१५. पञ्चदशं पर्व (अञ्जनासुन्दरीविवाहाभिधानं)
तस्यैव च मुनेः पार्श्वे हनूमान् गृहिणां व्रतम् । विभीषणश्च जग्राह कृत्वा भावं सुनिश्चितम् ॥१॥
न तया गिरिराजस्य स्थिरत्वं शस्यते बुधैः । हनूमच्छीलसम्यक्त्वं यथा परमनिश्चलम् ॥२॥
सौभाग्यादिमिरत्यन्तं हनूमति ततः स्तुते । इत्यूचे मगधाधीशो रोमाञ्चं बिभ्रदुत्कटम् ॥३॥
हनूमान् को गणाधीश किंविशिष्टः कुतः क्व वा । भगवन्नस्य तत्त्वेन ज्ञातुमिच्छामि चेष्टितम् ॥४॥
ततः सत्पुरुषाभिख्यासंजातपुरुसंमदः । वाचाह्लादनकारिण्या गणप्राग्रहरोऽवदत् ॥५॥
दक्षिणस्यां नृप श्रेण्यां विजयार्धस्य भूभृतः । दशयोजनमध्वानमतिक्रम्य व्यवस्थितम् ॥६॥
आदित्यनगराभिख्यं पुरमस्ति मनोहरम् । प्रह्लादस्तत्र राजास्य नाम्ना केतुमती प्रिया ॥७॥
शुभो वायुगतिर्नाम बभूव तनयोऽनयोः । लक्ष्म्या वक्षस्थलं यस्य विपुलं निलयीकृतम् ॥८॥
संपूर्णयौवनं दृष्ट्वा तं तद्दारक्रियां प्रति । चकार जनकश्चिन्तां संतानच्छेदकातरः ॥९॥
आस्तां तावदिदं राजन्निदमन्यन्मतौ कुरु । वचनं येन तद्दारसंभवः परिकीर्त्यते ॥१०॥
वासस्य भरतस्यान्ते संनिकृष्टे महोदधेः । पूर्वदक्षिणदिग्भागे दन्तीत्यस्ति महीधरः ॥११॥
विपुलाभ्रंलिहोदारतेजःशिखरसंकटः । नानाद्रुमौषधिव्याप्तः सुनिर्झरमहातटः ॥१२॥
यतः प्रभृति तत्रास्थात्संनिवेश्य वरं पुरम् । विद्याधरो महेन्द्राख्यो महेन्द्रोपमविक्रमः ॥१३॥
तत आरभ्य संप्राप महेन्द्राख्यां रसाधरः । महेन्द्रनगरं तच्च पुरं तत्र प्रकीर्तितम् ॥१४॥
नार्यां हृदयवेगायामजायन्त महेन्द्रतः । गुणवन्तः शतं पुत्रा नामतोऽरिंदमादयः ॥१५॥
उदपाद्यनुजा तेषां कीर्तिताञ्जनसुन्दरी । त्रैलोक्यसुन्दरीरूपसंदोहेनैव निर्मिता ॥१६॥
नीलनीरजनिर्मासा प्रशस्तकरपल्लवा । पद्मगर्भाभचरणा कुम्भिकुम्भनिभस्तनी ॥१७॥
तनुमध्या पृथुश्रोणी सुजानूरूः सुलक्षणा । प्रफुल्लमालतीमालामृदुबाहुलतायुगा ॥१८॥
कर्णान्तसंगते कान्तिकृतपुङ्खे सुदूरगे । इषू ते कामदेवस्य ननु तस्या विलोचने ॥१९॥
गन्धर्वादिकलाभिज्ञा साक्षादिव सरस्वती । लक्ष्मीरिव च रूपेण सा बभूव गुणान्विता ॥२०॥
अन्यदा कन्दुकेनासौ रममाणा सरेचकम् । जनकेनेक्षिताभ्यग्रयौवनाञ्चितविग्रहा ॥२१॥
सुलोचनासुताभर्तृवरचिन्तातिदुःखिनः । अकम्पननृपस्येव सद्गुणार्पितचेतसः ॥२२॥
तद्वरान्वेषणे तस्य ततः सक्तामवन्मतिः । अत्यन्तव्याकुलप्रायः कन्यादुःखं मनस्विनाम् ॥२३॥
गमिष्यति पतिं श्लाघ्यं रमयिष्यति तं चिरम् । भविष्यत्युज्झिता दोषैरतिचिन्ता नृणां सुता ॥२४॥
आहूय सुहृदः सर्वांस्ततो विज्ञानभूषणान् । राजा वरविनिश्चित्यै रहोगेहमशिश्रियत् ॥२५॥
जगाद मन्त्रिणश्चैव महो निखिलवेदिनः । सूरयो मम कन्याया वदत प्रवरं वरम् ॥२६॥
तत्र मन्त्री जगादैकः कन्येयं भरताधिपे । योज्यतां रक्षसामीश इति मे निश्चितं मतम् ॥२७॥
रावणं स्वजनं प्राप्य सर्वविद्याधराधिपम् । जगत्यां सागरान्तायां प्रभावस्ते भ्रमिष्यति ॥२८॥
अथवेन्द्रजिते यूने मेघनादाय वा नृप । दीयतामेवमप्येष रावणस्तत्र बान्धवः ॥२९॥
अथैतन्न तवाभीष्टं ततः कन्या स्वयंवरा । विमुच्यतां न वैरी ते तथा सत्युपजायते ॥३०॥
इत्युक्त्वा विरतिं याते मन्त्रिण्यमरसागरे । विद्वान्सुमतिसंज्ञाको जगाद वचनं स्फुटम् ॥३१॥
दशास्योऽनेकपत्नीको महाहङ्कारगोचरः । इमां प्राप्यापि नो तस्य प्रीतिरस्मासु जायते ॥३२॥
षोडशाब्दसमानेऽपि सत्याकारेऽस्य भोगिनः । उत्कृष्टमेव विज्ञेयं नयः परमतेजसः ॥३३॥
इन्द्रजिन्मेघवाहाय सति दाने प्रकुप्यति । मेघवाहस्तथा तस्मै तस्मात्तावपि नो वरौ ॥३४॥
श्रीषेणसुतयोरासीद् गणिकार्थं तदा महत् । पितृदुःखकरं युद्धं स्त्रीहेतोः किं न वेष्यते ॥३५॥
वाक्यं ततोऽनुमन्येदं नाम्ना ताराधरायणः । जगाद वचनं चैनं भावेन धृतमानसः ॥३६॥
नगाद्रिदक्षिणं स्थानं कनकं नाम विद्यते । राजा तत्र हिरण्याभः सुमनास्तस्य भामिनी ॥३७॥
अभवत्तनयस्तस्य नाम्ना सौदामिनीप्रभः । महता यशसा कान्त्या वयसा चातिशोभनः ॥३८॥
सर्वविद्याकलापारो लोकनेत्रमहोत्सवः । गुणैरनुपमश्चेष्टारञ्जिताखिलविष्टपः ॥३९॥
सुरविद्याधरैः सर्वैरेकीभूयापि यत्नतः । अजय्यस्त्रिजगच्छक्तिसंग्रहेणेवे निर्मितः ॥४०॥
कन्येयं दीयतां तस्मै भवतां यदि संमतम् । चिरादुत्पद्यतां योगो दम्पत्योरनुरूपयोः ॥४१॥
उत्तमाङ्गं ततो धूत्वा संमील्य नयने चिरम् । जगाद वचनं मन्त्री नाम्ना संदेहपारगः ॥४२॥
भव्योऽयं पूर्वजा याता मम क्वेति विचिन्तयत् । संसारप्रकृतिं बुद्ध्वा निर्वेदं परमेष्यति ॥४३॥
विषयेष्वप्रसक्तात्मा वर्षेऽष्टादशसंख्यके । मङ्क्त्वा भोगमहालानं गृहितां परिहास्यति ॥४४॥
बहिरन्तश्च स सङ्गं परित्यज्य महामनाः । केवलज्ञानमुत्पाद्य किल निर्वाणमेष्यति ॥४५॥
वियुक्तानेन बालेयं भ्रष्टशोभा भविष्यति । शर्वरीव शशाङ्केन जगदालोककारिणा ॥४६॥
श्रृणुतातोऽस्ति नगरमादित्यपुरसंज्ञकम् । पुरन्दरपुराकारं रत्नैरादित्यभासुरम् ॥४७॥
नभश्चरशशाङ्कोऽत्र प्रह्लादो नाम भोगवान् । तस्य केतुमती पत्नी केतुर्मानसवासिनः ॥४८॥
तयोर्विक्रमसंमारो रूपशीलो गुणाम्बुधिः । पवनञ्जयनामास्ति तनयो नयमण्डनः ॥४९॥
शुभलक्षणसंच्छन्नविशालोत्तुङ्गविग्रहः । कलानां निलयो वीरो दूरीभूतदुरीहितः ॥५०॥
संवत्सरशतेनापि यस्य वक्तुं न शक्यते । गुणग्रामोऽखिलः प्राप्तसमस्तजनचेतसः ॥५१॥
अथवा वचनज्ञानमस्पष्टमुपजायते । अतो गत्वैव वीक्षध्वमिमं देवसमद्युतिम् ॥५२॥
ततः कैतुमतस्योच्चैर्गुणैः श्रोत्रपथं गतैः । सर्वे ते परमं प्राप्ताः प्रमोदं कृतसंमदाः ॥५३॥
श्रुत्वा कन्यापि तां वार्तां विचकास प्रमोदतः । निशाकरकरालोकमात्रादिव कुमुद्वती ॥५४॥
अत्रान्तरेऽत्ययं प्राप्तः कालो हिमकणान्वितः । कामिनीवदनाम्भोजलावण्यहरणोद्यतः ॥५५॥
नवं पटलमब्जानां नलिनीनामजायत । चिरोत्कण्ठितमध्वाशसमूहकृतसङ्गमम् ॥५६॥
घनः शाखाभृतां जज्ञे पत्रपुष्पाङ्कुरोद्भवः । मधुलक्ष्मीपरिष्वङ्गसंजातपुलकाकृतिः ॥५७॥
चूतस्य मञ्जरीजालं मधुव्रतकृतस्वनम् । मनोलोकस्य विव्याध पटलं मारसायकम् ॥५८॥
कोकिलानां स्वनश्चक्रे मानिनीमानमञ्जनः । जनस्य व्याकुलीभावं वसन्तालापतां गतः ॥५९॥
रमणद्विजदष्टानामोष्ठानां वेदनाभृताम् । उदपद्यत वैशद्यं चिरेण वरयोषिताम् ॥६०॥
स्नेहो बभूव चात्यन्तमन्योन्यं जगतः परम् । उपकारसमाधानपरेहाप्रकटीकृतः ॥६१॥
भ्रमरीं भ्रमणश्रान्तां रमणः पक्षवायुना । परितो भ्रमणं कुर्वंश्चकार विगतश्रमाम् ॥६२॥
दूर्वाप्रवालमुद्धृत्य सारङ्गयै पृषतो ददौ । तस्यास्तेनामृतेनेव कापि प्रीतिरजायत ॥६३॥
कैरिकण्डूयनं रेजे वदनभ्रंशिपल्लवम् । करिण्याः सुखसंभारनिमीलितविलोचनम् ॥६४॥
स्तबकस्तननम्राभिश्चलत्पल्लवपाणिभिः । समालिङ्गयन्त वल्लीभिर्भ्रमराक्षीभिरङ्घ्रिपाः ॥६५॥
दक्षिणाशामुखोद्गीर्णः प्रावर्तत समीरणः । प्रेर्यमाण इवानेन रविरासीदुदग्गतिः ॥६६॥
समीरणकृताकम्पः केसरप्रकरः पतन् । मधुसिंहस्य पान्थेन ददृशे केसरोत्करः ॥६७॥
दंष्ट्रा वसन्तसिंहस्य मानस्तम्बेरमाङ्कुशः । अङ्कोलकेशरं रेजे प्रोषितस्त्रीभयङ्करम् ॥६८॥
