्रवर्त्तन्ते वक्तुं कालोचितं तदा ॥१३९॥

प्रसादः क्रियतां देव नतानां स्वेच्छया दृशा ।
श्रूयतां च वचोऽस्माकं पौर्वापर्यप्रकाशकम् ॥१४०॥

अद्य नाथ वयं धन्याः सफलं चाद्य जीवितम् ।
अस्माकं यत्त्वया स्वर्गः संभवेन पवित्रितः ॥१४१॥

प्रसीद जय जीव त्वं देव पुण्यस्तवोद्भवः ।
भव प्रभुः समग्रस्य स्वर्गलोकस्य सम्प्रति ॥१४२॥

सौधर्मोऽयं महाकल्पः सर्वामरशतार्चितः ।
नित्याभिनवकल्याणवार्द्धिवर्द्धनचन्द्रमाः ॥१४३॥

कल्पः सौधर्मनामायमीशानप्रमुखाः सुराः ।
इहोत्पन्नस्य शक्रस्य कुर्वन्ति परमोत्सवम् ॥१४४॥

अत्र संकल्पिताः कामा नवं नित्यं च यौवनम् ।
अत्राविनश्वरा लक्ष्मीः सुखं चात्र निरन्तरम् ॥१४५॥

स्वर्विमानमिदं रम्यं कामगं कान्तदर्शनम् ।
पादाम्बुजनता चेयं तव त्रिदशमण्डली ॥१४६॥

एते दिव्याङ्गनाकीर्णाश्चन्द्रकान्ता मनोहराः ।
प्रासादा रत्नवाप्यश्च क्रीडानद्यश्च भूधराः ॥१४७॥

सभाभवनमेतत्ते नतामरशतार्चितम् ।
रत्नदीपकृतालोकं पुष्पप्रकरशोभितम् ॥१४८॥

विनीतवेषधारिण्यः कामरूपा वरस्त्रियः ।
तवादेशं प्रतीक्षन्ते लास्यलीलारसोत्सुकाः ॥१४९॥

आतपत्रमिदं पूज्यमिदं च हरिविष्टरम् ।
एतच्च चामरव्रातमेते विजयकेतवः ॥१५०॥

एता अग्रे महादेव्यो वरस्त्रीवृन्दवन्दिताः ।
तृणीकृतसुराधीशलावण्यैश्वर्यसम्पदः ॥१५१॥

शृङ्गारजलधेर्वेला-विलासोल्लासितभ्रुवः ।
लीलालङ्कारसम्पूर्णास्तव नाथ समर्पिताः ॥१५२॥

सर्वावयवनिर्माणश्रीरासां नोपमास्पदम् ।
यासां श्लाघ्यामलस्निग्धपुण्याणुप्रभवं वपुः ॥१५३॥

अयमैरावणो नाम देवदन्ती महामनाः ।
धत्ते गुणाष्टकैश्वर्याच्छ्रियं विश्वातिशायिनीम् ॥१५४॥

इदं मत्तगजानीकमितोऽश्वीयं मनोजवम् ।
एते स्वर्णरथास्तुङ्गा वल्गन्त्येते पदातयः ॥१५५॥

एतानि सप्त सैन्यानि पालितान्यमरेश्वरैः ।
नमन्ति ते पदद्वन्द्वं नतिविज्ञप्तिपूर्वकम् ॥१५६॥

समग्रं स्वर्गसाम्राज्यं दिव्यभूत्योपलक्षितम् ।
पुण्यैस्ते सम्मुखीभूतं गृहाण प्रणतामरम् ॥१५७॥

इति वादिनी सुस्निग्धे सचिवेऽत्यन्तवत्सले ।
अवधिज्ञानमासाद्य पौर्वापर्यं स बुद्ध्यति ॥१५८॥

अहो तपः पुरा चीर्णं मयान्यजनदुश्चरम् ।
वितीर्णं चाभयं दानं प्राणिनां जीवितार्थिनाम् ॥१५९॥

आराधितं मनःशुद्ध्या दृग्बोधादिचतुष्टयम् ।
देवश्च जगतां नाथः सर्वज्ञः परमेश्वरः ॥१६०॥

निर्दग्धं विषयारण्यं स्मरवैरी निपातितः ।
कषायतरवश्छिन्ना रागशत्रुर्नियन्त्रितः ॥१६१॥

सर्वस्तस्य प्रभावोऽयमहं येनाद्य दुर्गतेः ।
उद्धृत्य स्थापितं स्वर्गराज्ये त्रिदशवन्दिते ॥१६२॥

रागादिदहनज्वाला न प्रशाम्यन्ति देहिनाम् ।
सद्वृत्तवार्यसंसिक्ताः क्वचिज्जन्मशतैरपि ॥१६३॥

तन्नात्र सुलभं मन्ये तत्किं कुर्मोऽधुना वयम् ।
सुराणां स्वर्गलोकेऽस्मिन्दर्शनस्यैव योग्यता ॥१६४॥

अतस्तत्त्वार्थश्रद्धा मे श्रेयसी स्वार्थसिद्धये ।
अर्हद्देवपदद्वन्द्वे भक्तिश्चात्यन्तनिश्चला ॥१६५॥

यान्यत्र प्रतिबिम्बानि स्वर्गलोके जिनेशिनाम् ।
विमानचैत्यवृक्षेषु मेर्वाद्युपवनेषु च ॥१६६॥

तेषां पूर्वमहं कृत्वा स्वद्रव्यैः स्वर्गसंभवैः ।
पुष्पचन्दननैवेद्यैर्गन्धदीपाक्षतोत्करैः ॥१६७॥

गीतवादित्रनिर्घोषैः स्तुतिस्तोमैर्मनोहरैः ।
स्वर्गैश्वर्यं ग्रहीष्यामि ततस्त्रिदशवन्दितः ॥१६८॥

इति सर्वज्ञदेवस्य कृत्वा पूजामहोत्सवम् ।
स्वीकरोति ततो राज्यं पट्टबन्धादिलक्षणम् ॥१६९॥

तस्मिन्मनोजवैर्यानैर्विचरन्तो यदृच्छया ।
वनाद्रिसागरान्तेषु दीव्यन्ते ते दिवौकसः ॥१७०॥

संकल्पानन्तरोत्पन्नैर्दिव्यभोगैः समन्वितम् ।
सेवमानाः सुरानीकैः श्रयन्ति स्वर्गिणः सुखम् ॥१७१॥

महाप्रभावसम्पन्ने महाभूत्योपलक्षिते ।
कालं गतं न जानन्ति निमग्नाः सौख्यसागरे ॥१७२॥

क्वचिद्गीतैः क्वचिन्नृत्यैः क्वचिद्वाद्यैर्मनोरमैः ।
क्वचिद्विलासिनीव्रातक्रीडाशृङ्गारदर्शनैः ॥१७३॥

दशाङ्गभोगजैः सौख्यैर्लभ्यमानाः क्वचित् क्वचित् ।
वसन्ति स्वर्गिणः स्वर्गे कल्पनातीतवैभवे ॥१७४॥

मद्यतूर्यगृहज्योतिर्भूषाभोजनविग्रहाः ।
स्रग्दीपवस्त्रपात्राङ्गा दशधा कल्पपादपाः ॥१७५॥

यत्सुखं नाकिनां स्वर्गे तद्वक्तुं केन पार्यते ।
स्वभावजमनातङ्कं सर्वाक्षप्रीणनक्षमम् ॥१७६॥

अशेषविषयोद्भूतं दिव्यस्त्रीसंगसंभवम् ।
विनीतजनविज्ञानज्ञानाद्यैश्वर्यलाञ्छितम् ॥१७७॥

सौधर्माद्यच्युतान्ता ये कल्पाः षोडश वर्णिताः ।
कल्पातीतास्ततो ज्ञेया देवा वैमानिकाः परे ॥१७८॥

अहमिन्द्राभिधानास्ते प्रवीचारविवर्जिताः ।
विवर्द्धितशुभध्यानाः शुक्ललेश्यावलम्बिनः ॥१७९॥

अनुत्तरविमानेषु श्रीजयन्तादिपञ्चसु ।
संभूय स्वर्गिणश्च्युत्वा व्रजन्ति पदमव्ययम् ॥१८०॥

कल्पेषु च विमानेषु परतः परतोऽधिकाः ।
शुभलेश्यायुर्विज्ञानप्रभावैः स्वर्गिणः स्वयम् ॥१८१॥

ततोऽग्रे शाश्वतं धाम जन्मजातङ्कविच्युतम् ।
ज्ञानिनां यदधिष्टानं क्षीणनिःशेषकर्मणाम् ॥१८२॥

चिदानन्दगुणोपेता निष्ठितार्था विबन्धनाः ।
यत्र सन्ति स्वयंबुद्धाः सिद्धाः सिद्धेः स्वयंवराः ॥१८३॥

समस्तोऽयमहो लोकः केवलज्ञानगोचरः ।
तं व्यस्तं वा समस्तं वा स्वशक्त्या चिन्तयेद्यतिः ॥१८४॥

विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम् ।
स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥१८५॥

इति निगदितमुच्चैर्लोकसंस्थानमित्थं
नियतमनियतं वा ध्यायतः शुद्धबुद्धेः ।
भवति सततयोगाद्योगिनो निष्प्रमादं
नियतमनतिदूरं केवलज्ञानराज्यम् ॥१८६॥

इति श्री शुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे संस्थानविचयनामकध्यानवर्णनं नाम षट्त्रिंशं
प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ८८: ‘तिष्टन्ति’ छपा है; ‘तिष्ठन्ति’ होना चाहिए
  • श्लोक ९२: ‘सुखदाः’ छपा है; ‘सुखदः’ होना चाहिए
  • श्लोक १५८: ‘वादिनी’ छपा है; ‘वादिनि’ होना चाहिए
  • श्लोक १८२: ‘यदधिष्टानं’ छपा है; ‘यदधिष्ठानं’ होना चाहिए

सर्ग 37: पिण्डस्थ ध्यान का वर्णन

पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ।
चतुर्धा ध्यानमाम्नातं भव्यराजीवभास्करैः ॥१॥

पिण्डस्थे पञ्च विज्ञेया धारणा वीरवर्णिताः ।
संयमी यास्वसंमूढो जन्मपाशान्निकृन्तति ॥२॥

