क्षत्रचूडामणि मूल श्लोक
आचार्य वादीभसिंह सूरी
आचार्य वादीभसिंह सूरी कृत क्षत्रचूडामणि (जीवंधर चरित्र) के संस्कृत मूल श्लोक, ग्रंथ के 11 लम्बों के अनुसार क्रम से, कुल 747 श्लोक। हर लम्ब इसी पोस्ट में अपने शीर्षक के साथ है। यहाँ केवल मूल श्लोक हैं, अन्वयार्थ नहीं। पाठ संलग्न ग्रंथ के अनुसार है; जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस लम्ब के नीचे टिप्पणी दी।
अन्वयार्थ सहित पूरा ग्रंथ: क्षत्र चूड़ामणि। Kshatr Chudamani
स्रोत: Kshatra Chudamani.pdf
Kshatra Chudamani.pdf (2849 KB)
प्रथमो लम्बः (श्लोक 1 से 112)
श्रीपतिर्भगवान्पुष्याद् भक्तानां वः समीहितम्।
यद्भक्तिः शुल्कतामेति मुक्तिकन्याकरग्रहे ॥1॥
संक्षेपेण प्रवक्ष्यामि चरितं जीवकोद्भवम्।
पीयूषं न हि निःशेषं पिबन्नेव सुखायते ॥2॥
श्रेणिक प्रश्नमुद्दिश्य सुधर्मो गणनायकः।
यथोवाच मयाप्येतदुच्यते मोक्षलिप्सया ॥3॥
इहास्ति भारते खण्डे जम्बूद्वीपस्य मण्डने।
मण्डलं हेमकोशाभं हेमाङ्गदसमाह्वयम् ॥4॥
तत्र राजपुरी नाम राजधानी विराजते।
राजराजपुरी-सृष्टौ स्रष्टुर्या मातृकायते ॥5॥
तस्यां सत्यन्धरो नाम राजाभूत्सत्यवाङ्मयः।
वृद्धसेवी विशेषज्ञो नित्योद्योगी निराग्रहः ॥6॥
महिता महिषी तस्य विश्रुता विजयाख्यया।
विजयाद्विश्वनारीणां पातिव्रत्यादिभिर्गुणैः ॥7॥
सत्यप्यन्तःपुरस्त्रीणां समाजे राजवल्लभा।
सैवासीन्नापरा काचित् सौभाग्यं हि सुदुर्लभम् ॥8॥
निष्कंटकाधिराज्योऽयं राजा राज्ञीमनारतम्।
रमयन्नान्यदज्ञासीत्प्राज्ञप्राग्रहरोऽपि सन् ॥9॥
विषयासक्तचित्तानां गुणः को वा न नश्यति।
न वैदुष्यं न मानुष्यं नाभिजात्यं न सत्यवाक् ॥10॥
पराराधनजाद् दैन्यात्पैशून्यात्परिवादतः।
पराभवात्किमन्येभ्यो न विभेति हि कामुकः ॥11॥
पाकं त्यागं विवेकं च वैभवं मानितामपि।
कामार्ताः खलु मुञ्चन्ति किमन्यैः स्वञ्च जीवितम् ॥12॥
पुनरैच्छदयं दातुं काष्ठाङ्गाराय काश्यपीम्।
अविचारितरम्यं हि रागान्धानां विचेष्टितम् ॥13॥
तावता तं समभ्येत्य मन्त्रिमुख्या अबूबुधन्।
देव देवैरपि ज्ञातं विज्ञाप्यं श्रूयतामिदम् ॥14॥
हृदयं च न विश्वास्यं राजभिः किं परो नरः।
किन्तु विश्वस्तवद्दृश्यो नटायन्ते हि भूभुजः ॥15॥
परस्पराविरोधेन त्रिवर्गो यदि सेव्यते।
अनर्गलमतः सौख्यं अपवर्गोप्यनुक्रमात् ॥16॥
ततस्त्याज्यौ न धर्मार्थौ राजभिः सुखकाम्यया।
अदः काम्यति देवश्चेदमूलस्य कुतः सुखम् ॥17॥
नाशिनं भाविनं प्राप्यं प्राप्ते च फलसन्ततिम्।
विचार्य्यैव विधातव्यमनुतापोऽन्यथा भवेत् ॥18॥
इति प्रबोधितोऽप्येष धुरि राज्ञां न्यवेशयत्।
काष्ठाङ्गारमहोमोहात् बुद्धिः कर्मानुसारिणी ॥19॥
विषयान्धविचारेण विरक्तानां नृपस्य तु।
प्रकृष्यमाणरागेण कालो विलयमीयिवान् ॥20॥
सा तु निद्रावती स्वप्नमद्राक्षीत्क्षणदाक्षये।
अस्वप्नपूर्वं हि जीवानां न हि जातु शुभाशुभम् ॥21॥
वैभातिकविधेरन्ते विभोरन्तिकमीयुषी।
अर्धासननिविष्टेयमभाषिष्ट च भूभुजः ॥22॥
श्रुत्वा स्वप्नत्रयं राजा ज्ञात्वा च फलमक्रमात्।
प्रतिवक्तुमुपादत्त किञ्चिन्न्यञ्चन्मना भवन् ॥23॥
पुत्रमित्रकलत्रादौ सत्यामपि च सम्पदि।
आत्मीयापायशङ्का हि शङ्कु प्राणभृतां हृदि ॥24॥
देवि! दृष्टस्त्वया स्वप्ने बालाशोकः समौलिकः।
आचष्टे सोदयं सूनुमष्टमालास्तु तद्वधूः ॥25॥
आर्यपुत्र ततः पूर्वं दृष्टनष्टस्य किं फलम्।
कङ्केलेरिति चेद्देवि कथयत्येष किञ्चन ॥26॥
इतीशवाक्यं शुश्रूषी महिषी भुवि पेतुषी।
मूर्च्छिता तन्मुखग्लानेर्वक्त्रं वक्ति हि मानसम् ॥27॥
तन्मोहान्मोहितो राजा तामेवायमबूबुधत्।
सत्यामप्यभिषङ्गार्तौ जागर्त्येव हि पौरुषम् ॥28॥
स्वप्नदृष्टकृते सद्यो नष्टासुं किं तनोषि माम्।
न हि रक्षितुमिच्छन्तो निर्दहन्ति फलद्रुमम् ॥29॥
विपदः परिहाराय शोकः किं कल्पते नृणाम्।
पावके न हि पातः स्यादातपक्लेशशान्तये ॥30॥
ततो व्यापत्प्रतीकारं धर्ममेव विनिश्चिनु।
प्रदीपैर्दीपिते देशे न ह्यस्ति तमसो गतिः ॥31॥
इत्यादि स्वामिवाक्येन लब्धाश्वासा यथापुरम्।
पत्या साकमसौ रेमे दुःखचिन्ता हि तत्क्षणे ॥32॥
अथ प्रबोधितं स्वप्नादप्रबुद्धममुं पुनः।
बोधयन्तीव पत्नीयमन्तर्वत्नीधुरां दधौ ॥33॥
सदोहलामिमां वीक्ष्य दुःस्वप्नफलनिश्चयात्।
अनुशेते स्म राजायमात्मरक्षापरायणः ॥34॥
मन्त्रिणां लङिघतं वाक्यमभाग्येन मया मुधा।
विपाके हि सतां वाक्यं विश्वसन्त्यविवेकिनः ॥35॥
न ह्यकालकृता वाञ्छा सम्पुष्णाति समीहितम्।
किं पुष्पावचयः शक्यः फलकाले समागते ॥36॥
इत्यार्तो वंशरक्षार्थं केकियन्त्रमचीकरत्।
आस्था सतां यशःकाये न ह्यस्थायिशरीरके ॥37॥
आक्रीडे दोहदक्रीडामनुभोक्तुं विशाम्पतिः।
व्यजीहरच्च यन्त्रस्थां पत्नीं वर्त्मनि वार्मुचाम् ॥38॥
तावतैव कृतघ्नाख्यां राजघाख्यां च साधयन्।
स्वविधेयां भुवं चेति काष्ठाङ्गारो व्यचीचरत् ॥39॥
जीवितात्तु पराधीनाज्जीवानां मरणं वरम्।
मृगेन्द्रस्य मृगेन्द्रत्वं वितीर्णं केन कानने ॥40॥
अचीकथच्च मन्त्रिभ्यो राजद्रोहो विधीयताम्।
इति राजद्रुहा नित्यं दैवतेनाभिधीयते ॥41॥
स्वन्तं किं नु दुरन्तं वा किमुदर्कं वितर्क्यताम्।
अतर्कितमिदं वृत्तं तर्करूढं हि निश्चलम् ॥42॥
जिह्रेमि वक्तुमप्येतदुक्तिर्दैवभयादिति।
मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद्धि पापिनाम् ॥43॥
तद्वाक्याद्वाच्यतो वंश्या यमिनः प्राणिहिंसनात्।
क्षुद्रा दुर्भिक्षतश्चैवं सभ्याः सर्वे हि तत्रसुः ॥44॥
आत्मघ्नीं धर्मदत्ताख्यः सचिवो वाचमूचिवान्।
गाढा हि स्वामिभक्तिः स्यादात्मप्राणानपेक्षिणी ॥45॥
राजानः प्राणिनां प्राणास्तेषु सत्स्वेव जीवनात्।
तत्तत्र सदसत्कृत्यं लोक एव कृतं भवेत् ॥46॥
एवं राजद्रुहां हन्त सर्वद्रोहित्व सम्भवे।
राजध्रुगेव किं न स्यात् पञ्चपातकभाजनम् ॥47॥
रक्षन्त्येवात्र राजानो देवान्देहभृतोऽपि च।
देवास्तु नात्मनोऽप्येवं राजा हि परदेवता ॥48॥
किञ्चात्र दैवतं हन्ति दैवतद्रोहिणं जनम्।
राजा राजद्रुहां वंशं वंश्यानन्यच्च तत्क्षणे ॥49॥
अर्थिनां जीवनोपायमपायं चाभिभाविनाम्।
कुर्वन्तः खलु राजानः सेव्या हव्यवहा यथा ॥50॥
इति धर्मं वचोऽप्यासीन्मर्मभित्तीव्रकर्मणः।
पित्तज्वरवतः क्षीरं तिक्तमेव हि भासते ॥51॥
स कार्तघ्न्यादिदोषं च गुरुद्रोहं च किं परैः।
परिवादं च नाद्राक्षीत् दोषं नार्थी हि पश्यति ॥52॥
मथनो नाम तत्स्यालस्तद्वाचं बह्वमन्यत।
तद्धि पाणौ कृतं दात्रं परिपन्थिविधायिनः ॥53॥
प्राहैषीच्च बलं हन्तुं राजानं हन्त पापधीः।
पयोह्यास्यगतं शक्यं पाननिष्ठीवनद्वये ॥54॥
दौवारिकमुखादेतदुपलभ्य रुषा नृपः।
उदतिष्ठत संग्रामे न हि तिष्ठति राजसम् ॥55॥
तावतार्धासनाद्भ्रष्टां नष्टासुं गर्भिणीं प्रियाम्।
दृष्ट्वा पुनर्न्यवर्तिष्ट स्त्रीष्ववज्ञा हि दुःसहा ॥56॥
अबोधयच्च तां पत्नीं लब्धबोधो महीपतिः।
तत्त्वज्ञानं हि जागर्ति विदुषामार्तिसम्भवे ॥57॥
शोकेनालमपुण्यानां पापं किं न फलप्रदम्।
दीपनाशे तमोराशिः किमाह्वानमपेक्षते ॥58॥
यौवनं च शरीरं च सम्पच्च व्येति नाद्भुतम्।
जलबुदबुद्नित्यत्वे चित्रीया न हि तत्क्षये ॥59॥
संयुक्तानां वियोगश्च भविता हि नियोगतः।
किमन्यैरङ्गतोऽप्यङ्गी निःसङ्गो हि निवर्तते ॥60॥
अनादौ सति संसारे केन कस्य न बन्धुता।
सर्वथा शत्रुभावश्च सर्वमेतद्धि कल्पना ॥61॥
इति धर्म्यं वचस्तस्या लेभे नैव पदं हृदि।
दग्धभूम्युप्तबीजस्य न ह्यङ्कुरसमर्थता ॥62॥
अयं त्वापन्नसत्त्वां तामारोप्य शिखियन्त्रकम्।
स्वयं तद्भ्रामयामास हन्त क्रूरतमो विधिः ॥63॥
वियतास्मिन्गते योद्धुं स मोहादुपचक्रमे।
न ह्यङ्गुलिरसाहाय्या स्वयं शब्दायतेतराम् ॥64॥
अथ युद्ध्वा चिरं योद्धा मुधा प्राणिवधेन किम्।
इत्यूहेन विरक्तोऽभूद् गत्यधीनं हि मानसम् ॥65॥
विषयासङ्गदोषोऽयं त्वयैव विषयीकृतः।
साम्प्रतं वा विषप्रख्ये मुञ्चात्मन्विषये स्पृहाम् ॥66॥
भुक्तपूर्वमिदं सर्वं त्वयात्मन्भुज्यते ततः।
उच्छिष्टं त्यज्यतां राज्यमनन्ता ह्यसुभृद्भवाः ॥67॥
अवश्यं यदि नश्यन्ति स्थित्वापि विषयाश्चिरम्।
स्वयं त्याज्यास्तथा हि स्यान्मुक्तिः संसृतिरन्यथा ॥68॥
त्यज्यते रज्यमानेन राज्येनान्येन वा जनः।
भज्यते त्यज्यमानेन तत्त्यागोऽस्तु विवेकिनाम् ॥69॥
इति भावनया राजा वैराग्यं परमीयिवान्।
त्यक्त्वा सङ्गं निजाङ्गं च दिव्यां सम्पदमासदत् ॥70॥
पौराः जानपदाः सर्वे निर्वेदं प्रतिपेदिरे।
पीडा ह्यभिनवा नृणां प्रायो वैराग्यकारणम् ॥71॥
अधिस्त्रिरागः क्रूरोऽयं राज्यं प्राज्यमसूनपि।
तद्वञ्चिता हि मुञ्चन्ति किं न मुञ्चन्ति रागिणः ॥72॥
नारीजघनरन्ध्रस्थ विण्मूत्रमय चर्मणा।
वराह इव विड्भक्षी हन्त मूढः सुखायते ॥73॥
किं कीदृशं कियत्क्वेति विचारे सति दुःसहम्।
अविचारितरम्यं हि रामासम्पर्कजं सुखम् ॥74॥
निवारिताप्यकृत्ये स्यान्निष्फला दुष्फला च धीः।
कृत्ये तु नापि यत्नेन कोऽत्र हेतुर्निरूप्यताम् ॥75॥
निश्चित्याप्यघहेतुत्वं दुश्चित्तानां निवारणे।
येनात्मन्निपुणो नासि तद्धि दुष्कर्मवैभवम् ॥76॥
हेये स्वयं सती बुद्धिर्यत्नेनाप्यसती शुभे।
तद्धेतुकर्म तद्वन्तमात्मानमपि साधयेत् ॥77॥
कोऽहं कीदृग्गुणः क्वत्यः किं प्राप्यः किं निमित्तकः।
इत्यूहः प्रत्यहं नो चेदस्थाने हि मतिर्भवेत् ॥78॥
मुह्यन्ति देहिनो मोहान्मोहनीयेन कर्मणा।
निर्मितान्निर्मिताशेषकर्मणा धर्मवैरिणा ॥79॥
किं नु कर्तुं त्वयारब्धं किं नु वा क्रियतेऽधुना।
आत्मन्नारब्धमुत्सृज्य हन्त बाह्येन मुह्यसि ॥80॥
इदमिष्टमनिष्टं वेत्यात्मन्सङ्कल्पयन्मुधा।
किं नु मोमुह्यसे बाह्ये स्वस्वान्तं स्ववशी कुरु ॥81॥
लोकद्वयाहितोत्पादि हन्त स्वान्तमशान्तिमत्।
न द्वेक्षि द्वेक्षि ते मौढ्यादन्यं सङ्कल्प्य विद्विषम् ॥82॥
अन्यदीयमिवात्मीयमपि दोषं प्रपश्यता।
कः समः खलु मुक्तोऽयं युक्तः कायेन चेदपि ॥83॥
इत्याद्यूहपरे लोके केकी तु वियता गतः।
पातयामास राज्ञीं तां तत्पुरप्रेतवेश्मनि ॥84॥
जीवानां पापवैचित्रीं श्रुतवन्तः श्रुतौ पुरा।
पश्येयुरधुनेतीव श्रीकल्पाभूदकिञ्चना ॥85॥
क्षणनश्वरमैश्वर्यमित्यर्थं सर्वथा जनः।
निरणैषीदिमां दृष्ट्वा दृष्टान्ते हि स्फुटा मतिः ॥86॥
पूर्वाह्णे पूजिता राज्ञी राज्ञा सैवापराह्णके।
परेतभूशरण्याभूत्पापात् बिभ्यतु पण्डिताः ॥87॥
सा तु मूर्छा पराधीना सूतिपीडामजानती।
मासि वैजनने सूनुं सुषुवे हन्त तद्दिने ॥88॥
तावता देवता काचिद्धात्रीवेषेण संन्यधात्।
तत्रैव पुत्रपुण्येन पुण्ये किं वा दुरासदम् ॥89॥
तां पश्यन्त्या अभूत्तस्या उद्वेलः शोकसागरः।
सन्निधौ हि स्वबन्धूनां दुःखमुन्मस्तकं भवेत् ॥90॥
देवता तु समाश्वास्य जातमाहात्म्यवर्णनैः।