घनं कैरवजं जालं क्वणद्भृङ्गकदम्बकम् । वियोगिनीमनांसीव मधुनाक्रष्टुमुज्झितम् ॥६९॥
कुड्मलोद्दीपितोऽशोकः प्रचलन्नवपल्लवः । प्राचुर्याद्वनितोदीर्णरागराशिरिवाबभौ ॥७०॥
किंशुकं घनमत्यन्तं दिदीपे वनराजिषु । वियोगिनीमनःस्थातिरिक्तदुःखानिलोपमम् ॥७१॥
व्याप्तदिक्चक्रवालेन रजसा पुष्पजन्मना । वसन्तः पटवासेन चकारेव महोत्सवम् ॥७२॥
निमेषमपि सेहाते न स्त्रीपुंसावदर्शनम् । कुत एवान्यदेशेन संगमं प्रेमबन्धनौ ॥७३॥
गन्तुमारेभिरे देवा जिनभक्तिप्रचोदिताः । नन्दीश्वरं महामोदाः फाल्गुनाष्टदिनोत्सवे ॥७४॥
जग्मुरष्टापदे तत्र काले विद्याधराधिपाः । पूजोपकरणव्यग्रकरभृत्यगणान्विताः ॥७५॥
पूज्यं नाभेयनिर्वृत्या तमद्रिं भक्तिनिर्भरः । समेतो बन्धुवर्गेण महेन्द्रोऽपि समीयिवान् ॥७६॥
स तत्र जिनमर्चित्वा स्तुत्वा नत्वा च भावतः । रौक्मे शिलातले श्रीमानासाञ्चक्रे यथासुखम् ॥७७॥
प्रह्लादोऽपि तदायासीत्तं गिरिं वन्दितुं जिनम् । कृताभीष्टं भ्रमन्नासीन्महेन्द्रेक्षणगोचरः ॥७८॥
महेन्द्रस्य ततोऽभ्याशं सुतप्रीत्या महादरः । ससर्प विकसन्नेत्रः प्रह्लादः प्रीतिमानसः ॥७९॥
अभ्युत्थाय महेन्द्रोऽपि मुदितः पुरुसंभ्रमः । आलिङ्गन्तं समालिङ्गत् प्रह्लादं ह्लादकारणम् ॥८०॥
उपविष्टौ च विश्रब्धौ तौ मनोज्ञशिलातले । परस्परं शरीरादिकुशलं पर्यपृच्छताम् ॥८१॥
उवाचेति महेन्द्रोऽथ सखे किं कुशलं मम । कन्यानुरूपसंबन्धचिन्ताव्याकुलितात्मनः ॥८२॥
अस्ति मे दुहिता योग्या वरं प्राप्तुं मनोहरा । कस्मै तां प्रददामीति मम भ्राम्यति मानसम् ॥८३॥
रावणो बहुपत्नीकस्तत्सुतौ व्रजतो रुषम् । दानेनान्यतरस्यातो न तेषु रुचिरस्ति मे ॥८४॥
पुरे हेमपुराभिख्ये तनयः कनकद्युतेः । विद्युत्प्रभो दिनैरल्पैर्निर्वाणं प्रतिपत्स्यते ॥८५॥
मयेयं विदिता वार्ता प्रकटा सर्वविष्टपे । केनापि कथितं नूनं संज्ञानेनेति योगिना ॥८६॥
मन्त्रिमण्डलयुक्तस्य ततो मम विनिश्चितः । पुत्रस्तव वरत्वेन निर्वाच्यः पवनञ्जयः ॥८७॥
मनोरथोऽयमायाता त्वया प्रह्लाद पूरितः । समयेनास्मि संजातः क्षणेन परिनिर्वृतः ॥८८॥
ततोऽवोचदलं प्रीतः प्रह्लादो लब्धवाञ्छितः । चिन्ता ममापि पुत्रस्य द्वितीयान्वेषणं प्रति ॥८९॥
ततोऽहमपि वाक्येन त्वदीयेनामुना सुहृत् । शब्दगोचरतायुक्तां परिप्राप्तः सुखासिकाम् ॥९०॥
सरसो मानसाख्यस्य तटेऽथात्यन्तचारुणि । गुरुभ्यां वाञ्छितं कर्तुं तयोर्वैवाहमङ्गलम् ॥९१॥
स्थिते तत्रोभयोः सेने क्षणकल्पितसंश्रये । गजवाजिपदातीनामनुकूलरवाकुले ॥९२॥
दिनेषु त्रिषु यातेषु तयोः सांवत्सरा जगुः । कल्याणदिवसं ज्ञातनिखिलज्योतिरीहिताः ॥९३॥
श्रुत्वा परिजनादेतां सर्वावयवसुन्दरीम् । दिवसानां त्रयं सेहे न प्राह्लादिः प्रतीक्षितुम् ॥९४॥
संगमोत्कण्ठितः सोऽयमेभिर्मन्मथसंभवैः । पूरितो दशभिर्वेगैर्भटो बाणैरिवाहवे ॥९५॥
आद्ये तद्विषया चिन्ता वेगे समुपजायते । द्वितीये द्रष्टुमाकारो बहिः समभिलष्यते ॥९६॥
तृतीये मन्ददीर्घोष्णनिःश्वासानां विनिर्गमः । चतुर्थे संज्वरो दृष्टज्वलनोपमचन्दनः ॥९७॥
विवर्तः पञ्चमेऽङ्गस्य कुसुमप्रस्तरादिषु । मन्यते विविधं स्वादु षष्ठे भक्तं विषोपमम् ॥९८॥
सप्तमे तत्कथासक्त्या विप्रलापसमुद्भवः । उन्मत्तताष्टमे गीतनृत्यविभ्रमकारिणी ॥९९॥
मदनोरगदष्टस्य नवमे मूर्च्छनोद्भवः । दशमे दुःखसंभारः स्वसंवेद्यः प्रवर्तते ॥१००॥
विवेकिनोऽपि तस्येदं तदा जातमनङ्कुशम् । चरितं वायुवेगस्य हताशं धिगनङ्गकम् ॥१०१॥
अथ चेतोभुवो वेगैरसौ धैर्यात्परिच्युतः । उद्वर्तितकरच्छन्ननिश्वासप्रचलाननः ॥१०२॥
करसङ्गारुणीभूतस्वेदवद्गण्डमण्डलः । उष्णातिदीर्घनिश्वासग्लपितासनपल्लवः ॥१०३॥
जृम्भणं कम्पनं जम्भां मन्दं कुर्वन् पुनः पुनः । निःसहं धारयन्कायं गाढाकल्पकशल्यतः ॥१०४॥
रामामिध्यानतो मोघं हृषीकपटलं दधत् । मनोज्ञेष्वपि देशेषु महतीमधृतिं व्रजन् ॥१०५॥
दधानः शून्यमात्मानं परित्यक्ताखिलक्रियः । क्षणमात्रधृतां भूयः परिमुञ्चन्नपत्रपाम् ॥१०६॥
तनुभूतसमस्ताङ्गः परिभ्रष्टविभूषणः । दध्याविति सचिन्तेन परिवारेण वीक्षितः ॥१०७॥
कदा नु तामहं कान्तां वीक्षे स्वाङ्कनिवेशिताम् । स्पृशन् कमलतुल्यानि गात्राणि कृतसंकथः ॥१०८॥
श्रुत्वा तावदियं जाता ममावस्थातिदुःखदा । आलोक्य तां तु नो पश्यन् भवेयं पञ्चतां गतः ॥१०९॥
अहो महदिदं चित्रं मनोज्ञापि सखी मम । यदसौ दुःखभारस्य कारणत्वमुपागता ॥११०॥
अयि भद्रे कथं यस्मिन्नुष्यते हृदये त्वया । दग्धुं तदेव सक्तासि पण्डिते दुःखवह्निना ॥१११॥
मृदुचित्ताः स्वभावेन भवन्ति किल योषितः । मद्दुःखदानतो जातं विपरीतमिदं तव ॥११२॥
अनङ्गः सन् व्यथामेतामनङ्ग त्वं करोषि मे । यदि नाम भवेत्साङ्गस्ततः कष्टतमं भवेत् ॥११३॥
क्षतं न चास्ति मे देहे वेदना च गरीयसी । तिष्ठन्नेकत्र चोद्देशे भ्रमामि क्वापि संततम् ॥११४॥
दिवसानां त्रयं नैतन्मम क्षेमेण गच्छति । यदि तां विषयीभावमानयामि न चक्षुषः ॥११५॥
अतस्तद्दर्शनोपायः कतरो मे भविष्यति । यस्याधिगमतश्चित्तं प्रशान्तिमधियास्यति ॥११६॥
अथवा सर्वकार्येषु साधनीयेषु विष्टपे । मित्रं परममुज्झित्वा कारणं नान्यदीक्ष्यते ॥११७॥
इति ध्यात्वा स्थितं पार्श्वे छायाबिम्बमिवानुगम् । विक्रियातः समुत्पन्नं शरीरं स्वमिवापरम् ॥११८॥
नाम्ना प्रहसितं मित्रं सर्वविश्रम्भभाजनम् । मन्दगद्गदया वाचा जगाद पवनञ्जयः ॥११९॥
जानास्येव ममाकूतमतः किं ते निवेद्यते । केवलं मुखरत्वं मे करोत्यत्यन्तदुःखिताम् ॥१२०॥
सखे कस्य वदान्यस्य दुःखमेतन्निवेद्यते । मुक्त्वा त्वां विदिताशेषजगत्त्रयविचेष्टितम् ॥१२१॥
कुटुम्बी क्षितिपालाय गुरवेऽन्तेवसन् प्रिया । पत्यै वैद्याय रोगार्तो मात्रे शैशवसंगतः ॥१२२॥
निवेद्य मुच्यते दुःखाद्यथात्यन्तपुरोरपि । मित्रायैवं नरः प्राज्ञस्ततस्ते कथयाम्यहम् ॥१२३॥
श्रुत्वैव तामहं हृद्यां महेन्द्रतनुसंभवाम् । मन्मथस्य शरैर्दूरं विकलत्वमुपागतः ॥१२४॥
तामदृष्ट्वातिचक्षुष्यां प्रियां मानसहारिणीम् । अतिवाहयितुं नाहं प्रभवामि दिनत्रयम् ॥१२५॥
अतो विधत्स्व तं यत्नं येन पश्यामि तामहम् । तद्दर्शनादहं स्वस्थो मयि स्वस्थे भवानपि ॥१२६॥
जीवितं ननु सर्वस्यादिष्टं सर्वशरीरिणाम् । सति तत्रान्यकार्याणामात्मलामस्य संभवः ॥१२७॥
एवमुक्तस्ततोऽवोचदाशु प्रहसितो हसन् । लब्धार्थमिव कुर्वाणः सद्यो मित्रस्य मानसम् ॥१२८॥
सखे किं बहुनोक्तेन कृत्यकालातिपातिना । वद किं करवाणीति ननु नान्यत्वमावयोः ॥१२९॥
यावत्तयोः समालापो वर्ततेऽयं सुचित्तयोः । तावत्तदुपकारीव गतोऽस्तं घर्मदीधितिः ॥१३०॥
प्राह्लादेरिव रागेण संध्यालोकेन भानुमान् । प्रेरितो ध्वान्तसंभूतिमिच्छता प्रियकारिणा ॥१३१॥
कान्तया रहितस्यास्य दुःखं दृष्ट्वैव संध्यया । करुणायुक्तया भर्त्ता तेजसामनुवर्तितः ॥१३२॥
ततो भास्करनाथस्य वियोगादिव कृष्णताम् । आशा पौरन्दरी प्राप तमसात्यन्तभूरिणा ॥१३३॥
