प्रूफरीडिंग बाकी है
ये बोल रिकॉर्डिंग से मशीन द्वारा लिखे गए हैं, इनमें अशुद्धियाँ हो सकती हैं।
ॐ नमो अरिहंताणं ।
नमो सिद्धाणं ।
नमो आयरियाणं ।
नमो उवज्झायाणं ।
नमो लोए सव्व साहूणं ॥
गुणरत्नभूषा विगतदूषाः सौम्यभावनिशाकराः ।
सद्बोधभानुविभाविभासित-दिग्चया विदुषांवराः ॥
निस्सीम सौख्य समूह मण्डित योग खण्डित रतिवराः ।
कुर्वन्तु मंगलमत्र मे श्री वीरनाथ जिनेश्वराः ॥
सद्ध्यानतीक्ष्णकृपाणधारा निहतकर्मकदम्बकाः ।
देवन्द्रवृन्दनरेन्द्रवन्द्याः प्राप्तसुखनिकुरम्बकाः ॥
योगीन्द्र योगनिरूपणीयाः प्राप्तबोधकलापकाः ।
कुर्वन्तु मंगलमत्र मे सिद्धाः सदा सुखदायकाः ॥
आचारपञ्चकचरणचारण-चुञ्चवः समताधराः ।
नाना तपोभरहैतिहापित-कर्मिकाः सुखिताकराः ॥
गुप्तित्रयी परिशीलनादि-विभूषिता वदतांवराः ।
कुर्वन्तु मंगलमत्र मे श्री सूरयोर्जितशंभराः ॥
द्रव्यार्थभेदविभिन्नश्रुतभर-पूर्णतत्वनिभालिनो ।
दुर्योगयोगनिरोधदक्षाः सकलवरगुणशालिनः ॥
कर्त्तव्यदेशनतत्परा विज्ञानगौरवशालिनः ।
कुर्वन्तु मंगलमत्र मे गुरुदेवदीधितमालिनः ॥
संयमसमित्यावश्यकापरि-हानिगुप्तिविभूषिताः ।
पञ्चाक्षदान्तिसमुद्यताः समतासुधापरिभूषिताः ॥
भूपृष्ठविष्ठरशायिनो विविधर्धिवृन्दविभूषिताः ।
कुर्वन्तु मंगलमत्र मे मुनयः सदा शमभूषिताः ॥
इति श्री पञ्च परमेष्ठी मंगल पञ्चक स्तोत्रम् सम्पूर्णम् ॥
सुनें:
स्रोत: JinSwara ऑडियो संग्रह।
स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ७