भाग 1: अ से म
अ
- अक्षीणऋद्धिर्द्विविधा (शास्त्रसार समुच्चय चरणानुयोग 66)
- अगार्यनगारश्च (तत्त्वार्थसूत्र 7.19)
- अगुरुलघोर्भावोऽगुरुलघुत्वम् सूक्ष्मा अवाग्गोचराः प्रतिक्षणवर्तमाना आगमप्रमाण्यादभ्युपगम्या … (आलापपद्धति 99) · अर्थ
- अगुरूलघुविकाराः स्वभावार्थपर्यायास्ते द्वादशधा षड्वृद्धिरूपाः षड्ढाहानिरूपाः … (आलापपद्धति 17) · अर्थ
- अग्निमानयं देशः परिणामी शब्दः इति यथा (परीक्षामुख 27) · अर्थ
- अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेर्धूमवत्वान्यथानुपपत्तेर्वा (परीक्षामुख 91) · अर्थ
- अग्निमानयं प्रदेशो धूमवत्वाद्यदित्थं तदित्थं यथा महानसः (परीक्षामुख 47) · अर्थ
- अङ्गुल्यग्रे हस्तियूथशतमास्त इति च (परीक्षामुख 53) · अर्थ
- अचेतनस्य भावोऽचेतनत्वमचैतन्यमननुभवनम् (आलापपद्धति 102) · अर्थ
- अजीवकायाधर्माधर्माकाशपुद्गलाः (तत्त्वार्थसूत्र 5.1)
- अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् (परीक्षामुख 1) · अर्थ
- अणवः स्कन्धाश्च (तत्त्वार्थसूत्र 5.25)
- अणिमाद्यष्टगुणाः (शास्त्रसार समुच्चय करणानुयोग 15)
- अणुव्रतोऽगारी (तत्त्वार्थसूत्र 7.20)
- अणोरमूर्तकालस्यैकविंशतितमो भावो न स्यात् (आलापपद्धति 171) · अर्थ
- अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् (परीक्षामुख 8) · अर्थ
- अतस्मिंस्तदिति ज्ञानं स्मरणाभासं, जिनदत्ते स देवदत्तो यथा (परीक्षामुख 8) · अर्थ
- अतीते वर्तमानारोपणं यत्र, स भूतनैगमो यथा अद्य दीपोत्सवदिने श्रीवर्द्धमानस्वामी मोक्षं गतः (आलापपद्धति 65) · अर्थ
- अतोऽन्यत्पापम् (तत्त्वार्थसूत्र 8.26)
- अथ त्रिविधः कालः (शास्त्रसार समुच्चय प्रथमानुयोग 1)
- अथ त्रिविधो लोकः (शास्त्रसार समुच्चय करणानुयोग 1)
- अथ पर्यायार्थिकस्य षड्भेदाः (आलापपद्धति 57) · अर्थ
- अथ षड् द्रव्याणि (शास्त्रसार समुच्चय द्रव्यानुयोग 1)
- अदत्तादानं स्तेयम् (तत्त्वार्थसूत्र 7.15)
- अधिकरणं जीवाजीवाः (तत्त्वार्थसूत्र 6.7)
- अनन्तगुणे परे (तत्त्वार्थसूत्र 2.39)
- अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः (तत्त्वार्थसूत्र 9.19)
- अनादिनित्यपर्याय एवार्थः प्रयोजनमस्येत्यानादिनित्य-पर्यायार्थिकः (आलापपद्धति 192) · अर्थ
- अनादिनित्यपर्यायार्थिको यथा पुद्गलपर्यायो नित्यो मेर्वादिः (आलापपद्धति 58) · अर्थ
- अनादिसंबन्धे च (तत्त्वार्थसूत्र 2.41)
- अनित्यपक्षेऽपि निरन्वयत्वात् अर्थक्रियाकारित्वाभावः। अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः (आलापपद्धति 130) · अर्थ
- अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्र … (तत्त्वार्थसूत्र 9.7)
- अनिश्चितोऽपूर्वार्थः (परीक्षामुख 4) · अर्थ
- अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भूदितीष्टाबाधितवचनम् (परीक्षामुख 18) · अर्थ
- अनिष्टो मीमांसकस्यानित्यः शब्दः (परीक्षामुख 13) · अर्थ
- अनुग्रहार्थं स्वस्यातिसर्गो दानम् (तत्त्वार्थसूत्र 7.38)
- अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् (परीक्षामुख 58) · अर्थ
- अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकार परिहारावाप्तिस्थिति-लक्षण … (परीक्षामुख 2) · अर्थ
- अनुश्रेणी गतिः (तत्त्वार्थसूत्र 2.26)
- अनेकपक्षेऽपि तथा द्रव्याभावो निराधारत्वात् आधाराधेयाभावाच्च (आलापपद्धति 132) · अर्थ
- अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः (परीक्षामुख 85) · अर्थ
- अन्तरायं च (शास्त्रसार समुच्चय चरणानुयोग 21)
- अन्तस्थाश्चत्वारो गुणाः स्वजात्यपेक्षया सामान्यगुणा विजात्यपेक्षया त एव विशेषगुणाः (आलापपद्धति 14) · अर्थ
- अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः (तत्त्वार्थसूत्र 10.4)
- अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यवहारः (आलापपद्धति 207) · अर्थ
- अन्यथा तदघटनात् (परीक्षामुख 29) · अर्थ
- अन्वयद्रव्यार्थिकेनैकस्यापि अनेकद्रव्यस्वभावत्वम् (आलापपद्धति 155) · अर्थ
- अन्वयसापेक्षो द्रव्यार्थिको यथा गुणपर्यायस्वभावं द्रव्यम् (आलापपद्धति 53) · अर्थ
- अपरा द्वादश मुहूर्ता वेदनीयस्य (तत्त्वार्थसूत्र 8.18)
- अपरा पल्योपममधिकम् (तत्त्वार्थसूत्र 4.33)
- अपरिणामी शब्दः कृतकत्वाद् घटवत् (परीक्षामुख 17) · अर्थ
- अपौरुषेयः शब्दोऽमूर्त्तत्वादिन्द्रियसुखपरमाणुघटवत् (परीक्षामुख 41) · अर्थ
- अप्रतीघाते (तत्त्वार्थसूत्र 2.40)
- अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि (तत्त्वार्थसूत्र 7.34)
- अभूदत्र चक्रे शिवकः स्थासात् (परीक्षामुख 87) · अर्थ
- अभेदपक्षेऽपि सर्वेषामेकत्वम् … (आलापपद्धति 134) · अर्थ
- अभेदरूपतया वस्तुजातं संगृह्णातीति संग्रहः (आलापपद्धति 197) · अर्थ
- अभेदानुपचारितया वस्तुनिश्चीयत इति निश्चयः (आलापपद्धति 204) · अर्थ
- अभेदे तद्व्यवहारानुपपत्तेः (परीक्षामुख 67) · अर्थ
- अमूर्तस्य भावोऽमूर्तत्वं रूपादिरहितत्वम् (आलापपद्धति 104) · अर्थ
- अर्थपर्यायास्ते द्वेधा स्वभावविभावपर्यायभेदात् (आलापपद्धति 16) · अर्थ
- अर्थस्य (तत्त्वार्थसूत्र 1.17)
- अर्थस्येव तदुन्मुखतया (परीक्षामुख 7) · अर्थ
- अर्थानि षट्कर्माणि (शास्त्रसार समुच्चय चरणानुयोग 27)
- अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् (परीक्षामुख 9) · अर्थ
- अर्पितानर्पितसिद्धेः (तत्त्वार्थसूत्र 5.32)
- अल्पारम्भपरिग्रहत्वं मानुषस्य (तत्त्वार्थसूत्र 6.17)
- अवग्रहेहावायधारणाः (तत्त्वार्थसूत्र 1.15)
- अवधिमनःपर्ययावेकदेशप्रत्यक्षौ (आलापपद्धति 36) · अर्थ
- अविग्रहा जीवस्य (तत्त्वार्थसूत्र 2.27)
- अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात् (परीक्षामुख 25) · अर्थ
- अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् (परीक्षामुख 23) · अर्थ
- अविभागिपुद्गलपरमाणुः स्वभावद्रव्यव्यंजनपर्यायः (आलापपद्धति 25) · अर्थ
- अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलम्भभेदात् (परीक्षामुख 74) · अर्थ
- अविरुद्धोपलब्धिर्विधौ षोढ़ा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् (परीक्षामुख 55) · अर्थ
- अवीचारं द्वितीयम् (तत्त्वार्थसूत्र 9.42)
- अवैशद्ये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धूमदर्शनाद्वह्निविज्ञानवत् (परीक्षामुख 6) · अर्थ
- अशुद्धद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिकः (आलापपद्धति 186) · अर्थ
