आप्तपरीक्षा मूल कारिका (आचार्य विद्यानन्द) | Aptapariksha Mool Karika (Acharya Vidyanand)

आप्तपरीक्षा मूल कारिका

आचार्य विद्यानन्द

आचार्य विद्यानन्द कृत आप्तपरीक्षा की संस्कृत मूल कारिकाएँ 1 से 124, क्रम से। पाठ संलग्न ग्रंथ (प्रो. वीरसागर जैन) के अनुसार है और पुस्तक की कारिकानुक्रमणिका से मिलाया है; जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस भाग के नीचे टिप्पणी दी।

स्रोत: आप्त परीक्षा.pdf

आप्त परीक्षा.pdf (8195 KB)

कारिकाएँ और हर कारिका का अर्थ साथ में: आप्तपरीक्षा कारिका एवं अर्थ (आचार्य विद्यानन्द) | Aptapariksha Karika Evam Arth (Acharya Vidyanand)


कारिका 1 से 31

प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने ।
नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभेदिने ॥1॥

श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः ।
इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥2॥

मोक्षमार्गस्य नेतारं भेत्तारं कर्म्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥3॥

इत्यसाधारणं प्रोक्तं विशेषणमशेषतः ।
परसङ्कल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥4॥

अन्ययोगव्यवच्छेदान्निश्चिते हि महात्मनि ।
तस्योपदेशसामर्थ्यादनुष्ठानं प्रतिष्ठितम् ॥5॥

तत्रासिद्धं मुनीन्द्रस्य भेतृत्वं कर्मभूभृताम् ।
ये वदन्ति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥6॥

प्रसिद्धः सर्वशास्त्रज्ञस्तेषां तावत्प्रमाणतः ।
सदा विध्वस्तनिःशेषबाधकात्स्वसुखादिवत् ॥7॥

ज्ञाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृताम् ।
भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥8॥

नास्पृष्टः कर्म्मभिः शश्वद्विश्वदृश्वास्ति कश्चन ।
तस्यानुपायसिद्धस्य सर्वथानुपपत्तितः ॥9॥

प्रणीतिर्मोक्षमार्गस्य न विनाऽनादिसिद्धितः ।
सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥10॥

प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् ।
सशरीरस्तु नाकर्म्मा सम्भवत्यज्ञजन्तुवत् ॥11॥

न चेच्छाशक्तिरीशस्य कर्म्माभावेऽपि युज्यते ।
तदिच्छा वानभिव्यक्ता क्रियाहेतुः कुतोऽज्ञवत् ॥12॥

ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल ।
सदेश्वर इति ख्यानेऽनुमानमनिदर्शनम् ॥13॥

समीहामन्तरेणापि यथा वक्ति जिनेश्वरः ।
तथेश्वरोऽपि कार्य्याणि कुर्य्यादित्यप्यपेशलम् ॥14॥

सति धर्म्मविशेषे हि तीर्थकृत्त्वसमाह्वये ।
ब्रूयाज्जिनश्वरो मार्ग न ज्ञानादेव केवलात् ॥15॥

सिद्धस्यापास्तनिःशेषकर्म्मणो वागसम्भवात् ।
विना तीर्थकरत्वेन नाम्ना नार्थोपदेशता ॥16॥

तथा धर्म्मविशेषोऽस्य योगश्च यदि शाश्वतः ।
तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥17॥

निग्रहानुग्रहौ देहं स्वं निर्म्मायान्यदेहिनाम् ।
करोतीश्वर इत्येतन्न परीक्षाक्षमं वचः ॥18॥

देहान्तराद्विना तावत्स्वदेहं जनयेद्यदि ।
तदा प्रकृतकार्य्येऽपि देहाधानमनर्थकम् ॥19॥

देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः ।
तथा च प्रकृतं कार्य्यं कुर्य्यादीशो न जातुचित् ॥20॥

स्वयं देहाविधाने तु तेनैव व्यभिचारिता ।
कार्य्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥21॥

यथानीशः स्वदेहस्य कर्ता देहान्तरान्मतः ।
पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥22॥

तथेशस्यापि पूर्वस्माद्देहाद्देहान्तरोद्भवात् ।
नानवस्थेति यो ब्रूयात्तस्यानीशत्वमीशितुः ॥23॥

