अथ ‘सिद्ध-स्तुति’
नमस्ते पुरुषार्थाय, परां काष्ठामधिष्ठिते ! सिद्धभट्टारकस्तोत्रं, निष्ठितार्थ-निरंजनः ।
स्वप्रदाय नमस्तुभ्यमचलाय नमोस्तु ते। अक्षयाय नमस्तुभ्यमव्याबाधाय ते नमः ।।
नमस्तेऽनंतविज्ञान-दृष्टि-वीर्य-सुखास्पद। नमो नीरजसे तुभ्यं निर्मलाय तु ते नमः ॥
अच्छेद्याय नमस्तुभ्यं, अभेद्याय नमो नमः। अक्षताय नमस्तुभ्यं, अप्रमेयाय ते नमः ।।
नमोस्त्वगर्भवासाय, नमो गौरवलाघव। अक्षोभ्याय नमस्तुभ्यमविलीनाय ते नमः ।।
नमः परमकाष्ठात्मयोग-रूपत्वमीयुषे। लोकाप्रवासिने तुभ्यं नमोऽनंत-गुणाश्रयरः।
निःशेषपुरुषार्थानां, निष्ठां सिद्धिमधिष्ठित-सिद्धभट्टारकव्रात; भूयो भूयो नमोस्तु ते ।।
विविध-दुरित-शुद्धान् सर्व-तत्त्वार्थ-बुद्धान् । परम-सुख-समृद्धान्, युक्ति-शास्त्राविरुद्धान्।
बहुविध-गुण-वृद्धान्, सर्वलोक-प्रसिद्धान्, प्रमित-सुनय-सिद्धान्, संस्तुवे सर्व-सिद्धान् ॥