- अशुद्धद्रव्यार्थिकेनाशुद्धस्वभावः (आलापपद्धति 175) · अर्थ
- अशुद्धपर्याय एवार्थः प्रयोजनमस्येत्यशुद्धपर्यायार्थिकः (आलापपद्धति 195) · अर्थ
- अशुद्धसद्भूतव्यवहारो यथाऽशुद्धगुणाऽशुद्धगुणिनोरशुद्ध- पर्यायाशुद्धपर्यायिणोर्भेद कथनम् (आलापपद्धति 83) · अर्थ
- अष्ट कर्माणि (शास्त्रसार समुच्चय द्रव्यानुयोग 50)
- अष्ट गुणाः (शास्त्रसार समुच्चय चरणानुयोग 8)
- अष्टज्ञानानि (शास्त्रसार समुच्चय द्रव्यानुयोग 38)
- अष्ट महाप्रातिहार्याणि (शास्त्रसार समुच्चय प्रथमानुयोग 13)
- अष्टविधव्यन्तराः (शास्त्रसार समुच्चय करणानुयोग 3)
- अष्टांगानि (शास्त्रसार समुच्चय चरणानुयोग 7)
- अष्टादशविध क्षायोपशमिकः (शास्त्रसार समुच्चय द्रव्यानुयोग 20)
- अष्टाविंशतिर्मूलगुणाः (शास्त्रसार समुच्चय चरणानुयोग 40)
- अष्टौ ऋद्धय (शास्त्रसार समुच्चय चरणानुयोग 58)
- अष्टौ प्रवचनमातृकाः (शास्त्रसार समुच्चय चरणानुयोग 43)
- अष्टौ मूलगुणाः (शास्त्रसार समुच्चय चरणानुयोग 14)
- अष्टौ सिद्धगुणाः (शास्त्रसार समुच्चय द्रव्यानुयोग 66)
- असंख्येयभागादिषु जीवानाम् (तत्त्वार्थसूत्र 5.15)
- असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् (तत्त्वार्थसूत्र 5.8)
- असत्सत्तानिश्चयोऽसिद्धः (परीक्षामुख 22) · अर्थ
- असदभिधानमनृतम् (तत्त्वार्थसूत्र 7.14)
- असद्भूतव्यवहार एवोपचारः, उपचारादप्युपचारं यः करोति स उपचरितासद्भूतव्यवहारः (आलापपद्धति 208) · अर्थ
- असद्भूतव्यवहारस्त्रेधा (आलापपद्धति 84) · अर्थ
- असद्भूतव्यवहारेण उपचरितस्वभावः (आलापपद्धति 176) · अर्थ
- असद्भूतव्यवहारेण कर्मनोकर्मणोरपि चेतनस्वभावः (आलापपद्धति 160) · अर्थ
- असद्भूतव्यवहारो द्विविधः उपचरितानुपचरितभेदात् (आलापपद्धति 226) · अर्थ
- असम्बद्धे तज्ज्ञानं तर्काभासम् (परीक्षामुख 10) · अर्थ
- अस्तित्वं, वस्तुत्वं, द्रव्यत्वं … (आलापपद्धति 9) · अर्थ
- अस्ति सर्वज्ञो नास्ति खरविषाणमिति (परीक्षामुख 25) · अर्थ
- अस्तीत्येतस्य भावोऽस्तिस्वं सद्रूपत्वम् (आलापपद्धति 94) · अर्थ
- अस्त्यत्रछाया छत्रात् (परीक्षामुख 63) · अर्थ
- अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् (परीक्षामुख 84) · अर्थ
- अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः (परीक्षामुख 62) · अर्थ
- अस्त्यत्र मातुलिंगे रूपं रसात् (परीक्षामुख 66) · अर्थ
- अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः (परीक्षामुख 2) · अर्थ
आ
- आ आकाशादेकद्रव्याणि (तत्त्वार्थसूत्र 5.6)
- आकाशस्यानन्ताः (तत्त्वार्थसूत्र 5.9)
- आकाशस्यावगाहः (तत्त्वार्थसूत्र 5.18)
- आकाशे नित्येऽप्यस्य निश्चयात् (परीक्षामुख 32) · अर्थ
- आचारश्च (शास्त्रसार समुच्चय चरणानुयोग 68)
- आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् (तत्त्वार्थसूत्र 9.24)
- आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् (तत्त्वार्थसूत्र 9.36)
- आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः (तत्त्वार्थसूत्र 8.14)
- आदितस्त्रिषु पीतान्तलेश्याः (तत्त्वार्थसूत्र 4.2)
- आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः (तत्त्वार्थसूत्र 6.8)
- आद्ये परोक्षम् (तत्त्वार्थसूत्र 1.11)
- आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः (तत्त्वार्थसूत्र 8.4)
- आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः (तत्त्वार्थसूत्र 7.31)
- आप्तवचनादिनिबन्धनमर्थज्ञानमागमः (परीक्षामुख 95) · अर्थ
- आयुष्यं चतुर्विधं (शास्त्रसार समुच्चय द्रव्यानुयोग 55)
- आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च (तत्त्वार्थसूत्र 4.32)
- आर्तञ्च (शास्त्रसार समुच्चय चरणानुयोग 54)
- आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः (तत्त्वार्थसूत्र 9.30)
- आर्त्तरौद्रधर्म्यशुक्लानि (तत्त्वार्थसूत्र 9.28)
- आर्यषट् कर्माणि (शास्त्रसार समुच्चय चरणानुयोग 25)
- आर्या म्लेच्छाश्च (तत्त्वार्थसूत्र 3.36)
- आलोचनञ्च (शास्त्रसार समुच्चय चरणानुयोग 48)
- आलोचनाप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः (तत्त्वार्थसूत्र 9.22)
- आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च (तत्त्वार्थसूत्र 10.7)
- आस्रवनिरोधः संवरः (तत्त्वार्थसूत्र 9.1)
- आहारोपपोगश्चेति (शास्त्रसार समुच्चय द्रव्यानुयोग 45)
इ
- इंद्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः (तत्त्वार्थसूत्र 4.4)
- इतरेषां प्रत्येकं त्रयो गुणाः (आलापपद्धति 13) · अर्थ
- इदमनुमानाभासम् (परीक्षामुख 11) · अर्थ
- इदमस्मिन्सत्येव भवत्यसति तु न भवत्येव (परीक्षामुख 8) · अर्थ
- इदानीमेतेषां भेदा उच्यन्ते (आलापपद्धति 45) · अर्थ
- इन्द्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंख्याः पूर्वस्य भेदाः (तत्त्वार्थसूत्र 6.5)
- इन्द्रियानिन्द्रियानिमित्तं देशतः सांव्यवहारिकम् (परीक्षामुख 5) · अर्थ
- इष्टमबाधितमसिद्धं साध्यम् (परीक्षामुख 16) · अर्थ
ई
- ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः (तत्त्वार्थसूत्र 9.5)
उ
- उच्चैर्नीचैश्च (तत्त्वार्थसूत्र 8.12)
- उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः (तत्त्वार्थसूत्र 9.6)
- उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् (तत्त्वार्थसूत्र 9.27)
- उत्तरा दक्षिणतुल्याः (तत्त्वार्थसूत्र 3.26)
- उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिको यथा द्रव्यं नित्यम् (आलापपद्धति 48) · अर्थ
- उत्पादव्ययगौणत्वेन सत्ताग्राहकेण नित्यस्वभावः (आलापपद्धति 152) · अर्थ
- उत्पादव्ययध्रौव्ययुक्तं सत् (तत्त्वार्थसूत्र 5.30)
- उत्पादव्ययध्रौव्युक्तं सत् (आलापपद्धति 7) · अर्थ
- उत्पादव्ययसापेक्षोऽशुद्धद्रव्यार्थिको यथैकस्मिन् समये द्रव्यमुत्पादव्ययध्रौव्यात्मकम् (आलापपद्धति 51) · अर्थ
- उदेष्यति शकटं कृतिकोदयात् (परीक्षामुख 64) · अर्थ
- उद्गाद् भरणिः प्राक्तत एव (परीक्षामुख 65) · अर्थ
- उपचरितासद्भूतव्यवहारस्त्रेधा (आलापपद्धति 88) · अर्थ
- उपचरितैकान्त पक्षेऽपि नात्मज्ञता सम्भवति नियमित पक्षत्वात् (आलापपद्धति 148) · अर्थ
- उपचारः पृथग् नयो नास्तीति न पृथक् कृतः (आलापपद्धति 211) · अर्थ
- उपनयभेदा उच्यन्ते (आलापपद्धति 80) · अर्थ
- उपनयाश्च कथ्यन्ते (आलापपद्धति 42) · अर्थ
- उपयोगश्चेति (शास्त्रसार समुच्चय द्रव्यानुयोग 47)
- उपयोगो लक्षणम् (तत्त्वार्थसूत्र 2.8)