पार्थिवी स्यात्तथाग्नेयी श्वसना वाथ वारुणी ।
तत्त्वरूपवती चेति विज्ञेयास्ता यथाक्रमम् ॥३॥

तिर्यग्लोकसमं योगी स्मरति क्षीरसागरम् ।
निःशब्दं शान्तकल्लोलं हारनीहारसंनिभम् ॥४॥

तस्य मध्ये सुनिर्माणं सहस्रदलमम्बुजम् ।
स्मरत्यमितभादीप्तं द्रुतहेमसमप्रभम् ॥५॥

अब्जरागसमुद्भूतकेसरालिविराजितम् ।
जम्बूद्वीपप्रमाणं च चित्तभ्रमररञ्जकम् ॥६॥

स्वर्णाचलमयीं दिव्यां तत्र स्मरति कर्णिकाम् ।
स्फुरत्पिङ्गप्रभाजालपिशङ्गितदिगन्तराम् ॥७॥

शरच्चन्द्रनिभं तस्यामुन्नतं हरिविष्टरम् ।
तत्रात्मानं सुखासीनं प्रशान्तमिति चिन्तयेत् ॥८॥

रागद्वेषादिनिःशेषकलङ्कक्षपणक्षमम् ।
उद्युक्तं च भवोद्भूतकर्मसन्तानशातने ॥९॥

ततोऽसौ निश्चलाभ्यासात्कमलं नाभिमण्डले ।
स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥१०॥

प्रतिपत्रसमासीनस्वरमालाविराजितम् ।
कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ॥११॥

रेफरुद्धं कलाबिन्दुलाञ्छितं शून्यमक्षरम् ।
लसदिन्दुच्छटाकोटिकान्तिव्याप्तहरिन्मुखम् ॥१२॥

तस्य रेफाद्विनिर्यान्तीं शनैर्धूमशिखां स्मरेत् ।
स्फुलिङ्गसंततिं पश्चाज्ज्वालालीं तदनन्तरम् ॥१३॥

तेन ज्वालाकलापेन वर्द्धमानेन सन्ततम् ।
दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् ॥१४॥

तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् ।
दहत्येव महामन्त्रध्यानोत्थप्रबलोऽनलः ॥१५॥

ततो बहिः शरीरस्य त्रिकोणं वह्निमण्डलम् ।
स्मरेज्ज्वालाकलापेन ज्वलन्तमिव वाडवम् ॥१६॥

वह्निबीजसमाक्रान्तं पर्यन्ते स्वस्तिकाङ्कितम् ।
ऊर्ध्ववायुपुरोद्भूतं निर्धूमं काञ्चनप्रभम् ॥१७॥

अन्तर्दहति मन्त्रार्चिर्बहिर्वह्निपुरं पुरम् ।
धगद्धगितिविस्फूर्जज्ज्वालाप्रचयभासुरम् ॥१८॥

भस्मभावमसौ नीत्वा शरीरं तच्च पङ्कजम् ।
दाह्याभावात्स्वयं शान्तिं याति वह्निः शनैः शनैः ॥१९॥

विमानपथमापूर्य संचरन्तं समीरणम् ।
स्मरत्यविरतं योगी महावेगं महाबलम् ॥२०॥

चालयन्तं सुरानीकं ध्वनन्तं त्रिदशाचलम् ।
दारयन्तं घनव्रातं क्षोभयन्तं महार्णवम् ॥२१॥

व्रजन्तं भुवनाभोगे संचरन्तं हरिन्मुखे ।
विसर्पन्तं जगन्नीडे निविशन्तं धरातले ॥२२॥

उद्धूय तद्रजः शीघ्रं तेन प्रबलवायुना ।
ततः स्थिरीकृताभ्यासः समीरं शांतिमानयेत् ॥२३॥

वारुण्यां स हि पुण्यात्मा घनजालचितं नभः ।
इन्द्रायुधतडिद्गर्जच्चमत्काराकुलं स्मरेत् ॥२४॥

सुधाम्बुप्रभवैः सान्द्रैर्बिन्दुभिर्मौक्तिकोज्ज्वलैः ।
वर्षन्तं ते स्मरेद्धीरः स्थूलस्थूलैर्निरन्तरम् ॥२५॥

ततोऽर्द्धेन्दुसमं कान्तं पुरं वरुणलाञ्छितम् ।
ध्यायेत्सुधापयः पूरैः प्लावयन्तं नभस्तलम् ॥२६॥

तेनाचिन्त्यप्रभावेण दिव्यध्यानोत्थिताम्बुना ।
प्रक्षालयति निःशेषं तद्रजः कायसंभवम् ॥२७॥

सप्तधातुविनिर्मुक्तं पूर्णचन्द्रामलत्विषम् ।
सर्वज्ञकल्पमात्मानं ततः स्मरति संयमी ॥२८॥

मृगेन्द्रविष्टरारूढं दिव्यातिशयसंयुतम् ।
कल्याणमहिमोपेतं देवदैत्योरगार्चितम् ॥२९॥

विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम् ।
स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥३०॥

इत्यविरतं स योगी पिण्डस्थे जातनिश्चलाभ्यासः ।
शिवसुखमनन्यसाध्यं प्राप्नोत्यचिरेण कालेन ॥३१॥

इत्थं यत्रानवद्यं स्मरति नवसुधासान्द्रचन्द्रांशुगौरं
श्रीमत्सर्वज्ञकल्पं कनकगिरितटे वीतविश्वप्रपञ्चम् ।
आत्मानं विश्वरूपं त्रिदशगुरुगणैरप्यचिन्त्यप्रभावं
तत्पिण्डस्थं प्रणीतं जिनसमयमहाम्भोधिपारं प्रयातैः ॥३२॥

विद्यामण्डलमन्त्रयन्त्रकुहकक्रूराभिचाराः क्रियाः
सिंहाशीविषदैत्यदन्तिशरभा यान्त्येव निःसारताम् ।
शाकिन्यो ग्रहराक्षसप्रभृतयो मुञ्चन्त्यसद्वासनां
एतद्ध्यानधनस्य सन्निधिवशाद्भानोर्यथा कौशिकाः ॥३३॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे पिण्डस्थध्यानवर्णनं नाम
सप्तत्रिंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक २५: ‘ते’ छपा है; ‘तं’ होना चाहिए

सर्ग 38: पदस्थ ध्यान का वर्णन

पदान्यालम्ब्य पुण्यानि योगिभिर्यद्विधीयते ।
तत्पदस्थं मतं ध्यानं विचित्रनयपारगैः ॥१॥

ध्यायेदनादिसिद्धान्तप्रसिद्धां वर्णमातृकाम् ।
निःशेषशब्दविन्यासजन्मभूमिं जगन्नुताम् ॥२॥

द्विगुणाष्टदलाम्भोजे नाभिमण्डलवर्तिनि ।
भ्रमन्तीं चिन्तयेद्ध्यानी प्रतिपत्रं स्वरावलीम् ॥३॥

चतुर्विंशतिपत्राढ्यं हृदि कञ्जं सकर्णिकम् ।
तत्र वर्णानिमान्ध्यायेत्संयमी पञ्चविंशतिम् ॥४॥

ततो वदनराजीवे पत्राष्टकविभूषिते ।
परं वर्णाष्टकं ध्यायेत्सञ्चरन्तं प्रदक्षिणम् ॥५॥

इत्यजस्रं स्मरन् योगी प्रसिद्धां वर्णमातृकाम् ।
श्रुतज्ञानाम्बुधेः पारं प्रयाति विगतभ्रमः ॥६॥

अथ मन्त्रपदाधीशं सर्वतत्त्वैकनायकम् ।
आदिमध्यान्तभेदेन स्वरव्यञ्जनसम्भवम् ॥७॥

ऊर्ध्वाधोरेफसंरुद्धं सपरं बिन्दुलाञ्छितम् ।
अनाहतयुतं तत्त्वं मन्त्रराजं प्रचक्षते ॥८॥

देवासुरनतं भीमदुर्बोधध्वान्तभास्करम् ।
ध्यायेन्मूर्द्धस्थचन्द्रांशुकलापाक्रान्तदिङ्मुखम् ॥९॥

कनककमलगर्भे कर्णिकायां निषण्णं
विगतमलकलङ्कं सान्द्रचन्द्रांशुगौरम् ।
गगनमनुसरन्तं सञ्चरन्तं हरित्सु
स्मर जिनवरकल्पं मन्त्रराजं यतीन्द्र ॥१०॥

बुद्धः कैश्चिद्धरिः कैश्चिदजः कैश्चिन्महेश्वरः ।
शिवः सार्वस्तथैशानः सोऽयं वर्णः प्रकीर्तितः ॥११॥

मन्त्रमूर्तिं समादाय देवदेवः स्वयं जिनः ।
सर्वज्ञः सर्वगः शान्तः सोऽयं साक्षाद्व्यवस्थितः ॥१२॥

ज्ञानबीजं जगद्वन्द्यं जन्मज्वलनवार्मुचम् ।
पवित्रं मतिमान्ध्यायेदिमं मन्त्रमहेश्वरम् ॥१३॥

सकृदुच्चारितं येन हृदि येन स्थिरीकृतम् ।
तत्त्वं तेनापवर्गाय पाथेयं प्रगुणीकृतम् ॥१४॥

यदैवेदं महातत्त्वं मुनेर्धत्ते हृदि स्थितिम् ।
तदैव जन्मसन्तानप्ररोहः प्रविशीर्यते ॥१५॥

स्फुरन्त भ्रूलतामध्ये विशन्तं वदनाम्बुजे ।
तालुरन्ध्रेण गच्छन्तं स्रवन्तममृताम्बुभिः ॥१६॥

स्फुरन्तं नेत्रपत्रेषु कुर्वन्तमलके स्थितिम् ।
भ्रमन्तं ज्योतिषां चक्रे स्पर्द्धमानं सितांशुना ॥१७॥

संचरन्तं दिशामास्ये प्रोच्छलन्तं नभस्तले ।
छेदयन्तं कलङ्कौघं स्फोटयन्तं भवभ्रमम् ॥१८॥

नयन्तं परमस्थानं योजयन्तं शिवश्रियम् ।
इति मन्त्राधिपं धीर कुम्भकेन विचिन्तयेत् ॥१९॥

अनन्यशरणः साक्षात्तत्संलीनैकमानसः ।
तथा स्मरत्यसौ ध्यानी यथा स्वप्नेऽपि न स्खलेत् ॥२०॥

