परीक्षामुख मूल सूत्र (आचार्य माणिक्यनन्दि) | Parikshamukh Mool Sutra (Acharya Manikyanandi)

परीक्षामुख मूल सूत्र

आचार्य माणिक्यनन्दि

न्याय ग्रंथ परीक्षामुख के संस्कृत मूल सूत्र, छहों परिच्छेद, कुल 208 सूत्र (13, 12, 97, 9, 3, 74), क्रम से, मंगलाचरण और अन्तिम प्रशस्ति सहित। हर परिच्छेद इसी पोस्ट में अपने शीर्षक के साथ है। सूत्र पाठ संलग्न ग्रंथ (डॉ. योगेशचन्द्र जैन, पं. टोडरमल स्मारक ट्रस्ट, जयपुर) के अनुसार है; जहाँ मूल पाठ में छपाई की भूल थी और पुस्तक की ही सूत्रसूची में सही पाठ है, वहाँ सही पाठ लिया और उस परिच्छेद के नीचे टिप्पणी दी।

स्रोत: Pariksha mukh.pdf

Pariksha mukh.pdf (166 KB)

सूत्र एवं सूत्रार्थ सहित: परीक्षामुख सूत्र एवं सूत्रार्थ (आचार्य माणिक्यनन्दि) | Parikshamukh Sutra Evam Sutrarth (Acharya Manikyanandi)


प्रथम परिच्छेद (सूत्र 1 से 13)

मंगलाचरण

प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः ।
इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥

स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् ॥1॥

हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् ॥2॥

तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥3॥

अनिश्चितोऽपूर्वार्थः ॥4॥

दृष्टोऽपि समारोपात्तादृक् ॥5॥

स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः ॥6॥

अर्थस्येव तदुन्मुखतया ॥7॥

घटमहमात्मना वेद्मि ॥8॥

कर्मवत्कर्तृकरणक्रियाप्रतीतेः ॥9॥

शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् ॥10॥

को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥11॥

प्रदीपवत् ॥12॥

तत्प्रामाण्यं स्वतः परश्च ॥13॥


टिप्पणी: पुस्तक की सूत्रसूची में “प्रदीपवत्” (सूत्र 12) अलग नहीं छपा, इसलिए वहाँ प्रथम परिच्छेद में 12 सूत्र दिखते हैं; मूल पाठ में 13 हैं, वही लिए।

द्वितीय परिच्छेद (सूत्र 1 से 12)

तद्द्वेधा ॥1॥

प्रत्यक्षेतरभेदात् ॥2॥

विशदं प्रत्यक्षम् ॥3॥

प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् ॥4॥

इन्द्रियानिन्द्रियानिमित्तं देशतः सांव्यवहारिकम् ॥5॥

नार्थालोकौ कारणं परिच्छेद्यत्वात्तमोवत् ॥6॥

तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवन्नक्तंचर ज्ञानवच्च ॥7॥

अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ॥8॥

स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति ॥9॥

कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः ॥10॥

सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् ॥11॥ [1]

सावरणत्वे करणजन्यत्वे च प्रतिबंधसम्भवात् ॥12॥


तृतीय परिच्छेद (सूत्र 1 से 97)

परोक्षमितरत् ॥1॥

प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् ॥2॥

संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः ॥3॥

स देवदत्तो यथा ॥4॥

दर्शन-स्मरणकारणकं संकलनं प्रत्यभिज्ञानम्। तदेवेदं, तत्सदृशं, तद्विलक्षणं, तत्प्रतियोगीत्यादि ॥5॥

यथा स एवायं देवदत्तः, गोसदृशो गवयः, गोविलक्षणो महिषः, इदमस्माद् दूरम्, वृक्षोऽयमित्यादि ॥6॥

उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥7॥

इदमस्मिन्सत्येव भवत्यसति तु न भवत्येव ॥8॥

यथाऽग्नावेव धूमस्तदभावे न भवत्येवेति च ॥9॥

साधनात्साध्यविज्ञानमनुमानम् ॥10॥

साध्याविनाभावित्वेन निश्चितो हेतुः ॥11॥

सहक्रमभावनियमोऽविनाभावः ॥12॥

सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः ॥13॥

पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥14॥

तर्कात्तन्निर्णयः ॥15॥

इष्टमबाधितमसिद्धं साध्यम् ॥16॥

संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥17॥

अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भूदितीष्टाबाधितवचनम् ॥18॥

न चासिद्धवदिष्टं प्रतिवादिनः ॥19॥

प्रत्यायनाय हीच्छा वक्तुरेव ॥20॥

साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी ॥21॥

पक्ष इति यावत् ॥22॥

प्रसिद्धो धर्मी ॥23॥

विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये ॥24॥ [1:1]

अस्ति सर्वज्ञो नास्ति खरविषाणमिति ॥25॥

प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता साध्या ॥26॥

अग्निमानयं देशः परिणामी शब्दः इति यथा ॥27॥

व्याप्तौ तु साध्यं धर्म एव ॥28॥

अन्यथा तदघटनात् ॥29॥

साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ॥30॥

साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥31॥

को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ॥32॥

एतद्द्वयमेवानुमाङ्गं नोदाहरणम् ॥33॥

न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् ॥34॥

तदविनाभावनिश्चयार्थं वा विपक्षे बाधकप्रमाणबलादेव तत्सिद्धेः ॥35॥

व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्याद् दृष्टान्तान्तरापेक्षणात् ॥36॥

नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव तत्स्मृतेः ॥37॥

तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति ॥38॥

कुतोऽन्यथोपनयनिगमने ॥39॥

न च ते तदंगे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् ॥40॥

समर्थनं वा वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात् ॥41॥

बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासौ, न वादेऽनुपयोगात् ॥42॥

दृष्टान्तो द्वेधा अन्वय-व्यतिरेकभेदात् ॥43॥

साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः ॥44॥

साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥45॥

हेतोरुपसंहार उपनयः ॥46॥

प्रतिज्ञायास्तु निगमनम् ॥47॥

तदनुमानं द्वेधा ॥48॥

स्वार्थपरार्थभेदात् ॥49॥

स्वार्थमुक्तलक्षणम् ॥50॥

परार्थं तु तदर्थपरामर्शिवचनाज्जातम् ॥51॥

तद्वचनमपि तद्धेतुत्वात् ॥52॥

स हेतुर्द्वेधा उपलब्ध्यनुपलब्धिभेदात् ॥53॥

उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च ॥54॥

अविरुद्धोपलब्धिर्विधौ षोढ़ा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् ॥55॥

रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किंचित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥56॥

न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ॥57॥

भाव्यतीतयोर्मरणजाग्रद्बोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् ॥58॥

तद्व्यापाराश्रितं हि तद्भावभावित्वम् ॥59॥

सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च ॥60॥

परिणामी शब्दः, कृतकत्वात् । य एवं स एवं दृष्टो यथा घटः । कृतकश्चायम्, तस्मात्परिणामीति । यस्तु न परिणामी, स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः । कृतकश्चायम्, तस्मात्परिणामी ॥61॥

अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः ॥62॥

अस्त्यत्रछाया छत्रात् ॥63॥

उदेष्यति शकटं कृतिकोदयात् ॥64॥

उद्गाद् भरणिः प्राक्तत एव ॥65॥

अस्त्यत्र मातुलिंगे रूपं रसात् ॥66॥

विरुद्धतदुपलब्धिः प्रतिषेधे तथा ॥67॥

नास्त्यत्र शीतस्पर्शः औष्ण्यात् ॥68॥

नास्त्यत्र शीतस्पर्शो धूमात् ॥69॥

नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥70॥

नोदेष्यति मुहूर्त्तान्ते शकटं रेवत्युदयात् ॥71॥

नोदगाद्भरणिर्मुहूर्त्तात्पूर्वं पुष्योदयात् ॥72॥

नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥73॥

अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलम्भभेदात् ॥74॥

नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥75॥

नास्त्यत्र शिंशपा वृक्षानुपलब्धेः ॥76॥

नास्त्यत्राप्रतिबद्धसामर्थ्योऽग्निर्धूमानुपलब्धेः ॥77॥

नास्त्यत्र धूमोऽनग्नेः ॥78॥

न भविष्यति मुहूर्त्तान्ते शकटं कृतिकोदयानुपलब्धेः ॥79॥

नोदगाद्भरणिर्मुहूर्त्तात्प्राक् तत एव ॥80॥

नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः ॥81॥

विरुद्धानुपलब्धिर्विधौ त्रेधा विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् ॥82॥