- उपर्युपरि (तत्त्वार्थसूत्र 4.18)
- उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च (परीक्षामुख 54) · अर्थ
- उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः (परीक्षामुख 7) · अर्थ
ऊ
- ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतराधानानि (तत्त्वार्थसूत्र 7.30)
ऋ
- ऋजु प्रांजलं सूत्रयतीति ऋजुसूत्रः (आलापपद्धति 199) · अर्थ
- ऋजुविपुलमती मनःपर्ययः (तत्त्वार्थसूत्र 1.23)
- ऋजुसूत्रोपि द्विविधः (आलापपद्धति 73) · अर्थ
- ऋषयश्चतुर्विधाः (शास्त्रसार समुच्चय चरणानुयोग 33)
ए
- एकं द्वौ त्रीन्वानाहारकः (तत्त्वार्थसूत्र 2.30)
- एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदेवकुरवकाः (तत्त्वार्थसूत्र 3.29)
- एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्व एव हानिः स्यात् (आलापपद्धति 144) · अर्थ
- एकप्रदेशादिषु भाज्यः पुद्गलानाम् (तत्त्वार्थसूत्र 5.14)
- एकसमयाऽविग्रहा (तत्त्वार्थसूत्र 2.29)
- एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत् (परीक्षामुख 8) · अर्थ
- एकस्याप्यनेकस्वभावोपलम्भादनेक स्वभावः (आलापपद्धति 111) · अर्थ
- एकस्वरूपस्यैकान्तेन विशेषाभावः सर्वथैकरूपत्वात्। विशेषाभावे सामान्यस्याप्यभावः (आलापपद्धति 131) · अर्थ
- एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतिः (तत्त्वार्थसूत्र 9.17)
- एकादश जिने (तत्त्वार्थसूत्र 9.11)
- एकादश निर्जराः (शास्त्रसार समुच्चय द्रव्यानुयोग 62)
- एकादश निलयाः (शास्त्रसार समुच्चय चरणानुयोग 10)
- एकादश रूद्राः (शास्त्रसार समुच्चय प्रथमानुयोग 22)
- एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः (तत्त्वार्थसूत्र 1.30)
- एकाश्रये सवितर्कवीचारे पूर्वे (तत्त्वार्थसूत्र 9.41)
- एकोनपंचाशत् पटलानि (शास्त्रसार समुच्चय करणानुयोग 3)
- एतद्द्वयमेवानुमाङ्गं नोदाहरणम् (परीक्षामुख 33) · अर्थ
- एवं क्रियाप्रधानत्वेन भूयत इत्येवंभूतः (आलापपद्धति 202) · अर्थ
- एवंभूतनयो यथा इन्दतीति इन्द्रः (आलापपद्धति 79) · अर्थ
- एवमितरेषां द्रव्याणामुपचारो यथासंभवो ज्ञेयः (आलापपद्धति 125) · अर्थ
औ
- औदयिकमेकविंशतिर्भेदः (शास्त्रसार समुच्चय द्रव्यानुयोग 21)
- औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि (तत्त्वार्थसूत्र 2.36)
- औपपादिकं वैक्रियिकम् (तत्त्वार्थसूत्र 2.46)
- औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपवर्त्यायुषः (तत्त्वार्थसूत्र 2.53)
- औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः (तत्त्वार्थसूत्र 4.27)
- औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च (तत्त्वार्थसूत्र 2.1)
- औपशमिकादिभव्यत्वानां च (तत्त्वार्थसूत्र 10.3)
- औपशमिको द्विविधः (शास्त्रसार समुच्चय द्रव्यानुयोग 18)
क
- कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि (तत्त्वार्थसूत्र 7.32)
- करणं त्रिविधम् (शास्त्रसार समुच्चय चरणानुयोग 2)
- कर्तुमारब्धमीषन्निष्पन्नमनिष्पन्नं वा वस्तु निष्पन्नवत्कथ्यते यत्र स वर्तमाननैगमो यथा ओदनः पच्यते (आलापपद्धति 67) · अर्थ
- कर्मवत्कर्तृकरणक्रियाप्रतीतेः (परीक्षामुख 9) · अर्थ
- कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः, यथा संसारीजीवः सिद्धसदृक्शुद्धात्मा (आलापपद्धति 47) · अर्थ
- कर्मोपाधिनिरपेक्षस्वभावोनित्यशुद्धपर्यायार्थिको यथा सिद्धपर्यायसदृशाः शुद्धाः संसारिणां पर्यायाः (आलापपद्धति 62) · अर्थ
- कर्मोपाधिसापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिको यथा संसारिणामुत्पत्तिमरणे स्तः (आलापपद्धति 63) · अर्थ
- कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिको यथा क्रोधादिकर्मजभाव आत्मा (आलापपद्धति 50) · अर्थ
- कल्पोपपन्नाः कल्पातीताश्च (तत्त्वार्थसूत्र 4.17)
- कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य (तत्त्वार्थसूत्र 6.14)
- कायप्रवीचारा आ ऐशानात् (तत्त्वार्थसूत्र 4.7)
- कायवाङ्मनः कर्मयोगः (तत्त्वार्थसूत्र 6.1)
- कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः (परीक्षामुख 10) · अर्थ
- कार्यकार्यमविरुद्धकार्योपलब्धौ (परीक्षामुख 88) · अर्थ
- कालत्रयेऽपि परस्वरूपाकाराभवनादभव्यस्वभावः (आलापपद्धति 115) · अर्थ
- कालश्च (तत्त्वार्थसूत्र 5.39)
- किंचिदकरणात् (परीक्षामुख 37) · अर्थ
- कुतोऽन्यथोपनयनिगमने (परीक्षामुख 39) · अर्थ
- कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि (तत्त्वार्थसूत्र 2.23)
- केनचित्पर्यायार्थिकेनानित्यस्वभावः (आलापपद्धति 153) · अर्थ
- केवलं सकलप्रत्यक्षं (आलापपद्धति 37) · अर्थ
- केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य (तत्त्वार्थसूत्र 6.13)
- को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् (परीक्षामुख 11) · अर्थ
- को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति (परीक्षामुख 32) · अर्थ
- क्रियाऋद्धिर्द्विविधा (शास्त्रसार समुच्चय चरणानुयोग 60)
- क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च (तत्त्वार्थसूत्र 7.5)
ग
- गंगासिन्धु रोहिद्रोहितास्याहरिद्धरिकान्ता सीतासीतोदानारीनरकान्ता सुवर्णरूप्यकूलारक्तारक्तोदाः … (तत्त्वार्थसूत्र 3.20)
- गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः (तत्त्वार्थसूत्र 2.6)
- गतिजातिशरीराङ्गोपाङ्गनिर्माणबंधनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्व्यागुरुलघूपघातपरघातातपो … (तत्त्वार्थसूत्र 8.11)
- गतिशरीरपरिग्रहाभिमानतो हीनाः (तत्त्वार्थसूत्र 4.21)
- गतिश्चतुर्विधा (शास्त्रसार समुच्चय द्रव्यानुयोग 30)
- गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः (तत्त्वार्थसूत्र 5.17)
- गर्भसम्मूर्च्छनजमाद्यम् (तत्त्वार्थसूत्र 2.45)
- गुणगुणिनोः पर्यायपर्यायिणोः स्वभावस्वभाविनोः कारक-कारकिणोर्भेदः सद्भूतव्यवहारस्यार्थः (आलापपद्धति 209) · अर्थ
- गुणगुणिनोः संज्ञादिभेदात् भेदकः सद्भूतव्यवहारः (आलापपद्धति 206) · अर्थ
- गुणगुण्यादिसंज्ञादिभेदाद् भेदस्वभावः (आलापपद्धति 112) · अर्थ
- गुणगुण्याद्येेकस्वभावादभेदस्वभावः (आलापपद्धति 113) · अर्थ
- गुणजीवमार्गणस्थानानि प्रत्येकं चतुर्दशः (शास्त्रसार समुच्चय द्रव्यानुयोग 23)
- गुणपर्ययवद्द्रव्यम् (आलापपद्धति 27) · अर्थ
- गुणपर्ययवद् द्रव्यम् (तत्त्वार्थसूत्र 5.38)