नीलेनेव च वस्त्रेण क्षणाल्लोकस्तिरस्कृतः । रजो नीलाञ्जनस्येव प्रवृत्तं पतितुं घनम् ॥१३४॥
ततः समुचिते काले तस्मिन् प्रस्तुतकर्मणः । इत्यवोचत सोत्साहः सुहृदं पवनंजयः ॥१३५॥
उत्तिष्ठाग्रे सखे तिष्ठ कुरु मार्गोपदेशनम् । व्रजावस्तत्र सा यत्र तिष्ठति स्वान्तहारिणी ॥१३६॥
इत्युक्ते प्रस्थितौ गन्तुं पूर्वप्रस्थितमानसौ । मीनाविव महानीलनीलव्योमतलार्णवे ॥१३७॥
क्षणेन च परिप्राप्तौ गृहमाञ्जनसुन्दरम् । सुन्दरं तत्समासत्त्या रत्नौघसममन्दरम् ॥१३८॥
सप्तमं स्कन्धमारुह्य तस्य वातायनस्थितौ । मुक्ताजालतिरोधानावङ्गनां तामपश्यताम् ॥१३९॥
संपूर्णवक्त्रचन्द्रांशुविफलीकृतदीपिकाम् । सितासितारुणच्छायचक्षुःशारितदिङ्मुखाम् ॥१४०॥
आभोगिनौ समुत्तुङ्गौ प्रियार्थं हारिणौ कुचौ । कलशाविव बिभ्राणां शृङ्गाररसपूरितौ ॥१४१॥
नवपल्लवसच्छायं पाणिपादं सुलक्षणम् । समुद्गिरदिवाभाति लावण्यं नखरश्मिभिः ॥१४२॥
स्तनभारादिवोदारान्मध्यं भङ्गाभिशङ्कया । त्रिवलीदामभिर्बद्धं दधतीं तनुताभृतम् ॥१४३॥
तूणौ मनोभुवः स्तम्भौ बन्धनं मदकामयोः । सुवृत्तौ बिभ्रतीमूरू नदौ लावण्यवाहिनौ ॥१४४॥
इन्दीवरावलीछायां युक्तां मुक्ताफलोडुभिः । आसक्तां प्रियचन्द्रेण मूर्तामिव विभावरीम् ॥१४५॥
आसेचनकवीक्ष्यां तामेकतानस्थितेक्षणः । संप्राप्तः सुखितामुर्वीमैक्षिष्ट पवनंजयः ॥१४६॥
अत्रान्तरे प्रियात्यन्तं वसन्ततिलकाभिधा । अभाषत सखी वाक्यमिदमञ्जनसुन्दरीम् ॥१४७॥
अहो परमधन्या त्वं सुरूपे भर्तृदारिके । पिता वायुकुमाराय यद्दत्तासि महौजसे ॥१४८॥
गुणैस्तस्य जगत्सर्वं शशाङ्ककिरणामलैः । व्याप्तमन्यगुणख्यातितिरस्करणकारणैः ॥१४९॥
कलशब्दा महारत्नप्रभापटलरञ्जिता । अङ्के स्थास्यति वीरस्य तस्य वेलेव वारिधेः ॥१५०॥
पतिता वसुधारा त्वं तटे रत्नमहीभृतः । श्लाघ्यसंबन्धजस्तोषो वधूनाममवत्परः ॥१५१॥
कीर्तयन्त्यां गुणानेवं तस्य सख्या सुमानसा । लिलेख लज्जयाङ्गुल्या कन्याङ्घ्रिनखमानता ॥१५२॥
नितान्तं च हतो दूरं पूरेणानन्दवारिणः । विकसन्नयनाम्भोजच्छन्नास्यः पवनंजयः ॥१५३॥
नाम्नाथ मिश्रकेशीति वाक्यं सख्यपरावदत् । संकुचत्पृष्ठबिम्बोष्ठं धूतधम्मिलपल्लवम् ॥१५४॥
अहो परममज्ञानं त्वया कथितमात्मनः । विद्युत्प्रभं परित्यज्य वायोर्गृह्णासि यद्गुणान् ॥१५५॥
कथा विद्युत्प्रभस्यास्मिन्मया स्वामिगृहे श्रुता । तस्मै देया न देयेयं कन्येति मुहुरुद्गता ॥१५६॥
उदन्वदम्भसो बिन्दुसंख्यानं योऽवगच्छति । तद्गुणानां मतिः पारं व्रजेत्तस्यामलत्विषाम् ॥१५७॥
युवा सौम्यो विनीतात्मा दीप्तो धीरः प्रतापवान् । पारेविद्यं स्थितः सर्वजगद्वाञ्छितदर्शनः ॥१५८॥
विद्युत्प्रभो भवेदस्याः कन्याया यदि पुण्यतः । भर्ता ततोऽनया लब्धं जन्मनोऽस्य फलं भवेत् ॥१५९॥
वसन्तमालिके भेदो वायोर्विद्युत्प्रभस्य च । स गतो जगति ख्यातिं गोष्पदस्याम्बुधेश्च यः ॥१६०॥
असौ संवत्सरैरल्पैर्मुनितां यास्यतीति सः । अस्याः पित्रा परित्यक्तस्तन्मे नाभाति शोभनम् ॥१६१॥
वरं विद्युत्प्रभेणामा क्षणोऽपि सुखकारणम् । सत्रानन्तोऽपि नान्येन कालः क्षुद्रासुधारिणा ॥१६२॥
ततः प्राह्लादिरित्युक्ते क्रोधानलविदीपितः । क्षणाच्छायापरोवर्तं संप्राप्तः पुरुवेपथुः ॥१६३॥
दष्टाधरः संमाकर्षन् सायकं परिवारतः । निरीक्षणस्फुरच्छोणच्छायाच्छन्नदिगाननः ॥१६४॥
ऊचे प्रहसितावश्यमस्या एवेदमीप्सितम् । कन्याया यद्वदत्येवमियं नारी जुगुप्सितम् ॥१६५॥
लुनाम्यतोऽनयोः पश्य मूर्धानमुभयोरपि । विद्युत्प्रभोऽधुना रक्षां करोतु हृदयप्रियः ॥१६६॥
समाकर्ण्य ततो वाक्यं मैत्रं प्रहसितो रुषा । जगाद भ्रकुटीबन्धभीषणालिकपट्टिकः ॥१६७॥
सखे सखेऽलमेतेन यत्नेनागोचरे तव । ननु ते सायकस्यारिनिरनाशः प्रयोजनम् ॥१६८॥
अतः पश्यत वाक्रोशप्रसक्तां दुष्टयोषितम् । इमामेतेन दण्डेन करोमि गतजीविताम् ॥१६९॥
ततो दृष्ट्वास्य संरम्भं महान्तं पवनंजयः । विस्मृतात्मीयसंरम्भः खड्गं कोशं प्रतिक्षिपन् ॥१७०॥
निजप्रकृतिसंप्राप्तिप्रवणाशेषविग्रहः । जगाद सुहृदं क्रूरकर्मनिश्चितमानसम् ॥१७१॥
अयि मित्र शमं गच्छ तवाप्येष न गोचरः । कोपस्यानेकसंग्रामजयोपार्जनशालिनः ॥१७२॥
इतरस्यापि नो युक्तं कर्तुं नारीविपादनम् । किं पुनस्तव मत्तेभकुम्भदारणकारिणः ॥१७३॥
पुंसां कुलप्रसूतानां गुणख्यातिमुपेयुषाम् । यशो मलिनताहेतुं कर्तुमेवमसांप्रतम् ॥१७४॥
तस्मादुत्तिष्ठ गच्छावस्तेनैव पुनरध्वना । विचित्रा चेतसो वृत्तिर्जनस्यात्र न कुप्यते ॥१७५॥
नूनमस्याः प्रियोऽसौ ना कन्याया येन पार्श्वगाम् । मज्जुगुप्सनसंसक्तां न मनागप्यवीवदत् ॥१७६॥
ततः समागतौ ज्ञातौ न केनचिदिमौ भृशम् । स्वैरं निःसृत्य निर्य्यूहाद् गतौ वसतिमात्मनः ॥१७७॥
ततः परममापन्नो विरागं पवनंजयः । इति चिन्तनमारेभे प्रशान्तहृदयो भृशम् ॥१७८॥
संदेहविषमावर्ता दुर्भावग्रहसंकुला । दूरतः परिहर्तव्या पररक्ताङ्गनापगा ॥१७९॥
कुभावगहनात्यन्तं हृषीकव्यालजालिनी । बुधेन नार्यरण्यानी सेवनीया न जातुचित् ॥१८०॥
किं राजसेवनं शत्रुसमाश्रयसमागमम् । श्लथं मित्रं स्त्रियं चान्यसक्तां प्राप्य कुतः सुखम् ॥१८१॥
इष्टान् बन्धून् सुतान् दारान् बुधा मुञ्चन्त्यसत्कृताः । पराभवजलाध्माताः क्षुद्राः नश्यन्ति तत्र तु ॥१८२॥
मदिरारागिणं वैद्यं द्विपं शिक्षाविवर्जितम् । अहेतुवैरिणं क्रूरं धर्मं हिंसनसंगतम् ॥१८३॥
मूर्खगोष्ठी कुमर्यादं देशं चण्डं शिशुं नृपम् । वनितां च परासक्तां सूरिर्दूरेण वर्जयेत् ॥१८४॥
एवं चिन्तयतस्तस्य कन्याप्रीतिरिवागता । क्षयं विभावरी तूर्यमाहतं च प्रबोधकम् ॥१८५॥
ततः संध्याप्रकाशेन कौशिकीर्या दिगावृता । पवनंजयनिर्मुक्तरागेणेव निरन्तरम् ॥१८६॥
उदियाय च तिग्मांशुः स्त्रीकोपादिव लोहितम् । दधानस्तरलं बिम्बं जगच्चेष्टितकारणम् ॥१८७॥
ततो वहन्विरागेण नितान्तमलसां तनुम् । ऊचे प्रहसितं जायाविमुखः पवनंजयः ॥१८८॥
सखेऽत्र न समीपेऽपि युज्यतेऽवस्थितिर्मम । तत्सक्तपवनासंगो माभूदिति ततः शृणु ॥१८९॥
उत्तिष्ठ स्वपुरं यामो न युक्तमवलम्बनम् । सेना प्रयाणशङ्खेन कार्यतामवबोधिनी ॥१९०॥
तथेति कारिते तेन क्षुब्धसागरसंनिभा । चचाल सा चमूः क्षिप्रं कृतयानोचितक्रिया ॥१९१॥
ततो रथाश्वमातङ्गपादातप्रभवो महान् । शब्दो भेर्यादिजन्मा च कन्यायाः श्रवणेऽविशत् ॥१९२॥
प्रयाणसूचिना तेन नितान्तं दुःखिताभवत् । विशता मुद्गराघातवेगतः शङ्कुनेव सा ॥१९३॥
अचिन्तयच्च हा कष्टं दत्त्वा मे विधिना हृतम् । निधानं किं करोम्यत्र कथमेतद्भविष्यति ॥१९४॥
अङ्केऽस्य पुरुषेन्द्रस्य क्रीडिष्यामीति ये कृताः । तेऽन्यथैव परावृत्ता मन्दाया मे मनोरथाः ॥१९५॥
क्रियमाणमिमं ज्ञात्वा कथंचिन्निन्दमेतया । वैरिणीभूतया सख्या मयि स्याद् द्वेषमागतः ॥१९६॥
विवेकरहितामेतां धिक्पापां क्रूरभाषिणीम् । यथा मे दयितोऽवस्थामीदृशीमेष लम्भितः ॥१९७॥
कुर्यान्मह्यं हितं तातो जीवितेशं निवर्तयेत् । अपि नाम भवेदस्य बुद्धिर्व्यावर्तनं प्रति ॥१९८॥