यथाऽस्मिन् प्राणिनि व्याधिविशेषोऽस्ति, निरामयचेष्टानुपलब्धेः ॥83॥

अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥84॥

अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥85॥

परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् ॥86॥

अभूदत्र चक्रे शिवकः स्थासात् ॥87॥

कार्यकार्यमविरुद्धकार्योपलब्धौ ॥88॥

नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् । कारणविरुद्धकार्यं विरुद्धकार्योपलब्धौ यथा ॥89॥

व्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥90॥

अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेर्धूमवत्वान्यथानुपपत्तेर्वा ॥91॥

हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते, सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते ॥92॥ [2]

तावता च साध्यसिद्धिः ॥93॥

तेन पक्षस्तदाधारसूचनायोक्तः ॥94॥

आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥95॥

सहजयोग्यतासंकेतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः ॥96॥

यथामेर्वादयः सन्ति ॥97॥


चतुर्थ परिच्छेद (सूत्र 1 से 9)

सामान्यविशेषात्मा तदर्थो विषयः ॥1॥

अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकार परिहारावाप्तिस्थिति-लक्षण परिणामेनार्थक्रियोपपत्तेश्च ॥2॥

सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात् ॥3॥

सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत् ॥4॥

परापरविवर्तव्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिषु ॥5॥

विशेषश्च ॥6॥

पर्यायव्यतिरेकभेदात् ॥7॥

एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत् ॥8॥

अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥9॥

पंचम परिच्छेद (सूत्र 1 से 3)

अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् ॥1॥

प्रमाणादभिन्नं भिन्नं च ॥2॥

यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षते चेति प्रतीतेः ॥3॥

षष्ठ परिच्छेद (सूत्र 1 से 74)

ततोऽन्यत्तदाभासम् ॥1॥

अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः ॥2॥

स्वविषयोपदर्शकत्वाभावात् ॥3॥

पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् ॥4॥

चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च ॥5॥

अवैशद्ये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धूमदर्शनाद्वह्निविज्ञानवत् ॥6॥

वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥7॥

अतस्मिंस्तदिति ज्ञानं स्मरणाभासं, जिनदत्ते स देवदत्तो यथा ॥8॥

सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥9॥

असम्बद्धे तज्ज्ञानं तर्काभासम् ॥10॥

इदमनुमानाभासम् ॥11॥

तत्रानिष्टादिः पक्षाभासः ॥12॥

अनिष्टो मीमांसकस्यानित्यः शब्दः ॥13॥

सिद्धः श्रावणः शब्दः ॥14॥

बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥15॥

तत्रप्रत्यक्षबाधितो यथा, अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत् ॥16॥

अपरिणामी शब्दः कृतकत्वाद् घटवत् ॥17॥

प्रेत्यासुखदो धर्मः पुरुषाश्रितत्वादधर्मवत् ॥18॥

शुचि नरशिरः कपालं, प्राण्यंगत्वाच्छंखशुक्तिवत् ॥19॥

माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत् ॥20॥

हेत्वाभासा असिद्धविरुद्धानैकान्तिकाकिंचित्कराः ॥21॥ [1:2]