- गुणविकाराः पर्यायास्ते द्वेधा अर्थव्यंजनपर्यायभेदात् (आलापपद्धति 15) · अर्थ
- गुणव्रत त्रयम् (शास्त्रसार समुच्चय चरणानुयोग 16)
- गुणसाम्ये सदृशानाम् (तत्त्वार्थसूत्र 5.35)
- गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च (आलापपद्धति 1) · अर्थ
- गुण्यते पृथक् क्रियते द्रव्यं द्रव्याद्यैस्तेगुणाः (आलापपद्धति 93) · अर्थ
- गुप्तित्रयम् (शास्त्रसार समुच्चय चरणानुयोग 42)
घ
- घटमहमात्मना वेद्मि (परीक्षामुख 8) · अर्थ
- घातिचतुष्टयाष्टादशदोषरहिताः (शास्त्रसार समुच्चय प्रथमानुयोग 10)
च
- चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च (तत्त्वार्थसूत्र 8.7)
- चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च (परीक्षामुख 5) · अर्थ
- चतुःकषायाः (शास्त्रसार समुच्चय द्रव्यानुयोग 37)
- चतुरशीतिलक्षविलानि (शास्त्रसार समुच्चय करणानुयोग 6)
- चतुरशीतिलक्षसप्तनवतिसहस्त्रत्रयोविंशतिविमानानि (शास्त्रसार समुच्चय करणानुयोग 13)
- चतुरशीतिलक्षैकोननवतिसहस्रैकशतचतुश्चत्वारिंशत् प्रकीर्णकानि (शास्त्रसार समुच्चय करणानुयोग 12)
- चतुरस्त्रः सज्ञाः (शास्त्रसार समुच्चय द्रव्यानुयोग 29)
- चतुरुत्तर षड शत नव सहस्र श्रेणि वद्धानि (शास्त्रसार समुच्चय करणानुयोग 4)
- चतुर्दश कुलकरा :, इति (शास्त्रसार समुच्चय प्रथमानुयोग 5)
- चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः (तत्त्वार्थसूत्र 3.23)
- चतुर्दश प्रकीर्णकानि (शास्त्रसार समुच्चय द्रव्यानुयोग 12)
- चतुर्दश रत्नानि (शास्त्रसार समुच्चय प्रथमानुयोग 17)
- चतुर्विधदुःखमिति (शास्त्रसार समुच्चय करणानुयोग 7)
- चतुर्विध विनयः (शास्त्रसार समुच्चय चरणानुयोग 49)
- चतुर्विधो न्यास (शास्त्रसार समुच्चय द्रव्यानुयोग 5)
- चतुर्विशतिस्तीर्थंकराः (शास्त्रसार समुच्चय प्रथमानुयोग 7)
- चतुस्त्रिंशदुत्तरगुणा (शास्त्रसार समुच्चय चरणानुयोग 44)
- चतुस्त्रिशदतिशया (शास्त्रसार समुच्चय प्रथमानुयोग 6)
- चतुस्त्रिशद्वर्ष धर पर्वताः (शास्त्रसार समुच्चय करणानुयोग 9)
- चत्वारिंशत् दिग्गज पर्वताः (शास्त्रसार समुच्चय करणानुयोग 15)
- चत्वारि दर्शनानि (शास्त्रसार समुच्चय द्रव्यानुयोग 40)
- चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः (तत्त्वार्थसूत्र 9.15)
- चेतनस्य भावश्चेतनत्वम् चैतन्यमनुभवनम् (आलापपद्धति 101) · अर्थ
- चेतनस्वभावः मूर्तस्वभावः विभावस्वभावः अशुद्धस्वभावः उपचरितस्वभावः एतैर्विना धर्मादि … (आलापपद्धति 30) · अर्थ
ज
- जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् (तत्त्वार्थसूत्र 7.12)
- जम्बूद्वीपलवणसमुद्राद्यसंख्यातपद्वीसमुद्राः (शास्त्रसार समुच्चय करणानुयोग 1)
- जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः (तत्त्वार्थसूत्र 3.7)
- जम्बूवृक्षाश्च (शास्त्रसार समुच्चय करणानुयोग 7)
- जरायुजाण्डजपोतानां गर्भः (तत्त्वार्थसूत्र 2.33)
- जीव-पुद्गल-धर्माधर्माकाश-काल-द्रव्याणि (आलापपद्धति 5) · अर्थ
- जीवपुद्गलयोरेकविंशतिः (आलापपद्धति 29) · अर्थ
- जीवभव्याभव्यत्वानि च (तत्त्वार्थसूत्र 2.7)
- जीवस्याप्यसद्भूतव्यवहारेण मूर्तस्वभावः (आलापपद्धति 164) · अर्थ
- जीवस्याप्यसद्भूतव्यवहारेणाचेतनस्वभावः (आलापपद्धति 162) · अर्थ
- जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् (तत्त्वार्थसूत्र 1.4)
- जीवाश्च (तत्त्वार्थसूत्र 5.3)
- जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि (तत्त्वार्थसूत्र 7.37)
- जैनाश्रमाश्च (शास्त्रसार समुच्चय चरणानुयोग 23)
- ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च (तत्त्वार्थसूत्र 4.12)
- ज्योतिष्काणां च (तत्त्वार्थसूत्र 4.40)
त
- ततश्च निर्जरा (तत्त्वार्थसूत्र 8.23)
- ततोऽन्यत्तदाभासम् (परीक्षामुख 1) · अर्थ
- तत्कथं? (आलापपद्धति 126) · अर्थ
- तत्कृतः कालविभागः (तत्त्वार्थसूत्र 4.14)
- तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् (तत्त्वार्थसूत्र 1.2)
- तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति (परीक्षामुख 38) · अर्थ
- तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः (तत्त्वार्थसूत्र 6.10)
- तत्प्रमाणे (तत्त्वार्थसूत्र 1.10)
- तत्प्रामाण्यं स्वतः परश्च (परीक्षामुख 13) · अर्थ
- तत्र निरूपाधिकगुणगुण्यभेद विषयकः शुद्धनिश्चयो यथा केवलज्ञानादयो जीव इति (आलापपद्धति 218) · अर्थ
- तत्र निश्चयतयोऽभेदविषयो, व्यवहारो भेदविषयः (आलापपद्धति 216) · अर्थ
- तत्र निश्चयो द्विविधः शुद्धनिश्चयोऽशुद्धनिश्चयश्च (आलापपद्धति 217) · अर्थ
- तत्रप्रत्यक्षबाधितो यथा, अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत् (परीक्षामुख 16) · अर्थ
- तत्र बहुप्रदेशं (शत्वं) विना कालस्य पञ्चदश स्वभावाः (आलापपद्धति 31) · अर्थ
- तत्र राजर्षयो द्विविधा. (शास्त्रसार समुच्चय चरणानुयोग 34)
- तत्र वेदकसम्यक्त्वस्य पंचविंशतिमलानि (शास्त्रसार समुच्चय चरणानुयोग 6)
- तत्र संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारो यथा देवदत्तस्य धनमिति (आलापपद्धति 227) · अर्थ
- तत्र सद्भूतव्यवहारो द्विविध उपचरितानुपचरितभेदात् (आलापपद्धति 223) · अर्थ
- तत्र सोपाधिगुणगुणिनोर्भेदविषयः उपचरितसद्भूतव्यवहारो, यथा जीवस्य मतिज्ञानादयो गुणाः (आलापपद्धति 224) · अर्थ
- तत्रानिष्टादिः पक्षाभासः (परीक्षामुख 12) · अर्थ
- तत्रार्द्धद्वितीयद्वीपसमुद्रौमनुष्यक्षेत्रम् (शास्त्रसार समुच्चय करणानुयोग 2)
- तत्रेज्या दशविधाः (शास्त्रसार समुच्चय चरणानुयोग 26)
- तत्रैकवस्तुविषयः सद्भूतव्यवहारः (आलापपद्धति 221) · अर्थ
- तत्स्थैर्यार्थं भावनाः पञ्चपञ्च (तत्त्वार्थसूत्र 7.3)
- तथात्मनोऽनुपचरितपक्षेऽपि परज्ञतादीनां विरोधः स्यात् (आलापपद्धति 149) · अर्थ
- तथासद्रूपस्य सकलशून्यताप्रसंगात् (आलापपद्धति 128) · अर्थ
- तथाऽचैतन्यपक्षेऽपि सकलचैतन्योच्छेदः स्यात् (आलापपद्धति 141) · अर्थ
- तथाऽप्रतिभासात्कार्याकरणाच्च (परीक्षामुख 62) · अर्थ
- तथोत्तराः (तत्त्वार्थसूत्र 3.30)
- तदनन्तभागे मनःपर्ययस्य (तत्त्वार्थसूत्र 1.28)
- तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् (तत्त्वार्थसूत्र 10.5)
- तदनुमानं द्वेधा (परीक्षामुख 48) · अर्थ
- तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवन्नक्तंचर ज्ञानवच्च (परीक्षामुख 7) · अर्थ
- तदवयवा नयाः (आलापपद्धति 39) · अर्थ