ऊर्णादिदर्शनोद्भूतैर्देवीं तामित्यवोचयत् ॥91॥
पुत्राभिवर्धनोपाये देवि! चिन्ता निवर्त्यताम्।
क्षत्रपुत्रोचितं कश्चिदेनं संवर्धयिष्यति ॥92॥
इत्युक्ते कोऽपि दृष्टोऽभूद्विसृष्टप्रेतसूनुकः।
सूनुं सूनृतयोगीन्द्रवाक्यात्तत्र गवेषयन् ॥93॥
तद्दर्शनेन तद्वाक्यं प्रमाणं निर्णिनाय सा।
निश्चलादविसंवादाद्वस्तुनो हि विनिश्चयः ॥94॥
ततो गत्यन्तराभावाद्देवताप्रेरणाच्च सा।
पित्रीयमुद्रयोपेतमाशास्यान्तर्धात्सुतम् ॥95॥
गन्धोत्कटोऽपि तं पश्यन्नातृपद्वैश्यनायकः।
एधोन्वेषिजनैर्दृष्टः किं वा न प्रीतये मणिः ॥96॥
हर्षकण्टकिताङ्गोऽयमादधानस्तमङ्गजम्।
जीवेत्याशिषमाकर्ण्य तन्नाम समकल्पयत् ॥97॥
अमृतं सूनुमज्ञानात्संस्थितं कथमभ्यधाः।
इति क्रुध्यन्स्वभार्यायै सानन्दोऽयमदात्सुतम् ॥98॥
अभ्यनन्दीत्सुनन्दापि नन्दनस्यावलोकनात्।
प्राणवत्प्रीतये पुत्रा मृतोत्पन्नास्तु किं पुनः ॥99॥
देवता जननीमस्य बन्धुवेश्मपराङ्मुखीम्।
दण्डकारण्यमध्यस्थमनैषीत्तापसाश्रमम् ॥100॥
कृत्वा च तां तपस्यन्तीं सतोषा सा मिषादगात्।
समीहितार्थसंसिद्धौ मनः कस्य न तुष्यति ॥101॥
अवात्सीद्राजपत्नी च वत्सं निजमनोगृहे।
जिनपादाम्बुजं चैव ध्यायन्ती हन्त तापसी ॥102॥
अनल्पतूलतल्पस्थ सवृन्तप्रसवादपि।
निर्भरं हन्त सीदन्त्यै दर्भशय्याप्यरोचत ॥103॥
स्वहस्तलूननीवारोऽप्याहारोऽस्याः परेण किम्।
अवश्यं ह्यनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥104॥
अथ गन्धोत्कटायार्थमर्भकार्थं महोत्सवम्।
आत्मार्थं गणयन्मूढः काष्ठाङ्गारोऽप्यदान्मुदा ॥105॥
तत्क्षणे तत्पुरे जातान्जातानपि तदाज्ञया।
लब्ध्वा वैश्यपतिः पुत्रं मित्रैः सार्धमवर्धयत् ॥106॥
अथ जातः सुनन्दायाः नन्दाढ्यो नाम नन्दनः।
तेन जीवन्धरो रेजे सौभ्रात्रं हि दुरासदम् ॥107॥
एवं सद्बन्धुमित्रोऽयमेधमानो दिने दिने।
अतिशेते स्म शीतांशुमकलङ्काङ्गभावतः ॥108॥
ततः शैशवसम्भूष्णु-सर्वव्यसनदूरगः।
पञ्चमं च वयो भेजे भाग्ये जाग्रति का व्यथा ॥109॥
अथानर्थकमव्यक्तमतिहृद्यं च वाङ्गमयम्।
मुक्त्वातिव्यक्तगीरासीत्स्वयं वृण्वन्ति हि स्त्रियः ॥110॥
आचार्यकवपुः कश्चिदार्यनन्दीति कीर्तितः।
आसीदस्य गुरुः पुण्याद्गुरुरेव हि देवता ॥111॥
निष्प्रत्यूहेष्टसिद्ध्यर्थं सिद्धपूजादिपूर्वकम्।
सिद्धमातृकया सिद्धामथ लेभे सरस्वतीम् ॥112॥
टिप्पणी: श्लोक 35 में “लङिघतं” छपा है; शुद्ध रूप “लङ्घितं” है।
टिप्पणी: श्लोक 59 में “जलबुदबुद्नित्यत्वे” छपा है; शुद्ध रूप “जलबुद्बुदनित्यत्वे” है।
टिप्पणी: श्लोक 110 में “वाङ्गमयम्” छपा है; शुद्ध रूप “वाङ्मयम्” है।
द्वितीयो लम्बः (श्लोक 1 से 76)
अथ विद्यागृहं किञ्चिदासाद्य सखिमण्डितः।
पण्डिताद्विश्वविद्यायामध्यगीष्टातिपण्डितः ॥1॥
तस्य प्रश्रयशुश्रूषाचातुर्याद् गुरुगोचरात्।
स्मृता इवाभवन्विद्या गुरुस्नेहो हि कामसूः ॥2॥
अनुजीवकमेवात्र जीवलोके विपश्चितः।
इति निश्चयतः सूरिः सुतरां प्रीतिमव्रजत् ॥3॥
आत्मकृत्यमकृत्यं च सफलं प्रीतये नृणाम्।
किं पुनः श्लाघ्यभूतं तत् किं विद्यास्थापनात्परम् ॥4॥
अथ प्रसन्नधीः सूरिरन्तेवासिनमेकदा।
एकान्ते हि निजप्रान्तमावसन्तमचीकथत् ॥5॥
श्रुतशालिन्महाभाग! श्रूयतामिह कस्यचित्।
चरितं चरितार्थेन यदत्यर्थं दयावहम् ॥6॥
विद्याधरास्पदे लोके लोकपालाह्वयान्वितः।
लोकं वै पालयन्भूपः कोऽपि कालमजीगमत् ॥7॥
क्षणक्षीणत्वमैश्वर्ये क्षीवाणामिव बोधयत्।
क्षेपीयः पश्यतां नश्यदभ्रमैक्षिष्ट सोऽधिराट् ॥8॥
तद्वीक्षणेन वैराग्यं विजजृम्भे महीभुजः।
पम्फुलीति हि निर्वेगो भव्यानां कालपाकतः ॥9॥
ततोऽयं पुत्रनिक्षिप्तराज्यभारः क्षितीश्वरः।
जैनीं दीक्षामुपादत्त यस्यां कायेऽपि हेयता ॥10॥
तपांसि तप्यमानस्य तस्य चासीदहो पुनः।
भस्मकाख्यो महारोगो भुक्तं यो भस्मयेत्क्षणात् ॥11॥
न हि वारयितुं शक्यं दुष्कर्माल्पतपस्यया।
विस्फुलिङ्गेन किं शक्यं दग्धुमार्द्रमपीन्धनम् ॥12॥
अशक्त्यैव तपः सोऽयं राजा राज्यमिवात्यजत्।
श्रेयांसि बहुविघ्नानीत्येतन्नह्यधुनाभवत् ॥13॥
तपसाच्छादितस्तिष्ठन्स्वैराचारी हि पातकी।
गुल्मेनान्तर्हितो गृह्णन्विष्करानिव नाफलः ॥14॥
अवर्तिष्ट यथेष्टं स पाखण्डितपसा पुनः।
चित्रं जैनी तपस्या हि स्वैराचारविरोधिनी ॥15॥
अथ भिक्षुर्बुभुक्षुः सन् गन्धोत्कटगृहं गतः।
उपतापरुजोऽप्येष धार्मिकाणां भिषक्तमः ॥16॥
धार्मिकाणां शरण्यं हि धार्मिका एव नापरे।
अहेर्नकुलवत्तेषां प्रकृत्यान्ये हि विद्विषः ॥17॥
तत्र मध्येगृहं भिक्षुरद्राक्षीत्पुत्रपुङ्गवम्।
अङ्ग त्वां त्वं च तं वीक्ष्य तद् बुभुक्षामलक्षयः ॥18॥
भोक्तुमारभमाणस्त्वं पौरोगवमचीकथः।
भोज्यतामयमित्येष पुनरेनमबूभुजत् ॥19॥
अन्नैस्तद्गृहसम्पन्नैर्नाभूत्तत्कुक्षिपूरणम्।
अहो पापस्य घोरत्वमाशाब्धिः केन पूर्यते ॥20॥
अभुञ्जानस्त्वमाश्चर्यादासीनोऽस्मै वितीर्णवान्।
कारुण्यादस्य पुण्याद्वा करस्थं कवलं मुदा ॥21॥
वर्णिनो जठरं पूर्णं तदास्वादनतः क्षणात्।
आशाब्धिरिव नैराश्यादहो पुण्यस्य वैभवम् ॥22॥
परिव्राडपि सम्प्राप्य सौहित्यं तत्क्षणे चिरात्।
महोपकारिणोऽस्याहं किं करोमीत्यचिन्तयत् ॥23॥
अपश्चिमफलां विद्यां निश्चित्यात्र प्रतिक्रियाम्।
आयुष्मन्तमसौ पश्चाद्विपश्चितमकल्पयत् ॥24॥
विद्या हि विद्यमानेयं वितीर्णापि प्रकृष्यते।
नाकृष्यते च चोराद्यैः पुष्यत्येव मनीषितम् ॥25॥
वैदुष्येण हि वंश्यत्वं वैभवं सदुपास्यता।
सदस्यतालमुक्तेन विद्वान् सर्वत्र पूज्यते ॥26॥
वैपश्चित्यं हि जीवानामाजीवितमनिन्दितम्।
अपवर्गेऽपि मार्गोऽयमदः क्षीरमिवौषधम् ॥27॥
इत्युदन्तं गुरोः श्रुत्वा शिष्यो नोत्तरमूचिवान्।
स्ववाचा किन्तु वक्त्रेण शैष्योपाध्यायिका हि सा ॥28॥
विज्ञातगुरुशुद्धिः स विशेषात्पिप्रियेतराम्।
माणिक्यस्य हि लब्धस्य शुद्धेर्मोदो विशेषतः ॥29॥
रत्नत्रयविशुद्धः सन्पात्रस्नेही परार्थकृत्।
परिपालितधर्मो हि भवाब्धेस्तारको गुरुः ॥30॥
गुरुभक्तो भवाद्भीतो विनीतो धार्मिकः सुधीः।
शान्तस्वान्तो ह्यतन्द्रालुः शिष्टः शिष्योऽयमिष्यते ॥31॥
गुरुभक्तिः सती मुक्त्यै क्षुद्रं किं वा न साधयेत्।
त्रिलोकीमूल्यरत्नेन दुर्लभः किं तुषोत्करः ॥32॥
गुरुद्रुहां गुणः को वा कृतघ्नानां न नश्यति।
विद्यापि विद्युदाभा स्यादमूलस्य कुतः स्थितिः ॥33॥
गुरुद्रोहो न हि क्वापि विश्वास्यः विश्वघातिनः।
अबिभ्यतां गुरुद्रोहादन्यद्रोहात्कुतो भयम् ॥34॥
अथ कृत्यविदाचार्यः कृतकृत्यं यथाविधि।
छात्र प्रबोधयामास सद्धर्मं गृहमेधिनाम् ॥35॥
पुनश्च राजपुत्रत्वमपि बोधयितुं गुरुः।
अनुगृह्याभ्यधात्तस्य तदुदन्तमिदंतया ॥36॥
काष्ठाङ्गारमसौ ज्ञात्वा राजघं गुरुवाक्यतः।
सत्यन्धरात्मजः क्रोधात्सन्नाहं तद्वधे व्यधात् ॥37॥
मुहुर्निवार्यमाणोऽपि सूरिणा न शशाम सः।
हन्तात्मानमपि घ्नन्तः क्रुद्धाः किं किं न कुर्वते ॥38॥
वत्सरं क्षम्यतामेकं वत्सेयं गुरुदक्षिणा।
गुरुणेति निषिद्धोऽभूत्कोऽनन्धो लङ्घयेद् गुरुम् ॥39॥
पश्यन्कोपक्षणे तस्य पारवश्यमसौ गुरुः।
अशिक्षयत्पुनश्चैनमपथघ्नी हि वाग्गुरोः ॥40॥
अवशः किमहो मोहादकुपः पुत्रपुङ्गव।
सति हेतौ विकारस्य तदभावो हि धीरता ॥41॥
अपकुर्वति कोपश्चेत्किं न कोपाय कुप्यसि।
त्रिवर्गस्यापवर्गस्य जीवितस्य च नाशिने ॥42॥
दहेत्स्वमेव रोषाग्निर्नापरं विषयं ततः।
क्रुध्यन्निक्षिपति स्वाङ्गे वह्निमन्यदिधिक्षया ॥43॥
हेयोपादेयविज्ञानं नो चेद् व्यर्थः श्रमः श्रुतौ।
किं व्रीहिखण्डनायासैस्तण्डुलानामसम्भवे ॥44॥
तत्त्वज्ञानं च मोघं स्यात्तद्विरुद्धप्रवर्तिनाम्।
पाणौ कृतेन दीपेन किं कूपे पततां फलम् ॥45॥
तत्त्वज्ञानानुकूलं तदनुष्ठातुं त्वमर्हसि।
मुषितं धीधनं न स्याद्यथा मोहादिदस्युभिः ॥46॥
स्त्रीमुखेन कृतद्वारान्स्वपथोत्सुकमानसान्।
दुर्जनाहीञ्जहीहि त्वं ते हि सर्वङ्कषाः खलाः ॥47॥
स्पृष्टानामहिभिर्नश्येत् गात्रं खलजनेन तु।
वंशवैभववैदुष्य क्षान्तिकीर्त्यादिकं क्षणात् ॥48॥
खलः कुर्यात्खलं लोकमन्यमन्यो न कञ्चन।
न हि शक्यं पदार्थानां भावनं च विनाशवत् ॥49॥
सज्जनास्तु सतां पूर्वं समावर्ज्याः प्रयत्नतः।
किं लोके लोष्टवत्प्राप्यं श्लाघ्यं रत्नमयत्नतः ॥50॥
जाग्रत्वं सौमनस्यं च कुर्यात्सद्वागलं परैः।
अजलाशयसम्भूतममृतं हि सतां वचः ॥51॥
यौवनं सत्वमैश्वर्यमेकैकं च विकारकृत्।
समवायो न किं कुर्यादविकारोऽस्तु तैरपि ॥52॥
न हि विक्रियते चेतः सतां तद्धेतुसन्निधौ।
किं गोष्पदजलक्षोभी क्षोभयेज्जलधेर्जलम् ॥53॥
देशकालखलाः किं तैश्चला धीरेव बाधिका।
अवहितोऽत्र धर्मे स्यादवधानं हि मुक्तये ॥54॥
शिक्षावचः सहस्रैर्वा क्षीणपुण्ये न धर्मधीः।
पात्रे तु स्फायते तस्मादात्मैव गुरुरात्मनः ॥55॥
न शृण्वन्ति न बुध्यन्ति न प्रयान्ति च सत्पथम्।
प्रयान्तोऽपि न कार्यान्तं धनान्धा इति चिन्त्यताम् ॥56॥
इत्याशास्य तमाश्वास्य कृच्छ्रं स तपसे गतः।
प्राणप्रयाणवेलायां न हि लोके प्रतिक्रिया ॥57॥
प्रव्रज्याथ तपः शक्त्या नित्यमानन्दमव्रजत्।
निष्प्रत्यूहा हि सामग्री नियतं कार्यकारिणी ॥58॥
तपोवनं गुरौ प्राप्ते शुचं प्रापत्स कौरवः।
गर्भाधानक्रियामात्रन्यूनौ हि पितरौ गुरुः ॥59॥
तत्त्वज्ञानजलेनाथ शोकाग्निं निरवापयत्।
शैत्ये जाग्रति किं नु स्यादातपार्तिः कदाचन ॥60॥
अथास्मिन्विद्यया कान्त्या विदुषां योषितां हृदि।
रथे च योग्यया भाति तत्र प्रस्तुतमुच्यते ॥61॥
अथैकदा समभ्येत्य राजाङ्गणभुवि स्थिताः।
गावोऽवस्कन्दिता व्याधैरिति गोपा हि चुक्रुशुः ॥62॥
काष्ठांङ्गारोऽपि रुष्टोऽभूत्तदाक्रोशवचः श्रुतेः।
असमानकृतावज्ञा पूज्यानां हि सुदुःसहा ॥63॥
पराजेष्ट पुनस्तेन गवार्थं प्रहितं बलम्।
स्वदेशे हि शशप्रायो बलिष्ठः कुञ्जरादपि ॥64॥
व्यजेष्ट व्याधसेनेति श्रुत्वा घोषोऽपि चुक्षुभे।
न विभेति कुतो लोक आजीवनपरिक्षये ॥65॥
नन्दगोपाह्वयः कोऽपि तज्जयार्थं व्यचीचरत्।
किं स्यात्किंकृत इत्येवं चिन्तयन्ति हि पीडिताः ॥66॥
धनार्जनादपि क्षेमे क्षेमादपि च तत्क्षये।
उत्तरोत्तरवृद्धा हि पीडा नृणामनन्तशः ॥67॥
यथाशक्ति प्रतीकारः करणीयस्तथापि चेत्।
व्यर्थः किमत्र शोकेन यदशोकः प्रतिक्रिया ॥68॥
इत्यूहेन स वीराय विजये हि वनौकसाम्।
सप्तकल्याणपुत्रीभिर्देया पुत्रीत्यघोषयत् ॥69॥
सात्यन्धरिस्तु तच्छ्रुत्वा तद्घोषणामवारयत्।
उदात्तानां हि लोकोऽयमखिलो हि कुटुम्बकम् ॥70॥
जित्वाथ जीवकस्वामी किरातानाहरत्पशून्।
तमो ह्यभेद्यं खद्योतैर्भानुना तु विभिद्यते ॥71॥
ननन्द नन्दगोपोऽपि गोधनस्योपलम्भतः।
असुमतामसुभ्योऽपि गरीयो हि भृशं धनम् ॥72॥
अथानीय सुतां दातुं स्वामिने वार्यपातयत्।
कृत्याकृत्यविमूढा हि गाढस्नेहान्धजन्तवः ॥73॥