इति मत्वा स्थिरीभूतं सर्वावस्थासु सर्वथा ।
नासाग्रे निश्चलं धत्ते यदि वा भ्रूलतान्तरे ॥२१॥

तत्र कैश्चिच्च वर्णादिभेदैस्तत्कल्पितं पुनः ।
मन्त्रमण्डलमुद्रादिसाधनैरिष्टसिद्धिदम् ॥२२॥

चन्द्रलेखासमं सूक्ष्मं स्फुरन्तं भानुभास्वरम् ।
अनाहताभिधं देवं दिव्यरूपं विचिन्तयेत् ॥२३॥

अस्मिन्स्थिरीकृताभ्यासाः सन्तः शान्तिं समाश्रिताः ।
अनेन दिव्यपोतेन तीर्त्वा जन्मोग्रसागरम् ॥२४॥

तदेव च पुनः सूक्ष्मं क्रमाद्वालाग्रसन्निभम् ।
ध्यायेदेकाग्रतां प्राप्य कर्त्तुं चेतः सुनिश्चलम् ॥२५॥

ततोऽपि गलिताशेषविषयीकृतमानसः ।
अध्यक्षमीक्षते साक्षाज्जगज्ज्योतिर्मयं क्षणे ॥२६॥

सिद्ध्यन्ति सिद्धयः सर्वा अणिमाद्या न संशयः ।
सेवां कुर्वन्ति दैत्याद्या आज्ञैश्वर्यं च जायते ॥२७॥

क्रमात्प्रच्याव्य लक्ष्येभ्यस्ततोऽलक्ष्ये स्थिरं मनः ।
दधतोऽस्य स्फुरत्यन्तर्ज्योतिरत्यक्षमक्षयम् ॥२८॥

इति लक्ष्यानुसारेण लक्ष्याभावः प्रकीर्तितः ।
तस्मिन्स्थितस्य मन्येऽहं मुनेः सिद्धं समीहितम् ॥२९॥

एतत्तत्त्वं शिवाख्यं वा समालम्ब्य मनीषिणः ।
उत्तीर्णा जन्मकान्तारमनन्तं क्लेशसंकुलम् ॥३०॥

स्मर दुःखानलज्वाला-प्रशान्तेर्नवनीरदम् ।
प्रणवं वाङ्मयज्ञानप्रदीपं पुण्यशासनम् ॥३१॥

यस्माच्छब्दात्मकं ज्योतिः प्रसूतमतिनिर्मलम् ।
वाच्यवाचकसम्बन्धस्तेनैव परमेष्ठिनः ॥३२॥

हृत्कञ्जकर्णिकासीनं स्वरव्यञ्जनवेष्टितम् ।
स्फीतमत्यन्तदुर्द्धर्षं देवदैत्येन्द्रपूजितम् ॥३३॥

प्रक्षरन्मूर्ध्निसंक्रान्तचन्द्रलेखामृतप्लुतम् ।
महाप्रभावसम्पन्नं कर्मकक्षहुताशनम् ॥३४॥

महातत्त्वं महाबीजं महामन्त्रं महत्पदम् ।
शरच्चन्द्रनिभं ध्यानी कुंभकेन विचिन्तयेत् ॥३५॥

सान्द्रसिंदूरवर्णाभं यदि वा विद्रुमप्रभम् ।
चिन्त्यमानं जगत्सर्वं क्षोभयत्यभिसंगतम् ॥३६॥

जाम्बूनदनिभं स्तम्भे विद्वेषे कज्जलत्विषम् ।
ध्येयं वश्यादिके रक्तं चन्द्राभं कर्मशातने ॥३७॥

गुरुपञ्चनमस्कारलक्षणं मन्त्रमूर्जितम् ।
विचिन्तयेज्जगज्जन्तुपवित्रीकरणक्षमम् ॥३८॥

स्फुरद्विमलचन्द्राभे दलाष्टकविभूषिते ।
कञ्जे तत्कर्णिकासीनं मन्त्रं सप्ताक्षरं स्मरेत् ॥३९॥

दिग्दलेषु ततोऽन्येषु विदिक्पत्रेष्वनुक्रमात् ।
सिद्धादिकं चतुष्कं च दृष्टिबोधादिकं तथा ॥४०॥

श्रियमात्यन्तिकीं प्राप्ता योगिनो येऽत्र केचन ।
अमुमेव महामन्त्रं ते समाराध्य केवलम् ॥४१॥

प्रभावमस्य निःशेषं योगिनामप्यगोचरम् ।
अनभिज्ञो जनो ब्रूते यः स मन्येऽनिलार्दितः ॥४२॥

अनेनैव विशुद्ध्यन्ति जन्तवः पापपङ्किताः ।
अनेनैव विमुच्यन्ते भवक्लेशान्मनीषिणः ॥४३॥

असावेव जगत्यस्मिन्भव्यव्यसनबान्धवः ।
अमुं विहाय सत्त्वानां नान्यः कश्चित्कृपापरः ॥४४॥

एतद्व्यसनपाताले भ्रमत्संसारसागरे ।
अनेनैव जगत्सर्वमुद्धृत्य विधृतं शिवे ॥४५॥

कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च ।
अमुं मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥४६॥

शतमष्टोत्तरं चास्य त्रिशुद्ध्या चिन्तयन्मुनिः ।
भुञ्जानोऽपि चतुर्थस्य प्राप्नोत्यविकलं फलम् ॥४७॥

स्मर पञ्चपदोद्भूतां महाविद्यां जगन्नुताम् ।
गुरुपञ्चकनामोत्थां षोडशाक्षरराजिताम् ॥४८॥

अस्याः शतद्वयं ध्यानी जपन्नेकाग्रमानसः ।
अनिच्छन्नप्यवाप्नोति चतुर्थतपसः फलम् ॥४९॥

विद्यां षड्वर्णसम्भूतामजय्यां पुण्यशालिनीम् ।
जपन्प्रागुक्तमभ्येति फलं ध्यानी शतत्रयम् ॥५०॥

चतुर्वर्णमयं मन्त्रं चतुर्वर्गफलप्रदम् ।
चतुःशतं जपन्योगी चतुर्थस्य फलं लभेत् ॥५१॥

वर्णयुग्मं श्रुतस्कन्धसारभूतं शिवप्रदम् ।
ध्यायेज्जन्मोद्भवाशेषक्लेशविध्वंसनक्षमम् ॥५२॥

अवर्णस्य सहस्रार्द्धं जपन्नानन्दसंभृतः ।
प्राप्नोत्येकोपवासस्य निर्जरां निर्जिताशयः ॥५३॥

एतद्धि कथितं शास्त्रे रुचिमात्रप्रसाधकम् ।
किन्त्वमीषां फलं सम्यक्स्वर्गमोक्षैकलक्षणम् ॥५४॥

पञ्चवर्णमयीं विद्यां पञ्चतत्त्वोपलक्षिताम् ।
मुनिवीरैः श्रुतस्कन्धाद्बीजबुद्ध्या समुद्धृताम् ॥५५॥

अस्यां निरन्तराभ्यासाद्वशीकृतनिजाशयः ।
प्रोच्छिनत्त्याशु निःशङ्को निर्गूढं जन्मबन्धनम् ॥५६॥

मङ्गलशरणोत्तमपदनिकुरम्बं यस्तु संयमी स्मरति ।
अविकलमेकाग्रधिया स चापवर्गश्रियं श्रयति ॥५७॥

चत्तारि मंगलं । अरहंत मंगलं । सिद्ध मंगलं । साहु मंगलं । केवलिपण्णत्तो धम्मो मंगलं । चत्तारि
लोगुत्तमा । अरहंत लोगुत्तमा । सिद्ध लोगुत्तमा । साहु लोगुत्तमा । केवलिपण्णत्तो धम्मो लोगुत्तमो ।
चत्तारि सरणं पव्वज्ञामि । अरहंतसरणं पव्वज्ञामि । सिद्धसरणं पव्वज्ञामि । साहुसरणं पव्वज्ञामि ।
केवलिपण्णत्तो धम्मो सरणं पव्वज्ञामि

सिद्धेः सौधं समारोढुमियं सोपानमालिका ।
त्रयोदशाक्षरोत्पन्ना विद्या विश्वातिशायिनी ॥५८॥

प्रसादयितुमुद्युक्तैर्मुक्तिकान्तां यशस्विनीम् ।
दूतिकेयं मता मन्ये जगद्वन्द्यैर्मुनीश्वरैः ॥५९॥

सकलज्ञानसाम्राज्यदानदक्षं विचिन्तय ।
मन्त्रं जगत्त्रयी-नाथ-चूडारत्नं कृपास्पदम् ॥६०॥

न चास्य भुवने कश्चित्प्रभावं गदितुं क्षमः ।
श्रीमत्सर्वज्ञदेवेन यः साम्यमवलम्बते ॥६१॥

स्मर कर्मकलङ्कौघध्वान्तविध्वंसभास्करम् ।
पञ्चवर्णमयं मन्त्रं पवित्रं पुण्यशासनम् ॥६२॥

सर्वसत्त्वाभयस्थानं वर्णमालाविराजितम् ।
स्मर मन्त्रं जगज्जन्तुक्लेशसंततिघातकम् ॥६३॥

स्मरेन्दुमण्डलाकारं पुण्डरीकं मुखोदरे ।
दलाष्टकसमासीनं वर्णाष्टकविराजितम् ॥६४॥

ॐ णमो अरहंताणमिति वर्णानपि क्रमात् ।
एकशः प्रतिपत्रं तु तस्मिन्नेव निवेशयेत् ॥६५॥

स्वर्णगौरीं स्वरोद्भूतां केशरालीं ततः स्मरेत् ।
कर्णिकां च सुधास्यन्दबिन्दुव्रजविभूषिताम् ॥६६॥

प्रोद्यत्संपूर्णचन्द्राभं चन्द्रबिम्बाच्छनैः शनैः ।
समागच्छत्सुधाबीजं मायावर्णं तु चिन्तयेत् ॥६७॥

विस्फुरन्तमतिस्फीतं प्रभामण्डलमध्यगम् ।
संचरन्तं मुखाम्भोजे तिष्ठन्तं कर्णिकोपरि ॥६८॥

भ्रमन्तं प्रतिपत्रेषु चरन्तं वियति क्षणे ।
छेदयन्तं मनोध्वान्तं स्रवन्तममृताम्बुभिः ॥६९॥