- तदविनाभावनिश्चयार्थं वा विपक्षे बाधकप्रमाणबलादेव तत्सिद्धेः (परीक्षामुख 35) · अर्थ
- तदविरतदेशविरतप्रमत्तसंयतानां (तत्त्वार्थसूत्र 9.34)
- तदष्टभागोऽपरा च (तत्त्वार्थसूत्र 4.41)
- तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः (तत्त्वार्थसूत्र 2.43)
- तदिन्द्रियानिन्द्रियनिमित्तम् (तत्त्वार्थसूत्र 1.14)
- तद् द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः (तत्त्वार्थसूत्र 3.25)
- तद् द्विगुणद्विगुणा हृदाः पुष्कराणि च (तत्त्वार्थसूत्र 3.18)
- तद्द्वेधा (परीक्षामुख 1) · अर्थ
- तद्द्वेधा प्रत्यक्षेतरभेदात् (आलापपद्धति 35) · अर्थ
- तद्द्वेधा सविकल्पेतरभेदात् (आलापपद्धति 178) · अर्थ
- तद्भावः परिणामः (तत्त्वार्थसूत्र 5.42)
- तद्भावाव्ययं नित्यम् (तत्त्वार्थसूत्र 5.31)
- तद्वचनमपि तद्धेतुत्वात् (परीक्षामुख 52) · अर्थ
- तद्विपरीतं शुभस्य (तत्त्वार्थसूत्र 6.23)
- तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य (तत्त्वार्थसूत्र 6.26)
- तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः (तत्त्वार्थसूत्र 3.11)
- तद्व्यापाराश्रितं हि तद्भावभावित्वम् (परीक्षामुख 59) · अर्थ
- तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः (तत्त्वार्थसूत्र 3.19)
- तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् (परीक्षामुख 3) · अर्थ
- तन्निसर्गादधिगमाद्वा (तत्त्वार्थसूत्र 1.3)
- तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः (तत्त्वार्थसूत्र 3.9)
- तन्मध्ये योजनं पुष्करम् (तत्त्वार्थसूत्र 3.17)
- तपः सप्तविधम् (शास्त्रसार समुच्चय चरणानुयोग 62)
- तपसा निर्जरा च (तत्त्वार्थसूत्र 9.3)
- तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वमप्रमाणस्याव्यवस्थापक-त्वात् (परीक्षामुख 59) · अर्थ
- तर्कात्तन्निर्णयः (परीक्षामुख 15) · अर्थ
- तस्मादग्निमान् धूमवांश्चायम् (परीक्षामुख 49) · अर्थ
- तस्माद्वास्तवो भेदः (परीक्षामुख 70) · अर्थ
- तस्य बाष्पादिभावेन भूतसंघाते सन्देहात् (परीक्षामुख 26) · अर्थ
- तस्याप्यनेकपर्यायपरिणामितत्त्वादनित्यस्वभावः (आलापपद्धति 109) · अर्थ
- ताभ्यामपरा भूमयोऽवस्थिताः (तत्त्वार्थसूत्र 3.28)
- तावता च साध्यसिद्धिः (परीक्षामुख 93) · अर्थ
- तावन्मूलनयौ द्वौ निश्चयो व्यवहारश्च (आलापपद्धति 215) · अर्थ
- तासु त्रिंशत्पंचविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम् (तत्त्वार्थसूत्र 3.2)
- तिर्यग्योनिजानां च (तत्त्वार्थसूत्र 3.39)
- तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः (तत्त्वार्थसूत्र 6.6)
- ते कुतो ज्ञेयाः? (आलापपद्धति 32) · अर्थ
- तेन पक्षस्तदाधारसूचनायोक्तः (परीक्षामुख 94) · अर्थ
- तेनाज्ञातत्वात् (परीक्षामुख 28) · अर्थ
- तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः (तत्त्वार्थसूत्र 3.6)
- तैजसमपि (तत्त्वार्थसूत्र 2.48)
द
- दत्तीश्चतुर्विधाः (शास्त्रसार समुच्चय चरणानुयोग 28)
- दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः … (तत्त्वार्थसूत्र 8.9)
- दर्शनमोहान्तराययोरदर्शनालाभौ (तत्त्वार्थसूत्र 9.14)
- दर्शनविशुद्धिर्विनयसम्पन्नताशीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी … (तत्त्वार्थसूत्र 6.24)
- दर्शन-स्मरणकारणकं संकलनं प्रत्यभिज्ञानम्। तदेवेदं, तत्सदृशं, तद्विलक्षणं, तत्प्रतियोगीत्यादि (परीक्षामुख 5) · अर्थ
- दर्शनावरणोयं नवविधम (शास्त्रसार समुच्चय द्रव्यानुयोग 52)
- दश प्राणाः (शास्त्रसार समुच्चय द्रव्यानुयोग 28)
- दशयोजनावगाहः (तत्त्वार्थसूत्र 3.16)
- दशवर्षसहस्राणि प्रथमायाम् (तत्त्वार्थसूत्र 4.36)
- दशविधं प्रायश्चित्तानि (शास्त्रसार समुच्चय चरणानुयोग 47)
- दशविधं वा (शास्त्रसार समुच्चय चरणानुयोग 5)
- दशविधकल्पद्रुमा . (शास्त्रसार समुच्चय प्रथमानुयोग 4)
- दशविधानि वैयावृत्यानि (शास्त्रसार समुच्चय चरणानुयोग 50)
- दशांगभोगानि (शास्त्रसार समुच्चय प्रथमानुयोग 19)
- दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः (तत्त्वार्थसूत्र 4.3)
- दानलाभभोगोपभोगवीर्याणाम् (तत्त्वार्थसूत्र 8.13)
- दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्पन्नश्च (तत्त्वार्थसूत्र 7.21)
- दुःखमेव वा (तत्त्वार्थसूत्र 7.10)
- दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेद्यस्य (तत्त्वार्थसूत्र 6.11)
- दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः (परीक्षामुख 40) · अर्थ
- दृष्टान्तो द्वेधा अन्वय-व्यतिरेकभेदात् (परीक्षामुख 43) · अर्थ
- दृष्टोऽपि समारोपात्तादृक् (परीक्षामुख 5) · अर्थ
- देवनारकाणामुपपादः (तत्त्वार्थसूत्र 2.34)
- देवाश्चतुर्णिकायाः (तत्त्वार्थसूत्र 4.1)
- देवाश्चतुर्णिकायाः (शास्त्रसार समुच्चय करणानुयोग 1)
- देशसर्वतोऽणुमहती (तत्त्वार्थसूत्र 7.2)
- द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः (आलापपद्धति 184) · अर्थ
- द्रव्यलक्षणसिद्ध्यर्थं स्वभावसिद्ध्यर्थञ्च (आलापपद्धति 3) · अर्थ
- द्रव्यस्य भावो द्रव्यत्वम् … (आलापपद्धति 96) · अर्थ
- द्रव्याणि (तत्त्वार्थसूत्र 5.2)
- द्रव्याणि कानि? (आलापपद्धति 4) · अर्थ
- द्रव्याण्यपि भवन्ति (आलापपद्धति 120) · अर्थ
- द्रव्यार्थिकः, पर्यायार्थिकः … (आलापपद्धति 41) · अर्थ
- द्रव्यार्थिकस्य दश भेदाः (आलापपद्धति 46) · अर्थ
- द्रव्याश्रया निर्गुणा गुणाः (तत्त्वार्थसूत्र 5.41)
- द्रव्ये द्रव्योपचारः, 2. पर्याये पर्यायोपचारः … (आलापपद्धति 210) · अर्थ
- द्वयोर्द्वयोः पूर्वाः पूर्वगाः (तत्त्वार्थसूत्र 3.21)
- द्वादश गणाः (शास्त्रसार समुच्चय प्रथमानुयोग 12)
- द्वादशविधंतपः (शास्त्रसार समुच्चय चरणानुयोग 46)
- द्वादश सिद्धस्यानुयोगद्वाराणि (शास्त्रसार समुच्चय द्रव्यानुयोग 65)
- द्वादशानुप्रेक्षाः (शास्त्रसार समुच्चय चरणानुयोग 38)
- द्वाविशत् परिषहाः (शास्त्रसार समुच्चय चरणानुयोग 45)
- द्विचत्वारिंशद्विधं नाम (शास्त्रसार समुच्चय द्रव्यानुयोग 56)
- द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् (तत्त्वार्थसूत्र 2.2)
- द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः (तत्त्वार्थसूत्र 3.8)
- द्विर्धातकीखण्डे (तत्त्वार्थसूत्र 3.33)
- द्विविघं गोत्रम् (शास्त्रसार समुच्चय द्रव्यानुयोग 57)
- द्विविधं प्रमाणोम् (शास्त्रसार समुच्चय द्रव्यानुयोग 6)
- द्विविधं भव्यत्वं (शास्त्रसार समुच्चय द्रव्यानुयोग 42)
