सिद्ध पूजा का भावाष्टक | Siddh Puja Ka Bhavashtak

सिद्धपूजा का भावाष्टक

निज-मनोमणि-भाजन-भारया, समरसैक-सुधारसधारया ।
सकल-बोध-कला-रमणीयकं, सहज सिद्धमहं परिपूजये ।।

सहज-कर्म-कलंक-विनाशनै-रमल-भाव-सुवासितचन्दनैः ।
अनुपमान-गुणावलि-नायकं, सहजसिद्धमहं परिपूजये ।।

सहज-भाव-सुनिर्मल-तंदुलैः सकल-दोष-विशाल-विशोधनैः ।
अनुपरोध-सुबोध-निधानकं, सहजसिद्धमहं परिपूजये ।।

समयसार-सुपुष्प-सुमालया सहज-कर्म-करेण विशोधया।
परमयोग-बलेन वशीकृतं, सहजसिद्धमहं परिपूजये ।।

अकृत-बोध-सुदिव्य-निवेद्यकै विहित-जात जरा-मरणांतकैः । निरवधि-प्रचुरात्म-गुणालयं, सहजसिद्धमहं परिपूजये ॥ सहज-रत्न-रुचि-प्रतिदीपकैः, रुचि विभूतितमः प्रविनाशनैः। निरवधि-स्वविकाश-प्रकाशनैः सहजसिद्धमहं परिपूजये ॥ निज-गुणाक्षय-रूप-सुधूपनैः स्व-गुण-घातिमल-प्रविनाशनैः। विशद-बोध-सुदीर्घ-सुखात्मकं, सहजसिद्धमहं परिपूजये ॥ परमभाव-फलावलि-सम्पदा, सहज-भाव-कुभाव-विशोधया। निज-गुणास्फुरणात्म-निरञ्जनं, सहजसिद्धमहं परिपूजये ।। नेत्रोन्मीलि-विकाश-भावनिवहै -रत्यन्तबोधाय वैः। वार्गंधाक्षत-पुष्पदामचरुकैः, सद्दीप-धूपैः फलैः। - ज्ञानात्मकैरर्चयेत् । सञ्चर्चयामो वयं ॥ सिद्धं स्वादुमगाध-बोधमचलं,

पश्चिता-मणि-शुद्धभाव-परम


श्री सिद्ध-पूजन (संस्कृत)


स्रोत: पूजन-पाठ-प्रदीप (सातवां संस्करण, देहली), पृष्ठ ६४ से ६५

1 Like