असत्सत्तानिश्चयोऽसिद्धः ॥22॥

अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् ॥23॥

स्वरूपेणासत्त्वात् ॥24॥

अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात् ॥25॥

तस्य बाष्पादिभावेन भूतसंघाते सन्देहात् ॥26॥

सांख्यम्प्रति परिणामी शब्दः कृतकत्वात् ॥27॥

तेनाज्ञातत्वात् ॥28॥

विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् ॥29॥

विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥30॥

निश्चितविपक्षवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् ॥31॥

आकाशे नित्येऽप्यस्य निश्चयात् ॥32॥

शंकितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् ॥33॥

सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥34॥

सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिंचित्करः ॥35॥

सिद्धः श्रावणः शब्दः शब्दत्वात् ॥36॥

किंचिदकरणात् ॥37॥

यथाऽनुष्णोऽग्निर्द्रव्यत्वादित्यादौ किंचित्कर्तुमशक्यत्वात् ॥38॥

लक्षण एवासौ दोषो व्युत्पन्न प्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥39॥

दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः ॥40॥

अपौरुषेयः शब्दोऽमूर्त्तत्वादिन्द्रियसुखपरमाणुघटवत् ॥41॥

विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् ॥42॥

विद्युदादिनाऽतिप्रसंगात् ॥43॥

व्यतिरेकऽसिद्धतद्व्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ॥44॥

विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयम् ॥45॥

बालप्रयोगाभासः पंचावयवेषुकियद्धीनता ॥46॥

अग्निमानयं प्रदेशो धूमवत्वाद्यदित्थं तदित्थं यथा महानसः ॥47॥

धूमवांश्चायमिति वा ॥48॥

तस्मादग्निमान् धूमवांश्चायम् ॥49॥

स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥50॥

रागद्वेषमोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् ॥51॥

यथा नद्यास्तीरे मोदकराशयः सन्ति, धावध्वं माणवकाः ॥52॥

अङ्गुल्यग्रे हस्तियूथशतमास्त इति च ॥53॥

विसंवादात् ॥54॥

प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥55॥

लौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्चासिद्धेरतद्विषयत्वात् ॥56॥

सौगतसांख्ययौगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमाना-र्थापत्याभावैरेकैकाधिकैः व्याप्तिवत् ॥57॥

अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥58॥ [2:1]

तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वमप्रमाणस्याव्यवस्थापक-त्वात् ॥59॥

प्रतिभासभेदस्य च भेदकत्वात् ॥60॥

विषयाभासः सामान्यं विशेषो द्वयं वा स्वतंत्रम् ॥61॥

तथाऽप्रतिभासात्कार्याकरणाच्च ॥62॥

समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥63॥

परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥64॥

स्वयमसमर्थस्याकारकत्वात्पूर्ववत् ॥65॥ [3]

फलाभासं प्रमाणादभिन्नं भिन्नमेव वा ॥66॥

अभेदे तद्व्यवहारानुपपत्तेः ॥67॥

व्यावृत्यापि न तत्कल्पना फलान्तराद् व्यावृत्याऽफलत्वप्रसंगात् ॥68॥

प्रमाणान्तराद् व्यावृत्त्येवाप्रमाणत्वमस्य ॥69॥ [4]

तस्माद्वास्तवो भेदः ॥70॥

भेदे त्वात्मान्तरवत्तदनुपपत्तेः ॥71॥

समवायेऽतिप्रसंगः ॥72॥

प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृत दोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥73॥

सम्भवदन्यद्विचारणीयम् ॥74॥

अन्तिम प्रशस्ति

परीक्षामुखमादर्शं हेयोपादेयतत्त्वयोः ।
संविदे मादृशो बालः परीक्षादक्षवद्व्यधाम् ॥


खोज: Parikshamukh Mul Sutra


  1. मूल पाठ में “हेत्वाभास” छपा है, पुस्तक की सूत्रसूची में “हेत्वाभासा”; वही लिया। ↩︎ ↩︎ ↩︎

  2. मूल पाठ में “अनुमानादेरेतद्विषयत्वे” छपा है, पुस्तक की सूत्रसूची में “अनुमानादेस्तद्विषयत्वे”; वही लिया। ↩︎ ↩︎

  3. मूल पाठ में “स्वमसमर्थस्य” छपा है, पुस्तक की सूत्रसूची में “स्वयम्”; वही लिया। ↩︎

  4. मूल पाठ में “अप्रमाणत्वस्य” छपा है, पुस्तक की सूत्रसूची में “अप्रमाणत्वमस्य”; वही लिया। ↩︎