- द्विविधं श्रुतम् (शास्त्रसार समुच्चय द्रव्यानुयोग 10)
- द्विविधः (शास्त्रसार समुच्चय प्रथमानुयोग 2)
- द्विविधमेकेन्द्रियम् (शास्त्रसार समुच्चय द्रव्यानुयोग 24)
- द्विविध संज्ञित्वम् (शास्त्रसार समुच्चय द्रव्यानुयोग 44)
- द्विविधानि (तत्त्वार्थसूत्र 2.16)
- द्विविधो मनःपर्ययश्च (शास्त्रसार समुच्चय द्रव्यानुयोग 14)
- द्विविधो मोक्षः (शास्त्रसार समुच्चय द्रव्यानुयोग 64)
- द्विविधो व्युत्सर्गः (शास्त्रसार समुच्चय चरणानुयोग 52)
- द्वीन्द्रियादयस्त्रसाः (तत्त्वार्थसूत्र 2.14)
- द्व्यधिकादिगुणानां तु (तत्त्वार्थसूत्र 5.36)
ध
- धर्मध्यानं दशविधम् (शास्त्रसार समुच्चय चरणानुयोग 56)
- धर्माधर्मयोः कृत्स्ने (तत्त्वार्थसूत्र 5.13)
- धर्मापेक्षया स्वभावा गुणा न भवन्ति (आलापपद्धति 118) · अर्थ
- धर्मास्तिकायाभावात् (तत्त्वार्थसूत्र 10.8)
- धूमवांश्चायमिति वा (परीक्षामुख 48) · अर्थ
- ध्यानं चतुर्विधम् (शास्त्रसार समुच्चय चरणानुयोग 53)
न
- न चक्षुरनिन्द्रियाभ्याम् (तत्त्वार्थसूत्र 1.19)
- न च ते तदंगे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् (परीक्षामुख 40) · अर्थ
- न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः (परीक्षामुख 57) · अर्थ
- न चासिद्धवदिष्टं प्रतिवादिनः (परीक्षामुख 19) · अर्थ
- न जघन्यगुणानाम् (तत्त्वार्थसूत्र 5.34)
- नद पदार्थः (शास्त्रसार समुच्चय द्रव्यानुयोग 4)
- न देवाः (तत्त्वार्थसूत्र 2.51)
- न भविष्यति मुहूर्त्तान्ते शकटं कृतिकोदयानुपलब्धेः (परीक्षामुख 79) · अर्थ
- नयभेदा उच्यन्ते (आलापपद्धति 40) · अर्थ
- नयानां समीपा उपनयाः (आलापपद्धति 43) · अर्थ
- नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् (तत्त्वार्थसूत्र 9.21)
- नव नयाः (शास्त्रसार समुच्चय द्रव्यानुयोग 15)
- नव निधयः (शास्त्रसार समुच्चय प्रथमानुयोग 18)
- नव बलदेवाः (शास्त्रसार समुच्चय प्रथमानुयोग 20)
- नवविधो वा (शास्त्रसार समुच्चय द्रव्यानुयोग 36)
- न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् (परीक्षामुख 34) · अर्थ
- नाणोः (तत्त्वार्थसूत्र 5.11)
- नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव तत्स्मृतेः (परीक्षामुख 37) · अर्थ
- नामगोत्रयोरष्टौ (तत्त्वार्थसूत्र 8.19)
- नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः (तत्त्वार्थसूत्र 8.24)
- नामस्थापनाद्रव्यभावतस्तन्न्यासः (तत्त्वार्थसूत्र 1.5)
- नारकतैर्यग्योनमानुषदैवानि (तत्त्वार्थसूत्र 8.10)
- नारकसंमूर्च्छिनो नपुंसकानि (तत्त्वार्थसूत्र 2.50)
- नारकाणां च द्वितीयादिषु (तत्त्वार्थसूत्र 4.35)
- नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः (तत्त्वार्थसूत्र 3.3)
- नार्थालोकौ कारणं परिच्छेद्यत्वात्तमोवत् (परीक्षामुख 6) · अर्थ
- नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् । कारणविरुद्धकार्यं विरुद्धकार्योपलब्धौ यथा (परीक्षामुख 89) · अर्थ
- नास्त्यत्र धूमोऽनग्नेः (परीक्षामुख 78) · अर्थ
- नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् (परीक्षामुख 73) · अर्थ
- नास्त्यत्र भूतले घटोऽनुपलब्धेः (परीक्षामुख 75) · अर्थ
- नास्त्यत्र शिंशपा वृक्षानुपलब्धेः (परीक्षामुख 76) · अर्थ
- नास्त्यत्र शीतस्पर्शः औष्ण्यात् (परीक्षामुख 68) · अर्थ
- नास्त्यत्र शीतस्पर्शो धूमात् (परीक्षामुख 69) · अर्थ
- नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः (परीक्षामुख 81) · अर्थ
- नास्त्यत्राप्रतिबद्धसामर्थ्योऽग्निर्धूमानुपलब्धेः (परीक्षामुख 77) · अर्थ
- नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् (परीक्षामुख 70) · अर्थ
- निःशल्यो व्रती (तत्त्वार्थसूत्र 7.18)
- निःशीलव्रतत्वं च सर्वेषाम् (तत्त्वार्थसूत्र 6.19)
- निज-निज-नानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्यस्वभावः (आलापपद्धति 108) · अर्थ
- नित्यस्यैकरूपत्वादेकरूपस्यार्थक्रियाकारित्वाभावः। अर्थक्रियाकारित्वाभावे द्रव्यस्याप्यभावः (आलापपद्धति 129) · अर्थ
- नित्यावस्थितान्यरूपाणि (तत्त्वार्थसूत्र 5.4)
- निदानं च (तत्त्वार्थसूत्र 9.33)
- निरुपभोगमन्त्यम् (तत्त्वार्थसूत्र 2.44)
- निरूपाधिगुणगुणिनोर्भेदविषयोऽनुपचरितसद्भूतव्यवहारो, यथा जीवस्य केवलज्ञानादयो गुणाः (आलापपद्धति 225) · अर्थ
- निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः (तत्त्वार्थसूत्र 1.7)
- निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् (तत्त्वार्थसूत्र 6.9)
- निर्विकल्पं मनोरहितं केवलज्ञानम् (आलापपद्धति 180) · अर्थ
- निर्वृत्त्युपकरणे द्रव्येन्द्रियम् (तत्त्वार्थसूत्र 2.17)
- निश्चितविपक्षवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् (परीक्षामुख 31) · अर्थ
- निष्क्रियाणि च (तत्त्वार्थसूत्र 5.7)
- नृस्थितीपरावरे त्रिपल्योपमान्तर्मुहूर्ते (तत्त्वार्थसूत्र 3.38)
- नैकं गच्छतीति निगमः निगमोविकल्पस्तत्रभवो नैगमः (आलापपद्धति 196) · अर्थ
- नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नयाः (तत्त्वार्थसूत्र 1.33)
- नैगमस्त्रेधा भूतभाविवर्तमानकालभेदात् (आलापपद्धति 64) · अर्थ
- नोदगाद्भरणिर्मुहूर्त्तात्पूर्वं पुष्योदयात् (परीक्षामुख 72) · अर्थ
- नोदगाद्भरणिर्मुहूर्त्तात्प्राक् तत एव (परीक्षामुख 80) · अर्थ
- नोदेष्यति मुहूर्त्तान्ते शकटं रेवत्युदयात् (परीक्षामुख 71) · अर्थ
प
- पंच दश कर्मभूमयः (शास्त्रसार समुच्चय करणानुयोग 3)
- पंचदशविधाः (शास्त्रसार समुच्चय द्रव्यानुयोग 34)
- पंच भावाः (शास्त्रसार समुच्चय द्रव्यानुयोग 17)
- पंच मन्दारगिरयः (शास्त्रसार समुच्चय करणानुयोग 6)
- पंच महाकल्याणानि (शास्त्रसार समुच्चय प्रथमानुयोग 9)
- पंच लब्धयः (शास्त्रसार समुच्चय चरणानुयोग 1)
- पंचविधमन्तरायम् (शास्त्रसार समुच्चय द्रव्यानुयोग 58)
- पंचविध स्वाध्यायः (शास्त्रसार समुच्चय चरणानुयोग 51)
- पंचविधानिर्ग्रन्थाः (शास्त्रसार समुच्चय चरणानुयोग 67)
- पंचातिचाराः (शास्त्रसार समुच्चय चरणानुयोग 9)
- पंचातिचाराः (शास्त्रसार समुच्चय चरणानुयोग 37)
- पंचास्तिकायाः (शास्त्रसार समुच्चय द्रव्यानुयोग 2)
- पंचेन्द्रियाणि (तत्त्वार्थसूत्र 2.15)
- पंचेन्द्रियाणि (शास्त्रसार समुच्चय द्रव्यानुयोग 31)
- पंचेन्द्रिया द्विविधाः (शास्त्रसार समुच्चय द्रव्यानुयोग 26)
- पक्ष इति यावत् (परीक्षामुख 22) · अर्थ
