सप्तपदी पूजा (जैन विधि विधान) | Saptapadi Puja

सप्तपदी पूजा

(उपजाति)
सज्जातिगार्हस्थ्य-परिव्रजत्वं सौरेन्द्रसाम्राज्य-जिनेश्वरत्वम् ।
निर्वाणिकं चेति पदानि सप्त, भक्त्या यजेऽहं जिनपादपद्मम् ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्यः पुष्पान्जलिं क्षिपामि ।

(द्रुतविलम्बित)
विमलशीतलसज्जल धारया सदिधबन्धुरशीकरसारया ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्यनैः ।।

ॐ ह्रीं सप्तपरमस्थानेभ्यो जलं निर्वपामीति स्वाहा ।।

मृसणकुंकुम चन्दन सद्रवैः सुरभितागतषट्पदसद्रसैः ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्यनैः ।।

ॐ ह्रीं सप्तपरमस्थानेभ्यः चन्दनं निर्वपामीति स्वाहा ।

विपुलनिर्मलतंदुलसंचयैः, कृतसुमौक्तिककल्पक निश्चयैः ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्चनैः ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्योऽक्षतान् ।

कुसुमचंपक-पंकजकुंदकैः, सहजजाति-सुगंध-विमोदकैः ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्चनैः ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्यः पुष्पम् ।

सकललोक विमोदन कारकैश्चरुवरैः सुसुधाकृतिधारकैः ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्चनैः ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्य : नैवेद्यम् ।

तरलतारसुकांतिसुमन्डनैः, सदनरत्नचयैरपखण्डनैः ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्चनैः ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्यः दीपम् ।

अगुरुधूपभवेन सुगंधिना, भ्रमरकोटि समेन्द्रियबंधिना ।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्चनैः ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्यो धूपम् ।

सुखदपक्वसुशोभनसत्फलैः क्रनुकनिंवुकमोचसुतांगतैः ।।
परमसप्त सुस्थानस्वरूपकं परिभजामि सदाष्टविधार्यनैः ।।

ॐ ह्रीं श्री सप्तपरमस्थानेभ्यो फलम् ।

जिनवरागमसद्गुरुमुख्यकान्, प्रविज्ये गुरुसदगुण मुख्यकान् ।
सुशुभैचन्द्रतरान् कुसुमोत्करैः समयासारपरान्पयसादिकैः

ॐ ह्रीं श्री सप्तपरमस्थानेभ्यो ऽ र्घ्यम् ।


स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ९३ से ९४