जीवन्धरस्तु जग्राह वार्धारां तेन पातिताम्।
पद्मास्यो योग्य इत्युक्त्वा न ह्ययोग्ये स्पृहा सताम् ॥74॥
माम मामेव पद्मास्यं पश्येति पुनरब्रवीत्।
गात्रमात्रेण भिन्नं हि मित्रत्वं मित्रता भवेत् ॥75॥
गोदावरीसुतां दत्तां नन्दगोपेन तुष्यता।
परिणिन्येऽथ गोविन्दां पद्मास्यो वह्निसाक्षिकम् ॥76॥
टिप्पणी: श्लोक 35 में “छात्र” छपा है; “प्रबोधयामास” का कर्म होने से “छात्रं” होना चाहिए।
टिप्पणी: श्लोक 63 में “काष्ठांङ्गारोऽपि” छपा है; अनुस्वार अधिक है, “काष्ठाङ्गारोऽपि” होना चाहिए।
तृतीयो लम्बः (श्लोक 1 से 53)
अथोपयम्य गोविन्दां पद्मास्ये रमयत्यलम्।
वीरश्रियं कुमारे च तत्र प्रस्तुतमुच्यते ॥1॥
आसीत्तत्पुरवास्तव्यो वैश्यः श्रीदत्तनामकः।
वित्तायास्पृहयत्सोऽयं धनाशा कस्य नो भवेत् ॥2॥
अर्थार्जननिदानं च तत्फलं चायमौहत।
निरङ्कुशं हि जीवानामैहिकोपायचिन्तनम् ॥3॥
अस्तु पैतृकमस्तोकं वस्तु किं तेन वस्तुना।
रोचते न हि शौण्डाय परपिण्डादिदीनता ॥4॥
स्वापतेयमनायं चेत्सव्ययं व्येति भूर्यपि।
सर्वदा भुज्यमानो हि पर्वतोऽपि परिक्षयी ॥5॥
दारिद्र्यादपरं नास्ति जन्तूनामप्यरुन्तुदम्।
अत्यक्तं मरणं प्राणैः प्राणिनां हि दरिद्रता ॥6॥
रिक्तस्य हि न जागर्ति कीर्तनीयोऽखिलो गुणः।
हन्त किं तेन विद्यापि विद्यमाना न शोभते ॥7॥
स्यादकिञ्चित्करः सोऽयमाकिञ्चन्येन वञ्चितः।
अलमन्यैः स साकूतं धन्यवक्त्रं च पश्यति ॥8॥
सम्पल्लाभफलं पुंसां सज्जनानां हि पोषणम्।
काकार्थफलनिम्बोऽपि श्लाघ्यते न हि चूतवत् ॥9॥
लोकद्वयहितं चापि सुकरं वस्तु नासताम्।
लवणाब्धिगतं हि स्यान्नादेयं विफलं जलम् ॥10॥
इत्यूहान्नावमारुह्य प्रतस्थे स वणिक्पतिः।
वार्धिमेव धनार्थी किं गाहते पार्थिवानपि ॥11॥
द्वीपान्तरान्न्यवर्तिष्ट पुष्टः सांयात्रिको धनैः।
अतर्क्यं खलु जीवानामर्थसञ्चयकारणम् ॥12॥
अवारान्तमथ प्रापत्पारावारस्य नाविकः।
चुक्षुभे नौरिहासारान्न हि वेद्यो विपत्क्षणः ॥13॥
पूर्वमेव तु नौनाशाच्छोकाब्धिं पोतगा गताः।
काष्ठागतस्य दुःखस्य दृष्टान्तं तद्धि नौक्षये ॥14॥
सांयात्रिकस्तु तत्त्वज्ञो विकारं नैव जग्मिवान्।
अज्ञात्प्राज्ञस्य को भेदो हेतोश्चेद्विकृतिर्द्वयोः ॥15॥
भाविन्या विपदो यूयं विपन्नाः किं बुधाः शुचा।
सर्पशङ्काविभीताः किं सर्पास्ये करदायिनः ॥16॥
विपदस्तु प्रतीकारो निर्भयत्वं न शोकिता।
तच्च तत्त्वविदामेव तत्त्वज्ञाः स्यात् तद्बुधाः ॥17॥
इत्यप्यबोधयत्सोऽयं वणिक्पोताश्रितान्सुधीः।
तत्त्वज्ञानं हि जीवानां लोकद्वयसुखावहम् ॥18॥
तावता नावि नष्टायां दृष्टोऽभूत्कूपखण्डकः।
सत्यायुषि हि जायेत प्राणिनां प्राणरक्षणम् ॥19॥
श्रीदत्तस्तु तमारुह्य प्रासदत् द्वीपसंश्रितः।
राज्यभ्रष्टोऽपि तुष्टः स्याल्लब्धप्राणो हि जन्तुकः ॥20॥
नष्टशेवधिरप्येष मृष्टमेवमतर्कयत्।
दुःखार्थोऽपि सुखार्थो हि तत्त्वज्ञानधने सति ॥21॥
तृष्णाग्निदह्यमानस्त्वं मूढात्मन्किं नु मुह्यसि।
लोकद्वयहितध्वंसोर्न हि तृष्णारुषोर्भिदा ॥22॥
लोकद्वयहितायात्मन्नैराश्यनिरतो भव।
धर्मसौख्यच्छिदाशा ते तरुच्छेदः फलार्थिनाम् ॥23॥
संसारासारभावोऽयमहो साक्षात्कृतोऽधुना।
यस्मादन्यदुपक्रान्तमन्यदापतितं पुनः ॥24॥
अतएव हि योगीन्द्रा अपीन्द्रत्वार्हसम्पदम्।
त्यक्त्वा तपांसि तप्यन्ते मुक्त्यै तेभ्यो नमो नमः ॥25॥
इत्यूहोऽपि स दृष्टस्य कस्यचित्स्वार्तिमूचिवान्।
मध्ये मध्ये हि चापल्यमामोहादपि योगिनाम् ॥26॥
यादृच्छिक इवायातस्तत्कृच्छ्रं सोऽपि शुश्रुवान्।
संसृतौ व्यवहारस्तु न हि मायाविवर्जितः ॥27॥
श्रुत्वा मिषेण केनापि नीत्वा राजतभूधरम्।
स्वागतेः कारणं सर्वमभाणीत्स वणिक्पतेः ॥28॥
विजयार्धगिरावस्ति दक्षिणश्रेणिमण्डने।
गान्धारविषये ख्याता नित्यालोकाह्वया पुरी ॥29॥
गरुडवेगनामास्यां राजा राज्ञी तु धारिणी।
पुत्री गन्धर्वदत्ताभूदभूत्सापि यवीयसी ॥30॥
वीणाविजयिनो भार्या राजपुर्यामियं भवेत्।
भूमाविति मुहूर्तज्ञा जन्मलग्ने व्यजीगणन् ॥31॥
तदर्थं पार्थिवः सार्धमेकान्ते कान्तया तया।
मन्त्रयित्वा तदन्ते माममन्दप्रीतिरादिशत् ॥32॥
कुलक्रमागता मैत्री श्रीदत्तेनास्ति नस्ततः।
गत्वा सत्वरमत्रैव सोऽयमानीयतामिति ॥33॥
भवन्तं परतन्त्रोऽहं नौभ्रंशभ्रान्तिमावहन्।
नाम्ना धरः कृतेर्भूम्ना पुनरानीतवानिति ॥34॥
श्रीदत्तोऽपि तदाकर्ण्य तुतोष सुतरामसौ।
दुःखस्यानन्तरं सौख्यमतिमात्रं हि देहिनाम् ॥35॥
असुखायत वैश्योऽपि खेचरेन्द्रावलोकनात्।
मित्रं धात्रीपतिं लोके कोऽपरः पश्यतः सुखी ॥36॥
नभश्चराधिपः पश्चात्तदायत्तां सुतां व्यधात्।
प्राणेष्वपि प्रमाणं यत्तद्धि मित्रमितीष्यते ॥37॥
श्रीदत्तं सत्वरं तस्मात्खेचरेशो न्यवर्तयत्।
अङ्गजायां हि सूत्यायामयोग्यं कालयापनम् ॥38॥
गृहस्थानां हि तद् दौस्थ्यमतिमात्रमरुन्तुदम्।
कन्यानामप्रमादेन रक्षणादिसमुद्भवम् ॥39॥
तयामा स्वपुरं प्राप्य श्रीदत्तोऽप्यथतत्कथाम्।
पत्न्याः प्रकटयामास स्त्रीणामेव हि दुर्मतिः ॥40॥
वीणाविजयिनो योग्या भोग्या पुत्री ममेति सः।
कटके घोषयामास राजानुमतिपूर्वकम् ॥41॥
अकुतोभीतिता भूमेर्भूपानामाज्ञयान्यथा।
आस्तामन्यत्सुवृत्तानां वृत्तं च न हि सुस्थितम् ॥42॥
वीणामण्डपमासेदुस्तावता धरणीभुजः।
स्त्रीरागेणात्र के नाम जगत्यां न प्रतारिताः ॥43॥
कन्यायाः परिवादिन्यां पराजेषत पार्थिवाः।
अपुष्कला हि विद्या स्यादवज्ञैकफला क्वचित् ॥44॥
जीवन्धरकुमारस्तु घोषवत्यां जिगाय ताम्।
अनवद्या हि विद्या स्याल्लोकद्वयफलावहा ॥45॥
पराजयं जयाच्छ्लाघ्यं मत्त्वा सापि तमासदत्।
अन्तिकं कृतपुण्यानां श्रीरन्विष्य हि गच्छति ॥46॥
आमुमोचाथ मोचोरुः स्रजं जीवकवक्षसि।
कुर्वन्तु तप इत्येवं सर्वेभ्यो ब्रुवतीव सा ॥47॥
काष्ठाङ्गारस्तु तद्वीक्ष्य क्षितिपान्समधुक्षयत्।
अन्याभ्युदयखिन्नत्वं तद्धि दौर्जन्यलक्षणम् ॥48॥
क्रयविक्रययोर्योग्यः कुप्यानां वैश्यसूनुकः।
कथं लभेत स्त्रीरत्नं शस्तं वस्तु हि भूभुजाम् ॥49॥
इति सिंधुक्षिताश्चक्रुः स्वामिना तेऽपि संयुगम्।
प्रकृत्या स्यादकृत्ये धीर्दुः शिक्षायां तु किं पुनः ॥50॥
पराजेषत भूपास्ते धन्विनां चक्रवर्तिनः।
अलं काकसहस्रेभ्यः एकैव हि दृषद्भवेत् ॥51॥
स्थाने कन्यामनः सक्तमित्यूचुः सज्जनाः मुदा।
सुधासूतेः सुधोत्पत्तिरपि लोके किमद्भुतम् ॥52॥
अथ गन्धर्वदत्तां तां श्रीदत्तेनाग्निसाक्षिकम्।
दत्तां स जीवकस्वामी पर्यणैष्ट यथाविधि ॥53॥
टिप्पणी: श्लोक 50 में “सिंधुक्षिताश्चक्रुः” छपा है; शुद्ध रूप “संधुक्षिताश्चक्रुः” है।
चतुर्थो लम्बः (श्लोक 1 से 47)
अथ जीवन्धरस्वामी रेमे रामासमन्वितः।
संसारेऽपि यथायोग्याद्भोग्यान्ननु सुखी जनः ॥1॥
माधवोऽथ जलक्रीडां पौराणामुदपादयत्।
रागान्धानां वसन्तो हि बन्धुरग्नेरिवानिलः ॥2॥
जीवन्धरकुमारोऽपि मित्रैर्द्रष्टुमयादमूम्।
नवापगाजलक्रीडां लोको ह्यभिनवप्रियः ॥3॥
अवधिषुर्द्विजास्तत्र हविर्दूषितभाषणम्।
क्रूराः किं किं न कुर्वन्ति कर्म धर्मपराङ्मुखाः ॥4॥
निर्निमित्तमपि घ्नन्ति हन्त जन्तूनधार्मिकाः।
किं पुनः कारणाभासे नो चेदत्र निवारकः ॥5॥
तद्व्यथां वीक्षमाणोऽयं कुमारो विषसाद सः।
तद्धि कारुण्यमन्येषां स्वस्येव व्यसने व्यथा ॥6॥
प्रत्युज्जीवयितुं श्वानं यत्नेनाप्यथ नाशकत्।
न ह्यकालकृतो यत्नो भूयानपि फलप्रदः ॥7॥
परलोकार्थमस्यायं पञ्चमन्त्रमुपादिशत्।
निर्वाणपथपान्थानां पाथेयं तद्धि किं परैः ॥8॥
यक्षेन्द्रोऽजनि यक्षोऽयमहो मन्त्रस्य शक्तितः।
कालायसं हि कल्याणं कल्पते रसयोगतः ॥9॥
मरणक्षणलब्धेन येन श्वा देवताजनि।
पञ्चमन्त्रपदं जप्यमिदं केन न धीमता ॥10॥
स कृतज्ञचरो देवः कृतज्ञत्वात्तदागमत्।
अन्तर्मुहूर्ततः पूर्तिर्दिव्यायाः हि तनोर्भवेत् ॥11॥
कुमारममरो दृष्ट्वा हृष्टस्तुष्टाव मृष्टवाक्।
उपकारस्मृतिः कस्य न स्यान्नो चेदचेतनः ॥12॥
व्यस्मेष्ट तेन न स्वामी मनुमाहात्म्यनिर्णयात्।
मुक्तिप्रदेन मन्त्रेण देवत्वं न हि दुर्लभम् ॥13॥
स्मर्तव्योऽस्मि महाभागेत्युक्त्वा देवस्तिरोऽभवत्।
प्रतिकर्तुं कथं नेच्छेदुपकर्तुः सचेतनः ॥14॥
सारमेयचरे देवे तमाश्लिष्य मुहुर्मुहुः।
आपृच्छ्य च गते तस्मिन्नत्र प्रस्तुतमुच्यते ॥15॥
चूर्णार्थं सुरमञ्जर्याः स्पर्धाभूद्गुणमालया।
एकार्थस्पृहया स्पर्धा न वर्धेतात्र कस्य वा ॥16॥
मा भूत्पराजिता स्नाता नादेये वारिणीति वै।
सङ्गिराते स्म ते सख्यौ मात्सर्यात्किं न नश्यति ॥17॥
कन्ये प्राहिणुतां पश्चाच्चेट्यौ स्वे निकटे सताम्।
कुत्सितं कर्म किं किं वा मत्सरिभ्यो न रोचते ॥18॥
अस्थिषातामथागत्य चेट्यौ जीवककोविदे।
अनवद्या सती विद्या लोके किं न प्रकाशते ॥19॥
गुणवद्गुणमालायाश्चूर्णं निर्वर्ण्य सोऽभ्यधात्।
पाण्डित्यं हि पदार्थानां गुणदोषविनिश्चयः ॥20॥
चेटी तु सुरमञ्जर्यास्तत् श्रुत्वा रोषणाऽब्रवीत्।
अन्यैरप्युक्तमुक्तं तैः किमध्यैष्ट भवानिति ॥21॥
चूर्णयोरलिभिः स्वामी गुणदोषावसाधयत्।
निर्विवादविधिर्नो चेन्नैपुण्यं नाम किं भवेत् ॥22॥
आकालिकतया दुष्टं चूर्णमन्यदवर्णयत्।
न ह्यकालकृतं कर्म कार्यनिष्पादनक्षमम् ॥23॥
कुमारादथ कुट्टन्यौ नुत्वा नत्वा च निर्गते।
निर्विवादं वितन्वानाः न स्तुत्याः केन भूतले ॥24॥
तच्चासीत्सुरमञ्जर्याः विरागस्यैव कारणम्।
न ह्यत्र रोचते न्यायमीर्ष्यादूषितचेतसे ॥25॥
प्रार्थिताप्यकृतस्नाना सत्वरं सुरमञ्जरी।
न्यवर्तिष्ट महारोषादीर्ष्या हि स्त्रीसमुद्भवा ॥26॥
जीवकादपरान्नेक्षे पुरुषानिति संविदा।
कन्या-गृहमथ प्रापन्न हि भेद्यं मनः स्त्रियाः ॥27॥
सख्यां तथैव यातायां गुणमाला शुशोच ताम्।
न ह्यनिष्टेष्टसंयोगवियोगाभमरुन्तुदम् ॥28॥
गन्धसिन्धुरतो भीतिरासीदथ पुरौकसाम्।
विपदोऽपि हि तद्भीतिर्मूढानां हन्त बाधिका ॥29॥
परिजनस्तु तं पश्यन्गुणमालामथात्यजत्।
न हि सन्तीह जन्तूनामपाये सति बान्धवाः ॥30॥
कृत्वा तां पृष्ठतो धात्री काचिदस्थाद्दयावहम्।
हतायां मय्यतः पूर्वं कन्येयं हन्यतामिति ॥31॥
समदुःखसुखा एव बन्धवो ह्यत्र बान्धवाः।
दूता एव कृतान्तस्य द्वन्द्वकाले पराङ्मुखाः ॥32॥
स्वामी परिणतं वीक्ष्य करिणं तं न्यवारयत्।
स्वापदं न हि पश्यन्ति सन्तः पारार्थ्यतत्पराः ॥33॥
यत्र क्वापि हि सन्त्येव सन्तः सार्वगुणोदयाः।
क्वचित्किमपि सौजन्यं नो चेल्लोकः कुतो भवेत् ॥34॥
परिवारोऽप्यथायासीदहंपूर्विकया स्वयम्।
स्वास्थ्ये ह्यदृष्टपूर्वाश्च कल्पयन्त्येव बन्धुताम् ॥35॥
अन्योऽन्यदर्शनादासीत्कामः कन्याकुमारयोः।
दुःखस्यानन्तरं सौख्यं ततो दुःखं हि देहिनाम् ॥36॥
अशान्तस्वान्तसन्तापा निशान्तं प्राप सा पुनः।
नो चेद्विवेकनीरौघो रागाग्निः केन शाम्यति ॥37॥
क्रीडाशुकं च प्राहैषीत्सविधे स्वामिनः पुनः।