तत्त्वतो यदि नाथो मे परित्यागं करिष्यति । आहारवर्जनं कृत्वा ततो यास्यामि पञ्चताम् ॥१९९॥
इति संचिन्तयन्ती सा प्राप्ता मूर्च्छां महीतले । पपाताश्चर्यनिर्मुक्ता लूनमूललता यथा ॥२००॥
ततः किमिदमित्युक्त्वा संभ्रमं परमागते । शीतलक्रियया सख्यौ चक्रतुस्तां विमूर्च्छिताम् ॥२०१॥
पृच्छयमाना च यत्नेन मूर्च्छाहेतुं श्लथाङ्गिका । शशाक त्रपया वक्तुं न सा स्तिमितलोचना ॥२०२॥
अथ वायुकुमारस्य सेनायामिति मानवाः । आकुला मानसे चक्रुरहेतुगतिविस्मिताः ॥२०३॥
अविधायेप्सितं कस्मादयं गन्तुं समुद्यतः । कोपोऽस्य जनितः केन केन वा चोदितोऽन्यथा ॥२०४॥
विद्यते सर्वमेवास्य कन्योपादानकारणम् । अतः किमित्ययं कस्मादभूदपगताशयः ॥२०५॥
हसित्वा केचिदित्यूचुर्नामास्येदं सहार्थकम् । पवनंजय इत्येष यस्माज्जेतास्य वेगतः ॥२०६॥
ऊचुरन्येऽयमद्यापि न जानात्यङ्गनारसम् । नूनं येन विहायेमां कन्यां गंतुं समुद्यतः ॥२०७॥
यदि स्यादस्य विज्ञाता रतिः परमुदारजा । बद्धः स्यात्प्रेमबन्धेन ततो वनगजो यथा ॥२०८॥
इत्युपांशुकृतालापसामन्तशतमध्यगः । वेगवद्वाहनो गन्तुं प्रवृत्तः पवनंजयः ॥२०९॥
ततः कन्यापिता ज्ञात्वा प्रयाणं तस्य संभ्रमात् । समस्तैर्बन्धुभिः सार्धमाजगाम समाकुलैः ॥२१०॥
प्रह्लादेन समं तेन ततोऽसावित्यभाष्यत । भद्रेदं गमनं कस्मात्क्रियते शोककारणम् ॥२११॥
ननु केन किमुक्तोऽसि कस्य नेष्टोऽसि शोभन । चिन्तयत्यपि नो कश्चिद्यत्ते बुध न रोचते ॥२१२॥
पितुर्मम च ते वाक्यं दोषे सत्यपि युज्यते । कर्तुं किमुत निःशेषदोषसङ्गविवर्जितम् ॥२१३॥
ततः सूरे निवर्तस्व क्रियतां नौवमीप्सितम् । भवादृशां गुरोराज्ञा नन्वानन्दस्य कारणम् ॥२१४॥
इत्युक्त्वापत्यरागेण वीरो विनतमस्तकः । श्वसुरेण धृतः पाणौ जनकेन च सादरम् ॥२१५॥
ततस्तद्गौरवं भङ्क्तुमसमर्थो न्यवर्तत । दध्याविति च कन्यायाः कोपाद्दुःखस्य कारणम् ॥२१६॥
समुह्य शातयाम्येनां दुःखेनासङ्गजन्मना । येनान्यतोऽपि नैवेषा प्राप्नोति पुरुषात्सुखम् ॥२१७॥
चकार विदितार्थं च मित्रं तेने च भाषितः । साधु ते विदितं बुद्ध्या मयाप्येतन्निरूपितम् ॥२१८॥
निवृत्तं दयितं श्रुत्वा कन्यायाः संमदोऽभवत् । निरन्तरसमुद्भिन्नरोमाञ्चाशेषविग्रहः ॥२१९॥
ततः समयमासाद्य तयोर्वैवाहमङ्गलम् । प्रस्तुतं बन्धुभिः कर्तुं प्राप्तसर्वसमीहितम् ॥२२०॥
अशोकपल्लवस्पर्शः कन्यायाः स करोऽभवत् । विरक्तचेतसस्तस्य कृशानुरशनोपमः ॥२२१॥
अनिच्छतो गता दृष्टिः कथंचित्तस्य तत्तनौ । क्षणमात्रमपि स्थातुं न सेहे तुल्यविद्युति ॥२२२॥
एष भावं न वेत्तास्या इति विज्ञाय पावकः । स्फुटल्लाजसमूहेन जहासैव कृतस्वनम् ॥२२३॥
ततो विधानयोगेन कृत्वोपयमनं तयोः । परमं प्रमुदं प्राप्ताः सशब्दाः सर्वबान्धवाः ॥२२४॥
नानाद्रुमलताकीर्णे फलपुष्पविराजिते । मासं तत्र वने कृत्वा विभूत्या परमोत्सवम् ॥२२५॥
यथोचितं कृतालापाः कृतपूजाः परस्परम् । यथास्वं ते ययुः सर्वे वियोगाद् दुःखिताः क्षणम् ॥२२६॥
अविदिततत्त्वस्थितयो विदधति यज्जन्तवः परेऽशर्म । तत्तत्र मूलहेतौ कर्मरवौ तापके दृष्टम् ॥२२७॥
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरितेऽञ्जनासुन्दरीविवाहाभिधानं नाम पञ्चदशं पर्व ॥१५॥
१६. षोडशं पर्व (पवनाञ्जनासंभोगाभिधानं)
ततोऽसंभाषणादस्याश्चक्षुषश्चानिपातनात् । चकार परमं दुःखं वायुरज्ञाततन्मनाः ॥१॥
रात्रावपि न सा लेभे निन्द्रां विद्राणलोचना । अनारतगलद्बाष्पमलिनौ दधती स्तनौ ॥२॥
वायुमप्यभिनन्दन्ती दयितेनैकनामकम् । तन्नामश्रवणोत्कण्ठावष्टब्धश्रवणा भृशम् ॥३॥
कुर्वती मानसे रूपं तस्य वेद्यां निरूपितम् । अस्पष्टं क्षणनिश्चेष्टस्थिता स्तिमितलोचना ॥४॥
अन्तर्निरूप्य वाञ्छन्ती बहिरप्यस्य दर्शनम् । कुर्वती लोचने स्पष्टे यात्यदृष्टे पुनः शुचम् ॥५॥
सकृदस्पष्टदृष्टत्वाच्चित्रकर्माणि कृच्छ्रतः । लिखन्ती वेपथुग्रस्तहस्तप्रच्युतवर्तिका ॥६॥
संचारयन्ती कृच्छ्रेण वदनं करतः करम् । कृशीभूतसमस्ताङ्गश्लथसस्वनभूषणा ॥७॥
दीर्घोष्णतरनिश्वासदग्धपाणिकपोलिका । अंशुकस्यापि भारेण खेदमङ्गेषु बिभ्रती ॥८॥
निन्दन्ती भृशमात्मानं स्मरन्ती पितरौ मुहुः । दधाना हृदयं शून्यं क्षणं निष्पन्दविग्रहा ॥९॥
दुःखनिःसृतया वाचा वाष्पसंरुद्धकण्ठतः । उपालम्भं प्रयच्छन्ती दैवायात्यन्तविक्लवा ॥१०॥
करैः शीलकरस्यापि बिभ्रती दाहमुत्तमम् । प्रासादेऽपि विनिर्यान्ती याति मूर्च्छां पुनः पुनः ॥११॥
अयि नाथ तवाङ्गानि मनोज्ञानि कथं मम । अङ्गानां हृदयस्थानि कुर्वते तापमुत्तमम् ॥१२॥
ननु ते जनितः कश्चिन्नापराधो मया प्रभो । कारणेन विना कस्मात्कोपं यातोऽसि मे परम् ॥१३॥
प्रसीद तव भक्तास्मि कुरु मे चित्तनिर्वृतिम् । बहिर्दर्शनदानेन रचितोऽञ्जलिरेष ते ॥१४॥
द्यौरिवादित्यनिर्मुक्ता चन्द्रहीनेव शर्वरी । त्वया विना न शोभेऽहं विद्येव च गुणोज्झिता ॥१५॥
प्रयच्छन्तीत्युपालम्भं पत्ये मानसवासिने । बिन्दून् मुक्ताफलस्थूलान् मुञ्चन्ती लोचनाम्भसः ॥१६॥
विद्यमाना म्रदिष्ठेषु कुसुमस्रस्तरेष्वपि । गुरुवाक्यानुरोधेन कुर्वती वपुषः स्थितिम् ॥१७॥
चक्रारूढमिवाजस्रं स्वं दधाना कृतभ्रमम् । संस्कारविरहाद् रूक्षं भ्रमन्ती केशसंचयम् ॥१८॥
तेजोमयीव संतापाज्जलात्मेवाश्रुसंततेः । शून्यत्वाद्गगनात्मेव पार्थिवीवाक्रियात्मतः ॥१९॥
संततोत्कलिकायोगाद्वायुनेव विनिर्मिता । तिरोऽवस्थितचैतन्याद्भूतमात्रोपमात्मिका ॥२०॥
भूमौ निक्षिप्तसर्वाङ्गा नोपवेष्टुमपि क्षमा । उपविष्टा च नोत्थातुं देहं नोद्धर्तुमुत्थिता ॥२१॥
सखीजनांसविन्यस्तविगलत्पाणिपल्लवा । भ्राम्यन्ती कुट्टिमाङ्केऽपि प्रस्खलच्चरणा मुहुः ॥२२॥
स्पृहयन्त्यनुयाताभ्यः प्रियैश्चाटुविधायिभिः । वराकी छेककान्ताभ्यस्तद्गतास्पन्दवीक्षणा ॥२३॥
प्रियात्परिमवं प्राप्ता कारणेन विवर्जिता । निन्ये सा दिवसान् कृच्छ्राद्दीना संवत्सरोपमान् ॥२४॥
तस्यामेतदवस्थायां समोऽस्या दुःखितोऽथवा । अधिकः परिवारोऽभूत्किंकर्तव्याकुलात्मकः ॥२५॥
अचिन्तयच्च किंत्वेतत्कारणेन विनामवत् । किं वा जन्मान्तरोपात्तं कर्म स्यात्पक्वमीदृशम् ॥२६॥
किं वान्तरायकर्म स्याज्जनितं जन्मान्तरे । जातं वायुकुमारस्य फलदानपरायणम् ॥२७॥
येनायमनया साकं मुग्धया वीतदोषया । न भुङ्क्ते परमान्भोगान्सर्वेन्द्रियसुखावहान् ॥२८॥
शृणु दुःखं यथा पूर्वं न प्राप्तं भवने पितुः । सेयं कर्मानुभावेन दुःखभारमिमं श्रिता ॥२९॥
उपायमत्र कं कुर्मो वयं भाग्यविवर्जिताः । अस्मत्प्रयतनासाध्यो गोचरो ह्येष कर्मणाम् ॥३०॥
राजपुत्री भवत्वेषा प्रेमसंभारभाजनम् । भर्तुरस्मत्कृतेनापि पुण्यजातेन सर्वथा ॥३१॥
अथवा विद्यते नैव पुण्यं नोऽत्यन्तमण्वपि । निमग्ना येन तिष्ठामो बालादुःखमहार्णवे ॥३२॥
भविष्यति कदा श्लाघ्यः स मुहूर्तोऽङ्कवर्तिनीम् । बालामिमां प्रियो नर्मगिरा यत्र लपिष्यति ॥३३॥
अत्रान्तरे विरोधोऽभूद्रक्षसां विभुना सह । वरुणस्य परं गर्वं केवलं बिभ्रतो बलम् ॥३४॥