अनीशः कर्म्मदेहेनानादिसन्तानवर्तिना ।
यथैव हि सकर्म्मा नस्तद्वन्न कथमीश्वरः ॥24॥

ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषङ्गतः ।
नापि धर्म्मविशेषोऽस्य देहाभावे विरोधतः ॥25॥

येनेच्छामन्तरेणापि तस्य कार्ये प्रवर्तनम् ।
जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥26॥

ज्ञानमीशस्य नित्यं चेदशरीरस्य न क्रमः ।
कार्य्याणामक्रमाद्धेतोः कार्यक्रमविरोधतः ॥27॥

तद्बोधस्य प्रमाणत्वे फलाभावः प्रसज्यते ।
ततः फलावबोधस्येष्टौ च स्वस्य मतक्षतिः ॥28॥

फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् ।
ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥29॥

अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता ।
कार्यत्वादेर्महेशेनाकरणेऽस्य स्वबुद्धितः ॥30॥

बुद्ध्यन्तरेण तद्बुद्धेः करणे चानवस्थितिः ।
नानादिसन्ततिर्युक्ता कर्म्मसन्तानतो विना ॥31॥


टिप्पणी: कारिका 15 में पुस्तक में “जिनश्वरो मार्ग” छपा है; शुद्ध रूप “जिनेश्वरो मार्गं” होना चाहिए (पुस्तक की कारिकानुक्रमणिका में भी “सति धर्मविशेषे हि”)।

कारिका 32 से 62

अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथम् ।
सकृत्सर्वत्र कार्य्याणामुत्पत्तिर्घटते ततः ॥32॥

यद्येकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् ।
तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥33॥

कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि ।
कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥34॥

सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः ।
अन्वयस्यापि सन्देहात्कार्य्यं तद्धेतुकं कथम् ॥35॥

एतेनैवेश्वरज्ञानं व्यापि नित्यमपाकृतम् ।
तस्येशवत्सदा कार्य्यक्रमहेतुत्वहानितः ॥36॥

अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते ।
तदा सर्वज्ञता न स्यात्स्वज्ञानस्याप्रवेदनात् ॥37॥

ज्ञानान्तरेण तद्वित्तौ तस्याप्यन्येन वेदनम् ।
वेदनेन भवेदेवमनवस्था महीयसी ॥38॥

गत्वा सुदूरमप्येवं स्वसंविदितवेदने ।
इष्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥39॥

तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् ।
कथं तस्येति निर्देश्यमाकाशादिवदञ्जसा ॥40॥

समवायेन तस्यापि तद्भिन्नस्य कुतो गतिः ।
इहेदमिति विज्ञानादबाध्याद्व्यभिचारि तत् ॥41॥

इह कुण्डे दधीत्यादिविज्ञानेन स विद्विषा ।
साध्ये सम्बन्धमात्रे तु परेषां सिद्धसाधनम् ॥42॥

सत्यामयुतसिद्धौ चेन्नेदं साधु विशेषणम् ।
शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥43॥

द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः ।
लौकिक्ययुतसिद्धिस्तु भवेद्दुग्धाम्भसोरपि ॥44॥

पृथगाश्रयवृत्तित्वं युतसिद्धिर्न चानयोः ।
सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥45॥

ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः ।
इति येऽपि समादध्युस्तांश्च पर्य्यनुयुंजमहे ॥46॥

विभुद्रव्यविशेषाणामन्याश्रयविवेकतः ।
युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥47॥

समवायः प्रसज्येताऽयुतसिद्धौ परस्परम् ।
तेषां तद्द्वितयासत्त्वे स्याद्व्याघातो दुरुत्तरः ॥48॥

युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे ।
विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥49॥

ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणम् ।
हेतोर्विपक्षतस्तावत्व्यवच्छेदं न साधयेत् ॥50॥

सिद्धेऽपि समवायस्य समवायिषु दर्शनात् ।
इहेदमिति संवित्तेः साधनं व्यभिचारि तत् ॥51॥

समवायान्तराद्वृत्तौ समवायस्य तत्त्वतः ।
समवायिषु तस्यापि परस्मादित्यनिष्ठितिः ॥52॥