व्रजन्तं तालुरन्ध्रेण स्फुरन्तं भ्रूलतान्तरे ।
ज्योतिर्मयमिवाचिन्त्यप्रभावं भावयेन्मुनिः ॥७०॥

वाक्पथातीतमाहात्म्यं देवदैत्योरगार्चितम् ।
विद्यार्णवमहापोतं विश्वतत्त्वप्रदीपकम् ॥७१॥

अमुमेव महामन्त्रं भावयन्नस्तसंशयः ।
अविद्याव्यालसंभूतं विषवेगं निरस्यति ॥७२॥

इति ध्यायन्नसौ ध्यानी तत्संलीनैकमानसः ।
वाङ्मनोमलमुत्सृज्य श्रुताम्भोधिं विगाहते ॥७३॥

ततो निरन्तराभ्यासान्मासैः षड्भिः स्थिराशयः ।
मुखरन्ध्राद्विनिर्यान्तीं धूमवर्तिं प्रपश्यति ॥७४॥

ततः संवत्सरं यावत्तथैवाभ्यस्यते यदि ।
प्रपश्यति महाज्वालां निःसरन्तीं मुखोदरात् ॥७५॥

ततोऽतिजातसंवेगो निर्वेदालम्बितो वशी ।
ध्यायन्पश्यत्यविश्रान्तं सर्वज्ञमुखपङ्कजम् ॥७६॥

अथाप्रतिहतानन्दप्रीणितात्मा जितश्रमः ।
श्रीमत्सर्वज्ञदेवेशं प्रत्यक्षमिव वीक्षते ॥७७॥

सर्वातिशयसंपूर्णं दिव्यरूपोपलक्षितम् ।
कल्याणमहिमोपेतं सर्वसत्त्वाभयप्रदम् ॥७८॥

प्रभावलयमध्यस्थं भव्यराजीवरञ्जकम् ।
ज्ञानलीलाधरं वीरं देवदेवं स्वयंभुवम् ॥७९॥

ततो विधूततन्द्रोऽसौ तस्मिन्संजातनिश्चयः ।
भवभ्रममपाकृत्य लोकाग्रमधिरोहति ॥८०॥

स्मर सकलसिद्धविद्यां प्रधानभूतां प्रसन्नगम्भीराम् ।
विधुबिम्बनिर्गतामिव क्षरत्सुधार्द्रां महाविद्याम् ॥८१॥

अविचलमनसा ध्यायंल्ललाटदेशे स्थितामिमां देवीम् ।
प्राप्नोति मुनिरजस्रं समस्तकल्याणनिकुरम्बम् ॥८२॥

अमृतजलधिगर्भान्निःसरन्तीं सुदीप्ता-
मलकतलनिषण्णां चन्द्रलेखां स्मर त्वम् ।
अमृतकणविकीर्णां प्लावयन्तीं सुधाभिः
परमपदधरित्र्यां धारयन्तीं प्रभावम् ॥८३॥

एतां विचिन्तयन्नेव स्तिमितेनान्तरात्मना ।
जन्मज्वरक्षयं कृत्वा याति योगी शिवास्पदम् ॥८४॥

यदि साक्षात्समुद्विग्नो जन्मदावोग्रसंक्रमात् ।
तदा स्मरादिमन्त्रस्य प्राचीनं वर्णसप्तकम् ॥८५॥

यदत्र प्रणवं शून्यमनाहतमिति त्रयम् ।
एतदेव विदुः प्राज्ञास्त्रैलोक्यतिलकोत्तमम् ॥८६॥

नासाग्रदेशसंलीनं कुर्वन्नत्यन्तनिर्मलम् ।
ध्याता ज्ञानमवाप्नोति प्राप्य पूर्वं गुणाष्टकम् ॥८७॥

शङ्खेन्दुकुन्दधवला ध्याता देवास्त्रयो विधानेन ।
जनयन्ति सर्वविषयं बोधं कालेन तद्ध्यानात् ॥८८॥

प्रणवयुगलस्य युग्मं पार्श्वे मायायुगं विचिन्तयति ।
मूर्द्धस्थं हंसपदं कृत्वा व्यस्तं वितन्द्रात्मा ॥८९॥

ततो ध्यायेन्महाबीजं स्त्रींकारं छिन्नमस्तकम् ।
अनाहतयुतं दिव्यं विस्फुरन्तं मुखोदरे ॥९०॥

श्रीवीरवदनोद्गीर्णां विद्यां चाचिन्त्यविक्रमाम् ।
कल्पवल्लीमिवाचिन्त्यफलसंपादनक्षमाम् ॥९१॥

विद्यां जयति य इमां निरन्तरं शान्तविश्वविस्पन्दः ।
अणिमादिगुणाँल्लब्ध्वा ध्यानी शास्त्रार्णवं तरति ॥९२॥

त्रिकालविषयं साक्षाज्ज्ञानमस्योपजायते ।
विश्वतत्त्वप्रबोधश्च सतताभ्यासयोगतः ॥९३॥

शाम्यन्ति जन्तवः क्रूरास्तथान्ये व्यन्तरादयः ।
ध्यानविध्वंसकर्तारो येन तद्धि प्रपञ्च्यते ॥९४॥

दिग्दलाष्टकसम्पूर्णे राजीवे सुप्रतिष्ठितम् ।
स्मरत्वात्मानमत्यन्तस्फुरद्ग्रीष्मार्कभास्करम् ॥९५॥

प्रणवाद्यस्य मन्त्रस्य पूर्वादिषु प्रदक्षिणम् ।
विचिन्तयति पत्रेषु वर्णैकैकमनुक्रमात् ॥९६॥

अधिकृत्य छदं पूर्वं सर्वाशासम्मुखः परम् ।
स्मरत्यष्टाक्षरं मन्त्रं सहस्रैकं शताधिकम् ॥९७॥

प्रत्यहं प्रतिपत्रेषु महेन्द्राशाद्यनुक्रमात् ।
अष्टरात्रं जपेद्योगी प्रसन्नामलमानसः ॥९८॥

तस्याचिन्त्यप्रभावेण क्रूराशयकलङ्किताः ।
त्यजन्ति जन्तवो दर्पं सिंहत्रस्ता इव द्विपाः ॥९९॥

अष्टरात्रे व्यतिक्रान्ते कमलस्यास्यवर्त्तिनः ।
निरूपयति पत्रेषु वर्णानेताननुक्रमात् ॥१००॥

आलम्ब्य प्रक्रियामेनां पूर्वं विघ्नौघशान्तये ।
पश्चात्सप्ताक्षरं मन्त्रं ध्यायेत्प्रणववर्जितम् ॥१०१॥

मन्त्रः प्रणवपूर्वोऽयं निश्शेषाभीष्टसिद्धिदः ।
ऐहिकानेककामार्थं मुक्त्यर्थं प्रणवच्युतः ॥१०२॥

स्मर मन्त्रपदं वान्यज्जन्मसंघातघातकम् ।
रागाद्युग्रतमस्तोमप्रध्वंसरविमण्डलम् ॥१०३॥

मनः कृत्वा सुनिष्कम्पं तां विद्यां पापभक्षिणीम् ।
स्मर सत्त्वोपकाराय या जिनेन्द्रैः प्रकीर्तिता ॥१०४॥

पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रप्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षां क्षीं क्षूं क्षें क्षौं क्षः
क्षीरवरधवले अमृतसंभवे वं वं हूँ हूँ स्वाहा।

चेतः प्रसत्तिमाधत्ते पापपङ्कः प्रलीयते ।
आविर्भवति विज्ञानं मुनेरस्याः प्रभावतः ॥१०५॥

मुनिभिः संजयन्ताद्यैर्विद्यावादात्समुद्‌धृतम् ।
भुक्तिमुक्तेः परं धाम सिद्धचक्राभिधं स्मरेत् ॥१०६॥

तस्य प्रयोजकं शास्त्रं तदाश्रित्योपदेशतः ।
ध्येयं मुनीश्वरैर्जन्ममहाव्यसनशान्तये ॥१०७॥

स्मर मन्त्रपदाधीशं मुक्तिमार्गप्रदीपकम् ।
नाभिपङ्कजसंलीनमवर्णं विश्वतोमुखम् ॥१०८॥

सिवर्णं मस्तकाम्भोजे साकारं मुखपङ्कजे ।
आकारं कण्ठकञ्जस्थं स्मरोकारं हृदि स्थितम् ॥१०९॥

सर्वकल्याणबीजानि बीजान्यन्यान्यपि स्मरेत् ।
यान्याराध्य शिवं प्राप्ता योगिनः शीलसागराः ॥११०॥

श्रुतिसिन्धुसमुद्भूतमन्यद्वा पदमक्षरम् ।
तत्सर्वं मुनिभिर्ध्येयं स्यात्पदस्थप्रसिद्धये ॥१११॥

एवं समस्तवर्णेषु मन्त्रविद्यापदेषु च ।
कार्यक्रमेण विश्लेषो लक्ष्यभावप्रसिद्धये ॥११२॥

अन्यद्यद्यच्छ्रुतस्कन्धबीजं निर्वेदकारणम् ।
तत्तद्ध्यायन्नसौ ध्यानी नापवर्गपथि स्खलेत् ॥११३॥

वीतरागस्य विज्ञेया ध्यानसिद्धिर्ध्रुवं मुनेः ।
क्लेश एव तदर्थं स्याद्रागार्त्तस्येह देहिनः ॥११४॥

निर्मथ्य श्रुतसिन्धुमुन्नतधियः श्रीवीरचन्द्रोदये
तत्त्वान्येव समुद्धरन्ति मुनयो यत्नेन रत्नान्यतः ।
तान्येतानि हृदि स्फुरन्ति सुभगन्यासानि भव्यात्मनां
ये वाञ्छन्त्यनिशं विमुक्तिललनासम्भोगसंभावनाम् ॥११५॥

विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम् ।
स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥११६॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारस्वरूपज्ञानार्णवे
पदस्थध्यानवर्णनं नामाष्टत्रिंशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १६: ‘स्फुरन्त’ छपा है; ‘स्फुरन्तं’ होना चाहिए
  • श्लोक ९२: ‘जयति’ छपा है; ‘जपति’ होना चाहिए