कैकसीसूनुना दूतः प्रेषितोऽथेत्यभाषत । वरुणं स्वामिनः शक्त्या दधानः परमां द्युतिम् ॥३५॥
श्रीमान् विद्याधराधीशो वरुण त्वाह रावणः । यथा कुरु प्रणामं मे सज्जीभव रणाय वा ॥३६॥
प्रकृतिस्थिरचित्तोऽथ विहस्य वरुणोऽवदत् । दूत को रावणो नाम क्रियते तेन का क्रिया ॥३७॥
नाहमिन्द्रो जगन्निन्द्यवीर्यो वैश्रवणोऽथवा । सहस्ररश्मिसंज्ञो वा मरुतो वाथवा यमः ॥३८॥
देवताधिष्ठितैः रत्नैर्दर्पोऽस्यामवदुत्तमः । आयातु सममेभिस्तं नयाम्यद्य विसंज्ञताम् ॥३९॥
नूनमासन्नमृत्युस्त्वं येनैवं भाषसे स्फुटम् । अभिधायेति तं दूतो गत्वा भर्त्रे न्यवेदयत् ॥४०॥
ततः परमकोपेन परितो वारुणं पुरम् । अरुणद्रावणो युक्तः सेनयोदधिकल्पया ॥४१॥
प्रतिज्ञां च चकारेमां रत्नैरेष मया विना । नेतव्यश्चपलो भङ्गं मृत्युं वेति ससंभ्रमः ॥४२॥
राजीवपौण्डरीकाद्याः क्षुब्धा वरुणनन्दनाः । विनिर्ययुः सुसन्नद्धाः श्रुत्वा प्राप्तं बलं द्विषः ॥४३॥
रावणस्य बलेनामा तेषां युद्धमभूत्परम् । अन्योन्यापातसंच्छिन्नविविधायुधसंहतिः ॥४४॥
गजा गजैः समं सक्ता वाजिनोऽश्वै रथा रथैः । भटा भटैः कृतारावा दष्टोष्ठा रक्तलोचनाः ॥४५॥
पराचीनं ततः सैन्यं त्रैकूटैर्वारुणं कृतम् । चिराय कृतसंग्रामं दत्तसोढायुधोत्करम् ॥४६॥
जलकान्तस्ततः क्रुद्धः कालाग्निरिव दारुणः । अधावद्रक्षसां सैन्यं हेतिपञ्जरमध्यगः ॥४७॥
ततो दुर्वारवेगं तं दृष्ट्वायान्तं रणाङ्गणे । गोपायितः स्ववाहिन्या रावणो दीप्तशस्त्रया ॥४८॥
वरुणेन कृताश्वासास्ततस्तस्य सुताः पुनः । परमं योद्धुमारब्धा विध्वस्तभटकुञ्जराः ॥४९॥
ततो यावद्दशग्रीवः क्रोधदीपितमानसः । गृह्णाति कार्मुकं क्रूरः भ्रकुटीकुटिलालिकः ॥५०॥
दत्तयुद्धश्चिरं तावत्खेदवर्जितमानसः । वारुणीनां शतेनाशु गृहीतः खरदूषणः ॥५१॥
ततश्चित्ते दशग्रीवश्चकारात्यन्तमाकुलः । यथा न शोभतेऽस्माकमधुना रणधीरिति ॥५२॥
खरदूषणभद्रस्य प्रवृत्ते परमाहवे । माभून्मरणसंप्राप्तिस्तस्माच्छान्तिरिहोचिता ॥५३॥
इति निश्चित्य संग्रामशिरसोऽपससार सः । नोदाराणां यतः कृत्ये मुच्यते चेतसा रसः ॥५४॥
ततः स मन्त्रिभिः साकं प्रवीणैर्मन्त्रवस्तुनि । संमन्त्र्य निजसामन्तान्स्वदेशसमवस्थितान् ॥५५॥
समग्रबलसंयुक्तान्सर्वान् दीर्घाध्वगामिभिः । आह्वाययच्छिरोबद्धलेखमालैरिति द्रुतम् ॥५६॥
प्रह्लादमपि तत्रायाद्रावणप्रेषितो नरः । स्वामिभक्त्या कृतं चास्य करणीयं यथोचितम् ॥५७॥
विद्यावतां प्रभोर्भद्र ! भद्रमित्यथ चोदितः । सादरं भद्रमित्युक्त्वा स लेखं न्यक्षिपत्पुरः ॥५८॥
ततः स्वयं समादाय कृत्वा शिरसि संभ्रमात् । प्रह्लादोऽवाचयल्लेखमस्यार्थस्याभिधायकम् ॥५९॥
स्वस्ति स्थाने पुरस्यारादलंकारस्य नामतः । निविष्टपृतनः क्षेमी विद्याभृत्स्वामिनां पतिः ॥६०॥
सौमालिनन्दनो रक्षःसन्तानाम्बरचन्द्रमाः । आदित्यनगरे भद्रं प्रह्लादं न्यायवेदिनम् ॥६१॥
कालदेशविधानज्ञमस्मत्प्रीतिपरायणम् । आज्ञापयति देहादिकुशलप्रश्नपूर्वकम् ॥६२॥
यथा मे प्रणताः सर्वे क्षिप्रं विद्याधराधिपाः । कराङ्गुलिनखच्छायाकपिलीकृतमूर्धजाः ॥६३॥
पातालनगरेऽयं तु सुसंनद्धः स्वशक्तितः । वरुणः प्रत्यवस्थानमकरोदिति दुर्मतिः ॥६४॥
हृदयव्यथविद्याभृच्चक्रेण परिवारितः । समुद्रमध्यमासाद्य दुरात्मायं सुखी किल ॥६५॥
ततोऽतिगहने युद्धे प्रवृद्धे खरदूषणः । शतेनैतस्य पुत्राणां कथंचिदपवर्तितः ॥६६॥
संग्रामे संशयो माभूत्प्रमादोऽस्येति निश्चयः । परित्यक्ता महायुद्धधिषणा कालवेदिना ॥६७॥
अतस्तत्प्रतिकाराय त्वयावश्यमिहागमः । कर्तव्यो नैव कर्तव्ये प्रस्खलन्ति मवादृशाः ॥६८॥
अवधार्य त्वया सार्धं विधास्यामोऽत्र सांप्रतम् । भर्तापि तेजसां कृत्यं कुरुतेऽरुणसङ्गतः ॥६९॥
ततो लेखार्थमावेद्य वायवे निर्विलम्बितम् । गमने संमतिं चक्रे कृतमन्त्रः सुमन्त्रिभिः ॥७०॥
अथ तं गमने सक्तं जानुस्पृष्टमहीतलः । वायुर्व्यज्ञापयत्कृत्वा प्रणामं रचिताञ्जलिः ॥७१॥
नाथ ते गमनं युक्तं विद्यमाने कथं मयि । आलिङ्गनफलं कृत्यं जनकस्य सुतैर्ननु ॥७२॥
ततो न जात एवास्मि यदि ते न करोमि तत् । गमनाज्ञाप्रदानेन प्रसादं कुरु मे ततः ॥७३॥
ततः पिता जगादैनं कुमारोऽसि रणे भवान् । आगतो न क्वचित्खेदं तस्मादास्स्व व्रजाम्यहम् ॥७४॥
उन्नमय्य ततो वक्षः कनकाद्रितटोपमम् । पुनरोजोधरं वाक्यं जगाद पवनंजयः ॥७५॥
तात मे लक्षणं शक्तेस्त्वयैव जननं ननु । जगद्दाहे स्फुलिङ्गस्य किं वा वीर्यं परीक्ष्यते ॥७६॥
भवच्छासनशेषातिपवित्रीकृतमस्तकः । भङ्क्ते पुरन्दरस्यापि समर्थोऽस्मि न संशयः ॥७७॥
अभिधायेति कृत्वा च प्रणामं प्रमदी पुनः । उत्थायानुष्ठितस्नानभोजनादिवपुःक्रियः ॥७८॥
सादरं कुलवृद्धाभिर्दत्ताशीः कृतमङ्गलः । प्रणम्य भावतः सिद्धान् दधानः परमां द्युतिम् ॥७९॥
वाष्पाकुलितनेत्राभ्यां मङ्गलध्वंसभीतितः । आशीर्दानप्रवृत्ताभ्यां पितृभ्यां मूर्ध्नि चुम्बितः ॥८०॥
आपृच्छ्य बान्धवान् सर्वानभिवाद्य च सस्मितः । संभाष्य प्रणतं भक्तं परिवर्गमशेषतः ॥८१॥
दक्षिणेनाङ्घ्रिणा पूर्वं कृतोच्चालः स्वभावतः । दक्षिणेन कृतानन्दः स्फुरता बाहुना मुहुः ॥८२॥
सपल्लवमुखे पूर्णकुम्भे निहितलोचनः । क्रामन् ( वै ) भवनाद्देष सहसैक्षत गेहिनीम् ॥८३॥
द्वारस्तम्भनिषण्णाङ्गीं वाष्पस्थगितलोचनाम् । नितम्बनिहितभ्रंसिनिरादरचलद्भुजाम् ॥८४॥
ताम्बूलरागनिर्मुक्तधूसरद्विजवाससम् । तस्मिन्नेव समुत्कीर्णां मलिनां सालभञ्जिकाम् ॥८५॥
विद्युतीव ततो दृष्टिं तस्यामापतितां क्षणात् । संहृत्य कुपितोऽवादीदिति प्रह्लादनन्दनः ॥८६॥
अमुष्मादपसर्पाशु देशादपि दुरीक्षणे । उल्कामिव समर्थोऽहं भवतीं न निरीक्षितुम् ॥८७॥
अहो कुलाङ्गनायास्ते प्रगल्भत्वमिदं परम् । यत्पुरोऽनिष्यमाणापि तिष्ठसि त्रपयोज्झिते ॥८८॥
ततोऽत्यन्तमपि क्रूरं तद्वाक्यं भर्तृभक्तितः । तृषितेव चिराल्लब्धममृतं मनसा पपौ ॥८९॥
जगाद चाञ्जलिं कृत्वा तत्पादगतलोचना । संस्खलन्ती मुहुर्वाचमुद्गिरन्ती प्रयत्नतः ॥९०॥
तिष्ठतापि त्वया नाथ भवनेऽत्र विवर्जिता । त्वत्सामीप्यकृताश्वासा जीवितास्म्यतिकृच्छ्रतः ॥९१॥
जीविष्याम्यधुना स्वामिन्कथं दूरं गते त्वयि । त्वत्सद्वचोऽमृतास्वादस्मरणेन विनातुरा ॥९२॥
कृतं छेकगणस्यापि त्वया संभाषणं प्रभो । यियासुना परं देशमतिस्नेहार्द्रचेतसा ॥९३॥
अनन्यगतचित्ताहं त्वदसंगमदुःखिता । कथं नान्यमुखेनापि त्वया संभाषिता विभो ॥९४॥
त्यक्ताया मे त्वया नाथ समस्तेऽप्यत्र विष्टपे । विद्यते शरणं नान्यदथवा मरणं भवेत् ॥९५॥
ततस्तेन म्रियस्वेति संकोचितमुखेन सा । सती निगदितापप्तद्विषण्णा धरणीतले ॥९६॥
वायुरप्युत्तमामृद्धिं दधानः कृपयोज्झितः । परमं नागमारुह्य सामन्तैः प्रस्थितः समम् ॥९७॥
वासरे प्रथमे वासौ संप्राप्तो मानसं सरः । आवासयत्तटे तस्य सेनामश्रान्तवाहनः ॥९८॥
तस्यावतरतः सेना शुशुभे हि नभस्तलात् । सुरसंततिवन्नानायानशस्त्रविभूषणा ॥९९॥
आत्मनो वाहनानां च चक्रे कार्यं यथोचितम् । स्नानप्रत्यवसानादिविद्याभृद्भिः सुमानसैः ॥१००॥