योग्यायोग्यविचारोऽयं रागान्धानां कुतो भवेत् ॥38॥
चाटुं प्रायुङ्क्त कीरोऽपि तं पश्यन्स्वेष्टसिद्धये।
एतादृशेन लिङ्गेन परलोको हि साध्यते ॥39॥
विषयेषु समस्तेषु कामं सफलयन्सदा।
गुणमालां जगन्मान्यां जीवयञ्जीवताच्चिरम् ॥40॥
इत्याशिषा कुमारोऽपि तत्सन्देशाच्च पिप्रिये।
इष्टस्थाने सती वृष्टिस्तुष्टये हि विशेषतः ॥41॥
प्रतिसन्देशमप्येषः कीराय प्रत्यपादयत्।
प्रेक्षावन्तो वितन्वन्ति न ह्युपेक्षामपेक्षिते ॥42॥
मुमुदे गुणमालापि दृष्ट्वा पत्रेण पत्रिणम्।
स्वस्यैव सफलो यत्नः प्रीतये हि विशेषतः ॥43॥
पितरावेतदाकर्ण्य मुमुदाते भृशं पुनः।
दुर्लभो हि वरो लोके योग्यो भाग्यसमन्वितः ॥44॥
अथामुष्यायणौ कौचिन्नीतौ गन्धोत्कटान्तिकम्।
न हि नीचमनोवृत्तिरेकरूपास्थिता भवेत् ॥45॥
अनुमेने तयोर्वाक्यं श्रुत्वा गन्धोत्कटोऽपि सः।
अदोषोपहतोऽप्यर्थः परोक्त्या नैव दूष्यते ॥46॥
सुतां विनयमालायाः गुणमालां यथाविधि।
दत्तां कुबेरमित्रेण परिणिन्येऽथ जीवकः ॥47॥
पञ्चमो लम्बः (श्लोक 1 से 49)
अथ व्यूढामिमां मेने स कुमारोऽतिदुर्लभाम्।
प्रयत्नेन हि लब्धं स्यात्प्रायः स्नेहस्य कारणम् ॥1॥
नादत्त कवलं दन्ती स्वामिकुण्डलताडितः।
न हि सोढव्यतां याति तिरश्चां वा तिरस्क्रिया ॥2॥
काष्ठाङ्गारस्तदाकर्ण्य चुकोप स्वामिने भृशम्।
सर्पिष्पातेन सप्तार्चिरुदर्चिः सुतरां भवेत् ॥3॥
सङ्गादनङ्गमालायाः विजयाच्च वनौकसाम्।
वीणाविजयतश्चास्य कोपाग्निः स्थापितो हृदि ॥4॥
गुणाधिक्यं च जीवानामाधेरेव हि कारणम्।
नीचत्वं नाम किं नु स्यादस्ति चेद् गुणरागिता ॥5॥
उपकारोऽपि नीचानामपकाराय कल्पते।
पन्नगेन पयः पीतं विषस्यैव हि वर्धनम् ॥6॥
हस्तग्राहं ग्रहीतुं स कुमारं प्राहिणोद्बलम्।
मूढानां हन्त कोपाग्निरस्थानेऽपि हि वर्धते ॥7॥
कुमारावसथं पश्चात्तत्सैन्यं पर्यवारयत्।
मृगाः किं नाम कुर्वन्ति मृगेन्द्रं परितः स्थिताः ॥8॥
प्रारेभे स कुमारोऽपि प्रहर्तुं रोषतश्चमूम्।
तत्त्वज्ञानजलं नो चेत् क्रोधाग्निः केन शाम्यति ॥9॥
न्यरौसीत्तस्य सन्नाहमथ गन्धोत्कटः शनैः।
अलङ्घयं हि पितुर्वाक्यमपत्यैः पथ्यकाङ्क्षिभिः ॥10॥
पश्चाद्बद्धममुं पश्चादसौ गन्धोत्कटो व्यधात्।
न हि वारयितुं शक्यं पौरुषेण पुराकृतम् ॥11॥
दृष्ट्वापि तं तथाभूतं हन्तुमाह सः दुर्मतिः।
सतां हि प्रह्वता शान्त्यै खलानां दर्पकारणम् ॥12॥
काष्ठाङ्गारं कुमारोऽयं गुरुवाक्येन नावधीत्।
न हि प्राणवियोगेऽपि प्राज्ञैर्लङ्घ्यं गुरोर्वचः ॥13॥
यक्षेण तत्क्षणे स्वामी स्मृतेनादायि कृत्यवित्।
सचेतनः कथं नु स्यादकुर्वन्प्रत्युपक्रियाम् ॥14॥
अतिमात्रशुचा लोकः पुनरेवमचिन्तयत्।
गुणज्ञो लोक इत्येषा किम्वदन्ती हि सूनृतम् ॥15॥
अतिलोकमिदं शाठ्यं काष्ठाङ्गारस्य दुर्मतेः।
एतावदेव किं शाठ्यं स्वामिद्रोहादबिभ्यतः ॥16॥
समवर्त्यपि दुर्वृत्तिरासीदणकभूपवत्।
न ह्यसारतया हन्त सोऽपि गृह्णाति दुर्जनान् ॥17॥
वारि हंस इव क्षीरं सारं गृह्णाति सज्जनः।
यथाश्रुतं यथारुच्यं शोच्यानां हि कृतिर्मता ॥18॥
हेत्वन्तरकृतोपेक्षे गुणदोषप्रवर्तिते।
स्वातामादानहाने चेत्तद्धि सौजन्यलक्षणम् ॥19॥
युक्तायुक्तवितर्केऽपि तर्करूढविधावति।
पराङ्मुखात्फलं किम्वा वैदुष्याद्वैभवादपि ॥20॥
इत्यूहादाधिमापन्ने लोके तेऽपि युयुत्सवः।
सखायः सानुजाः सर्वे पश्चात्तापमुपागमन् ॥21॥
स्मरन्तौ मुनिवाक्यस्य सप्राणौ पितरौ स्थितौ।
वितथे मुनिवाक्येऽपि प्रामाण्यं वचने कुतः ॥22॥
स्वामिनो न विषादो वा प्रसादो वा तदाऽभवत्।
किं तु पूर्वकृतं कर्म भोक्तव्यमिति मानसम् ॥23॥
अथ चन्द्रोदयाह्वान-पर्वतस्थं स्वमन्दिरम्।
यक्षेन्द्रः स्वामिनं नीत्वा कृतवानभिषेचनम् ॥24॥
विपच्च सम्पदे पुण्यात्किमन्यत्तत्र गण्यते।
भानुर्लोकं तपन्कुर्याद्विकासश्रियमम्बुजे ॥25॥
पयोवार्धिपयः पूरैरभिषिच्यायमब्रवीत्।
पवित्रोऽसि पवित्रं मां श्वानं यत्कृतवानिति ॥26॥
कामरूपविधौ गाने विषहाने च शक्तिमत्।
यक्षेन्द्रः स्वामिने पश्चान्मन्त्रत्रयमुपादिशत् ॥27॥
एकहायनमात्रेण धुरि राज्ञां प्रवेक्ष्यसि।
मोक्षस्यैव पवित्र त्वं पश्चादिति च सोऽब्रवीत् ॥28॥
तथा सम्भाव्यमानस्य स्वामिनस्तेन सन्ततम्।
देशान्तरदिदृक्षाभूद् भाव्यधीनं हि मानसम् ॥29॥
मनीषितं हितान्वेषी ज्ञात्वा तस्य मनीषिणः।
अनुमेने स देवोऽपि त्रिकालज्ञा हि निर्जराः ॥30॥
इदंतया पथोदन्तमुपादिश्याथ सम्मतः।
सुदर्शनेन सोऽयासीद्धितकृत्त्वं हि मित्रता ॥31॥
एकाकी व्यहरत्स्वामी निर्भयोऽयमितस्ततः।
न हि स्ववीर्यगुप्तानां भीतिः केसरिणामिव ॥32॥
एकाकिनोऽपि नोद्वेगो वशिनस्तस्य जातुचित्।
विक्रिया हि विमूढानां सम्पदापल्लवादपि ॥33॥
अरण्ये क्वचिदालोक्य वनदावेन वारितान्।
दह्यमानानसौ मह्यस्त्रातुमैच्छदेनकपान् ॥34॥
धर्मो नाम कृपामूलः सा तु जीवानुकम्पनम्।
अशरण्यशरण्यत्वमतो धार्मिकलक्षणम् ॥35॥
ववृषुर्वारिदास्तत्र तावतैव सगर्जिताः।
सुकृतीनामहो वाञ्छा सफलैव हि जायते ॥36॥
अनेकपानसौ वीक्ष्य रक्षितानतृपत्तराम्।
स्वयं त्वासीत्समः स्वामी स्वस्य बन्धविमोक्षयोः ॥37॥
सम्पदापद्द्वये स्वेषां समभावा हि सज्जनाः।
परेषां तु प्रसन्नाश्च विपन्नाश्च निसर्गतः ॥38॥
ततस्तस्माद्विनिर्गत्य तीर्थस्थानान्यपूजयत्।
सदसत्त्वं हि वस्तूनां संसर्गादेव दृश्यते ॥39॥
अथ सम्भावयामास यक्षी सा धर्मरक्षिणी।
धर्ममूर्तिममुं तत्र सम्यक्कशिपुदानतः ॥40॥
दैवतेनापि पूज्यन्ते धार्मिकाः किं पुनः परैः।
अतो धर्मरताः सन्तु शर्मणे स्पृहयालवः ॥41॥
ततः पल्लवदेशस्थां चन्द्राभाख्यां क्रमात्पुरीम्।
भेजे शुभनिमित्तेन सनिमित्ता हि भाविनः ॥42॥
राज्ञो धनपतेः पुत्रीमहिदष्टामजीवयत्।
निर्हेतुकान्यरक्षा हि सतां नैसर्गिको गुणः ॥43॥
लोकपालस्तदालोक्य तज्ज्येष्ठस्तमपूजयत्।
प्राणप्रदायिनामन्या न ह्यस्ति प्रत्युपक्रिया ॥44॥
पूज्या अपि स्वयं सन्तः सज्जनानां हि पूजकाः।
पूज्यत्वं नाम किं नु स्यात्पूज्यपूजाव्यतिक्रमे ॥45॥
प्राज्ञेषु प्रहृतावश्यमात्मवश्योचिता मता।
प्रहृताऽपि धनुष्काणां कार्मुकस्येव कामदा ॥46॥
वपुर्वीक्षणमात्रेण निरणाय्यस्य वैभवम्।
वपुर्वक्ति हि माहात्म्यं दौरात्म्यमपि तद्विदाम् ॥47॥
अर्धराज्यं च कन्यां च पार्थिवः स्वामिने ददौ।
पात्रतां नीतमात्मानं स्वयं यान्ति हि सम्पदः ॥48॥
तिलोत्तमासुतां पश्चाल्लोकपालसमर्पिताम्।
पर्यणैषीत्पवित्रोऽयं पद्माख्यां तां यवीयसीम् ॥49॥
टिप्पणी: श्लोक 10 में “न्यरौसीत्” छपा है; शुद्ध रूप “न्यरौत्सीत्” है। “अलङ्घयं” छपा है; शुद्ध रूप “अलङ्घ्यं” है।
टिप्पणी: श्लोक 12 में “सः दुर्मतिः” छपा है; सन्धि से “स दुर्मतिः” होना चाहिए।
टिप्पणी: श्लोक 34 में “मैच्छदेनकपान्” छपा है; अक्षर उलटे हैं, शुद्ध रूप “मैच्छदनेकपान्” (अनेकपान्) है।
षष्ठो लम्बः (श्लोक 1 से 51)
अथोपयम्य पद्मां तां रमयन्नप्ययात्ततः।
असक्तो हि सुखं भुङ्क्ते कृतार्थोऽपि जनः कृती ॥1॥
पद्मा तु तद्वियोगेन दुःखसागरसादभूत्।
तत्त्वज्ञानविहीनानां दुःखमेव हि शाश्वतम् ॥2॥
लोकपालजनैर्नायं रोद्धुं शेके गवेषिभिः।
प्रतिहन्तुं न हि प्राज्ञैः प्रारब्धं पार्यते परैः ॥3॥
सत्वरं गत्वरः स्वामी तीर्थस्थानान्यपूजयत्।
पावनानि हि जायन्ते स्थानान्यपि सदाश्रयात् ॥4॥
सद्भिरध्युषिता धात्री सम्पूज्येति किमद्भुतम्।
कालायसं हि कल्याणं कल्पते रसयोगतः ॥5॥
सदसत्सङ्गमादेव सदसत्त्वे नृणामपि।
तस्मात्सत्सङ्गताः सन्तु सन्तो दुर्जनदूरगाः ॥6॥
याजंयाजमटन्नेव तीर्थस्थानानि जीवकः।
क्रमेणारण्यमध्यस्थं तापसाश्रममाश्रयत् ॥7॥
असत्तपो विलोक्यासीदनुकम्पी तपस्विनाम्।
निर्व्याजं सानुकम्पा हि सार्वाः सर्वेषु जन्तुषु ॥8॥
अतत्त्वज्ञेऽपि तत्त्वज्ञैर्भवितव्यं दयालुभिः।
कूपे पिपतिषुर्बालो न हि केनाऽप्युपेक्षते ॥9॥
तानप्यबूबुधत्तत्त्वं तत्त्वज्ञः सोऽयमादरात्।
भव्यो वा स्यान्न वा श्रोता पारार्थ्यं हि सतां मनः ॥10॥
न हिंस्यात्सर्वभूतानीत्यस्मिन्प्रवचने सति।
तप्यध्वं किं बुधा यूयं हिंसामात्रफलं तपः ॥11॥
जलावगाहने लग्नाञ्जटायां काष्ठगानपि।
नश्यतः पश्यतां जन्तून्पश्यताग्नौ पुनश्च्युतान् ॥12॥
पञ्चाग्निमध्यमस्थानं ततो नैवोचितं तपः।
जन्तुमारणहेतुत्वादाजवञ्जव-कारणम् ॥13॥
तत्तपो यत्र जन्तूनां सन्तापो नैव जातुचित्।
तच्चारम्भनिर्वृत्तौ स्यान्न ह्यारम्भो विहिंसनः ॥14॥
आरम्भविनिर्वृत्तिश्च निर्ग्रन्थेष्वेव जायते।
न हि कार्यपराचीनैर्मृग्यते भुवि कारणम् ॥15॥
नैर्ग्रन्थ्यं हि तपोऽन्यत्तु संसारस्यैव साधनम्।
मुमुक्षूणां हि कायोऽपि हेयः किमपरं पुनः ॥16॥
ग्रन्थानुबन्धी संसारस्तेनैव न परिक्षयी।
रक्तेन दूषितं वस्त्रं नहि रक्तेन शुध्यति ॥17॥
तत्त्वज्ञानविहीनानां नैर्ग्रन्थ्यमपि निष्फलम्।
न हि स्थाल्यादिभिः साध्यमन्नमन्यैरतण्डुलैः ॥18॥
तत्त्वज्ञानं च जीवादितत्त्वयाथात्म्यनिश्चयः।
अन्यथाधीस्तु लोकेऽस्मिन् मिथ्याज्ञानं तु कथ्यते ॥19॥
आप्तागम पदार्थाख्यतत्त्ववेदनतद्रुची।
वृत्तं च तद्द्वयस्यात्मन्न्यस्खलद्वृत्तिधारणम् ॥20॥
इति त्रयी तु मार्गः स्यादपवर्गस्य नापरम्।
बाह्यमन्यत्तपः सर्वं तत्त्रयस्यैव साधनम् ॥21॥
न च बाह्यतपोहीनमाभ्यन्तरतपो भवेत्।
तण्डुलस्यैव विक्लित्तिर्न हि वह्न्यादिकं विना ॥22॥
तत्त्रयं च न मोक्षार्थमाप्ताभासादिगोचरम्।
ध्यातो गरुडबोधेन न हि हन्ति विषं बकः ॥23॥
सर्वदोषविनिर्मुक्तं सर्वज्ञोपज्ञमञ्जसा।
तप्यध्वं तत्तपो यूयं किं मुधा तुषखण्डनैः ॥24॥
रागादिदोषसंयुक्तः प्राणिनां नैव तारकः।
पतन्तः स्वयमन्येषां न हि हस्तावलम्बनम् ॥25॥
न च क्रीडा विभोस्तस्य बालिशेष्वेव दर्शनात्।
अतृप्तश्च भवेत्तृप्तिं क्रीडया कर्तुमुद्यतः ॥26॥
स्वैराचारस्वभावोऽपि नेश्वरस्यैश्यहानितः।
अप्यस्मदादिभिर्द्वेष्यं सर्वोत्कर्षवतः कुतः ॥27॥
अदोषश्चेदकृत्यं च कृतिनः किमु कृत्यतः।
स्वैराचारविधिर्दृष्टो मत्त एव न चोत्तमे ॥28॥
इति प्रबोधिताः केचिद्बभूवुस्तेषु धार्मिकाः।
मृत्स्ना ह्यार्द्रत्वमायाति नोपलं जलसेचनात् ॥29॥
धर्माश्रितान्समालोक्य तापसान्मुमुदे कृती।
प्रीतये हि सतां लोके स्वोदयाच्च परोदयः ॥30॥
बोधिलाभात्परा पुंसां भूतिः का वा जगत्त्रये।
किम्पाकफलसङ्काशैः किं परैरुदयच्छलैः ॥31॥
ततस्तस्माद्विनिर्गत्य देशे दक्षिणनामके।
सहस्रकूटमाश्रित्य श्रीविमानं नुनाव सः ॥32॥
भगवन्दुर्णयध्वान्तैराकीर्णे पथि मे सति।
सज्ज्ञानदीपिका भूयात्संसारावधिवर्धिनी ॥33॥
जन्मजीर्णाटवीमध्ये जनुषान्धस्य मे सती।
सन्मार्गे भगवन्भक्तिर्भवतान्मुक्तिदायिनी ॥34॥
स्वान्तशान्तिं ममैकान्तामनेकान्तैकनायकः।
शान्तिनाथो जिनः कुर्यात्संसृतिक्लेशशान्तये ॥35॥