सर्ग 39: रूपस्थ ध्यान का वर्णन

आर्हत्यमहिमोपेतं सर्वज्ञं परमेश्वरम् ।
ध्यायेद्देवेन्द्रचन्द्रार्कसभान्तस्थं स्वयम्भुवम् ॥१॥

सर्वातिशयसंपूर्णं सर्वलक्षणलक्षितम् ।
सर्वभूतहितं देवं शीलशैलेन्द्रशेखरम् ॥२॥

सप्तधातुविनिर्मुक्तं मोक्षलक्ष्मीकटाक्षितम् ।
अनन्तमहिमाधारं सयोगिपरमेश्वरम् ॥३॥

अचिन्त्यचरितं चारुचारित्रैः समुपासितम् ।
विचित्रनयनिर्णीतं विश्वं विश्वैकबान्धवम् ॥४॥

निरुद्धकरणग्रामं निषिद्धविषयद्विषम् ।
ध्वस्तरागादिसन्तानं भवज्वलनवार्मुचम् ॥५॥

दिव्यरूपधरं धीरं विशुद्धज्ञानलोचनम् ।
अपि त्रिदशयोगीन्द्रैः कल्पनातीतवैभवम् ॥६॥

स्याद्वादपविनिर्घातभिन्नान्यमतभूधरम् ।
ज्ञानामृतपयःपूरैः पवित्रितजगत्त्रयम् ॥७॥

इत्यादिगणनातीतगुणरत्नमहार्णवम् ।
देवदेवं स्वयम्बुद्धं स्मराद्यं जिनभास्करम् ॥८॥

जन्ममृत्युजराक्रान्तं रागादिविषमूर्च्छितम् ।
सर्वसाधारणैर्दोषैरष्टादशभिरावृतम् ॥९॥

अनेकव्यसनोच्छिष्टं संयमज्ञानविच्युतम् ।
संज्ञामात्रेण केचिच्च सर्वज्ञं प्रतिपेदिरे ॥१०॥

इतरोऽपि नरः षड्भिः प्रमाणैर्वस्तुसंचयम् ।
परिच्छिन्दन्मतः कैश्चित्सर्वज्ञः सोऽपि नेक्ष(ष्य)ते ॥११॥

अतः सम्यक्स विज्ञेयः परित्यज्यान्यशासनम् ।
युक्त्यागमविभागेन ध्यातुकामैर्मनीषिभिः ॥१२॥

युक्त्या वृषभसेनाद्यैर्निर्धूयासाधुवल्गितम् ।
यस्य सिद्धिः सतां मध्ये लिखिता चन्द्रमण्डले ॥१३॥

अनेकवस्तुसंपूर्णं जगद्यस्य चराचरम् ।
स्फुरत्यविकलं बोधविशुद्धादर्शमण्डले ॥१४॥

स्वभावजमसंदिग्धं निर्दोषं सर्वदोदितम् ।
यस्य विज्ञानमत्यक्षं लोकालोकं विसर्पति ॥१५॥

यस्य विज्ञानघर्मांशु-प्रभाप्रसरपीडिताः ।
क्षणादेव क्षयं यान्ति खद्योता इव दुर्नयाः ॥१६॥

पादपीठीकृताशेषत्रिदशेन्द्रसभाजिरम् ।
योगिगम्यं जगन्नाथं गुणरत्नमहार्णवम् ॥१७॥

पवित्रितधरापृष्टं समुद्धृतजगत्त्रयम् ।
मोक्षमार्गप्रणेतारमनन्तं पुण्यशासनम् ॥१८॥

भामण्डलनिरुद्धार्कं चन्द्रकोटिसमप्रभम् ।
शरण्यं सर्वगं शान्तं दिव्यवाणीविशारदम् ॥१९॥

अक्षोरगशकुन्तेशं सर्वाभ्युदयमन्दिरम् ।
दुःखार्णवपतत्सत्त्वदत्तहस्तावलम्बनम् ॥२०॥

मृगेन्द्रविष्टरारूढं मारमातङ्गघातकम् ।
इन्दुत्रयसमोद्दामच्छत्रत्रयविराजितम् ॥२१॥

हंसालीपातलीलाढ्यं चामरव्रजवीजितम् ।
वीततृष्णं जगन्नाथं वरदं विश्वरूपिणम् ॥२२॥

दिव्यपुष्पानकाशोकराजितं रागवर्जितम् ।
प्रातिहार्यमहालक्ष्मीलक्षितं परमेश्वरम् ॥२३॥

नवकेवललब्धिश्रीसंभवं स्वात्मसंभवम् ।
तुर्यध्यानमहावह्नौ हुतकर्मेन्धनोत्करम् ॥२४॥

रत्नत्रयसुधास्यन्दमन्दीकृतभवश्रमम् ।
वीतसंगं जितद्वैतं शिवं शान्तं सनातनम् ॥२५॥

अर्हन्तमजमव्यक्तं कामदं कामनाशकम् ।
पुराणपुरुषं देवं देवदेवं जिनेश्वरम् ॥२६॥

विश्वनेत्रं जगद्वन्द्यं योगिनाथं महेश्वरम् ।
ज्योतिर्मयमनाद्यन्तं त्रातारं भुवनेश्वरम् ॥२७॥

योगीश्वरं तमीशानमादिदेवं जगद्गुरुम् ।
अनन्तमच्युतं शान्तं भास्वन्तं भूतनायकम् ॥२८॥

सन्मतिं सुगतं सिद्धं जगज्ज्येष्ठं पितामहम् ।
महावीरं मुनिश्रेष्ठं पवित्रं परमाक्षरम् ॥२९॥

सर्वज्ञं सर्वदं सार्वं वर्धमानं निरामयम् ।
नित्यमव्ययमव्यक्तं परिपूर्णं पुरातनम् ॥३०॥

इत्यादिसान्वयानेकपुण्यनामोपलक्षितम् ।
स्मर सर्वगतं देवं वीरममरनायकम् ॥३१॥

अनन्यशरणं साक्षात्तत्संलीनैकमानसः ।
तत्स्वरूपमवाप्नोति ध्यानी तन्मयतां गतः ॥३२॥

यमाराध्य शिवं प्राप्ता योगिनो जन्मनिस्पृहाः ।
यं स्मरन्त्यनिशं भव्याः शिवश्रीसंगमोत्सुकाः ॥३३॥

यस्य वागमृतस्यैकामासाद्य कणिकामपि ।
शाश्वते पथि तिष्टन्ति प्राणिनः प्रास्तकल्मषाः ॥३४॥

देवदेवः स ईशानो भव्याम्भोजैकभास्करः ।
ध्येयः सर्वात्मना वीरः निश्चलीकृत्य मानसम् ॥३५॥

तस्मिन्निरन्तराभ्यासवशात्संजातनिश्चलाः ।
सर्वावस्थासु पश्यन्ति तमेव परमेष्ठिनम् ॥३६॥

तदालम्ब्य परं ज्योतिस्तद्गुणग्रामरञ्जितः ।
अविक्षिप्तमना योगी तत्स्वरूपमुपाश्नुते ॥३७॥

इत्थं तद्भावनानन्दसुधास्यन्दाभिनन्दितः ।
न हि स्वप्नाद्यवस्थासु ध्यायन्प्रच्यवते मुनिः ॥३८॥

तस्य लोकत्रयैश्वर्यं ज्ञानराज्यं स्वभावजम् ।
ज्ञानत्रयजुषां मन्ये योगिनामप्यगोचरम् ॥३९॥

साक्षान्निर्विषयं कृत्वा साक्षं चेतः सुसंयमी ।
नियोजयत्यविश्रान्तं तस्मिन्नेव जगद्गुरौ ॥४०॥

तद्गुणग्रामसंलीनमानसस्तद्गताशयः ।
तद्भावभावितो योगी तन्मयत्वं प्रपद्यते ॥४१॥

यदाभ्यासवशात्तस्य तन्मयत्वं प्रजायते ।
तदात्मानमसौ ज्ञानी सर्वज्ञीभूतमीक्षते ॥४२॥

एष देवः स सर्वज्ञः सोऽहं तद्रूपतां गतः ।
तस्मात्स एव नान्योऽहं विश्वदर्शीति मन्यते ॥४३॥

भव्यतैव हि भूतानां साक्षान्मुक्तेर्निबन्धनम् ।
अतः सर्वज्ञता भव्ये भवन्ती नात्र शङ्क्यते ॥४४॥

अयमात्मा स्वसामर्थ्याद्विशुद्ध्यति न केवलम् ।
चालयत्यपि संक्रुद्धो भुवनानि चतुर्दश ॥४५॥

त्रैलोक्यानन्दबीजं जननजलनिधेर्यानपात्रं पवित्रं
लोकालोकप्रदीपं स्फुरदमलशरच्चन्द्रकोटिप्रभाढ्यम् ।
कस्यामप्यग्रकोटौ जगदखिलमतिक्रम्य लब्धप्रतिष्ठं
देवं विश्वैकनाथं शिवमजमनघं वीतरागं भजस्व ॥४६॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे रूपस्थधर्मध्यानवर्णनं नाम
एकोनचत्वारिशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १८: ‘पवित्रितधरापृष्टं’ छपा है; ‘पवित्रितधरापृष्ठं’ होना चाहिए
  • श्लोक ३४: ‘तिष्टन्ति’ छपा है; ‘तिष्ठन्ति’ होना चाहिए

सर्ग 40: रूपातीत ध्यान का वर्णन

वीतरागं स्मरन्योगी वीतरागो विमुच्यते ।
रागी सरागमालम्ब्य क्रूरकर्माश्रितो भवेत् ॥१॥

मन्त्रमण्डलमुद्रादिप्रयोगैर्ध्यातुमुद्यतः ।
सुरासुरनरव्रातं क्षोभयत्यखिलं क्षणात् ॥२॥

क्रुद्धस्याप्यस्य सामर्थ्यमचिन्त्यं त्रिदशैरपि ।
अनेकविक्रियासारध्यानमार्गावलम्बिनः ॥३॥

बहूनि कर्माणि मुनीप्रवीरैर्विद्यानुवादात्प्रकटीकृतानि ।
असंख्य भेदानि कुतूहलार्थं कुमार्गकुध्यानगतानि सन्ति ॥४॥

असावनन्तप्रथितप्रभावः स्वभावतो यद्यपि यन्त्रनाथः ।
नियुज्यमानः स पुनः समाधौ करोति विश्वं चरणाग्रलीनम् ॥५॥