अथ विद्याबलादाशु रचिते बहुभूमिके । युक्तविस्तारतुङ्गत्वे प्रासादे चित्तहारिणि ॥१०१॥
सहोपरितले कुर्वन् स्वैरं मित्रेण संकथाम् । वरासनगतो भाति संग्रामकृतसंमदः ॥१०२॥
गवाक्षजालमार्गेण छिद्रेण तटभूरुहान् । ईक्षाञ्चक्रे सरो वायुर्मन्दवायुविघट्टितम् ॥१०३॥
भीमैः कूर्मैर्झषैर्नक्रैर्मकरैर्दर्पधारिभिः । भिन्नवीचिकमन्यैश्च यादोभिरिति भूरिभिः ॥१०४॥
धौतस्फटिकस्तुल्याम्भः कमलोत्पलभूषितम् । हंसैः कारण्डवैः क्रौञ्चैः सारसैश्चोपशोभितम् ॥१०५॥
मन्द्रकोलाहलादेषा मनःश्रोत्रमलिम्लुचम् । तदन्तरश्रुतोदात्तभ्रमरीकुलझङ्कृतम् ॥१०६॥
तत्र चैकाकिनीमेकामाकुलां चक्रवाकिकाम् । वियोगानलसंतप्तां नानाचेष्टितकारिणीम् ॥१०७॥
अस्ताचलसमासन्नभानुबिम्बगतेक्षणाम् । पद्मिनीदलरन्ध्रेषु मुहुर्न्यस्तनिरीक्षणाम् ॥१०८॥
धुन्वानां पक्षती वेगात्पातोत्पातकृतश्रमाम् । मृणालशकलस्वादु पश्यन्तीं दुःखितां विषम् ॥१०९॥
प्रतिबिम्बं निजं दृष्ट्वा जले दयितशङ्किनीम् । आह्वयन्तीं तदप्राप्त्या व्रजतीं परमां शुचम् ॥११०॥
नानादेशोद्भवं श्रुत्वा प्रतिशब्दं प्रियाशया । भ्रमं चक्रमिवारूढां कुर्वन्तीं साधुलोचनाम् ॥१११॥
तटपादपमारुह्य न्यस्यन्तीं दिक्षु लोचने । तत्रादृष्ट्वा पुनः पातमाचरन्तीं महाजवम् ॥११२॥
उन्नयन्तीं रजो दूरं पद्मानां पक्षधूतिभिः । चिरं तद्गतया दृष्ट्या ददर्शासौ कृपाहतः ॥११३॥
इति चाचिन्तयत्कष्टं प्राप्तमस्या इदं परम् । यत्प्रियेण विमुक्तेयं दह्यते शोकवह्निना ॥११४॥
तदेवेदं सरो रम्यं चन्द्रचन्दनशीतलम् । दावकल्पमभूदस्याः प्राप्य नाथवियुक्तताम् ॥११५॥
रमणेन वियुक्तायाः पल्लवोऽप्येति खड्गताम् । चन्द्रांशुरपि वज्रत्वं स्वर्गोऽपि नरकायते ॥११६॥
इति चिन्तयतस्तस्य प्रियायां मानसं गतम् । तत्प्रीत्या चैक्षतोद्देशांस्तद्विवाहे निषेवितान् ॥११७॥
चक्षुषो गोचरीभूतास्तस्य ते शोकहेतवः । बभूवुर्मर्मभेदानां कर्तार इव दुःसहाः ॥११८॥
अध्यासीच्चेति हा कष्टं मया सा क्रूरचेतसा । मुक्तेयमिव चक्राह्वा वैक्लव्यं दयितागमत् ॥११९॥
यदि नाम तदा तस्याः सख्याभाष्यत निष्ठुरम् । ततोऽन्यदीयदोषेण कस्मात्सा वर्जिता मया ॥१२०॥
धिगस्मत्सदृशान्मूर्खानप्रेक्षापूर्वकारिणः । जनस्य ये विना हेतुं यत्कुर्वन्त्यसुखासनम् ॥१२१॥
मम वज्रमयं नूनं हृदयं पापचेतसः । प्रत्यवस्थित यत्कालमियन्तं तां प्रियां प्रति ॥१२२॥
किं करोम्यधुना तातमापृच्छ्य निरितो गृहात् । कथं नु विनिवर्तेऽहमहो प्राप्तोऽस्मि संकटम् ॥१२३॥
व्रजेयं यदि संग्रामं जीवेन्नासौ ततः स्फुटम् । तदभावे ममाभावः स्वतश्च गुरु नापरम् ॥१२४॥
अथवा सर्वसंदेहग्रन्थिभेदनकारणम् । विद्यते मे परं मित्रं तन्नेदं तिष्ठते शुभे ॥१२५॥
तस्मात्पृच्छाम्यमुं तावत्सर्वाचारविशारदम् । निश्चित्ये विहिते कार्ये लभन्ते प्राणिनः सुखम् ॥१२६॥
इति च ध्यातमेतेन दृष्ट्वा चैवं विचेतसम् । मन्दं प्रहसितोऽपृच्छद्देवं तद्दुःखदुःखितः ॥१२७॥
सखे ! प्रतिनरोच्छेदकृतये प्रस्थितस्य ते । कस्माद्वदनमद्यैवं विषण्णमिव दृश्यते ॥१२८॥
अपत्रपां विमुच्याशु मह्यं सुजन वेदय । नितान्तमाकुलीभावो जातो मे भवतीदृशि ॥१२९॥
ततोऽसावेवमुक्तः सन् कृच्छ्रनिःसृतया गिरा । जगादेति परिभ्रंशं दूरं धैर्यादुपागतः ॥१३०॥
शृणु सुन्दर कस्यान्यत्कथनीयमिदं मया । ननु सर्वरहस्यानां त्वमेव मम भाजनम् ॥१३१॥
स त्वं कथयितुं नैतदन्यस्मै सुहृदर्हसि । त्रपा हि वस्तुनानेन जायते परमा मम ॥१३२॥
ततः प्रहसितोऽवोचद् विश्रब्धस्त्वं निवेदय । त्वया हि वेदितो मेऽर्थस्तप्तायोगतवारिवत् ॥१३३॥
ततो वायुरुवाचेदं शृणु मित्राञ्जना मया । न कदाचित्कृतप्रीतिरिति मे दुःखितं मनः ॥१३४॥
क्रूरेऽपि मयि सामीप्यादियन्तं समयं तया । आत्मा संधारितो नित्यं प्रवृत्तनयनाम्भसा ॥१३५॥
आगच्छता मया दृष्टा तस्याश्चेष्टाधुना तु या । तया जानामि सा नूनं न प्राणिति वियोगिनी ॥१३६॥
तस्या विनापराधेन मया परिभवः कृतः । द्वयग्रं विंशतिमब्दानां पाषाणसमचेतसा ॥१३७॥
आगच्छता मया दृष्टं तस्यास्तन्मुखपङ्कजम् । शोकप्रालेयसंपर्कान्मुक्तं लावण्यसंपदा ॥१३८॥
तस्यास्ते नयने दीर्घे नीलोत्पलसमप्रभे । इषुवत्स्मृतिमारूढे हृदयं विध्यतेऽधुना ॥१३९॥
तदुपायं कुरु त्वं तमावयोर्येन संगमः । जायेत मरणं माभूदुभयोरपि सज्जन ॥१४०॥
ऊचे प्रहसितोऽथैवं क्षणं निश्चलविग्रहः । उपायचिन्तनात्यन्तचलदोलास्थमानसः ॥१४१॥
कृत्वा गुरुजनापृच्छां निर्गतस्य तवाधुना । शत्रुं निर्जेतुकामस्य सांप्रतं न निवर्तनम् ॥१४२॥
समक्षं गुरुलोकस्य नानीता प्रथमं च या । लज्यते तामिहानेतुमधुनाञ्जनसुन्दरीम् ॥१४३॥
तस्मादविदितो गत्वा तत्रैवेतां त्वमानय । नेत्रयोर्गोचरीभावं संभाषणसुखस्य च ॥१४४॥
जीवितालम्बनं कृत्वा चिरात्तस्याः समागमम् । ततः क्षिप्रं निवर्तस्व शीतलीभूतमानसः ॥१४५॥
निरपेक्षस्ततो भूत्वा वहन्नुत्साहमुत्तमम् । गमिष्यसि रिपुं जेतुमुपायोऽयं सुनिश्चितः ॥१४६॥
ततः परममित्युक्त्वा सेनान्यं मुद्गराभिधम् । नियुज्य बलरक्षायां व्याजतो मेरुवन्दनात् ॥१४७॥
माल्यानुलेपनादीनि गृहीत्वा त्वरयान्वितः । पुरः प्रहसितं कृत्वा वायुर्गगनमुद्ययौ ॥१४८॥
तावच्च भानुरैदस्तं कृपयेव प्रचोदितः । विश्रब्धमेतयोर्योगो निशीथे जायतामिति ॥१४९॥
संध्यालोकपरिध्वंसहेतुना तमसान्वितम् । जगत् स्पर्शनविज्ञेयपदार्थममवत्ततः ॥१५०॥
प्राप्तश्चाञ्जनसुन्दर्या गृहे प्रग्रीवकोदरे । वायुरस्थात्प्रविष्टस्तु तस्याः प्रहसितोऽन्तिकम् ॥१५१॥
ततस्तं सहसा दृष्ट्वा मन्दद्वीपप्रकाशतः । अञ्जना विव्यथेऽत्यर्थं कः कोऽयमिति वादिनी ॥१५२॥
सखीं वसन्तमालां च सुप्तां पार्श्वे व्यनिद्रयत् । कुशलोत्थाय सा तस्याश्चकार भयनाशनम् ॥१५३॥
ततः प्रहसितोऽस्मीति गदित्वाऽसौ नमस्कृतिम् । प्रयुज्याकथयत्तस्मै पवनंजयमागतम् ॥१५४॥
ततः स्वप्नसमं श्रुत्वा प्राणनाथस्य सागमम् । ऊचे प्रहसितं दीनमिदं गद्गदया गिरा ॥१५५॥
किं मां प्रहसितापुण्यां हससि प्रियवर्जिताम् । ननु कर्मभिरेवाहं हसितातिमलीमसैः ॥१५६॥
प्रियेण परिभूतेति विदित्वा वद केन नो । परिभूतास्मि निर्भाग्या दुःखावस्थानविग्रहा ॥१५७॥
विशेषतस्त्वया कान्तः प्रोत्साह्य क्रूरचेतसा । एतामारोपितोऽवस्थां मम कृच्छ्रविधायिनीम् ॥१५८॥
अथवा भद्र ते कोऽत्र दोषः कर्मवशीकृतम् । जगत्सर्वमवाप्नोति दुःखं वा यदि वा सुखम् ॥१५९॥
इति साश्रु वदन्तीं तामात्मनिन्दनतत्पराम् । नत्वा प्रहसितोऽवोचद् दुःखार्द्रीकृतमानसः ॥१६०॥
कल्याणि मा भणीरेवं क्षमस्व जनितं मया । आगो विचारशून्येन पापावष्टब्धचेतसा ॥१६१॥
प्राप्तानि विलयं नूनं दुष्कर्माणि तवाधुना । येन प्रेमगुणाकृष्टो जीवितेशः समागतः ॥१६२॥
अधुनास्मिन् प्रसन्ने ते किं न जातं सुखावहम् । ननु चन्द्रेण शर्वर्याः संगमे का न चारुता ॥१६३॥
ततः क्षणं स्थिता चेदं जगादाञ्जनसुन्दरी । प्रतिनिस्वनवत्येवं सख्यनूदितया गिरा ॥१६४॥
असंभाव्यमिदं भद्र यथा वर्षं जलोज्झितम् । भवत्यप्यथवा काले कल्याणं कर्मचोदितम् ॥१६५॥