इति स्तोत्रेण तच्चासीदुद्घाटितकवाटकम्।
मुक्तिद्वारकवाटस्य भेदिना किं न भिद्यते ॥36॥
अन्याशक्यमिदं मान्यो वितन्वन्न विसिष्मिये।
लोकमालोकसात्कुर्वन्न हि विस्मयते रविः ॥37॥
तावता तं समासाद्य प्रणतः कोऽपि पिप्रिये।
स्वमनीषितनिष्पत्तौ किं न तुष्यन्ति जन्तवः ॥38॥
स्वामी तु तं समालोक्य कस्त्वमार्येति पृष्टवान्।
प्रभूणां प्राभवं नाम प्रणतेष्वेकरूपता ॥39॥
पृष्टः सोऽप्युत्तरं वक्तुमुपादत्त कृतत्वरः।
समीहितेऽपि साहाय्ये प्रयत्नो हि प्रकृष्यते ॥40॥
इह क्षेमपुरी नाम राजधानी विराजते।
नरपतिस्तु देवान्तो राजा तत्पुरनायकः ॥41॥
तस्य श्रेष्ठिपदप्राप्तः सुभद्रस्तस्य गेहिनी।
नाम्ना तु निर्वृतिः पुत्री क्षेमश्रीरित्यभूत्तयोः ॥42॥
जन्मलग्ने च दैवज्ञास्तत्पतिं तमजीगणन्।
स्वयंविघटितद्वारो येनायं स्याज्जिनालयः ॥43॥
तत्परीक्षाकृतेऽत्रैव गुणभद्रसमाह्वयः।
प्रेष्योऽहं प्रेरितस्तिष्ठन्भवन्तं दृष्टवानिति ॥44॥
इत्युक्त्वा स पुनर्नत्वा गत्वा सत्वरमात्मनः।
स्वामिने स्वामिवृत्तान्तममन्दप्रीतिरब्रवीत् ॥45॥
भद्रवार्तां ततः शृण्वन् सुभद्रोऽपि समागतः।
तत्क्षणे च तमद्राक्षीज्जिनपूजाकृतक्षणम् ॥46॥
न गात्रमात्रमद्राक्षीद्विभवं चास्य वैश्यराट्।
सौगन्धिकस्य सौगन्ध्यं शपथात्किं प्रतीयते ॥47॥
इज्यान्तेऽभूद्यथायोग्यमुपचारः परस्परम्।
सतां हि प्रह्वता शास्ति शालीनामिव पक्वताम् ॥48॥
तद्वेश्म तस्य निर्बन्धादथ बन्धुप्रियो गतः।
सख्यं साप्तपदीनं हि लोके सम्भाव्यते सताम् ॥49॥
कन्यायाः करपीडां च तद्दैन्यादन्वमन्यत।
आश्रयन्तीं श्रियं को वा पादेन भुवि ताडयेत् ॥50॥
अथ भद्रतरे लग्ने सुभद्रेण समर्पिताम्।
क्षेमश्रियं पवित्रोऽयमुपयेमे यथाविधि ॥51॥
सप्तमो लम्बः (श्लोक 1 से 83)
अथ वध्वा तया साकमनुबोभूय भूयसीम्।
सुखतातिं ततो यातुं विततान मतिं कृती ॥1॥
अकथयन्नथ स्वामी गणरात्रात्यये गतः।
न हि मुग्धाः सतां वाक्यं विश्वसन्ति कदाचन ॥2॥
तद्वियोगादभूत्पत्नी दग्धरज्जु-समद्युतिः।
प्राणाः पाणिगृहीतीनां प्राणनाथो हि नापरम् ॥3॥
सुभद्रोऽपि पवित्रं तमन्विष्याधिमयोऽभवत्।
बहुयत्नोपलब्धस्य प्रच्यवो हि दुरुत्सहः ॥4॥
स्वामी स्वाभरणत्यागमैच्छद्गच्छन्नतुच्छधीः।
विवेकभूषितानां हि भूषा दोषाय कल्पते ॥5॥
धार्मिकाय तदाकल्पं दातुं च समकल्पयत्।
स्थाने हि बीजवद्दत्तमेकं चापि सहस्रधा ॥6॥
तावता सन्यधात्कोऽपि सन्निधेस्तस्य सन्निधौ।
भागधेयविधेया हि प्राणिनां तु प्रवृत्तयः ॥7॥
आगच्छन्तमपृच्छच्च पामरं पार्श्वमात्मनः।
कुतः कुत्र प्रयासि त्वं स्वास्थ्यं चास्ति न वेति च ॥8॥
प्रीतः प्रत्यब्रवीत्सोऽपि प्रश्रयेण समाश्रितः।
मुखदानं हि मुख्यानां लघूनामभिषेचनम् ॥9॥
इतस्ततो मया मह्य गम्यते कार्यकाम्यया।
स्वास्थ्यं स्वास्थ्यतमं भूयात्कार्येऽप्यार्यदृशो मम ॥10॥
इत्युक्तेन कुमारेण प्रत्युक्तो वृषलः पुनः।
स्वास्थ्यं नाम न कृष्यादिजायमानं कृषीवल ॥11॥
षट्कर्मोपस्थितं स्वास्थ्यं तृष्णाबीजं विनश्वरम्।
पापहेतुः परापेक्षि दुरन्तं दुःखमिश्रितम् ॥12॥
आत्मोत्थमात्मना साध्यमव्याबाधमनुत्तरम्।
अनन्तं स्वास्थ्यमानन्दमतृष्णमपवर्गजम् ॥13॥
तदपि स्वपरज्ञाने याथात्म्यरुचिमात्रके।
परित्यागे च पूर्णे स्यात्परमं पदमात्मनः ॥14॥
स्वमपि ज्ञानदृक्सौख्यसामर्थ्यादिगुणात्मकम्।
परं पुत्रकलत्रादि विद्धि गात्रमलं परैः ॥15॥
एवं भिन्नस्वभावोऽयं देही स्वत्वेन देहकम्।
बुध्यते पुनरज्ञानादतो देहेन बध्यते ॥16॥
अज्ञानात्कायहेतुः स्यात्कर्माज्ञानमिहात्मनाम्।
प्रतीके स्यात्प्रबन्धोऽयमनादिः सैव संसृतिः ॥17॥
स्वं स्वत्वेन ततः पश्यन्परत्वेन च तत्परम्।
परत्यागे मतिं कुर्याः कार्यैरन्यैः किमस्थिरैः ॥18॥
परत्यागकृतो ज्ञेयाः सानगारा अगारिणः।
गात्रमात्रधनाः पूर्वे सर्वसावद्यवर्जिताः ॥19॥
मूलोत्तरादिकान्वोढुं त्वं न शक्तो हि तद्गुणान्।
न हि वारणपर्याणं भर्तुं शक्तो वनायुजः ॥20॥
अतस्त्वमधुना धर्मं गृहाण गृहमेधिनाम्।
न ह्यारोढुमधिश्रेणिं यौगपद्येन पार्यते ॥21॥
त्रिचतुः पञ्चभिर्युक्ता गुणशिक्षाणुभिर्व्रतैः।
तत्त्वधीरुचिसम्पन्नाः सावद्या गृहमेधिनः ॥22॥
अहिंसा सत्यमस्तेयं स्वस्त्रीमितवसुग्रहौ।
मद्यमांसमधुत्यागैस्तेषां मूलगुणाष्टकम् ॥23॥
भोगोपभोगसंहारोऽनर्थदण्डव्रतान्वितः।
गुणानुबृंहणाद् ज्ञेयो दिग्व्रतेन गुणव्रतम् ॥24॥
सप्रोषधोपवासेन व्रतं सामायिकेन च।
देशावकाशिकेन स्याद् वैयावृत्यं तु शिक्षकं ॥25॥
परिच्छिन्नदिशि प्राप्तिं त्यागं निष्फलदुष्कृतेः।
मितान्नस्त्र्यादिकत्वं च कृत्यं विद्धि गुणव्रते ॥26॥
सञ्चारस्यावधिर्नित्यं सचिह्ना चात्मभावना।
दानाद्यैरुपवासश्च पर्वादिष्वन्यतः कृती ॥27॥
अणुव्रती व्रतैरेतैः क्वचिद्देशे क्वचित्क्षणे।
महाव्रती भवेत्तस्माद् ग्राह्यं धर्ममगारिणाम् ॥28॥
इत्युक्तः प्रत्यगृह्णाच्च स धर्मं गृहमेधिनाम्।
कः कदा कीदृशो न स्याद्भाग्ये सति पचेलिमे ॥29॥
अत्यादरान्निजाहार्यममुष्मै दानविद्ददौ।
नादाने किन्तु दाने हि सतां तुष्यति मानसम् ॥30॥
अनर्घ्याकल्पलाभाच्च धर्मलाभाच्च पिप्रिये।
तादात्विकसुखप्रीतिः संसृतौ हि विशेषतः ॥31॥
तं विसृज्य ततः स्वामी तस्य स्मृत्यैव निर्ययौ।
प्रत्यक्षे च परोक्षे च सन्तो हि समवृत्तिकाः ॥32॥
अथारण्ये क्वचिच्छ्रान्तो निषण्णो निरुपद्रवः।
शरण्यं सर्वजीवानां पुण्यमेव हि नापरम् ॥33॥
तत्र चैकाकिनीं रामां पश्यन्नासीत्पराङ्मुखः।
अपदोषानुषङ्गा हि करुणा कृतिसम्भवा ॥34॥
सा तु जाता वृषस्यन्ती वृषस्कन्धस्य वीक्षणात्।
अप्राप्ते हि रुचिः स्त्रीणां न तु प्राप्ते कदाचन ॥35॥
अश्वस्यन्तीं विभाव्यैनामाकूतज्ञो व्यरज्यत।
अनुरागकृदज्ञानां वशिनां हि विरक्तये ॥36॥
पृथक्चेदङ्गनिर्माणं चर्ममांसमलादिकम्।
सजुगुप्सेऽत्रतत्पुञ्जे मूढात्मा हन्त मुह्यति ॥37॥
दुर्गन्धमलमांसादिव्यतिरिक्तं विवेचने।
नेक्षते जातु देहेऽस्मिन्मोहे को हेतुरात्मनाम् ॥38॥
अज्ञानमशुचेर्बीजं ज्ञात्वा व्यूहं च देहकम्।
आत्मात्र सस्पृहो वक्ति कर्माधीनत्वमात्मनः ॥39॥
मदीयं मांसलं मांसममीमांसेयमङ्गना।
पश्यन्ती पारवश्यान्धा ततो याम्यात्मनेऽथवा ॥40॥
अङ्गारसदृशी नारी नवनीतसमा नराः।
तत्तत्सान्निध्यमात्रेण द्रवेत्पुंसां हि मानसम् ॥41॥
संलापवासहासादि तद्वर्ज्यं पापभीरुणा।
बालया वृद्धया मात्रा दुहित्रा वा व्रतस्थया ॥42॥
इति वैराग्यतर्केण ततो यातुं प्रचक्रमे।
भेतव्यं खलु भेतव्यं प्राज्ञैरज्ञोचितात्परम् ॥43॥
विरक्तमेव रक्ता सा निश्चिकाय विपश्चितम्।
निसर्गादिङ्गितज्ञानमङ्गनासु हि जायते ॥44॥
तस्य स्वान्तं वशीकर्तुं स्वोदन्तमियमूचिषी।
प्रतारणविधौ स्त्रीणां बहुद्वारा हि दुर्मतिः ॥45॥
विद्धि दीनां महाभाग मां विद्याधरकन्यकाम्।
स्यालेनात्र बलान्नीतां त्यक्तामात्मप्रियाभयात् ॥46॥
अनङ्गतिलकां नाम्ना पुंसां तिलक रक्ष माम्।
अशरण्यशरण्यत्वं वरेण्ये वर्ततामिति ॥47॥
तावदार्तस्वरः कोऽपि शुश्रुवे श्रुतशालिना।
क्व प्रयाता प्रिये प्राणा मम यान्तीति दुःसहः ॥48॥
योषाप्येषा मिषेणास्मान्निमेषादिव निर्ययौ।
मायामयी हि नारीणां मनोवृत्तिर्निसर्गतः ॥49॥
आर्तस्वरकरोऽप्याह दैन्यं मान्यस्य वीक्षणात्।
शोच्याः कथं न रागान्धा ये तु वाच्यान्न बिभ्यति ॥50॥
उदन्योपद्रुतामत्र मान्य! भार्यां पतिव्रताम्।
पानीयार्थमवस्थाप्य नाद्राक्षं प्रस्थितागतः ॥51॥
विद्याप्यविद्यमानैव मम विद्याधरोचिता।
मर्त्योत्तम भवानत्र कर्तव्यं कथयेदिति ॥52॥
पुरन्ध्रीष्वति सन्धानादभैषीदभयङ्करः।
वचनीयाद्धि भीरुत्वं महतां महनीयता ॥53॥
नभश्चरं पुनश्चैनं स विपश्चिदबोधयत्।
अपश्चिमफलं वक्तुं निश्चितं हि हितार्थिनः ॥54॥
भवदत्त! मुधार्तोऽसि विद्यावित्तो भवन्नपि।
न विद्यते हि विद्यायामगम्यं रम्यवस्तुषु ॥55॥
नभश्चर न कश्चित्स्याद्विपश्चिदविपश्चितोः।
विनिश्चलशुचोर्भेदो यतश्चन कुतश्चन ॥56॥
परं सहस्रधीभाजि स्त्रीवर्गे का पतिव्रता।
पातिव्रत्यं हि नारीणां गत्यभावे तु कुत्रचित् ॥57॥
मदमात्सर्यमायेर्ष्यारागरोषादिभूषिताः।
असत्याशुद्धिकौटिल्यशाठ्यमौढ्यधनाः स्त्रियः ॥58॥
निर्घृणे निद्रये क्रूरे निर्व्यवस्थे निरङ्कुशे।
पापे पापनिमित्ते च कलत्रे ते कुतः स्पृहा ॥59॥
इत्युपादिष्टमेतस्य हृदये नासजत्तराम्।
जठरे सारमेयस्य सर्पिषो न हि सञ्जनम् ॥60॥
स्वामी तु तस्य मौढ्येन सुतरामन्वकम्पत।
उत्पथस्थे प्रबुद्धानामनुकम्पा हि युज्यते ॥61॥
ततस्तस्माद्विनिर्गत्य कमप्याराममाश्रयत्।
अदृष्टपूर्वदृष्टौ हि प्रायेणोत्कण्ठते मनः ॥62॥
तत्राम्रफलमाक्रष्टुं धनुषा कोऽपि नाशकत्।
अशक्तैः कर्तुमारब्धं सुकरं किं न दुष्करम् ॥63॥
स्वामी तु तत्फलं विद्धमादत्त सशिलीमुखम्।
तत्तन्मात्रकृतोत्साहैः साध्यते हि समीहितम् ॥64॥
अपराद्धपृषत्कोऽपि दृष्ट्वा व्यस्मेष्ट तत्कृतिम्।
अपदानमशक्तानामद्भुताय हि जायते ॥65॥
स्वामिनोऽयं स्ववृत्तान्तं सकातर्यं समभ्यधात्।
सन्निधाने समर्थानां वराको हि परो जनः ॥66॥
कर्तव्यं वा न वा प्रोक्तं मया कार्मुककोविद।
कर्णकट्वपि मद्वाक्यमाकर्णयितुमर्हसि ॥67॥
एतन्मध्यमदेशस्था हेमाभा स्यादियं पुरी।
क्षत्रियो दृढमित्रः स्यात्तत्प्रिया नलिनाह्वया ॥68॥
सुमित्राद्यास्तयोः पुत्रास्तेष्वप्यन्यतमोऽस्म्यहम्।
वयसैव वयं पक्वा विश्वेऽपि न तु विद्यया ॥69॥
तातपादोऽयमस्माकं चापविद्याविशारदम्।
विचिनोति न चेद्दोष एषोऽप्यालोक्यतामिति ॥70॥
तद्व्याहारे विसंवादो विदुषोऽप्यस्य नाजनि।
विधिर्घटयतीष्टार्थेः स्वयमेव हि देहिनः ॥71॥
पार्थिवं च ततः पश्यंस्तद्वश्योऽभूच्च सम्मतेः।
अनुसारप्रियो न स्यात्को वा लोके सचेतनः ॥72॥
महीक्षिता क्षणात्तस्य माहात्म्यमपि वीक्षितम्।
वपुर्वक्ति हि सुव्यक्तमनुभावमनक्षरम् ॥73॥
सुतविद्यार्थमत्यर्थं पार्थिवस्तमयाचत।
आराधनैकसम्पाद्या विद्या न ह्यन्यसाधना ॥74॥
अभ्यर्थनबलात्तस्य कुमारोऽप्यभ्युपागमत्।
स्वयं देया सती विद्या प्रार्थनायां तु किं पुनः ॥75॥
पवित्रोऽपि सुतान्विद्यां स प्रापयदवञ्चितम्।
कृतार्थानां हि पारार्थ्यमैहिकार्थपराङ्मुखम् ॥76॥
प्रश्रयेण बभूवुस्ते प्रत्यक्षाचार्यरूपकाः।
विनयः खलु विद्यानां दोग्ध्री सुरभिरञ्जसा ॥77॥
वीक्ष्य तानतृपद्भूपो विद्यानां पारदृश्वनः।
पुत्रमात्रं मुदे पित्रोर्विद्यापात्रं तु किं पुनः ॥78॥
अतिमात्रं पवित्रं तं धात्रिपः समभावयत्।
असम्भावयितुर्दोषो विदुषां चेदसम्मतिः ॥79॥
महोपकारिणः किं वा कुर्यामित्यप्यतर्कयत्।
विद्याप्रदायिनां लोके का वा स्यात्प्रत्युपक्रिया ॥80॥
कन्याविश्राणनं तस्मै करणीयमजीगणत्।
शक्यमेव हि दातव्यं सादरैरपि दातृभिः ॥81॥
अभ्युपाजीगमत्पुत्रीं परिणेतुममुं पुनः।