स्वप्नेऽपि कौतुकेनापि नासद्ध्यानानि योगिभिः ।
सेव्यानि यान्ति बीजत्वं यतः सन्मार्गहानये ॥६॥

सन्मार्गात्प्रच्युतं चेतः पुनर्वर्षशतैरपि ।
शक्यते न हि केनापि व्यवस्थापयितुं पथि ॥७॥

असद्ध्यानानि जायन्ते स्वनाशायैव केवलम् ।
रागाद्यसद्ग्रहावेशात्कौतुकेन कृतान्यपि ॥८॥

निर्भरानन्दसन्दोहपदसंपादनक्षमम् ।
मुक्तिमार्गमतिक्रम्य कः कुमार्गे प्रवर्त्तते ॥९॥

क्षुद्रध्यानपरप्रपञ्चचतुरा रागानलोद्दीपिताः
मुद्रामण्डलयन्त्रमन्त्रकरणैराराधयन्त्यादृताः ।
कामक्रोधवशीकृतानिह सुरान् संसारसौख्यार्थिनो
दुष्टाशाभिहताः पतन्ति नरके भोगार्तिभिर्वञ्चिताः ॥१०॥

तद्ध्येयं तदनुष्ठेयं तद्विचिन्त्यं मनीषिभिः ।
यज्जीवकर्मसम्बन्धविश्लेषायैव जायते ॥११॥

स्वयमेव हि सिद्ध्यन्ति सिद्धयः शान्तचेतसाम् ।
अनेकफलसंपूर्णा मुक्तिमार्गावलम्बिनाम् ॥१२॥

संभवन्ति न चाभीष्टसिद्धयः क्षुद्रयोगिनाम् ।
भवत्येव पुनस्तेषां स्वार्थभ्रंशोऽनिवारितः ॥१३॥

भवप्रभवसम्बन्धनिरपेक्षा मुमुक्षवः ।
न हि स्वप्नेऽपि विक्षिप्तं मनः कुर्वन्ति योगिनः ॥१४॥

अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः ।
अमूर्त्तमजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥१५॥

चिदानन्दमयं शुद्धममूर्त्तं परमाक्षरम् ।
स्मरेद्यत्रात्मनात्मानं तद्रूपातीतमिष्यते ॥१६॥

वदन्ति योगिनो ध्यानं चित्तमेवमनाकुलम् ।
कथं शिवत्वमापन्नमात्मानं संस्मरेन्मुनिः ॥१७॥

विवेच्य तद्गुणग्रामं तत्स्वरूपं निरूप्य च ।
अनन्यशरणो ज्ञानी तस्मिन्नेव लयं व्रजेत् ॥१८॥

तद्गुणग्रामसम्पूर्णं तत्स्वभावैकभावितः ।
कृत्वात्मानं ततो ध्यानी योजयेत्परमात्मनि ॥१९॥

द्वयोर्गुणैर्मतं साम्यं व्यक्तिशक्तिव्यपेक्षया ।
विशुद्धेतरयोः स्वात्मतत्त्वयोः परमागमे ॥२०॥

यः प्रमाणनयैर्नूनं स्वतत्त्वमवबुद्ध्यते ।
बुद्ध्यते परमात्मानं स योगी वीतविभ्रमः ॥२१॥

व्योमाकारमनाकारं निष्पन्नं शान्तमच्युतम् ।
चरमाङ्गात्कियन्न्यूनं स्वप्रदेशैर्घनैः स्थितम् ॥२२॥

लोकाग्रशिखरासीनं शिवीभूतमनामयम् ।
पुरुषाकारमापन्नमप्यमूर्त्तं च चिन्तयेत् ॥२३॥

निष्कलस्य विशुद्धस्य निष्पन्नस्य जगद्गुरोः ।
चिदानन्दमयस्योच्चैः कथं स्यात्पुरुषाकृतिः ॥२४॥

विनिर्गतमधूच्छिष्टप्रतिमे मूषिकोदरे ।
यादृग्गगनसंस्थानं तदाकारं स्मरेद्विभुम् ॥२५॥

सर्वावयवसम्पूर्णं सर्वलक्षणलक्षितम् ।
विशुद्धादर्शसंक्रान्तप्रतिबिम्बसमप्रभम् ॥२६॥

इत्यसौ सन्तताभ्यासवशात्संजातनिश्चयः ।
अपि स्वप्नाद्यवस्थासु तमेवाध्यक्षमीक्षते ॥२७॥

सोऽहं सकलवित्सार्वः सिद्धः साध्यो भवच्युतः ।
परमात्मा परंज्योतिर्विश्वदर्शी निरञ्जनः ॥२८॥

तदासौ निश्चलोऽमूर्त्तो निष्कलङ्को जगद्गुरुः ।
चिन्मात्रो विस्फुरत्युच्चैर्ध्यानध्यातृविवर्जितः ॥२९॥

पृथग्भावमतिक्रम्य तथैक्यं परमात्मनि ।
प्राप्नोति स मुनिः साक्षाद्यथान्यत्वं न बुध्यते ॥३०॥

इतिविगतविकल्पं क्षीणरागादिदोषं विदितसकलवेद्यं त्यक्तविश्वप्रपञ्चम् ।
शिवमजमनवद्यं विश्वलोकैकनाथं परमपुरुषमुच्चैर्भावशुद्ध्या भजस्व ॥३१॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे रूपातीतध्यानवर्णनं नाम
चत्वारिंशं प्रकरणम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक ४: ‘मुनीप्रवीरैः’ छपा है; ‘मुनिप्रवीरैः’ होना चाहिए
  • श्लोक २१: ‘अवबुद्ध्यते’ छपा है; ‘अवबुध्यते’ होना चाहिए (इसी श्लोक के दूसरे चरण में भी ‘बुद्ध्यते’ के स्थान पर ‘बुध्यते’ होना चाहिए)

सर्ग 41: धर्मध्यान के फल का वर्णन

प्रसीद शान्तिं व्रज सन्निरुद्ध्यतां दुरन्तजन्मज्वरजिह्मितं मनः ।
अगाधजन्मार्णवपारवर्तिनां यदि श्रियं वाञ्छसि विश्वदर्शिनाम् ॥१॥

यदि रोद्धुं न शक्नोति तुच्छवीर्यो मुनिर्मनः ।
तदा रागेतरध्वंसं कृत्वा कुर्यात्सुनिश्चलम् ॥२॥

अनुप्रेक्षाश्च धर्मस्य स्युः सदैव निबन्धनम् ।
चित्तभूमौ स्थिरीकृत्य स्वस्वरूपं निरूपय ॥३॥

स्फोटयत्याशु निष्कम्पो यथा दीपो घनं तमः ।
तथा कर्मकलङ्कौघं मुनेर्ध्यानं सुनिश्चलम् ॥४॥

चलत्येवाल्पसत्त्वानां क्रियमाणमपि स्थिरम् ।
चेतः शरीरिणां शश्वद्विषयैर्व्याकुलीकृतम् ॥५॥

न स्वामित्वमतः शुक्ले विद्यतेऽत्यल्पचेतसाम् ।
आद्यसंहननस्यैव तत्प्रणीतं पुरातनैः ॥६॥

छिन्ने भिन्ने हते दग्धे देहे स्वमिव दूरगम् ।
प्रपश्यन् वर्षवातादिदुःखैरपि न कम्पते ॥७॥

न पश्यति तदा किञ्चिन्न शृणोति न जिघ्रति ।
स्पृष्टं किञ्चिन्न जानाति साक्षान्निर्वृत्तलेपवत् ॥८॥

आद्यसंहननोपेता निर्वेदपदवीं श्रिताः ।
कुर्वन्ति निश्चलं चेतः शुक्लध्यानक्षमं नराः ॥९॥

सामग्र्योरुभयोर्ध्यातुर्ध्यानं बाह्यान्तरङ्ग्योः ।
पूर्वयोरेव शुक्लं स्यान्नान्यथा जन्मकोटिषु ॥१०॥

अतिक्रम्य शरीरादिसङ्गा नात्मन्यवस्थितः ।
नैवाक्षमनसोर्योगं करोत्येकाग्रताश्रितः ॥११॥

असंख्येयमसंख्येयं सद्दृष्ट्यादिगुणेऽपि च ।
क्षीयते क्षपकस्यैव कर्मजातमनुक्रमात् ॥१२॥

शमकस्य क्रमात् कर्म शान्तिमायाति पूर्ववत् ।
प्राप्नोति निर्गतातङ्कः स सौख्यं शमलक्षणम् ॥१३॥

धर्मध्यानस्य विज्ञेया स्थितिरान्तर्मुहूर्त्तिकी ।
क्षयोपशमिको भावो लेश्या शुक्लैव शाश्वती ॥१४॥

इदमत्यन्तनिर्वेदविवेकप्रशमोद्भवम् ।
स्वात्मानुभवमत्यक्षं योजयत्यङ्गिनां सुखम् ॥१५॥

अथावसाने स्वतनुं विहाय ध्यानेन संन्यस्तसमस्तसङ्गाः ।
ग्रैवेयकानुत्तरपुण्यवासे सर्वार्थसिद्धौ च भवन्ति भव्याः ॥१६॥

तत्रात्यन्तमहाप्रभावकलितं लावण्यलीलान्वितं
स्रग्भूषाम्बरदिव्यलाञ्छनचितं चन्द्रावदातं वपुः ।
संप्राप्योन्नतवीर्यबोधसुभगं कामज्वरार्त्तिच्युतं
सेवन्ते विगतान्तरायमतुलं सौख्यं चिरं स्वर्गिणः ॥१७॥

ग्रैवेयकानुत्तरवासभाजां विचारहीनं सुखमत्युदारम् ।
निरन्तरं पुण्यपरम्पराभिर्विवर्द्धते वार्द्धिरिवेन्दुपादैः ॥१८॥

देवराज्यं समासाद्य यत्सुखं कल्पवासिनाम् ।
निर्विशन्ति ततोऽनन्तं सौख्यं कल्पातिवर्त्तिनः ॥१९॥

संभवन्त्यथ कल्पेषु तेष्वचिन्त्यविभूतिदम् ।
प्राप्नुवन्ति परं सौख्यं सुराः स्त्रीभोगलाञ्छितम् ॥२०॥

दशाङ्गभोगसम्भूतं महाष्टगुणवर्द्धितम् ।
यत्कल्पवासिनां सौख्यं तद्वक्तुं केन पार्यते ॥२१॥