- पच सज्ज्ञानि (शास्त्रसार समुच्चय द्रव्यानुयोग 7)
- पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चभेदायथाक्रमम् (तत्त्वार्थसूत्र 8.5)
- पञ्चविधज्योतिष्काः (शास्त्रसार समुच्चय करणानुयोग 4)
- पञ्चाणुव्रतानि (शास्त्रसार समुच्चय चरणानुयोग 15)
- पद्ममहापद्मतिगिञ्छकेशरि महापुण्डरीकपुण्डरीकाहृदास्तेषामुपरि (तत्त्वार्थसूत्र 3.14)
- परं परं सूक्ष्मम् (तत्त्वार्थसूत्र 2.37)
- परतः परतः पूर्वा पूर्वाऽनन्तरा (तत्त्वार्थसूत्र 4.34)
- परद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति परद्रव्यादिग्राहकः (आलापपद्धति 189) · अर्थ
- परद्रव्यादिग्राहकद्रव्यार्थिको यथा परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति (आलापपद्धति 55) · अर्थ
- परद्रव्यादिग्राहकेण नास्ति स्वभावः (आलापपद्धति 151) · अर्थ
- परमभावग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः (आलापपद्धति 190) · अर्थ
- परमभावग्राहकद्रव्यार्थिको यथा ज्ञानस्वरूप आत्मा … (आलापपद्धति 56) · अर्थ
- परमभावग्राहकेण कर्मनोकर्मणोरचेतनस्वभावः (आलापपद्धति 161) · अर्थ
- परमभावग्राहकेण कर्मनोकर्मणोर्मूर्त्तस्वभावः (आलापपद्धति 163) · अर्थ
- परमभावग्राहकेण कालपुद्गलाणूनामेकप्रदेशस्वभावत्वम् (आलापपद्धति 167) · अर्थ
- परमभावग्राहकेण पुद्गलं विहाय इतरेषाममूर्तस्वभावः (आलापपद्धति 165) · अर्थ
- परमभावग्राहकेण भव्याभव्यपारिणामिकस्वभावः (आलापपद्धति 158) · अर्थ
- परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् (परीक्षामुख 86) · अर्थ
- परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः (तत्त्वार्थसूत्र 7.28)
- परस्परेणाभिरूढाः समभिरूढाः। शब्दभेदेऽप्यर्थभेदो-नास्तिः। यथा शक्र इन्द्रः पुरन्दर इत्यादयः समभिरूढाः (आलापपद्धति 201) · अर्थ
- परस्परोदीरितदुःखाः (तत्त्वार्थसूत्र 3.4)
- परस्परोपग्रहो जीवानाम् (तत्त्वार्थसूत्र 5.21)
- परस्वरूपेणाभावान्नास्तिस्वभावः (आलापपद्धति 107) · अर्थ
- परात्मनिन्दाप्रशंसे सदसद् गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य (तत्त्वार्थसूत्र 6.25)
- परापरविवर्तव्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिषु (परीक्षामुख 5) · अर्थ
- परा पल्योपममधिकम् (तत्त्वार्थसूत्र 4.39)
- परापेक्षणे परिणामित्वमन्यथा तदभावात् (परीक्षामुख 64) · अर्थ
- परार्थं तु तदर्थपरामर्शिवचनाज्जातम् (परीक्षामुख 51) · अर्थ
- परिणामी शब्दः, कृतकत्वात् … (परीक्षामुख 61) · अर्थ
- परे केवलिनः (तत्त्वार्थसूत्र 9.38)
- परे मोक्षहेतू (तत्त्वार्थसूत्र 9.29)
- परेऽप्रवीचाराः (तत्त्वार्थसूत्र 4.9)
- परोक्षप्रमाणापेक्षयाऽसद्भूतव्यवहारेणाप्युपचारेणामूर्तत्वं पुद्गलस्य (आलापपद्धति 172) · अर्थ
- परोक्षमितरत् (परीक्षामुख 1) · अर्थ
- पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः (आलापपद्धति 191) · अर्थ
- पर्यायव्यतिरेकभेदात् (परीक्षामुख 7) · अर्थ
- पापं च द्विविधम् (शास्त्रसार समुच्चय द्रव्यानुयोग 60)
- पारिणामिकभावप्रधानत्वेन परमस्वभावः (आलापपद्धति 116) · अर्थ
- पारिणामिकस्त्रिविध : (शास्त्रसार समुच्चय द्रव्यानुयोग 22)
- पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु (तत्त्वार्थसूत्र 4.22)
- पुण्यं द्विविधम् (शास्त्रसार समुच्चय द्रव्यानुयोग 59)
- पुद्गलस्य तु द्व्यणुकादयो विभावद्रव्यव्यंजनपर्यायाः (आलापपद्धति 23) · अर्थ
- पुद्गलस्योपचारादेवास्त्यमूर्त्तत्वम् (आलापपद्धति 166) · अर्थ
- पुद्गलाकाशकालद्रव्यास्रवाश्च प्रत्येकं द्विविधाः (शास्त्रसार समुच्चय द्रव्यानुयोग 48)
- पुद्गलाणोरुपचारतो नानाप्रदेशत्वम्; न च कालाणोः स्निग्धरूक्षत्वाभावात् ऋजुत्वाच्च (आलापपद्धति 170) · अर्थ
- पुनरप्यध्यात्मभाषया नया उच्यन्ते (आलापपद्धति 214) · अर्थ
- पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् (परीक्षामुख 4) · अर्थ
- पुलाकवकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रंथाः (तत्त्वार्थसूत्र 9.46)
- पुष्करार्द्धे च (तत्त्वार्थसूत्र 3.34)
- पूर्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथागतिपरिणामाच्च (तत्त्वार्थसूत्र 10.6)
- पूर्वयोर्द्वीन्द्राः (तत्त्वार्थसूत्र 4.6)
- पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः (परीक्षामुख 14) · अर्थ
- पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि (तत्त्वार्थसूत्र 9.39)
- पृथिव्यप्तेजो वायुवनस्पतयः स्थावराः (तत्त्वार्थसूत्र 2.13)
- प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः (तत्त्वार्थसूत्र 8.3)
- प्रतिज्ञायास्तु निगमनम् (परीक्षामुख 47) · अर्थ
- प्रतिभासभेदस्य च भेदकत्वात् (परीक्षामुख 60) · अर्थ
- प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् (परीक्षामुख 4) · अर्थ
- प्रत्यक्षमन्यत् (तत्त्वार्थसूत्र 1.12)
- प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् (परीक्षामुख 55) · अर्थ
- प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम् (परीक्षामुख 2) · अर्थ
- प्रत्यक्षेतरभेदात् (परीक्षामुख 2) · अर्थ
- प्रत्यायनाय हीच्छा वक्तुरेव (परीक्षामुख 20) · अर्थ
- प्रत्येकं जीव पुद्गलयोः षट् (आलापपद्धति 12) · अर्थ
- प्रत्येकमष्टौ सर्वेषाम् (आलापपद्धति 10) · अर्थ
- प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो हृदः (तत्त्वार्थसूत्र 3.15)
- प्रदीपवत् (परीक्षामुख 12) · अर्थ
- प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् (तत्त्वार्थसूत्र 2.38)
- प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् (तत्त्वार्थसूत्र 5.16)
- प्रदेशस्य भावः प्रदेशत्वं क्षेत्रत्वं अविभागिपुद्गलपरमाणु- नावष्टब्धम् (आलापपद्धति 100) · अर्थ
- प्रदेशादिगुणानां व्युत्पत्तिश्चेतनादि विशेषस्वभावानां च व्युत्पत्तिर्निगदिता (आलापपद्धति 117) · अर्थ
- प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा (तत्त्वार्थसूत्र 7.13)
- प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृत दोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च (परीक्षामुख 73) · अर्थ
- प्रमाणनययोर्निक्षेपणं आरोपणं निक्षेपः, स नामस्थापनादि-भेदेन चतुर्विधः (आलापपद्धति 183) · अर्थ
- प्रमाणनयविवक्षातः (आलापपद्धति 33) · अर्थ
- प्रमाणनयैरधिगमः (तत्त्वार्थसूत्र 1.6)
- प्रमाणादभिन्नं भिन्नं च (परीक्षामुख 2) · अर्थ