उदाराः खलु मन्यन्ते तृणायेदं जगत्त्रयम् ॥82॥
ततः कनकमालाख्यां कन्यां राज्ञा समर्पिताम्।
पर्यणैषीत्पवित्रोऽयं पवित्रामग्निसाक्षिकम् ॥83॥
टिप्पणी: श्लोक 10 में “मह्य” छपा है; “मह्यां” होना चाहिए।
टिप्पणी: श्लोक 59 में “निद्रये” छपा है; शुद्ध रूप “निर्दये” है।
टिप्पणी: श्लोक 71 में “इष्टार्थेः” छपा है; तृतीया बहुवचन “इष्टार्थैः” होना चाहिए।
अष्टमो लम्बः (श्लोक 1 से 73)
अथ तत्करपीडान्तेऽसक्तस्वान्तोऽभवत्सुधीः।
तीरस्थाः खलु जीवन्ति न हि रागाब्धिगाहिनः ॥1॥
स्यालानां तत्र वात्सल्यादवात्सीत्सुचिरं सुधीः।
वत्सलेषु च मोहः स्याद्वात्सल्यं हि मनोहरम् ॥2॥
यापितोऽपि महाकालस्तस्य नोद्वेगमातनोत्।
वत्सलैः सह संवासे वत्सरो हि क्षणायते ॥3॥
कदाचित्कापि तत्प्रान्तं समन्दस्मितमासदत्।
नैसर्गिकं हि नारीणां चेतः सम्मोहि चेष्टितम् ॥4॥
अप्राक्षीत्तां च साकूतां किमायातेति सादरः।
विवक्षालिङ्गितं हि स्यात्प्रष्टुः प्रश्नकुतूहलम् ॥5॥
अत्र चायुधशालायां चैकदैवाविशेषतः।
स्वामिन्स्वामिनमद्राक्षमित्यसौ प्रत्यभाषत ॥6॥
अतिमात्रं पवित्रोऽयमचित्रीयत तच्छ्रुतेः।
अयुक्तं खलु दृष्टं वा श्रुतं वा विस्मयावहम् ॥7॥
नन्दाढ्यः किमिहायात इत्ययं पुनरौहत।
संसारविषये सद्यः स्वतो हि मनसो गतिः ॥8॥
प्रागेव तन्मनोवृत्तेः प्रययौ तत्र तद्वपुः।
आस्थायां हि विना यत्नमस्ति वाक्कायचेष्टितम् ॥9॥
गत्वा तत्र च नन्दाढ्यं पश्यन्सम्मदसादभूत्।
भ्रातुर्विलोकनं प्रीत्यै विप्रयुक्तस्य किं पुनः ॥10॥
अनुजोऽपि तमालोक्य मुमुचे दुःखसागरात्।
विस्मृतं हि चिरं भुक्तं दुःखं स्यात्सुखलाभतः ॥11॥
कथमाया इति ज्यायानन्वयुङ्क्त मिथोऽनुजम्।
वञ्चनं चावमानं च न हि प्राज्ञैः प्रकाश्यते ॥12॥
सखेदं ध्यातदुःखोऽयमाचख्यौ वृत्तिमात्मनः।
ध्यातेऽपि हि पुरा दुःखे भृशं दुःखायते जनः ॥13॥
पूज्यपाद तदास्माकं पापाद्भवति निर्गते।
मृतकल्पोऽप्यहं मर्तुं सर्वथा समकल्पयम् ॥14॥
विद्याविदितवृत्तान्ता कथंवृत्ता प्रजावती।
इत्यालोच्यैव संस्थाने बोधो मे समजायत ॥15॥
एवं भाविभवद्दृष्टिशम्भरत्वादहं पुनः।
प्रजावतीगृहं प्राप्य सविषादमवास्थिषम् ॥16॥
स्वामिनि स्वामिहीनानां कुतः स्त्रीणां सुखासिका।
इति वक्तुमुपक्रान्ते हृदयज्ञा तु साभ्यधात् ॥17॥
अङ्ग किं खिद्यसे ज्यायाननुपद्रव एव ते।
वयमेव महापापा मध्ये दुःखाब्धिपातिताः ॥18॥
प्रतिदेशं प्रतिग्रामं प्रतिगृह्यैव मह्यते।
विपच्च सम्पदे हि स्याद्भाग्यं यदि पचेलिमम् ॥19॥
द्रष्टुमिच्छसि चेद्वत्स तं जनं तव पूर्वजम्।
किं नु ताम्यसि गम्येत क्व नु पापा हि भामिनी ॥20॥
इत्युक्त्वा शाययित्वा च शय्यायां साभिमन्त्रितम्।
मामत्रभवती चात्र सपत्रं प्राहिणोदिति ॥21॥
अखिद्यत ततः स्वामी सदयैरनुजोदितैः।
स्नेहपाशो हि जीवानामासंसारं न मुञ्चति ॥22॥
गुणमालाव्यथाशंसि पत्रं चायमवाचयत्।
चतुराणां स्वकार्योक्तिः स्वमुखान्न हि वर्तते ॥23॥
अन्यापदेशसन्देशात्खेचर्यां खेदवानभूत्।
विद्वेषः पक्षपातश्च प्रतिपात्रं च भिद्यते ॥24॥
प्रियाशोकश्रुतेर्जातः शोकोऽप्येतस्य नास्फुरत्।
न हि प्रसादखेदाभ्यां विक्रियन्ते विवेकिनः ॥25॥
वैवाहिकगृहस्थाश्च ह्यातस्थुरनुजं भृशम्।
बन्धोर्बन्धौ च बन्धो हि बन्धुता चेदवञ्चिता ॥26॥
अवस्कन्दाद्गवां गोपा अथाक्रोशन्नृपाङ्गणे।
पीडायां तु भृशं जीवा अपेक्षन्ते हि रक्षकान् ॥27॥
सानुक्रोशं तदाक्रोशं क्षमाधीशो न चक्षमे।
पातापायान्न चेत्पायात्कुतो लोकव्यवस्थितिः ॥28॥
स्वामी श्वशुररुद्धोऽपि गोमोचनकृते ययौ।
पराभवो न सोढव्योऽशक्तैः शक्तैस्तु किं पुनः ॥29॥
दस्यवोऽपि गवां तत्र मित्राण्येवाभवन्विभोः।
एधोगवेषिभिर्भाग्ये रत्नं चापि हि लभ्यते ॥30॥
समोऽभूत्स्वामिमित्रेषु स्नेहश्चान्योन्यवीक्षणात्।
एककोटिगतस्नेहो जडानां खलु चेष्टितम् ॥31॥
जामातरि चमत्कारो राज्ञोऽभून्मित्रवीक्षणात्।
कृतिनोऽपि न गण्या हि वीतस्फीतपरिच्छदाः ॥32॥
समित्रावरजोऽहृष्यदतिमात्रमसौ कृती।
एकेच्छानामतुच्छानां न ह्यन्यत्सङ्गमात्सुखम् ॥33॥
अयथापुरसन्मानात्समशेत सखीनसौ।
विशेते हि विशेषज्ञो विशेषाकारवीक्षणात् ॥34॥
रहस्येव वयस्येषु तन्निदानमचोदयत्।
एककण्ठेषु जाता हि बन्धुता ह्यवतिष्ठते ॥35॥
मुख्यं सख्यं गतस्तेषामाचख्यौ पङ्कजाननः।
सज्जनानां हि शैलीयं सक्रमारम्भशालिता ॥36॥
स्वामिन्स्वामिवियोगेऽपि युक्ता दग्धासुभिर्वयम्।
अस्तोकभाविभाग्येन हस्तग्राहं ग्रहादिव ॥37॥
साश्वासाश्च ततो देव्या दत्तहस्तावलम्बनाः।
प्रास्थिष्महि धुरं प्राप्ता वयमश्वीयपाणिनाम् ॥38॥
अतिलङ्घय ततोऽध्वानमध्वश्रमविहानये।
दण्डकारण्यविख्यातं तापसाश्रममाश्रिताः ॥39॥
दर्शं दर्शं ततो दृश्यं विहरन्तोऽत्र विश्वतः।
अपश्याम क्वचित्काञ्चित्पुण्यतः पुण्यमातरम् ॥40॥
तन्मात्रा दृष्टमात्रेण कुत्रत्या इति चोदिताः।
वयमप्युत्तरं वक्तुमुपक्रम्य यथाक्रमम् ॥41॥
अस्ति राजपुरे कश्चिद्विबुधानामपश्चिमः।
विशां च जीवकाख्योऽयमेतं जीवातुका वयम् ॥42॥
काष्ठाङ्गाराह्वयः कोऽपि कोपादेनमनेनसम्।
हन्तुं किलेत्यवोचाम मूर्च्छिता सा च पेतुषी ॥43॥
हन्त हन्त हतो नायमम्बेत्यभिहिता मया।
पिहितासुप्रयाणा सा प्रालपल्लब्धचेतना ॥44॥
अम्भोदालीव दम्भोलीममृतं च मुमोच सा।
देवी समं प्रलापेन देवोदन्तमिदन्तया ॥45॥
तन्मुखात्खादिवोत्पन्नां रत्नवृष्टिं तवोन्नतिम्।
उपलभ्य वयं लब्धाममन्यामहि तन्महीम् ॥46॥
देववैभवसङ्कीर्त्या ततो देवीं पुनः पुनः।
आश्वास्यापृच्छ्य तद्देशादिमं देशं गता इति ॥47॥
मातुर्जीवन्मृतिज्ञानात्तत्त्वज्ञः सोऽप्यखिद्यत।
जीवानां जननीस्नेहो न ह्यन्यैः प्रतिहन्यते ॥48॥
अत्वरिष्ट च तां द्रष्टुं कौरवो गुरुगौरवः।
अम्बामदृष्टपूर्वां च द्रष्टुं को नाम नेच्छति ॥49॥
व्यस्मारि मातरि स्नेहान्मान्येनान्यदशेषतः।
रागद्वेषादि तेनैव बलिष्ठेन हि बाध्यते ॥50॥
अन्वजिज्ञपदात्मीयां गतिं भार्यां परानपि।
आवश्यकेऽपि बन्धूनां प्रातिकूल्यं हि शल्यकृत् ॥51॥
अनुनीयानुगान्बन्धून्प्रसभं प्रययौ ततः।
अनुनयो हि माहात्म्यं महतामुपबृंहयेत् ॥52॥
प्रसवित्रीं ततः प्रेक्ष्य प्रेमान्धोऽभूदवन्ध्यधीः।
तत्त्वज्ञानतिरोभावे रागादि हि निरङ्कुशम् ॥53॥
जातजातक्षणत्यागाज्जातं दुर्जातमक्षिणोत्।
सुतवीक्षणतो माता सुतप्राणा हि मातरः ॥54॥
सूनोर्वीक्षणतस्तृप्ता क्षोणीशं तमियेष सा।
लाभं लाभमभीच्छा स्यान्न हि तृप्तिः कदाचन ॥55॥
कश्चित्पितुः पदं ते स्यादङ्गपुत्रेत्यचोदयत्।
सामग्रीविकलं कार्यं न हि लोके विलोकितम् ॥56॥
अम्ब किं बत खेदेन वाढं स्यादिति सोऽभ्यधात्।
मुग्धेष्वतिविदग्धानां युक्तं हि बलकीर्तनम् ॥57॥
पुत्रवाक्येन हस्तस्थां मेने माता च मेदिनीम्।
मुग्धाः श्रुतविनिश्चेया न हि युक्तिवितर्किणः ॥58॥
अपायस्थानमस्तोकं दूरक्षं व्याहरद्विभोः।
अमित्रो हि कलत्रं च क्षत्रियाणां किमन्यतः ॥59॥
कर्तव्यं च ततो मात्रा मन्त्रितं तेन मन्त्रिणा।
विचार्यैवेतरैः कार्यं कार्यं स्यात्कार्यवेदिभिः ॥60॥
प्राहिणोत्प्रसवित्रीं तां मातुलोपान्तिके कृती।
न हि मातुः सजीवेन सोढव्या स्यादुरासिका ॥61॥
ततः सपरितोषोऽयं परिव्राजकपार्श्वतः।
निकषा स्वपुरं प्राप्य तदारामे निषण्णवान् ॥62॥
तत्र मित्राण्यवस्थाप्य व्यहरत्परितः पुरीम्।
विशृङ्खला न हि क्वापि तिष्ठन्तीन्द्रियदन्तिनः ॥63॥
ततो राजपुरीं वीक्ष्य सुतरामतृपत्सुधीः।
ममत्वधीकृतो मोहः सविशेषो हि देहिनाम् ॥64॥
क्रीडन्ती कापि हर्म्याग्रात्पातयामास कन्दुकम्।
सम्पदामापदां चाप्तिर्व्याजेनैव हि केनचित् ॥65॥
उद्वक्त्रस्तद्वतीं सूत्यां दृष्ट्वामुह्यदबाह्यधीः।
वशिनां हि मनोवृत्तिः स्थान एव हि जायते ॥66॥
तन्मोहादयमध्यास्त तत्सौधाग्रवितर्दिकाम्।
अञ्जसा कृतपुण्यानां न हि वाञ्छापि वञ्चिता ॥67॥
वैश्येशः कोऽपि तं पश्यन्व्याजह्रे विकसन्मुखः।
चिरकाङ्क्षितसम्प्राप्त्या प्रसीदन्ति हि देहिनः ॥68॥
भद्र सागरदत्तोऽहं भवत्येष ममालयः।
विमला कमलोद्भूता सुता सूत्या च साभवत् ॥69॥
रत्नजालमविक्रीतं विक्रीयेत यदागमे।
भाविज्ञास्तं पतिं तस्याः समुत्पत्तावजीगणन् ॥70॥
भवत्यत्र प्रविष्टे च दृष्टमेतदलं परैः।
भाग्याधिक भवानेव योग्यः परिणयेदिति ॥71॥
तन्निर्बन्धादयं चाभूदनुमन्ता तथाविधौ।
वाञ्छितार्थेऽपि कातर्यं वशिनां न हि दृश्यते ॥72॥
अथ सागरदत्तेन दत्तां सत्यन्धरात्मजः।
व्यवहद्विमलां कन्यां हव्यवाहसमक्षकम् ॥73॥
टिप्पणी: श्लोक 39 में “अतिलङ्घय” छपा है; शुद्ध रूप “अतिलङ्घ्य” है।
टिप्पणी: श्लोक 42 में श्लोक-संख्या “॥। ४२॥” छपी है (एक दण्ड अधिक)।
नवमो लम्बः (श्लोक 1 से 36)
अथ व्यूढामतिस्निग्धां गाढस्नेहोऽन्वभूदिमाम्।
वाञ्छिता यदि वाञ्छेयुः ससारैव हि संसृतिः ॥1॥
ततोऽनुनीय तां हित्वा स मित्रैः समगच्छत।
अन्यरोधि न हि क्वापि वर्तते वशिनां मनः ॥2॥
वरचिह्नं तमालोक्य बह्वमन्यन्त बान्धवाः।
ऐहिकातिशयप्रीतिरतिमात्रा हि देहिनाम् ॥3॥
अब्रवीदस्य सोत्प्रासं बुद्धिषेणो विदूषकः।
बहुद्वारा हि जीवानां पराराधनदीनता ॥4॥
सुलभाः खलु दौर्भाग्यादन्योपेक्षितकन्यकाः।
व्यूढायां सुरमञ्जर्यां पौरोभाग्यं भवेदिति ॥5॥
तद्वाक्यादयमुद्वोढुमवाञ्छीत्तां च मानिनीम्।
हेतुच्छलोपलम्भेन जृम्भते हि दुराग्रहः ॥6॥
तत्राप्यौपायिकं भूयो यक्षमन्त्रं व्यचीचरत्।
अनपायादुपायाद्धि वाञ्छिताप्तिर्मनीषिणाम् ॥7॥
वार्धकं तत्र चोपायमुपायज्ञोऽयमौहत।
करुणामात्रपात्रं हि बाला वृद्धाश्च देहिनाम् ॥8॥
वार्धकं तत्क्षणे चास्य मनुमाहात्म्यतोऽभवत्।
अनवद्या सती विद्या फलमूकापि किं भवेत् ॥9॥
विजहार पुनश्चायं वर्षीयान्परितः पुरीम्।
अन्यैरशङ्कनीया हि वृत्तिर्नीतिज्ञगोचराः ॥10॥
प्रवयोविप्रवेषं तं वीक्षमाणा विवेकिनः।
विषयेषु व्यरज्यन्त वार्धकं हि विरक्तये ॥11॥
माक्षिकापक्षतोऽप्यच्छे मांसाच्छादनचर्मणि।
लावण्यं भ्रान्तिरित्येतन्मूढेभ्यो वक्ति वार्धकम् ॥12॥
प्रतिक्षणविनाशीदमायुः कायमहो जडाः।
नैव बुध्यामहे किन्तु कालमेव क्षयात्मकम् ॥13॥
हन्त लोको वयस्यन्ते किमन्यैरपि मातरम्।
मन्यते न तृणायापि मृतिः श्लाघ्या हि वार्धकात् ॥14॥
इत्याद्यूहं च हास्यं च जनयन्प्राज्ञबालयोः।
अगारं सुरमञ्जर्याः वर्षीयान्पुनरासदत् ॥15॥
पृष्टो दौवारिकस्त्रीभिराचष्ट फलमागतेः।
कुमारीतीर्थमात्मार्थं न ह्यसत्यं सतां वचः ॥16॥
अहसन्नथ तद्वाक्यादङ्गना अप्यसङ्गतात्।
अविवेकिजनानां हि सतां वाक्यमसङ्गतम् ॥17॥
अरुद्धः कृपया ताभिरगाहिष्ट च तद्गृहम्।
सर्वथा दग्धबीजाभाः कुतो जीवन्ति निर्घृणाः ॥18॥
अभ्यधुः सुरमञ्जर्याः सुन्दर्यः सभया इदम्।
सभयस्नेहसामर्थ्याः स्वाम्यधीना हि किङ्कराः ॥19॥
पुरुषद्वेषिणी सापि वर्षीयांसं न्यशामयत्।