सर्वद्वन्द्वविनिर्मुक्तं सर्वाभ्युदयभूषितम् ।
नित्योत्सवयुतं दिव्यं दिवि सौख्यं दिवौकसाम् ॥२२॥

प्रतिसमयमुदीर्णं स्वर्गसाम्राज्यरूढं सकलविषयबीजं स्वान्तदत्ताभिनन्दम् ।
ललितयुवतिलीलालिङ्गनादिप्रसूतं सुखमतुलमुदारं स्वर्गिणो निर्विशन्ति ॥२३॥

सर्वाभिमतभावोत्थं निर्विघ्नं स्वःसुखामृतम् ।
सेव्यमाना न बुद्ध्यन्ते गतं जन्म दिवौकसः ॥२४॥

तस्माच्च्युत्वा त्रिदिवपटलाद्दिव्यभोगावसाने
कुर्वन्त्यस्यां भुवि नरनुते पुण्यवंशेऽवतारम् ।
तत्रैश्वर्यं परमवपुषं प्राप्य देवोपनीतै-
र्भोगैर्नित्योत्सवपरिणतैर्लाल्यमाना वसन्ति ॥२५॥

ततो विवेकमालम्ब्य विरज्य जननभ्रमात् ।
त्रिरत्नशुद्धिमासाद्य तपः कृत्वान्यदुष्करम् ॥२६॥

धर्मध्यानं च शुक्लं च स्वीकृत्य निजवीर्यतः ।
कृत्स्नकर्मक्षयं कृत्वा व्रजन्ति पदमव्ययम् ॥२७॥

इति श्रीशुभचंद्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे धर्मध्यानफलवर्णनं नामैकचत्वारिंशं प्रकरणं ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १०: ‘बाह्यान्तरङ्ग्योः’ छपा है; ‘बाह्यान्तरङ्गयोः’ होना चाहिए

सर्ग 42: शुक्लध्यान का वर्णन

रागाद्युग्ररुजाकलापकलितं सन्देहलोलायितं
विक्षिप्तं सकलेन्द्रियार्थगहने कृत्वा मनो निश्चलम् ।
संसारव्यसनप्रबन्धविलयं मुक्तेर्विनोदास्पदं
धर्मध्यानमिदं विदन्तु निपुणां अत्यक्षसौख्यार्थिनः ॥१॥

आत्मार्थं श्रय मुञ्च मोहगहनं मित्रं विवेकं कुरु
वैराग्यं भज भावयस्व नियतं भेदं शरीरात्मनोः ।
धर्मध्यानसुधासमुद्रकुहरे कृत्वावगाहं परं
पश्यानन्तसुखस्वभावकलितं मुक्तेर्मुखाम्भोरुहम् ॥२॥

अथ धर्ममतिक्रान्तः शुद्धिं चात्यन्तिकीं श्रितः ।
ध्यातुमारभते वीरः शुक्लमत्यन्तनिर्मलम् ॥३॥

निष्क्रियं करणातीतं ध्यानधारणवर्जितम् ।
अन्तर्मुखं च यच्चित्तं तच्छुक्लमिति पठ्यते ॥४॥

आदिसंहननोपेतः पूर्वज्ञः पुण्यचेष्टितः ।
चतुर्विधमपि ध्यानं स शुक्लं ध्यातुमर्हति ॥५॥

कषायमलविश्लेषात्प्रशमाद्वा प्रसूयते ।
यतः पुंसामतस्तज्ज्ञैः शुक्लमुक्तं निरुक्तिकम् ॥६॥

छद्मस्थयोगिनामाद्ये द्वे तु शुक्ले प्रकीर्त्तिते ।
द्वे त्वन्त्ये क्षीणदोषाणां केवलज्ञानचक्षुषाम् ॥७॥

श्रुतज्ञानार्थसम्बन्धाच्छ्रुतालम्बनपूर्वके ।
पूर्वे परे जिनेन्द्रस्य निःशेषालम्बनच्युते ॥८॥

सवितर्कं सवीचारं सपृथक्त्वं च कीर्त्तितम् ।
शुक्लमाद्यं द्वितीयं तु विपर्यस्तमतोऽपरम् ॥९॥

सवितर्कमवीचारमेकत्वपदलाञ्छितम् ।
कीर्तितं मुनिभिः शुक्लं द्वितीयमतिनिर्मलम् ॥१०॥

सूक्ष्मक्रियाप्रतीपाति तृतीयं सार्थनामकम् ।
समुच्छिन्नक्रियं ध्यानं तुर्यमार्यैर्निवेदितम् ॥११॥

तत्र त्रियोगिनामाद्यं द्वितीयं त्वेकयोगिनाम् ।
तृतीयं तनुयोगानां स्यात्तुरीयमयोगिनाम् ॥१२॥

पृथक्त्वेन वितर्कस्य वीचारो यत्र विद्यते ।
सवितर्कं सवीचारं सपृथक्त्वं तदिष्यते ॥१३॥

अवीचारो वितर्कस्य यत्रैकत्वेन संस्थितः ।
सवितर्कमवीचारं तदेकत्वं विदुर्बुधाः ॥१४॥

पृथक्त्वं तत्र नानात्वं वितर्कः श्रुतमुच्यते ।
अर्थव्यञ्जनयोगानां वीचारः संक्रमः स्मृतः ॥१५॥

अर्थादर्थान्तरापत्तिरर्थसंक्रान्तिरिष्यते ।
ज्ञेया व्यञ्जनसंक्रान्तिर्व्यञ्जनाद्व्यञ्जने स्थितिः ॥१६॥

स्यादियं योगसंक्रांतिर्योगाद्योगान्तरे गतिः ।
विशुद्धध्यानसामर्थ्यात्क्षीणमोहस्य योगिनः ॥१७॥

अर्थादिषु यथा ध्यानी संक्रामत्यविलम्बितम् ।
पुनर्व्यावर्त्तते तेन प्रकारेण स हि स्वयम् ॥१८॥

त्रियोगी पूर्वविद्यः स्यादिदं ध्यायत्यसौ मुनिः ।
सवितर्कं सवीचारं सपृथक्त्वमतो मतम् ॥१९॥

अस्याचिन्त्यप्रभावस्य सामर्थ्यात्स प्रशान्तधीः ।
मोहमुन्मूलयत्येव शमयत्यथवा क्षणे ॥२०॥

शब्दाच्छब्दान्तरं यायाद्योगं योगान्तरादपि ।
सवीचारमिदं तस्मात्सवितर्कं च लक्ष्यते ॥२१॥

श्रुतस्कन्धमहासिन्धुमवगाह्य महामुनिः ।
ध्यायेत्पृथक्त्ववितर्कवीचारं ध्यानमग्रिमम् ॥२२॥

एवं शान्तकषायात्मा कर्मकक्षाशुशुक्षणिः ।
एकत्वध्यानयोग्यः स्यात्पृथक्त्वेन जिताशयः ॥२३॥

पृथक्त्वे तु यदा ध्यानी भवत्यमलमानसः ।
तदैकत्वस्य योग्यः स्यादाविर्भूतात्मविक्रमः ॥२४॥

ज्ञेयं प्रक्षीणमोहस्य पूर्वज्ञस्यामितद्युतेः ।
सवितर्कमिदं ध्यानमेकत्वमतिनिश्चलम् ॥२५॥

अपृथक्त्वमवीचारं सवितर्कं च योगिनः ।
एकत्वमेकयोगस्य जायतेऽत्यन्तनिर्मलम् ॥२६॥

द्रव्यं चैकमणुं चैकं पर्यायं चैकमश्रमः ।
चिन्तयत्येकयोगेन यत्रैकत्वं तदुच्यते ॥२७॥

अस्मिन् सुनिर्मलध्यानहुताशे प्रविजृम्भिते ।
विलीयन्ते क्षणादेव घातिकर्माणि योगिनः ॥२८॥

दृग्बोधरोधकद्वन्द्वं मोहविघ्नस्य वा परम् ।
स क्षिणोति क्षणादेव शुक्लधूमध्वजार्चिषा ॥२९॥

आत्मलाभमथासाद्य शुद्धिं चात्यन्तिकीं पराम् ।
प्राप्नोति केवलज्ञानं तथा केवलदर्शनम् ॥३०॥

अलब्धपूर्वमासाद्य तदासौ ज्ञानदर्शने ।
वेत्ति पश्यति निःशेषं लोकालोकं यथास्थितम् ॥३१॥

तदा स भगवान् देवः सर्वज्ञः सर्वदोदितः ।
अनन्तसुखवीर्यादिभूतेः स्यादग्रिमं पदम् ॥३२॥

इन्द्रचन्द्रार्कभोगीन्द्रनरामरनतक्रमः ।
विहरत्यवनीपृष्ठं स शीलैश्वर्यलाञ्छितः ॥३३॥

उन्मूलयति मिथ्यात्वं द्रव्यभावमलं विभुः ।
बोधयत्यपि निःशेषं भव्यराजीवमण्डलम् ॥३४॥

ज्ञानलक्ष्मीं तपोलक्ष्मीं लक्ष्मीं त्रिदशयोजिताम् ।
आत्यन्तिकीं च सम्प्राप्य धर्मचक्राधिपो भवेत् ॥३५॥

कल्याणविभवं श्रीमान् सर्वाभ्युदयसूचकम् ।
समासाद्य जगद्वन्द्यं त्रैलोक्याधिपतिर्भवेत् ॥३६॥

तन्नामग्रहणादेव निःशेषा जन्मजा रुजः ।
अप्यनादिसमुद्भूता भव्यानां यान्ति लाघवम् ॥३७॥

तदार्हत्त्वं परिप्राप्य स देवः सर्वगः शिवः ।
जायतेऽखिलकर्मौघजरामरणवर्जितः ॥३८॥

तस्यैव परमैश्वर्यं चरणज्ञानवैभवम् ।
ज्ञातुं वक्तुमहं मन्ये योगिनामप्यगोचरम् ॥३९॥

मोहेन सह दुर्द्धर्षे हते घातिचतुष्टये ।
देवस्य व्यक्तिरूपेण शेषमास्ते चतुष्टयम् ॥४०॥

सर्वज्ञः क्षीणकर्मासौ केवलज्ञानभास्करः ।
अन्तर्मुहूर्त्तशेषायुस्तृतीयं ध्यानमर्हति ॥४१॥