तथास्तु स्वागतं तस्य जीवितस्येशितुर्मम । अद्य मे फलितः पूर्वशुभानुष्ठानपादपः ॥१६६॥
वदन्त्यामेवमेतस्यामानन्दास्राक्तचक्षुषि । तत्सख्येवान्तिकं नीतस्तस्याः करुणया प्रियः ॥१६७॥
त्रस्तसारङ्गकान्ताक्षी दृष्ट्वा तं परमोत्सवम् । जानुद्वयासकृन्न्यस्तस्रस्तपाणिसरोरुहा ॥१६८॥
स्तम्भवत्प्रसृताकाण्डा वेपथुश्रितविग्रहा । शनैरुत्थातुमारब्धा शयनस्था प्रयासिनी ॥१६९॥
अथालमलमेतेन देवि क्लेशविधायिना । संभ्रमेणेति वचनं विमुञ्चन्नमृतोपमम् ॥१७०॥
समुत्थितां प्रियां कृच्छ्रादञ्जलिं बद्धुमुद्यताम् । गृहीत्वा दयितः पाणौ शयने समुपाविशत् ॥१७१॥
स्वेदी पाणिरसौ तस्याः परमं पुलकं वहन् । प्रियस्पर्शामृतेनेव सिक्तो व्यामुञ्चदङ्कुरान् ॥१७२॥
नत्वा वसन्तमाला तं कृत्वा भाषणमादरात् । साकं प्रहसितेनास्थाद्रम्ये कक्षान्तरे सुखम् ॥१७३॥
अथानादरतः पूर्वं त्रपमाणः स्वयंकृतात् । पवनः कुशलं प्रष्टुं न प्रावर्तत चेतसा ॥१७४॥
विलक्षस्तु प्रिये मृष्य मया कर्मानुभावतः । निकारं कृतमित्यूचे तत्क्षणाकुलमानसः ॥१७५॥
आद्यसंभाषणात्सापि वहन्ती नतमाननम् । जगाद मन्दया वाचा निश्चलाखिलविग्रहा ॥१७६॥
न कश्चिज्जनितो नाथ त्वया परिभवो मम । अधुना कुर्वता स्नेहं मनोरथसुदुर्लभम् ॥१७७॥
त्वत्स्मृतिप्रतिबद्धं मे वहन्त्या ननु जीवितम् । त्वदायत्तो निकारोऽपि महानन्दसमोऽभवत् ॥१७८॥
अथैवं भाषमाणाया विधाय चिबुकेऽङ्गुलिम् । उन्नमय्य मुखं पश्यन् जगाद पवनंजयः ॥१७९॥
देवि सर्वापराधानां विस्मृत्यै तव पादयोः । प्रणाममेष यातोऽस्मि प्रसादं परमं व्रज ॥१८०॥
इत्युक्त्वा स्थापितं तेन मूर्द्धानं पादयोः प्रिया । त्वरया करपद्माभ्यामुन्नेतुं व्यापृताभवत् ॥१८१॥
तथावस्थित एवासौ ततोऽवोचत्प्रियं वचः । प्रसन्नास्मीति येनाहमुद्यच्छामि शिरः प्रिये ॥१८२॥
क्षान्तमित्युदितोऽथासावुन्नमय्याङ्गमुत्तमम् । चक्रे प्रियासमाश्लेषं सुखामीलितलोचनः ॥१८३॥
आश्लिष्टा दयितस्यासौ तथा गात्रेष्वलीयत । पुनर्वियोगभीतेव गतान्तर्विग्रहं यथा ॥१८४॥
आलिङ्गनविमुक्तायास्तस्याः स्तिमितलोचनम् । मुखं मुक्तनिमेषाभ्यां लोचनाभ्यां पपौ प्रियः ॥१८५॥
पादयोः करयोर्नाभ्यां स्तनयोश्चिबुकेऽलिके । गण्डयोर्नेत्रयोश्चास्याश्चुम्बनं मदनातुरः ॥१८६॥
पुनः पुनश्चकारासौ स्वेदिना पाणिना स्पृशन् । आप्तसेवा हि सा नूनं क्रियते वक्त्रचुम्बने ॥१८७॥
ततः प्रबुद्धराजीवगर्भच्छदसमप्रभम् । स पपावधरं तस्या विमुञ्चन्तमिवामृतम् ॥१८८॥
नीवीविमोचनव्यग्रपाणिमस्य त्रपावती । रोद्धुमैच्छन्न सा शक्ता पाणिना वेपथुश्रिता ॥१८९॥
ततो नितम्बफलकं दृष्ट्वास्या वसनोज्झितम् । उवाह हृदयं वायुर्मनोभूवेगरङ्गितम् ॥१९०॥
अथ केनापि वेगेन परायत्तीकृतात्मना । गृहीता दयिता गाढं पवनेनाब्जकोमला ॥१९१॥
यथा ब्रवीति वैदग्ध्यं यथाज्ञापयति स्मरः । अनुरागो यथा शिक्षां प्रयच्छति महोदयः ॥१९२॥
तथा तयो रतिः प्राप्ता दम्पत्योर्वृद्धिमुत्तमाम् । काले तत्र हि यो भावो नैवाख्यातुं स पार्यते ॥१९३॥
स्तनयोः कुम्भयोरेष जघने चाङ्गनोत्तमाम् । आस्फालयन् समारूढो मनोभवमहागजम् ॥१९४॥
तिष्ठ मुञ्च गृहाणेति नानाशब्दसमाकुलम् । तयोर्युद्धमिवोदारं रतमासीत्सविभ्रमम् ॥१९५॥
अधरग्रहणे तस्याः पुरुसीत्कारपूर्वकम् । प्रविधूतः करो रेजे लताया इव पल्लवः ॥१९६॥
प्रियदत्ता नवास्तस्य नखाङ्का जघने बभुः । वैडूर्यजगतीभागे पद्मरागोद्गमा इव ॥१९७॥
तस्याः सेचनकत्वं तु जगाम जघनस्थलम् । निमेषमुक्ततन्निष्ठमुकुलीभूतचक्षुषः ॥१९८॥
वलयानां रणत्कारः कलालापसमन्वितः । तदा मनोहरो जज्ञे भ्रमरौघरवोपमः ॥१९९॥
तस्यास्ते काम्यमानाया नेत्रकेकरतारके । मुकुले दधतुः शोभां चलालीन्दीवरस्थिताम् ॥२००॥
प्रस्वेदबिन्दुनिकरस्तस्या मुखकुचोद्गतः । स्वच्छमुक्ताफलाकारो रतस्यान्तेऽभ्यराजत ॥२०१॥
रदग्रहारुणीभूतं साधरं बिभ्रती बभौ । पलाशवनराजीव समुद्भूतैककिंशुका ॥२०२॥
प्रियभुक्ता तनुस्तस्या ऊहे कान्तिमनुत्तमाम् । कनकाद्रितटाश्लिष्टघनपङ्क्तिकृतोपमाम् ॥२०३॥
ततः संप्राप्तकृत्ये तौ समाप्ते सुरतोत्सवे । दम्पती सेवितुं निद्रां खिन्नदेहाववाञ्छताम् ॥२०४॥
परस्परगुणध्यानवशमानसयोस्तु सा । ईर्ष्ययेव तयोर्दूरं कोपात् क्वापि पलायिता ॥२०५॥
ततः प्रियांसदेशस्थदयितामूर्धदेशकम् । कृतान्योन्यभुजाश्लेषं परमप्रेमकीलितम् ॥२०६॥
महासौरभनिश्वासवासितास्यसरोरुहम् । विकटोरःपरिष्वङ्गचक्रितस्तनमण्डलम् ॥२०७॥
नरोर्वन्तरनिक्षिप्तवनितैकोरुभारकम् । यथेष्टदेशविन्यस्तनानाकारोपधानकम् ॥२०८॥
नागीयमिव तत्कान्तं मिथुनं कथमप्यगात् । निद्रां स्पर्शसुखाम्भोधिनिमग्नालीनविग्रहम् ॥२०९॥
जाते मन्दप्रभातेऽथ शयनीयात्समुत्थिता । पार्श्वासन्नस्थिता कान्तमञ्जना पर्यसेवत ॥२१०॥
दृष्ट्वा परिमलं देहे स्वस्मिन् साभूत् त्रपावती । प्रमदं च परिप्राप्ता चिराल्लब्धमनोरथा ॥२११॥
तयोरज्ञातयोरेवं यथोचितविधायिनोः । अतीयाय निशानेका क्षणाद्दर्शनभीतयोः ॥२१२॥
दोदुन्दुकसुरौपम्यं प्राप्तयोरुभयोस्तदा । इन्द्रियाण्यन्यकार्येभ्यः प्राप्तानि विनिवर्तनम् ॥२१३॥
अन्यदा सौख्यसंभारविस्मृतस्वामिशासनम् । मित्रं प्रमादवद्बुद्ध्वा तद्धितध्यानतत्परः ॥२१४॥
सुधीर्वसन्तमालायां प्रविष्टायां कृतध्वनिः । प्रविश्य वासभवनं मन्दं प्रहसितोऽवदत् ॥२१५॥
सुन्दरोत्तिष्ठ किं शेषे नन्वेष रजनीपतिः । जितस्त्वन्मुखकान्त्येव गतो विच्छायतां पराम् ॥२१६॥
इति वाचास्य जातोऽसौ प्रबोधं श्लथविग्रहः । कृत्वा विजृम्भणं निद्राशेषारुणनिरीक्षणः ॥२१७॥
श्रवणं वामतर्जन्या कण्डूयन्मुकुलेक्षणः । संकोच्य दक्षिणं बाहुं निक्षिपञ्जनितस्वरम् ॥२१८॥
कान्तायां निदधन्नेत्रे त्रपाविनतचक्षुषि । एहीति निगदन्मित्रमुत्तस्थौ पवनंजयः ॥२१९॥
कृत्वा स्मितमथापृच्छच्च सुखरात्रिं कृतस्मितम् । पृच्छन्तं रात्रिकुशलं तद्वेदी तन्निवेदनम् ॥२२०॥
निवेश्य तत्प्रियोद्दिष्टे समासन्ने सुखासने । सुहृदेनं जगादैवं नयशास्त्रविशारदः ॥२२१॥
उत्तिष्ठ मित्र गच्छावः सांप्रतं बहवो गताः । दिवसास्ते प्रसक्तस्य प्रियासंमानकर्मणि ॥२२२॥
यावत्कश्चिन्न जानाति प्रत्यागमनमावयोः । गमनं युज्यते तावदन्यथा लज्जनं भवेत् ॥२२३॥
तिष्ठत्युदीक्षमाणश्च रथनूपुरकस्तव । नृपः कैन्नरगीतश्च यियासुः स्वामिनोऽन्तिकम् ॥२२४॥
मन्त्रिणश्च किलाजस्रं पृच्छत्यादरसंगतः । पवनो वर्तते क्वेति मरुत्वमखसूदनः ॥२२५॥
उपायो गमनस्यायं मया विरचितस्तव । दयितासंगमस्तस्मादिदानीं तत्र त्यज्यताम् ॥२२६॥
आज्ञेयं करणीया ते स्वामिनो जनकस्य च । क्षेमादागत्य सततं दयितां मानयिष्यति ॥२२७॥
एवं करोमि साधूक्तं सुहृदेत्यभिधाय सः । कृत्वा तनुगतं कर्म संनिधापितमङ्गलम् ॥२२८॥
रहस्यालिङ्ग्य दयितां चुम्बित्वा स्फुरिताधरम् । जगाद देवि माकार्षीरुद्वेगं त्वं व्रजाम्यहम् ॥२२९॥
अचिरेणैव कालेन विधाय स्वामिशासनम् । आगमिष्यामि निर्वृत्या तिष्ठेति मधुरस्वरः ॥२३०॥