भवितव्यानुकूलं हि सकलं कर्म देहिनाम् ॥20॥
बुभुक्षितं तमालक्ष्य भोजयामास सा सती।
अन्तस्तत्त्वस्य याथात्म्ये न हि वेषो नियामकः ॥21॥
भुक्त्वाथ वार्धकेनेव सुष्वाप तलिमे कृती।
योग्यकालप्रतीक्षा हि प्रेक्षापूर्वविधायिनः ॥22॥
भुवनमोहनं गानमगासीदथ गानवित्।
परस्परातिशायी हि मोहः पञ्चेन्द्रियोद्भवः ॥23॥
गानकौशलतः सैनं शक्तिमन्तममन्यत।
विशेषज्ञा हि बुध्यन्ते सदसन्तौ कुतश्चन ॥24॥
ततः स्वकार्यमप्यस्मात्सादराभूत्परीक्षितुम्।
स्वकार्येषु हि तात्पर्यं स्वभावादेव देहिनाम् ॥25॥
गानवच्छक्तिरन्यत्र किमस्तीत्यन्वयुङ्क्त सा।
याञ्चायां फलमूकायां न हि जीवन्ति मानिनः ॥26॥
वाढमस्ति समस्तेपीत्यब्रवीत्प्रौढनैपुणः।
उक्तिचातुर्यतो दार्ढ्यमुक्तार्थे हि विशेषतः ॥27॥
अभीप्सितवरप्राप्तावुपायं साप्ययाचत।
रागान्धे हि न जागर्तियाञ्चादैन्यवितर्कणम् ॥28॥
कामं कामप्रदं सोऽयं कामदेवमुपादिशत्।
मनीषितानुकूलं हि प्रीणयेत्प्राणिनां मनः ॥29॥
मनीषितं च हस्तस्थं मेने सा सुरमञ्जरी।
मनोरथेन तृप्तानां मूललब्धौ तु किं पुनः ॥30॥
अनैषीत्तामसौ पश्चात्कामकोष्ठं यथेप्सितम्।
विचाररूढकृत्यानां व्यभिचारः कुतो भवेत् ॥31॥
कामं सा प्रार्थयामास जीवकस्वामिकाम्यया।
जन्मान्तरानुबन्धौ हि रागद्वेषौ न नश्यतः ॥32॥
लब्धो वर इति प्रोक्तं बुद्धिषेणेन सा सती।
मनोभुवो वचो मेने स्त्रीणां मौढ्यं हि भूषणम् ॥33॥
कुमारं दर्शिताकारं दृष्ट्वा जिह्वाय तत्क्षणे।
मृतकल्पा हि कल्पन्ते निर्लज्जा निष्कृपा इव ॥34॥
पतिकृत्येन पत्नीं तां सुतरां सोऽप्यतोषयत्।
संसारोऽपि हि सारः स्याद्दम्पत्योरेककण्ठयोः ॥35॥
ततः कुबेरदत्तेन दत्तां तां सुरमञ्जरीम्।
सुमतेरात्मजां सोऽयमुपयेमे यथाविधि ॥36॥
टिप्पणी: श्लोक 10 में “नीतिज्ञगोचराः” छपा है; “वृत्तिः” के साथ एकवचन “नीतिज्ञगोचरा” होना चाहिए।
टिप्पणी: श्लोक 34 में “जिह्वाय” छपा है; शुद्ध रूप “जिह्राय” (√ह्री) है।
दशमो लम्बः (श्लोक 1 से 61)
अथ पाणिगृहीतीं तां बहु मेने बहुप्रियः।
बहुयत्नोपलब्धे हि प्रेमबन्धो विशिष्यते ॥1॥
कृच्छ्रेणाराध्य तां भूयो मित्राणां पार्श्वमाश्रितः।
स्वामीच्छाप्रतिकूलत्वं कुलजानां कुतो भवेत् ॥2॥
सचित्रीयैस्तदा मित्रैः पित्रोरन्तिकमाययौ।
आत्मदुर्लभमन्येन सुलभं हि विलोचनम् ॥3॥
पित्रोरप्यतिमात्रोऽभूत्पुत्रस्नेहोऽस्य वीक्षणात्।
कस्यानन्दकरो न स्यात्कृतान्तास्यादपागतः ॥4॥
ततो गन्धर्वदत्ता च गुणमाला च वल्लभे।
उल्लाघतां क्रमान्नीते नीतिरेषा हि संसृतौ ॥5॥
अथ गन्धोत्कटेनायं मन्त्रयित्वा ततो ययौ।
विधित्सिते ह्यनुत्पन्ने विरमन्ति न पण्डिताः ॥6॥
विदेहाख्ये ततो देशे धरण्यास्तिलकोपमाम्।
तिलकान्त धरण्याख्यां राजधानीमशिश्रयत् ॥7॥
महितो मातुलेनात्र विदेहाधिपभूभुजा।
भागिनेयो महाभागो मह्यां केन न मह्यते ॥8॥
आसीद्गोविन्दराजोऽपि तद्राज्यस्थापनोद्यतः।
स्वयं परिणतो दन्ती प्रेरितोऽन्येन किं पुनः ॥9॥
मन्त्रिभिर्मन्त्रशालायां मन्त्रयामास मन्त्रवित्।
न ह्यमन्त्रं विनिश्चेयं निश्चिते च न मन्त्रणम् ॥10॥
काष्ठाङ्गारस्य संदेशं सचिवैः शुश्रुवानयम्।
ज्ञात्वा हि हृदयं शत्रोः प्रारब्धव्या प्रतिक्रिया ॥11॥
अघेनाहमपख्यातिं राजघे मदहस्तिनि।
लब्धवानवबुध्येत मिथ्येयं तत्त्ववेदिना ॥12॥
निःशल्योऽहं भवाम्येष भवत्यत्र समागते।
दुर्जनेऽपि हि सौजन्यं सुजनैर्यदि सङ्गमः ॥13॥
इत्युक्त्या निश्चितोऽरातिरतिसन्धित्सुरञ्जसा।
असतां हि विनम्रत्वं धनुषामिव भीषणम् ॥14॥
विप्रलम्भोत्सुके शत्रौ कार्यान्धोऽयमतप्यत।
दुर्जनाग्रे हि सौजन्यं कर्दमे पतितं पयः ॥15॥
आहूतास्तेन साकूतं गच्छामस्तच्छलाद्वयम्।
इत्युच्चैर्निश्चिकायासौ बकायन्ते हि जिष्णवः ॥16॥
काष्ठाङ्गारेण सञ्जातं सख्यं प्रख्यापयन्नसौ।
डिण्डिमं ताडयामास गतेर्वार्ता हि पूर्वगा ॥17॥
चातुरङ्गबलं पश्चाच्चतुरोऽयं न्यशामयत्।
आलोच्यात्मारिकृत्यानां प्राबल्यं हि मतो विधिः ॥18॥
प्रतस्थे चाथ सल्लग्ने पात्रदानादिपूर्वकम्।
दानपूजातपः शीलशालिनां किं न सिध्यति ॥19॥
अथ राजपुरीं प्राप्य राजा कैश्चित्प्रयाणकैः।
निकषा तत्पुरीं क्वापि निषसाद महाबलः ॥20॥
प्राभृतं प्राहिणोत्तस्य काष्ठाङ्गारो मुधा मुहुः।
हन्त कापटिका लोके बुधायन्ते हि मायया ॥21॥
प्रतिप्राभृतमेतस्मै प्राहैषीत्स्वामिमातुलः।
आ समीहितनिष्पत्तेराराध्याः खलु वैरिणः ॥22॥
कन्याशुल्कतया लोके यन्त्रभेदमघोषयत्।
उपायप्रष्टरूढा हि कार्यनिष्ठानिरङ्कुशाः ॥23॥
धनुर्धराश्च सम्भूतास्त्रैवर्णिककुलोद्भवाः।
आमोहो देहिनामास्थामस्थानेऽपि हि पातयेत् ॥24॥
ततश्चन्द्रकयन्त्रस्थवराहत्रय भेदने।
न शेकुश्चापिनः सर्वे क्व विद्या पारगामिनी ॥25॥
अलातचक्रतः शीघ्रं चक्रमारुह्य हेलया।
विव्याध विजयासूनुर्भानुः किं न तमोहरः ॥26॥
अथ गोविन्दराजोऽपि राज्ञामित्थमचीकथत्।
सात्यन्धरिरयं हीति स्थाने हि कृतिनां गिरः ॥27॥
राजानोऽप्येवमस्माभिरस्मारीत्यभ्यनन्दिषुः।
आचष्टे हि नरेन्द्रत्वमालीढादिषु पाटवम् ॥28॥
काष्ठाङ्गारः कुमारस्य वीक्षणात्क्षीणमानसः।
तच्छ्रुतेर्मृत कल्पोऽयमनल्पाधिरचिन्तयत् ॥29॥
सात्यन्धरौ च सत्यस्मिन्सद्यो हन्त वयं हताः।
वीरेण हि मही भोग्या योग्यतायां च किं पुनः ॥30॥
कथमेनं वणिक्पाशं मथनोऽप्यवधीत्तदा।
आत्मनीने विनात्मानमञ्जसा न हि कश्चन ॥31॥
दुराकूतः किमाहूतो मातुलोऽस्य मया मुधा।
स्ववधाय हि मूढात्मा कृत्योत्थापनमिच्छति ॥32॥
गोविन्दराजयुक्तोऽयं दुर्दान्तः किं न विधित्सति।
मरुत्सखे मरुद्भूते मह्यां किं वा न दह्यते ॥33॥
इति चिन्ताकुलं शत्रुं स्वामिमित्राणि चिक्षिपुः।
विपदो वीतपुण्यानां तिष्ठन्त्येव हि पृष्ठतः ॥34॥
मत्सरी कौरवेणायं भर्त्सनादयुयुत्सत।
मत्सराणां हि नोदेति वस्तुयाथात्मयचिन्तनम् ॥35॥
केचित्कौरवतः केचिद्वैरितोऽप्यभवन्नृपाः।
सुजनेतरलोकोऽयमधुना न हि जायते ॥36॥
कौरवौ ऽप्याहवेऽरातिं लोकान्तरमजीगमत्।
दुर्बला हि बलिष्ठेन बाध्यन्ते हन्त संसृतौ ॥37॥
अथ सङ्ग्रामसंरम्भं कौरवोऽयमवारयत्।
मुधावधादिभीत्या हि क्षत्रिया व्रतिनो मताः ॥38॥
वीरसूर्विजया जाता वीरपत्नी च मे सुता।
इत्युक्त्वा मातुलोऽप्येनमानन्दादभ्यनन्दयत् ॥39॥
समन्ततः समायाताः सामन्तास्तं सिषेविरे।
समौ हि नाट्यसभ्यानां सम्पदां च लयोदयौ ॥40॥
राजपुर्यामगाच्चायमभिषेक्तुं जिनालयम्।
भगवद्दिव्यसान्निध्ये निष्प्रत्यूहा हि सिद्धयः ॥41॥
तावता संन्यधात्तत्र यक्षो यक्षचरो मुदा।
फलमेव हि यच्छन्ति पनसा इव सज्जनाः ॥42॥
अथ गोविन्दराजेन यक्षराजो यथाविधि।
अभ्यषिञ्चन्महाराजं कौरवं गुरुगौरवात् ॥43॥
अयादापृच्छ्य राजेन्द्रं यक्षेन्द्रोऽपि स्वमन्दिरम्।
न ह्यासक्त्या तु सापेक्षो भानुः पद्मविकासने ॥44॥
तर्पिताखिललोकोऽस्मात्सौधाभ्यन्तरमाश्रितः।
सिंहासनमलञ्चक्रे राजसिंहः क्रमागतम् ॥45॥
तद्वृत्तान्तवितर्कोऽभूल्लोके विस्मयबृंहितः।
अतर्क्यसम्पदापद्भ्यां विस्मयो हि विशेषतः ॥46॥
क्व पूज्यं राजपुत्रत्वं प्रेतावासे क्व वा जनिः।
क्व वा राज्यपुनः प्राप्तिरहो कर्मविचित्रता ॥47॥
पुण्यपापादृते नान्यत्सुखे दुःखे च कारणम्।
तन्तवो हि लूतायाः कूपपातनिरोधिनः ॥48॥
हत्त्वा जिघांसुमात्मानं लेभे राज्यं जिघांसितः।
भाव्यवश्यं भवेदेव न हि केनापि रुध्यते ॥49॥
जिजीविषा प्रपञ्चेन जातोऽयं राजवञ्चकः।
काष्ठाङ्गारोऽपि नष्टोऽभूत्स्वयं नाशी हि नाशकः ॥50॥
यक्षः क्षणोपकारेण प्राणदायी बभूव सः।
काष्ठाङ्गारः कृतघ्नोऽभूत्स्वभावो न हि वार्यते ॥51॥
अपकारोपकाराभ्यां सदसन्तौ न भेदिनौ।
दग्धं च भाति कल्याणं केनाङ्गारविशुद्धता ॥52॥
रिक्तारिक्तदशायां च सदसन्तौ न भेदिनौ।
खाताऽपि हि नदी दत्ते पानीयं न पयोनिधिः ॥53॥
इतीयं किंवदन्ती च तद्देशे शंवदाप्यभूत्।
राजवन्ती सती भूमिः कुतो वा न सुखायते ॥54॥
काष्ठाङ्गारकुटुम्बस्याप्यनुमेने सुखासिकाम्।
स्वस्थानेऽपि महाराजो न ह्यस्थानेऽपि रुट् सताम् ॥55॥
यौवराज्ये च नन्दाढ्यं वृद्धक्षत्रोचिते पदे।
गन्धोत्कटं च चक्रेऽसौ लोकवन्द्ये च मातरौ ॥56॥
अकरामकरोद्धात्रीं वर्षाणि द्वादशाप्ययम्।
महिषैः क्षुभितं तोयं न हि सद्यः प्रसीदति ॥57॥
पद्मवक्त्रादिमित्रेभ्यो यथायोग्यमदात्पदम्।
अविशेषपरिज्ञाने न हि लोकोऽनुरज्यते ॥58॥
पद्मादयोऽपि तद्देव्यः समागत्य तदाज्ञया।
तं समीक्ष्य क्षणे चासन्क्षीणाखिलमनोव्यथाः ॥59॥
चिरस्थाय्यपि नष्टं स्याद्विरुद्धार्थे हि वीक्षिते।
सन्निधावपि दीपस्य किं तमिस्रं गुहामुखम् ॥60॥
अथायं नुवतेः पुत्रीं दत्ता गोविन्दभूभुजा।
पर्यणैषीन्महाराजः पार्थिवैर्विहतोत्सवः ॥61॥
टिप्पणी: श्लोक 8 में श्लोक-संख्या “॥८ll” छपी है।
टिप्पणी: श्लोक 35 में “याथात्मयचिन्तनम्” छपा है; शुद्ध रूप “याथात्म्यचिन्तनम्” है।
टिप्पणी: श्लोक 37 में “कौरवौ ऽप्याहवे” छपा है; शुद्ध रूप “कौरवोऽप्याहवे” है।
टिप्पणी: श्लोक 45 में श्लोक-संख्या “॥। ४५॥” छपी है (एक दण्ड अधिक)।
टिप्पणी: श्लोक 61 में “दत्ता” छपा है; “पुत्रीं” के साथ “दत्तां” होना चाहिए (ग्रंथ के अन्वयार्थ में भी “दत्तां” है)।
एकादशो लम्बः (श्लोक 1 से 106)
अथ राज्यश्रिया लब्ध्वा लक्ष्मणां मुमुदे कृती।
चिरकाङ्क्षितलाभे हि तृप्तिः स्यादतिशायिनी ॥1॥
लब्ध्वा राज्यमयं राजा रेजे सर्वगुणैरपि।
काचो हि याति वैगुण्यं गुण्यतां हारगो मणिः ॥2॥
कृतिनामेकरूपा हि वृत्तिः सम्पदसम्पदोः।
न हि नादेयतोयेन तोयधेरस्ति विक्रिया ॥3॥
सुखदुःखे प्रजाधीने तदाभूतां प्रजापतेः।
प्रजानां जन्मवर्जं हि सर्वत्र पितरौ नृपाः ॥4॥
आसीत्प्रीतिकरं तस्य करदानं च दानवत्।
वृषलाः किं न तुष्यन्ति शालेये बीजवापिनः ॥5॥
मित्रोदासीनशत्रूणां विषयेष्वपसर्पतः।
तदज्ञानेऽपि तद्ज्ञानात्तदैवासीत्प्रतिक्रिया ॥6॥
रात्रिन्दिवविभागेषु नियतो नियतिं व्यधात्।
कालातिपातमात्रेण कर्तव्यं हि विनश्यति ॥7॥
तपसा हि समं राज्यं योगक्षेमप्रपञ्चतः।
प्रमादे सत्यधः पातादन्यथा च महोदयात् ॥8॥
प्रबुद्धेऽस्मिन्भुवं कृत्स्नां रक्षत्येकपुरीमिव।
राजन्वती च भूरासीदन्वर्थं रत्नसूरपि ॥9॥
एवं विराजमानेऽस्मिन्राजराजे महोदये।
विजया जननी तस्य विरक्ता संसृतावभूत् ॥10॥
पैतृकं पदमद्राक्षमत्राहं पुत्रपुङ्गवे।
कृताः पुरोपकर्तारः कृतकृत्या यथोचितम् ॥11॥
फलं च पुण्यपापानां मया मय्येव वीक्षितम्।
शास्त्रादृते किमन्यत्र कर्मपाकोऽयमीक्षितः ॥12॥
अतोऽपास्य सुतस्नेहं तपस्यामि यथोचितम्।
ज्ञात्वापि कुण्डपातोऽयं कुत्सितानां हि चेष्टितम् ॥13॥
इति वैराग्यतस्तस्याः सुनन्दापि व्यरज्यत।
पाके हि पुण्यपापानां भवेद्बाह्यं च कारणम् ॥14॥
ततः कृच्छ्रायमाणं ते महीनाथं च कृच्छ्रतः।