षण्मासायुषि शेषे संवृत्ता ये जिनाः प्रकर्षेण ।
ते यान्ति समुद्घातं शेषा भाज्याः समुद्घाते ॥४२॥

यदायुरधिकानि स्युः कर्माणि परमेष्ठिनः ।
समुद्घातविधिं साक्षात्प्रागेवारभते तदा ॥४३॥

अनन्तवीर्यप्रथितप्रभावो दण्डं कपाटं प्रतरं विधाय ।
स लोकमेनं समयैश्चतुर्भिर्निश्शेषमापूरयति क्रमेण ॥४४॥

तदा स सर्वगः सार्वः सर्वज्ञः सर्वतोमुखः ।
विश्वव्यापी विभुर्भर्त्ता विश्वमूर्त्तिर्महेश्वरः ॥४५॥

लोकपूरणमासाद्य करोति ध्यानवीर्यतः ।
आयुःसमानि कर्माणि भुक्तिमानीय तत्क्षणे ॥४६॥

ततः क्रमेण तेनैव स पश्चाद्विनिवर्त्तते ।
लोकपूरणतः श्रीमान् चतुर्भिः समयैः पुनः ॥४७॥

काययोगे स्थितिं कृत्वा बादरेऽचिन्त्यचेष्टितः ।
सूक्ष्मीकरोति वाक्चित्तयोगयुग्मं स बादरम् ॥४८॥

काययोगं ततस्त्यक्त्वा स्थितिमासाद्य तद्द्वये ।
स सूक्ष्मीकुरुते पश्चात् काययोगं च बादरम् ॥४९॥

काययोगे ततः सूक्ष्मे स्थितिं कृत्वा पुनः क्षणात् ।
योगद्वयं निगृह्णाति सद्यो वाक्चित्तसंज्ञकम् ॥५०॥

सूक्ष्मक्रियं ततो ध्यानं स साक्षात् ध्यातुमर्हति ।
सूक्ष्मैककाययोगस्थस्तृतीयं यद्धि पठ्यते ॥५१॥

द्वासप्ततिर्विलीयन्ते कर्मप्रकृतयो द्रुतम् ।
उपान्त्ये देवदेवस्य मुक्तिश्रीप्रतिबन्धकाः ॥५२॥

तस्मिन्नेव क्षणे साक्षादाविर्भवति निर्मलम् ।
समुच्छिन्नक्रियं ध्यानमयोगिपरमेष्ठिनः ॥५३॥

विलयं वीतरागस्य पुनर्यान्ति त्रयोदश ।
चरमे समये सद्यः पर्यन्ते या व्यवस्थिताः ॥५४॥

तदासौ निर्मलः शान्तो निष्कलङ्को निरामयः ।
जन्मजानेकदुर्वारबन्धव्यसनविच्युतः ॥५५॥

सिद्धात्मा सुप्रसिद्धात्मा निष्पन्नात्मा निरञ्जनः ।
निष्क्रियो निष्कलः शुद्धो निर्विकल्पोऽतिनिर्मलः ॥५६॥

आविर्भूतयथाख्यातचरणोऽनन्तवीर्यवान् ।
परां शुद्धिं परिप्राप्तो दृष्टेर्बोधस्य चात्मनः ॥५७॥

अयोगी त्यक्तयोगत्वात्केवलोत्पादनिर्वृतः ।
साधितात्मस्वभावश्च परमेष्ठी परं प्रभुः ॥५८॥

लघुपञ्चाक्षरोच्चारकालं स्थित्वा ततः परम् ।
स स्वभावाद्व्रजत्यूर्ध्वं शुद्धात्मा वीतबन्धनः ॥५९॥

अवरोधविनिर्मुक्तं लोकाग्रं समये प्रभुः ।
धर्माभावे ततोऽप्यूर्ध्वगमनं नानुमीयते ॥६०॥

धर्मो गतिस्वभावोऽयमधर्मः स्थितिलक्षणः ।
तयोर्योगात्पदार्थानां गतिस्थिती उदाहृते ॥६१॥

तौ लोकगमनान्तस्थौ ततो लोके गतिस्थिती ।
अर्थानां न तु लोकान्तमतिक्रम्य प्रवर्त्तते ॥६२॥

स्थितिमासाद्य सिद्धात्मा तत्र लोकाग्रमन्दिरे ।
आस्ते स्वभावजानन्तगुणैश्वर्योपलक्षितः ॥६३॥

आत्यन्तिकं निराबाधमत्यक्षं स्वस्वभावजम् ।
यत्सुखं देवदेवस्य तद्वक्तुं केन पार्यते ॥६४॥

तथाप्युद्देशतः किञ्चिद् ब्रवीमि सुखलक्षणम् ।
निष्ठितार्थस्य सिद्धस्य सर्वद्वन्द्वातिवर्त्तिनः ॥६५॥

ये देवमनुजाः सर्वे सौख्यमक्षार्थसम्भवम् ।
निर्विशन्ति निराबाधं सर्वाक्षप्रीणनक्षमम् ॥६६॥

सर्वेणातीतकालेन यच्च भुक्तं महर्द्धिकम् ।
भाविनो यच्च भोक्ष्यन्ति स्वादिष्टं स्वान्तरञ्जकम् ॥६७॥

अनन्तगुणितं तस्मादत्यक्षं स्वस्वभावजम् ।
एकस्मिन् समये भुङ्क्ते तत्सुखं परमेश्वरः ॥६८॥

त्रिकालविषयाशेषद्रव्यपर्यायसंकुलम् ।
जगत्स्फुरति बोधार्के युगपद्योगिनां पतेः ॥६९॥

सर्वतोऽनन्तमाकाशं लोकेतरविकल्पितम् ।
तस्मिन्नपि घनीभूय यस्य ज्ञानं व्यवस्थितम् ॥७०॥

निद्रातन्द्राभयभ्रान्तिरागद्वेषार्त्तिसंशयैः ।
शोकमोहजराजन्ममरणाद्यैश्च विच्युतः ॥७१॥

क्षुत्तृट्श्रममदोन्मादमूर्च्छामात्सर्यवर्जितः ।
वृद्धिह्रासव्यतीतात्मा कल्पनातीतवैभवः ॥७२॥

निष्कलः करणातीतो निर्विकल्पो निरञ्जनः ।
अनन्तवीर्यतापन्नो नित्यानन्दाभिनन्दितः ॥७३॥

परमेष्ठी परंज्योतिः परिपूर्णः सनातनः ।
संसारसागरोत्तीर्णः कृतकृत्योऽचलस्थितिः ॥७४॥

संतृप्तः सर्वदैवास्ते देवस्त्रैलोक्यमूर्द्धनि ।
नोपमेयं सुखादीनां विद्यते परमेष्ठिनः ॥७५॥

चरस्थिरार्थसम्पूर्णे मृग्यमाणं जगत्त्रये ।
उपमानोपमेयत्वं मन्ये स्वस्यैव स स्वयम् ॥७६॥

यतोऽनन्तगुणानां स्यादनन्तांशोऽपि कस्यचित् ।
ततो न शक्यते कर्तुं तेन साम्यं जगत्त्रये ॥७७॥

शक्यते न यथा ज्ञातुं पर्यन्तं व्योमकालयोः ।
तथा स्वभावजातानां गुणानां परमेष्ठिनः ॥७८॥

गगनघनपतङ्गाहीन्द्रचन्द्राचलेन्द्र-क्षितिदहनसमीराम्भोधिकल्पद्रुमाणाम् ।
निचयमपि समस्तं चिन्त्यमानं गुणानां परमगुरुगुणौघैर्नोपमानत्वमेति ॥७९॥

नासत्पूर्वाश्च पूर्वा नो निर्विशेषविकारजाः ।
स्वाभाविकविशेषा ह्यभूतपूर्वाश्च तद्गुणाः ॥८०॥

वाक्पथातीतमाहात्म्यमनन्तज्ञानवैभवम् ।
सिद्धात्मनां गुणग्रामं सर्वज्ञज्ञानगोचरम् ॥८१॥

स स्वयं यदि सर्वज्ञः सम्यग्ब्रूते समाहितः ।
तथाप्येति न पर्यन्तं गुणानां परमेष्ठिनः ॥८२॥

त्रैलोक्यतिलकीभूतं निःशेषविषयच्युतम् ।
निर्द्वन्द्वं नित्यमत्यक्षं स्वादिष्टं स्वस्वभावजम् ॥८३॥

निरौपम्यमविच्छिन्नं स देवः परमेश्वरः ।
तत्रैवास्ते स्थिरीभूतः पिबन् ज्ञानसुखामृतम् ॥८४॥

देवः सोऽनन्तवीर्यो दृगवगमसुखानर्घ्यरत्नावकीर्णः ।
श्रीमाँस्त्रैलोक्यमूर्ध्नि प्रतिवसति भवध्वान्तविध्वंसभानुः
स्वात्मोत्थानन्तनित्यप्रवरशिवसुधाम्भोधिमग्नः स देवः ।
सिद्धात्मा निर्विकल्पोऽप्रतिहतमहिमा शश्वदानन्दधामा ॥८५॥

इति कतिपयवरवर्णैर्ध्यानफलं कीर्तितं समासेन ।
निःशेषं यदि वक्तुं प्रभवति देवः स्वयं वीरः ॥८६॥

इति जिनपतिसूत्रात्सारमुद्धृत्य किञ्चित्
स्वमतिविभवयोग्यं ध्यानशास्त्रं प्रणीतम् ।
विबुधमुनिमनीषाम्भोधिचन्द्रायमाणं
चरतु भुवि विभूत्यै यावदद्रीन्द्रचन्द्रौ ॥८७॥

ज्ञानार्णवस्य माहात्म्यं चित्ते को वेत्ति तत्त्वतः ।
यज्ज्ञानात्तीर्यते भव्यैर्दुस्तरोऽपि भवार्णवः ॥८८॥

इति श्रीशुभचन्द्राचार्यविरचिते योगप्रदीपाधिकारे ज्ञानार्णवे शुक्लध्यानवर्णनं नाम
द्विचत्वारिंशं प्रकरणं समाप्तम् ॥


टिप्पणी (पाठ ग्रंथ में जैसा छपा है वैसा ही रखा है):

  • श्लोक १: ‘निपुणां’ छपा है; ‘निपुणा’ होना चाहिए