- प्रमाणान्तराद् व्यावृत्त्येवाप्रमाणत्वमस्य (परीक्षामुख 69) · अर्थ
- प्रमाणेन वस्तु संगृहीतार्थेकांशो नयः … (आलापपद्धति 181) · अर्थ
- प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता साध्या (परीक्षामुख 26) · अर्थ
- प्रमेयस्यभावः प्रमेयत्वम्, प्रमाणेन स्वपररूपं परिच्छेद्यं प्रमेयम् (आलापपद्धति 98) · अर्थ
- प्रसिद्धो धर्मी (परीक्षामुख 23) · अर्थ
- प्राग्ग्रैवेयकेभ्यः कल्पाः (तत्त्वार्थसूत्र 4.23)
- प्राङ् मानुषोत्तरान्मनुष्याः (तत्त्वार्थसूत्र 3.35)
- प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् (तत्त्वार्थसूत्र 9.20)
- प्रेत्यासुखदो धर्मः पुरुषाश्रितत्वादधर्मवत् (परीक्षामुख 18) · अर्थ
फ
- फलाभासं प्रमाणादभिन्नं भिन्नमेव वा (परीक्षामुख 66) · अर्थ
ब
- बंधवधच्छेदातिभारारोपणान्नपाननिरोधाः (तत्त्वार्थसूत्र 7.25)
- बंधश्चतुर्विधः (शास्त्रसार समुच्चय द्रव्यानुयोग 49)
- बंधहेतवः पंचविधाः (शास्त्रसार समुच्चय द्रव्यानुयोग 48)
- बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः (तत्त्वार्थसूत्र 10.2)
- बन्धेऽधिकौ पारिणामिकौ च (तत्त्वार्थसूत्र 5.37)
- बलस्त्रिधा (शास्त्रसार समुच्चय चरणानुयोग 63)
- बहिरवस्थिताः (तत्त्वार्थसूत्र 4.15)
- बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् (तत्त्वार्थसूत्र 1.16)
- बह्वारम्भपरिग्रहत्वं नारकस्यायुषः (तत्त्वार्थसूत्र 6.15)
- बादरसाम्पराये सर्वे (तत्त्वार्थसूत्र 9.12)
- बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः (परीक्षामुख 15) · अर्थ
- बालप्रयोगाभासः पंचावयवेषुकियद्धीनता (परीक्षामुख 46) · अर्थ
- बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासौ, न वादेऽनुपयोगात् (परीक्षामुख 42) · अर्थ
- बाह्याभ्यन्तरोपध्योः (तत्त्वार्थसूत्र 9.26)
- बुद्धिरष्टादश भेदा (शास्त्रसार समुच्चय चरणानुयोग 59)
- ब्रह्मचारिणः पञ्चविधा (शास्त्रसार समुच्चय चरणानुयोग 24)
- ब्रह्मर्षि द्विविध (शास्त्रसार समुच्चय चरणानुयोग 35)
- ब्रह्मलोकान्तालयाश्चतुर्विशतिलौकान्तिकाः (शास्त्रसार समुच्चय करणानुयोग 14)
- ब्रह्मलोकालया लौकान्तिकाः (तत्त्वार्थसूत्र 4.24)
भ
- भरतः षड्विंशतिपंचयोजनशतविस्तारः षट्चैकोनविंशतिभागायोजनस्य (तत्त्वार्थसूत्र 3.24)
- भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः (तत्त्वार्थसूत्र 3.32)
- भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि (तत्त्वार्थसूत्र 3.10)
- भरतैरावतयोर्वृद्धिह्रासौ षट् समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् (तत्त्वार्थसूत्र 3.27)
- भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः (तत्त्वार्थसूत्र 3.37)
- भवनवासिनो दशविधाः (शास्त्रसार समुच्चय करणानुयोग 2)
- भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः (तत्त्वार्थसूत्र 4.10)
- भवनेषु च (तत्त्वार्थसूत्र 4.37)
- भवप्रत्ययोऽवधिर्देवनारकाणाम् (तत्त्वार्थसूत्र 1.21)
- भव्यस्यैकान्तेन पारिणामिकत्वात् द्रव्यस्य द्रव्यान्तरत्वप्रसङ्गात्, सङ्करादिदोषसम्भवात् (आलापपद्धति 135) · अर्थ
- भाविकाले परस्वरूपाकार भवनाद् भव्यस्वभावः (आलापपद्धति 114) · अर्थ
- भाविनि भूतवत् कथनं यत्र स भाविनैगमो यथा अर्हन् सिद्ध एव (आलापपद्धति 66) · अर्थ
- भाव्यतीतयोर्मरणजाग्रद्बोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् (परीक्षामुख 58) · अर्थ
- भिक्षुश्चतुर्विध (शास्त्रसार समुच्चय चरणानुयोग 30)
- भिन्नवस्तुविषयोऽसद्भूतव्यवहारः (आलापपद्धति 222) · अर्थ
- भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षांतिः शौचमिति सद्वेद्यस्य (तत्त्वार्थसूत्र 6.12)
- भेदकल्पनानिरपेक्षः शुद्धो द्रव्यार्थिको यथा निजगुणपर्यायस्वभावाद् द्रव्यमभिन्नम् (आलापपद्धति 49) · अर्थ
- भेदकल्पनानिरपेक्षेण एकस्वभावः (आलापपद्धति 154) · अर्थ
- भेदकल्पनानिरपेक्षेण गुणगुण्यादिभिरभेदस्वभावः (आलापपद्धति 157) · अर्थ
- भेदकल्पनानिरपेक्षेणेतरेषां चाखण्डत्वादेक-प्रदेशत्वम् (आलापपद्धति 168) · अर्थ
- भेदकल्पनासापेक्षेण चतुर्णामपि नानाप्रदेशस्वभावत्वम् (आलापपद्धति 169) · अर्थ
- भेदकल्पनासापेक्षोऽशुद्धद्रव्यार्थिको यथात्मनो दर्शनज्ञानादयोगुणाः (आलापपद्धति 52) · अर्थ
- भेदपक्षेऽपि विशेषस्वभावानां निराधारत्वादर्थक्रिया- कारित्वाभावः … (आलापपद्धति 133) · अर्थ
- भेदसंघाताभ्यां चाक्षुषः (तत्त्वार्थसूत्र 5.28)
- भेदसंघातेभ्य उत्पद्यन्ते (तत्त्वार्थसूत्र 5.26)
- भेदादणुः (तत्त्वार्थसूत्र 5.27)
- भेदे त्वात्मान्तरवत्तदनुपपत्तेः (परीक्षामुख 71) · अर्थ
- भेदोपचारितया वस्तुव्यवह्रियत इति व्यवहारः (आलापपद्धति 205) · अर्थ
- भेषजमष्टधा (शास्त्रसार समुच्चय चरणानुयोग 64)
म
- मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्ताराः (तत्त्वार्थसूत्र 3.13)
- मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् (तत्त्वार्थसूत्र 1.13)
- मतिज्ञानं त्रिशतषट्त्रिशद्भेदम् (शास्त्रसार समुच्चय द्रव्यानुयोग 9)
- मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु (तत्त्वार्थसूत्र 1.26)
- मतिश्रुतावधयो विपर्ययश्च (तत्त्वार्थसूत्र 1.31)
- मतिश्रुतावधिमनःपर्ययकेवलानाम् (तत्त्वार्थसूत्र 8.6)
- मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् (तत्त्वार्थसूत्र 1.9)
- मतिश्रुते परोक्षे (आलापपद्धति 38) · अर्थ
- मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेष वर्जनानि पञ्च (तत्त्वार्थसूत्र 7.8)
- मरणं द्वित्रिचतुःपंचविधवा (शास्त्रसार समुच्चय चरणानुयोग 36)
- माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत् (परीक्षामुख 20) · अर्थ
- माया तैर्यग्योनस्य (तत्त्वार्थसूत्र 6.16)
- मारणान्तिकीं सल्लेखनां जोषिता (तत्त्वार्थसूत्र 7.22)
- मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः (तत्त्वार्थसूत्र 9.8)
- मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः (तत्त्वार्थसूत्र 8.1)
- मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः (तत्त्वार्थसूत्र 7.26)
- मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते (आलापपद्धति 212) · अर्थ
- मुनयस्त्रिविधाः (शास्त्रसार समुच्चय चरणानुयोग 32)
- मूर्च्छा परिग्रहः (तत्त्वार्थसूत्र 7.17)
- मूर्तस्य भावो मूर्तत्वं रूपादिमत्त्वम् (आलापपद्धति 103) · अर्थ