तदबाधास्तीत्यबाधत्वं नाम नेह विशेषणम् ।
हेतोः सिद्धमनेकान्तो यतोऽनेनेति ये विदुः ॥53॥

तेषामिहेति विज्ञानाद्विशेषणविशेष्यता ।
समवायस्य तद्वत्सु तत एव न सिद्ध्यति ॥54॥

विशेषणविशेष्यत्वसम्बन्धोऽप्यन्यतो यदि ।
स्वसम्बन्धिषु वर्तेत तदा बाधाऽनवस्थितिः ॥55॥

विशेषणविशेष्यत्वप्रत्ययादवगम्यते ।
विशेषणविशेष्यत्वमित्यप्येतेन दूषितम् ॥56॥

तस्यानन्त्यात्प्रपत्तृणामाकांक्षाक्षयतोऽपि वा ।
न दोष इति चेदेवं समवायादिनाऽपि किम् ॥57॥

गुणादिद्रव्ययोर्भिन्नद्रव्ययोश्च परस्परम् ।
विशेषणविशेष्यत्वसम्बन्धोऽस्तु निरङ्कुशः ॥58॥

संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा ।
स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥59॥

स्वतंत्रस्य कथं तावदाश्रितत्वं स्वयं मतम् ।
तस्याश्रितत्ववचने स्वातत्र्यं प्रतिहन्यते ॥60॥

समवायिषु सत्स्वेव समवायस्य वेदनात् ।
आश्रितत्वे दिगादीनां मूर्त्तद्रव्याश्रितिर्न किम् ॥61॥

कथं चानाश्रितः सिद्ध्येत्सम्बन्धः सर्वथा क्वचित् ।
स्वसम्बन्धिषु येनातः सम्भवेन्नियतस्थितिः ॥62॥


टिप्पणी: कारिका 50 में “तावत्व्यवच्छेदं” छपा है; संधि से “तावद्व्यवच्छेदं” होना चाहिए।

टिप्पणी: कारिका 60 में “स्वातत्र्यं” छपा है; शुद्ध रूप “स्वातन्त्र्यं” है।

कारिका 63 से 93

एक एव च सर्वत्र समवायो यदीष्यते ।
तदा महेश्वरे ज्ञानं समवैति न खे कथम् ॥63॥

इहेति प्रत्ययोऽप्येष शङ्करे न तु खादिषु ।
इति भेदः कथं सिद्ध्येन्नियामकमपश्यतः ॥64॥

न चाचेतनता नत्र सम्भाव्येत नियामिका ।
शम्भावपि तदास्थानात्खादेस्तदविशेषतः ॥65॥

नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलम् ।
समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥66॥

नायमात्मा न चानात्मा स्वात्मत्वसमवायतः ।
सदात्मैवेति चेदेवं द्रव्यमेव स्वतोऽसिधत् ॥67॥

नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः ।
सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः ॥68॥

न स्वतः सदसन्नापि सत्त्वेन समवायतः ।
सन्नेव शश्वदित्युक्तौ व्याघातः केन वार्यते ॥69॥

स्वरूपेणासतः सत्त्वसमवाये च खाम्बुजे ।
स स्यात्किन्न विशेषस्याभावात्तस्य ततोऽञ्जसा ॥70॥

स्वरूपेण सतः सत्त्वसमवायेऽपि सर्वदा ।
सामान्यादौ भवेत्सत्त्वसमवायोऽविशेषतः ॥71॥

स्वतः सतो यथा सत्त्वसमवायस्तथास्तु सः ।
द्रव्यत्वात्मत्वबोद्धृत्वसमवायोऽपि तत्त्वतः ॥72॥

द्रव्यस्यैवात्मनो बोद्धुः स्वयं सिद्धस्य सर्वदा ।
न हि स्वतोऽतथाभूतस्तथात्वसमवायभाक् ॥73॥

स्वयं ज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकम् ।
ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनम् ॥74॥

तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः ।
कथंचिदीश्वरस्यास्ति जिनेशत्वमसंशयम् ॥75॥

स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते ।
सदेहः सर्वविन्नष्टमोहो धर्म्मविशेषभाक् ॥76॥

ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते ।
शिवः कर्त्तोपदेशस्य सोऽभेत्ता कर्म्मभूभृताम् ॥77॥

एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः ।
ज्ञानादर्थान्तरत्वस्याविशेषात्सर्वथा स्वतः ॥78॥

ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः ।
व्योमवच्चेतनस्यापि नोपपद्येत मुक्तवत् ॥79॥

प्रधानं ज्ञत्वतो मोक्षमार्गस्यास्तूपदेशकम् ।
तस्यैव विश्ववेदित्वाद्भेतृत्वात्कर्म्मभूभृताम् ॥80॥

इत्यसम्भाव्यमेवास्याचेतनत्वात्पटादिवत् ।
तदसम्भवतो नूनमन्यथा निष्फलः पुमान् ॥81॥

भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधतः ।
विरोधे तु तयोर्भोक्तुः स्याद्भुजौ कर्तृता कथम् ॥82॥

प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् ।
मुमुक्षुभिरिति ब्रूयात्कोऽन्योऽकिञ्चित्करात्मनः ॥83॥

सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः ।
विश्वतत्त्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥84॥

संवृत्या विश्वतत्त्वज्ञः श्रेयोमार्गोपदेश्यपि ।
बुद्धो वन्द्यो न तु स्वप्नस्तादृगित्यज्ञचेष्टितम् ॥85॥

यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् ।
सिद्ध्येत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥86॥

सोऽर्हन्नेव मुनीन्द्राणां वन्द्यः समवतिष्ठते ।
तत्सद्भावे प्रमाणस्य निर्बाधस्य विनिश्चयात् ॥87॥

ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यर्हतोऽञ्जसा ।
प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥88॥

हेतोर्न व्यभिचारोऽत्र दूरार्थैर्मन्दरादिभिः ।
सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥89॥

तत्त्वान्यन्तरितानीह देशकालस्वभावतः ।
धर्म्मादीनि हि साध्यन्ते प्रत्यक्षाणि जिनेशिनः ॥90॥

न चास्मादृक्समक्षाणामेवमर्हत्समक्षता ।
न सिद्ध्येदिति मन्तव्यमविवादाद्द्वयोरपि ॥91॥

न चासिद्धं प्रमेयत्वं कार्त्स्नतो भागतोऽपि वा ।
सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥92॥

यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्य्यते ।
इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥93॥


टिप्पणी: कारिका 65 में “नत्र” छपा है; “तत्र” होना चाहिए (कारिकानुक्रमणिका में “न चाचेतनता तत्र”)।

टिप्पणी: कारिका 92 में “कार्त्स्नतो” छपा है; प्रचलित पाठ “कार्त्स्न्यतो” है।

कारिका 94 से 124

चोदनातश्च निःशेषपदार्थज्ञानसम्भवे ।
सिद्धमन्तरितार्थानां प्रमेयत्वं समक्षवत् ॥94॥

यन्नार्हतः समक्षं तन्न प्रमेयं बहिर्गतः ।
मिथ्यैकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः ॥95॥

सुनिश्चितान्वयाद्धेतोः प्रसिद्धव्यतिरेकतः ।
ज्ञाताऽर्हन् विश्वतत्त्वानामेवं सिद्ध्येदबाधितः ॥96॥

प्रत्यक्षमपरिच्छिन्दत्त्रिकालं भुवनत्रयम् ।
रहितं विश्वतत्त्वज्ञैर्न हि तद्बाधकं भवेत् ॥97॥

नानुमानोपमानार्थापत्त्यागमबलादपि ।
विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥98॥

नार्हन्निःशेषतत्त्वज्ञो वक्तृत्वपुरुषत्वतः ।
ब्रह्मादिवदिति प्रोक्तमनुमानं न बाधकम् ॥99॥

हेतोरस्य विपक्षेण विरोधाभावनिश्चयात् ।
वक्तृत्वादेः प्रकर्षेऽपि ज्ञानानिर्ह्राससिद्धितः ॥100॥

नोपमानमशेषाणां नृणामनुपलम्भतः ।
उपमानोपमेयानां तद्बाधकमसम्भवात् ॥101॥

नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा ।
क्षीणत्वादन्यथाभावाभावात्तत्तदबाधिका ॥102॥

नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः ।
तस्य कार्य्ये प्रमाणत्वादन्यथानिष्टसिद्धितः ॥103॥

पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य बाधकः ।
तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥104॥

अभावोऽपि प्रमाणं ते निषेध्याधारवेदने ।
निषेध्यस्मरणे च स्यान्नास्तिताज्ञानमञ्जसा ॥105॥

न चाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते ।
नापि सर्वज्ञसंवित्तिः पूर्वं तत्स्मरणं कुतः ॥106॥

येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनम् ।
परोपगमतस्तस्य निषेधे स्वेष्टबाधनम् ॥107॥

मिथ्यैकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः ।
नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनम् ॥108॥

एवं सिद्धः सुनिर्णेतासम्भवद्बाधकत्वतः ।
सुखवद्विश्वतत्त्वज्ञः सोऽर्हन्नेव भवानिह ॥109॥

स कर्म्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः ।
यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्षतः ॥110॥

तेषामागामिनां तावद्विपक्षः संवरो मतः ।
तपसा सञ्चितानान्तु निर्जरा कर्म्मभूभृताम् ॥111॥

तत्प्रकर्ष पुनः सिद्धः परमः परमात्मनि ।
तारतम्यविशेषस्य सिद्धेरुष्णप्रकर्षवत् ॥112॥

कर्म्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः ।
द्रव्यकर्म्माणि जीवस्य पुद्गलात्मान्यनेकधा ॥113॥

भावकर्म्माणि चैतन्यविवर्त्तात्मानि भान्ति नुः ।
क्रोधादीनि स्ववेद्यानि कथंचिच्चिदभेदतः ॥114॥

तत्स्कन्धराशयः प्रोक्ता भूभृतोऽत्र समाधितः ।
जीवाद्विश्लेषणं भेदः सतो नात्यन्तसंक्षयः ॥115॥

स्वात्मलाभस्ततो मोक्षः कृत्स्नकर्म्मक्षयान्मतः ।
निर्जरासंवराभ्यां नुः सर्वसद्वादिनामिह ॥116॥

नास्तिकानान्तु नैवास्ति प्रमाणं तन्निराकृतौ ।
प्रलापमात्रके तेषां नावधेयं महात्मनाम् ॥117॥

मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः ।
विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥118॥

प्रणेता मोक्षमार्गस्याबाध्यमानस्य सर्वथा ।
साक्षाद्य एव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः ॥119॥

वीतनिःशेषदोषोऽतः प्रवन्द्योऽर्हन् गुणाम्बुधिः ।
तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥120॥

मोहाक्रान्तान्न भवति गुरोर्मोक्षमार्गप्रणीति-
र्नर्ते तस्याः सकलकुलषध्वंसजा स्वात्मलब्धिः ।
तस्यै वन्द्यः परगुरुरिह क्षीणमोहस्त्वमर्हन्-
साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथ! ॥121॥

न्यक्षेणाप्तपरीक्षा प्रतिपक्षं क्षपयितुं क्षमा साक्षात् ।
प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीक्षणाय संलक्ष्या ॥122॥

श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य,
प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रकारैः कृतं यत् ।
स्तोत्रं तीर्थोपमानं प्रथितपृथुपथं स्वामिमीमांसितं तत्,
विद्यानंदैः स्वशक्त्या कथमपि कथितं सत्यवाक्यार्थसिद्ध्यै ॥123॥

इति तत्त्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा ।
प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥124॥


टिप्पणी: कारिका 112 में “तत्प्रकर्ष” छपा है; कारिकानुक्रमणिका में “तत्प्रकर्षः” है।

टिप्पणी: कारिका 121 में “सकलकुलषध्वंसजा” छपा है; शुद्ध रूप “सकलकलुषध्वंसजा” है।

खोज: Aptapariksha Mul Karika

आप्तपरीक्षा कारिका एवं अर्थ (आचार्य विद्यानन्द) | Aptapariksha Karika Evam Arth (Acharya Vidyanand)
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
अनुयोग सूची: अनुयोग अनुसार ग्रन्थ (अ से ज्ञ)
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z