अनुज्ञाप्य ततो गत्वादीक्षिषातां यथाविधि ॥15॥
पद्माख्या श्रमणीमुख्या विश्राण्य श्रमणीपदम्।
तन्मातृभ्यां ततस्तं च महीनाथमबोधयत् ॥16॥
प्रव्रज्याः जातुचित्प्राज्ञैः प्रतिषेद्धुं न युज्यते।
न हि खादापतन्ती चेद्रत्नवृष्टिर्निवार्यते ॥17॥
वयस्यन्तेऽपि वा दीक्षा प्रेक्षावद्भिरपेक्ष्यताम्।
भस्मने रत्नहारोऽयं पण्डितैर्न हि दह्यते ॥18॥
इति प्रबोधितो नत्वा प्रसवित्रीं सकाशतः।
प्रश्रयेण गतो राजा प्राविक्षन्नृपमन्दिरम् ॥19॥
न चिराद्धि पदं दत्ते कृतिनां हृदि विक्रिया।
यदि रत्नेऽपि मालिन्यं न हि तत्कृच्छ्रशोधनम् ॥20॥
अथास्य क्षात्रविद्यस्य क्षणवद्भुञ्जतो महीम्।
त्रिदशोपमसौख्येन त्रिंशद्वर्षाण्ययासिषुः ॥21॥
ततः कदाचिदस्यासीज्जलक्रीडामहोत्सवः।
वसन्ते सह कान्ताभिरष्टाभिरतिकौतुकात् ॥22॥
जलक्रीडा श्रमात्सोऽयमाक्रीडे च सनीडके।
क्रीडन्कापटिकैः श्लाघ्यं कापेयं निरवर्तयत् ॥23॥
अन्यसम्पर्कतः क्रुद्धां मर्कटीं कोऽपि मर्कटः।
प्रकृतिस्थां बहुपायैर्नाशकत्कर्तुमुद्यतः ॥24॥
ततः शाखामृगोऽप्यासीन्मायिको मृतवद्दशः।
तदवस्थां भयग्रस्ता वानरीऽयमपाकरोत् ॥25॥
हर्षलो हरिरप्यस्यै पनसस्य फलं ददौ।
वनपालो जहारैतद्वानरीमपि भर्त्सयन् ॥26॥
इत्यशेषं विशेषज्ञो वीक्षमाणः क्षितीश्वरः।
तत्क्षणे जातवैराग्यादनुप्रेक्षामभावयत् ॥27॥
मद्यते वनपालोऽयं काष्ठाङ्गारायते हरिः।
राज्यं फलायते तस्मान्मयैव त्याज्यमेव तत् ॥28॥
जाताः पुष्टाः पुनर्नष्टा इति प्राणभृतां प्रथाः।
न स्थिता इति तत्कुर्याः स्थायिन्यात्मन्पदे मतिम् ॥29॥
स्थायीति क्षणमात्रं वा ज्ञायते न हि जीवितम्।
कोटेरप्यधिकं हन्त जन्तूनां हि मनीषितम् ॥30॥
अवश्यं यदि नश्यन्ति स्थित्वापि विषयाश्चिरम्।
स्वयं त्याज्यास्तथा हि स्यान्मुक्तिः संसृतिरन्यथा ॥31॥
अनश्वरसुखावाप्तौ सत्यां नश्वरकायतः।
किं वृथैव नयस्यात्मन्क्षणं वा सफलं नय ॥32॥
पयोधौ नष्टनौकस्य पतत्रेरिव जीव ते।
सत्यपाये शरण्यं न तत्स्वास्थ्ये हि सहस्रधा ॥33॥
आयुधीयैरतिस्निग्धैर्बन्धुभिश्चाभिसंवृतः।
जन्तुः संरक्ष्यमाणोऽपि पश्यतामेव नश्यति ॥34॥
मन्त्रयन्त्रादयोऽप्यात्मन्स्वतन्त्रं शरणं न ते।
किन्तु सत्येव पुण्ये हि नो चेत्के नाम तैः स्थिताः ॥35॥
नटवन्नैकवेषेण भ्रमस्यात्मन्स्वकर्मतः।
तिरश्चि निरये पापाद्दिविपुण्याद्द्वयान्नरे ॥36॥
पञ्चानन इवामोक्षादसिपञ्जर आहितः।
क्षणेऽपि दुःसहे देहे देहिन्हन्त कथं वसेः ॥37॥
तन्नास्ति यन्न वै भुक्तं पुद्गलेषु मुहुस्त्वया।
तल्लेशस्तव किं तृप्त्यै बिन्दुः पीताम्बुधेरिव ॥38॥
भुक्तोज्झितं तदुच्छिष्टं भोक्तुमेवोत्सुकायसे।
अभुक्तं मुक्तिसौख्यं त्वमतुच्छं हन्त नेच्छसि ॥39॥
संसृतौ कर्म रागाद्यैस्ततः कायान्तरं ततः।
इन्द्रियाणीन्द्रियद्वारा रागाद्याश्चक्रकं पुनः ॥40॥
सत्यनादौ प्रबन्धेऽस्मिन्कार्यकारणरूपके।
येन दुःखायसे नित्यमद्य वात्मन्विमुञ्च तत् ॥41॥
त्यक्तोपात्तशरीरादिः स्वकर्मानुगुणं भ्रमन्।
त्वमात्मन्नेक एवासि जनने मरणेऽपि च ॥42॥
बन्धवो हि श्मशानान्ता गृह एवार्जितं धनम्।
भस्मने गात्रमेकं त्वां धर्म एव न मुञ्चति ॥43॥
पुत्र-मित्र-कलत्राद्यमन्यदप्यन्तरालजम्।
नानुयायीति नाश्चर्यं नन्वङ्गं सहजं तथा ॥44॥
त्वमेव कर्मणां कर्ता भोक्ता च फलसन्ततेः।
मोक्ता च तात किं मुक्तौ स्वाधीनायां न चेष्टसे ॥45॥
अज्ञातं कर्मणैवात्मन्स्वाधीनेऽपि सुखोदये।
नेहसे तदुपायेषु यतसे दुःखसाधने ॥46॥
देहात्मकोऽहमित्यात्मञ्जातु चेतसि मा कृथाः।
कर्मतो ह्यपृथक्त्वं ते त्वं निचोलासिसन्निभः ॥47॥
अध्रुवत्वादमेध्यत्वादचित्त्वाच्चान्यदङ्गकम्।
चित्त्वनित्यत्वमेध्यत्वैरात्मन्नन्योऽसि कायतः ॥48॥
हेये स्वयं सती बुद्धिर्यत्नेनाप्यसती शुभे।
तद्धेतुकर्म तद्वन्तमात्मानमपि साधयेत् ॥49॥
मेध्यानामपि वस्तूनां यत्सम्पर्कादमेध्यता।
तद्गात्रमशुचीत्येतत्किं नाल्पमलसम्भवम् ॥50॥
अस्पष्टं दृष्टमङ्गं हि सामर्थ्यात्कर्मशिल्पिनः।
रम्यमूहे किमन्यत्स्यान्मलमांसास्थिमज्जतः ॥51॥
दैवादन्तः स्वरूपं चेद्बहिर्देहस्य किं परैः।
आस्तामनुभवेच्छेयमात्मन्को नाम पश्यति ॥52॥
एवं पिशितपिण्डस्य क्षयिणोऽक्षयशङ्कृतः।
गात्रस्यात्मन्क्षयात्पूर्वं तत्फलं प्राप्य तत्त्यज ॥53॥
आत्तसारं वपुः कुर्यास्तथात्मंस्तत्क्षयेऽप्यभीः।
आत्तसारेक्षुदाहेऽपि न हि शोचन्ति मानवाः ॥54॥
अजस्रमास्रवन्त्यात्मन्दुर्मोचाः कर्मपुद्गलाः।
तैः पूर्णस्त्वमधोऽधः स्या जलपूर्णो यथा प्लवः ॥55॥
तन्निदानं तवैवात्मन्योगभावौ सदातनौ।
तौ विद्धि सपरिस्पन्दं परिणामं शुभाशुभम् ॥56॥
आस्रवोऽयममुष्येति ज्ञात्वात्मन्कर्मकारणे।
तत्तन्निमित्तवैधुर्यादपवाह्योर्ध्वगो भव ॥57॥
संरक्ष्य समितिं गुप्तिमनुप्रेक्षापरायणः।
तपः संयमधर्मात्मा त्वं स्या जितपरीषहः ॥58॥
एवं च त्वयि सत्यात्मन्कर्मास्रवनिरोधनात्।
नीरन्ध्रपोतवद्भूया निरपायो भवाम्बुधौ ॥59॥
विकथादिवियुक्तस्त्वमात्मभावनयान्वितः।
त्यक्तबाह्यस्पृहो भूया गुप्त्याद्यास्ते करस्थिताः ॥60॥
एवमक्लेशगम्येऽस्मिन्नात्माधीनतया सदा।
श्रेयोमार्गे मतिं कुर्याः किं बाह्ये तापकारिणि ॥61॥
शुष्कनिर्बन्धतो बाह्ये मुह्यतस्तव हृद्व्यथा।
प्रत्यक्षितैव नन्वात्मन्प्रत्यक्षनिरयोचिता ॥62॥
रत्नत्रयप्रकर्षेण बद्धकर्मक्षयोऽपि ते।
आध्मातः कथमप्यग्निर्दाह्यं किं वावशेषयेत् ॥63॥
क्षयादनास्रवाच्चात्मन्कर्मणामसि केवली।
निर्गमे चाप्रवेशे च धाराबन्धे कुतो जलम् ॥64॥
रत्नत्रयस्य पूर्तिश्च त्वयात्मन्सुलभैव सा।
मोहक्षोभविहीनस्य परिणामो हि निर्मलः ॥65॥
परिणामविशुद्ध्यर्थं तपो बाह्यं विधीयते।
न हि तण्डुलपाकः स्यात्पावकादिपरिक्षये ॥66॥
परिणामविशुद्धिश्च बाह्ये स्यान्निःस्पृहस्य ते।
निःस्पृहत्वं तु सौख्यं तद्बाह्ये मुह्यसि किं मुधा ॥67॥
गुप्तेन्द्रियः क्षणं वात्मन्नात्मन्यात्मानमात्मना।
भावयन्पश्य तत्सौख्यमास्तां निश्रेयसादिकम् ॥68॥
अनन्तं सौख्यमात्मोत्थमस्तीत्यत्र हि सा प्रमा।
शान्तस्वान्तस्य या प्रीतिः स्वसंवेदनगोचरा ॥69॥
प्रसारिताङ्घ्रिणा लोकः कटिनिक्षिप्तपाणिना।
तुल्यः पुंसोर्ध्वमध्याधोविभागत्रिमरुद्वृतः ॥70॥
जन्ममृत्योः पदे ह्यात्मन्नसंख्यातप्रदेशके।
लोके नायं प्रदेशोऽस्ति यस्मिन्नाभूरनन्तशः ॥71॥
सत्यज्ञाने पुनश्चात्मन्पूर्ववत्संसरिष्यसि।
कारणे जृम्भमाणेऽपि न हि कार्यपरिक्षयः ॥72॥
यतस्व तत्तपस्यात्मन्मुक्त्वा मुग्धोचितं सुखम्।
चिरस्थाय्यन्धकारोऽपि प्रकाशे हि विनश्यति ॥73॥
भव्यत्वं कर्मभूजन्म मानुष्यं स्वङ्गवंश्यता।
दुर्लभं ते क्रमादात्मन्समवायस्तु किं पुनः ॥74॥
व्यर्थः स समवायोऽपि तवात्मन्धर्मधीर्न चेत्।
कणिशोद्गमवैधुर्ये केदारादिगुणेन किम् ॥75॥
तदात्मन्दुर्लभं गात्रं धर्मार्थं मूढ कल्प्यताम्।
भस्मने दहतो रत्नं मूढः कः स्यात्परो जनः ॥76॥
देवता भविता श्वापि देवः श्वा धर्मपापतः।
तं धर्मं दुर्लभं कुर्या धर्मो हि भुवि कामसूः ॥77॥
भव्यस्याबाह्यचित्तस्य सर्वसत्त्वानुकम्पिनः।
करणत्रयशुद्धस्य तवात्मन्बोधिरेधताम् ॥78॥
पश्यात्मन्धर्ममाहात्म्यं धर्मकृत्यो न शोचति।
विश्वैर्विश्वस्यते चित्रं स हि लोकद्वये सुखी ॥79॥
तवात्मन्नात्मनीनेऽस्मिज्जैनधर्मेऽतिनिर्मले।
स्थवीयसी रुचिः स्थेयादामुक्तेर्मुक्तिदायिनी ॥80॥
इत्यनुप्रेक्षया चासीदक्षोभ्यास्य विरक्तता।
व्यवस्था हि सतां शैली साहाय्येऽप्यत्र किं पुनः ॥81॥
विरक्तो राज्यमन्यच्च न तृणायाप्यमन्यत।
हस्तस्थेप्यमृते को वा तिक्तसेवापरायणः ॥82॥
ततस्तस्माद्विनिर्गत्य सम्पूज्य परमेश्वरम्।
योगीन्द्रादश्रृणोद्धर्ममधीती जिनशासने ॥83॥
धर्मश्रुतेर्बभूवायं धार्मविद्योऽतिनिर्मलः।
अत्युत्कटो हि रत्नांशुस्तज्ज्ञवेकटकर्मणा ॥84॥
पुनश्चारणयोगीन्द्रः पूर्वजन्मबुभुत्सया।
भूपेन परिपृष्टोऽयमाचष्टास्य पुराभवम् ॥85॥
भूपेन्द्र धातकीखण्डे भूम्यादितिलके पुरे।
सूनुः पवनवेगस्य राज्ञोऽभूस्त्वं यशोधरः ॥86॥
राजहंस कदाचित्त्वं राजहंसस्य शावकम्।
नीडात्क्रीडार्थमानीय निरवद्यमवीवृधः ॥87॥
तत्कुतोऽपि समाकर्ण्य धार्मविद्यः स ते पिता।
तदा धर्ममुपादिक्षद्यतोऽभूरतिधार्मिकः ॥88॥
निवारितोऽपि पित्रा त्वमतिनिर्वेदतस्ततः।
जातरूपधरो जातः स्त्रीभिरष्टाभिरन्वितः ॥89॥
घोरेण तपसा लब्ध्वा देवत्वं च त्रिविष्टपात्।
अष्टाभिः स्त्रीभिरेताभिरत्राभूर्भव्यपुङ्गव ॥90॥
स्वपदाद्वालहंसस्य पितृभ्यां च पुराभवे।
वियोजनाद्वियोगस्ते बन्धोऽभूदिव बन्धनात् ॥91॥
इति योगीन्द्रवाक्येन भोगीव पविपाततः।
भीतो राज्यादयं राजा प्रणम्य स्वपुरीमयात् ॥92॥
सद्धर्मामृतपानेन सानुजास्तस्य वल्लभाः।
विषप्रख्यममन्यन्त तत्सौख्यं विषयोद्भवम् ॥93॥
तत्र गन्धर्वदत्तायाः पुत्रं सत्यंधराह्वयम्।
अभिषिच्य ततस्ताभिः प्रापदास्थायिकां कृती ॥94॥
श्रीसभायां समभ्येत्य श्रीवीरं जिननायकम्।
पूजयामास पूज्योऽयमस्तावीच्च पुनः पुनः ॥95॥
भगवन्भवरोगेण भीतोऽहं पीड़ितः सदा।
त्वय्यकारणवैद्येऽपि सह्या किं तस्य कारणा ॥96॥
त्वं सार्वः सर्वविद्देव सर्वकर्मणि कर्मठः।
भव्यश्चाहं कुतो वा मे भवरोगो न शाम्यति ॥97॥
निर्मोह मोहदावेन देहजीर्णोरुकानने।
दह्यमानतया शश्वन्मुह्यन्तं रक्ष रक्ष माम् ॥98॥
संसारविषवृक्षस्य सर्वापत्फलदायिनः।
अंकुरं रागमुन्मूलं वीतराग विधेहि मे ॥99॥
कर्णधार भवार्णोधेर्मध्यतो मज्जता मया।
कृच्छ्रेण बोधिनौर्लब्धा भूयान्निर्वाणपारगा ॥100॥
इति स्तोत्रावसाने च लब्ध्वायं त्रिजगद्गुरोः।
अनुज्ञां जिनदीक्षायामानमद्गणनायकम् ॥101॥
प्राज्ञः प्रव्रज्य तत्पार्श्वे तपस्तेपेऽतिदुश्चरम्।
येन कर्माष्टकस्यापि नष्टता स्याद्यथाक्रमम् ॥102॥
श्रीरत्नत्रयपूर्त्याथ जीवन्धरमहामुनिः।
अष्टाभिः स्वगुणैः पुष्टोऽनन्तज्ञानसुखादिभिः ॥103॥
सिद्धो लोकोत्तराभिख्यां केवलाख्यामकेवलाम्।
अनुपमामनन्तां तामनुबोभूयते श्रियम् ॥104॥
सोऽयं दुर्मतकुञ्जरप्रहरणे पञ्चाननं पावनं
जैनं धर्ममुपाश्रयेत मतिमान्निश्रेयसः प्राप्तये ॥105॥
राजतां राजराजोऽयं राजराजो महोदयैः।
तेजसा वयसा शूरः क्षत्रचूडामणिर्गुणैः ॥106॥
टिप्पणी: श्लोक 6 में “तद्ज्ञानात्” छपा है; सन्धि से “तज्ज्ञानात्” होना चाहिए।
टिप्पणी: श्लोक 24 में “बहुपायैर्” छपा है; सन्धि से “बहूपायैर्” होना चाहिए।
टिप्पणी: श्लोक 80 में “ऽस्मिज्जैनधर्मे” छपा है; सन्धि से “ऽस्मिञ्जैनधर्मे” होना चाहिए।
टिप्पणी: श्लोक 83 में “अश्रृणोद्” छपा है; शुद्ध रूप “अशृणोद्” है।
टिप्पणी: श्लोक 91 में “स्वपदाद्वालहंसस्य” छपा है; “स्वपदाद्बालहंसस्य” होना चाहिए।
टिप्पणी: श्लोक 96 में “पीड़ितः” (नुक्ता सहित) छपा है; संस्कृत में “पीडितः” है।
खोज: Kshatrachudamani Mul Shlok