ततो विरहतो भीता तद्वक्त्रगतलोचना । कृत्वा करयुगाम्भोजां जगादाञ्जनसुन्दरी ॥२३१॥
आर्यपुत्रर्तुमत्यस्मि भवता कृतसंगमा । ततस्त्वद्विरहे गर्भो ममावाच्यो भविष्यति ॥२३२॥
तस्मान्निवेद्य गच्छ त्वं गुरुभ्यो गर्भसंभवम् । क्षेमाय दीर्घदर्शित्वं कल्पते प्राणधारिणाम् ॥२३३॥
एवमुक्तो जगादासौ देवि पूर्वं त्वया विना । निष्क्रान्तो निश्चितो गेहाद् गुरूणां संनिधावहम् ॥२३४॥
अधुना गमनं तेभ्यस्तदर्थं गदितुं त्रपे । चित्रचेष्टं च विज्ञाय मां जनः स्मेरतां व्रजेत् ॥२३५॥
तस्माद्यावदयं गर्भस्तव नैति प्रकाशताम् । तावदेवाव्रजिष्यामि मा व्राजीर्विमनस्कताम् ॥२३६॥
इमं प्रमादनोदार्थं मन्नामकृतलक्षणम् । गृहाण वलयं भद्रे शान्तिस्तेऽतो भविष्यति ॥२३७॥
इत्युक्त्वा वलयं दत्वा सान्त्वयित्वा मुहुः प्रियाम् । उक्त्वा वसन्तमालां च तदर्थं समुपासनम् ॥२३८॥
रतव्यतिकरच्छिन्नहारमुक्ताफलाचितात् । पुष्पगन्धपरागोरुसौरभाकृष्टषट्पदात् ॥२३९॥
तरङ्गिप्रच्छदपटाद् दुग्धाब्धिद्वीपसंनिमात् । शयनीयात् समुत्तस्थौ प्रियावस्थितमानसः ॥२४०॥
मङ्गलध्वंसभीत्या च प्रियया साश्रुनेत्रया । अदृष्टिगोचरं दृष्टः समित्रो वियदुद्ययौ ॥२४१॥
कदाचिदिह जायते स्वकृतकर्मपाकोदयात् सुखं जगति संगमादभिमतस्य सद्वस्तुनः । कदाचिदपि संभवत्यसुभृतामसौख्यं परं भवे भवति न स्थितिः समगुणा यतः सर्वदा ॥२४२॥
अथापि जननात्प्रभृत्यविरतं सुखं प्राणिनां मृतेरविरतो भवेन्ननु तथाप्यमुत्रासुखम् । ततो भजत भो जनाः सततभूरिसौख्यावहं भवासुखतमश्छिदं जिनवरोक्तधर्मं रविम् ॥२४३॥
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते पवनाञ्जनासंभोगाभिधानं नाम षोडशं पर्व ॥१६॥
१७. सप्तदशं पर्व (हनूमत्संभवाभिधानं)
कियत्यपि प्रयातेऽथ काले गर्भस्य सूचकाः । विशेषाः प्रादुरभवन्महेन्द्रतनयातनौ ॥१॥
इयाय पाण्डुतां छाया यशसेव हनूमतः । गतिर्मन्दतरत्वं च मत्तदिग्नागविभ्रमा ॥२॥
स्तनावत्युन्नतिं प्राप्तौ श्यामलीभूतचूचुकौ । आलस्याद् भ्रूसमुत्क्षेपं चकार विषये गिरः ॥३॥
ततस्तां लक्षणैरेभिः श्वश्रूर्विज्ञाय गर्भिणीम् । पप्रच्छ तव केनेदं कृतं कर्मेत्यसूयिका ॥४॥
साञ्जलिः सा प्रणम्योचे निखिलं पूर्वचेष्टितम् । प्रतिषिद्धापि कान्तेन गतिमन्यामविन्दती ॥५॥
ततः केतुमती क्रुद्धा जगादेति सुनिष्ठुरम् । वाणीभिर्ग्रावदेहाभिस्ताडयन्तीव यष्टिभिः ॥६॥
यो न त्वत्सदृशं पापे द्रष्टुमाकारमिच्छति । शब्दं वा श्रवणे कर्तुमतिद्वेषपरायणः ॥७॥
स कथं स्वजनापृच्छां कृत्वा गेहाद्विनिर्गतः । भवत्या संगमं धीरः कुर्वीत विगतत्रपे ॥८॥
धिक् त्वां पापां शशाङ्कांशुशुभ्रसंतानदूषिणीम् । आचरन्तीं क्रियामेतां लोकद्वितयनिन्दिताम् ॥९॥
सखी वसन्तमाला ते साध्वीमेतां मतिं ददौ । वेश्यायाः कुलटानां किं कुर्वन्ति परिचारिकाः ॥१०॥
दर्शितेऽपि तदा तस्मिन्कटके क्रूरमानसा । प्रतीयाय न सा श्वश्रूश्चुकोपात्यन्तमुग्रवाक् ॥११॥
इत्युक्त्वा क्रूरनामानं क्रूरमाहूय किंकरम् । कृतप्रणाममित्यूचे कोपारुणनिरीक्षणा ॥१२॥
अयि क्रूराशु नीत्वेमां महेन्द्रपुरगोचरम् । यानेन सहितां सख्या निक्षिप्यैहि निरन्तरम् ॥१३॥
ततस्तद्वचनादेतां पृथुवेपथुविग्रहाम् । महापवननिर्धूतां लतामिव निराश्रयाम् ॥१४॥
ध्यायन्तीमाकुलं भूरिदुःखमागामि निष्प्रभाम् । विलीनमिव बिभ्राणां हृदयं दुःखवह्निना ॥१५॥
भीत्या निरुत्तरीभूतां सखीनिहितलोचनाम् । निन्दन्तीमशुभं कर्म मनसा पुनरुद्गतम् ॥१६॥
अश्रुधारां विमुञ्चन्तीं शलाकां स्फटिकीमिव । स्तनमध्ये क्षणं न्यस्तपर्यन्तामनवस्थिताम् ॥१७॥
सख्या समं समारोप्य यानं तत्कर्मदक्षिणः । क्रूरः प्रववृते गन्तुं महेन्द्रनगरं प्रति ॥१८॥
दिनान्ते तत्पुरस्यान्तं संप्राप्योवाच सुन्दरीम् । एवं मधुरया वाचा क्रूरः कृतनमस्कृतिः ॥१९॥
स्वामिनीशासनाद्देवि कृतमेतन्मया तव । दुःखस्य कारणं कर्म ततो न क्रोद्धुमर्हसि ॥२०॥
एवमुक्त्वावतार्यैतां यानात्सख्या समन्विताम् । स्वामिन्यै द्रुतमागत्य कृतामाज्ञां न्यवेदयत् ॥२१॥
ततोऽञ्जनां समालोक्य दुःखभारादिवोत्तमाम् । मन्दीभूतप्रभाचक्रो रविरस्तमुपागमत् ॥२२॥
लोचनच्छाययेवास्या रोदनात्यन्तशोणया । रविं त्राणाय पश्यन्त्याः पश्चिमाशारुणाऽभवत् ॥२३॥
ततस्तद्दुःखतो मुक्तैर्वाष्पैरिव घनैरलम् । दिग्भिर्निरन्तरं चक्रे श्यामलं नभसस्तलम् ॥२४॥
तद्दुःखादिव संप्राप्ता दुःखं संघातकारिणः । कुलायेष्वाकुलाश्चक्रुर्वयः कोलाहलं परम् ॥२५॥
ततो दुःखमविज्ञाय सा क्षुदादिसमुद्भवम् । अभ्याख्यानमहादुःखसागरप्लवकारिणी ॥२६॥
भीतान्तर्वदनं साश्रु कुर्वती परिदेवनम् । सख्या विरचिते तस्थौ पल्लवैः संस्तरेऽञ्जना ॥२७॥
न तस्या नयने निद्रा तस्यां रात्रावढौकत । दाहादिव भयं प्राप्ता संततोष्णाश्रुसंभवात् ॥२८॥
पाणिसंवाहनात् सख्या विनिर्धूतपरिश्रमा । सान्त्व्यमाना निशां निन्ये कृच्छ्रेणासौ समंसमम् ॥२९॥
ततो दीर्घोष्णनिश्वासनितान्तम्लानपल्लवम् । प्रभाते शयनं त्यक्त्वा नानाशङ्कातिविक्लवा ॥३०॥
कृतानुगमना सख्या छाययेवानुकूलया । ऐत्पितुर्मन्दिरद्वारं सकृपं वीक्षिता जनैः ॥३१॥
ततस्तत्प्रविशन्ती सा निरुद्धा द्वाररक्षिणा । प्राप्ता रूपान्तरं दुःखादविज्ञाता व्यवस्थिता ॥३२॥
ततो निखिलमेतस्याः सख्या कृतनिवेदितम् । विज्ञाय स्थापयित्वाऽन्यं नरं द्वारे ससंभ्रमः ॥३३॥
गत्वा शिलाकवाटाख्यो द्वारपालः कृतानतिः । सुतागमं महीपाणिरुपांश्वीशं व्यजिज्ञपत् ॥३४॥
ततः प्रसन्नकीर्त्याख्यं महेन्द्रः पार्श्वगं सुतम् । आज्ञापयन् महाभूत्या तस्याः शीघ्रं प्रवेशनम् ॥३५॥
पुरस्य क्रियतां शोभा साधनं परिसज्ज्यताम् । स्वयं प्रवेशयामीति पुनरूचे नराधिपः ॥३६॥
जगादासौ ततस्तस्मै द्वारपालो यथास्थितम् । सुतायाश्चरितं कृत्वा वदने पाणिपल्लवम् ॥३७॥
ततः श्रुत्वा त्रपाहेतुं पिता तस्या विचेष्टितम् । प्रसन्नकीर्तिमित्यूचे परमं कोपमागतः ॥३८॥
निर्वास्यतां पुरादस्मादरं सा पापकारिणी । यस्या मे चरितं श्रुत्वा वज्रेणेवाहते श्रुती ॥३९॥
ततो नाम्ना महोत्साहः सामन्तोऽस्यातिवल्लभः । जगाद नाथ नो कर्तुमेवं कर्तुमिमां प्रति ॥४०॥
वसन्तमालया ख्यातं यथास्मै द्वाररक्षिणे । एवमेव न युक्ता तु विचिकित्सा विकारणा ॥४१॥
श्वश्रूः केतुमती क्रूरा लौकिकश्रुतिभाविता । अत्यन्तमविचारास्या विना दोषात्कृतोज्झिता ॥४२॥
क्रूरयेयं यथा त्यक्ता कल्याणाचारतत्परा । भवतापि विनिर्धूता शरणं कं प्रपद्यताम् ॥४३॥
व्याघ्रदृष्टमृगीवेयं मुग्धास्या त्रासमागता । श्वश्रूतस्त्वां महाकक्षसमं शरणमागता ॥४४॥
सेयं निदाघसूर्यांशुसंतापादिव दुःखिता । महातरूपमं बाला विंदित्वा त्वां समागता ॥४५॥
श्रीवत् स्वर्गात् परिभ्रष्टा वराकी विह्वलात्मिका । अभ्याख्यानातयालीढा कल्पवल्लीत्र कम्पिनी ॥४६॥
द्वारपालनिरोधेन सुतरामागता त्रपाम् । वैलक्ष्यादंशुकेनाङ्गमवगुण्ठ्य समूर्द्धकम् ॥४७॥
पितृस्नेहान्वितं द्वारे सदा दुर्लडितात्मिका । तिष्ठतीत्यमुनाख्यातं द्वारपालेन पार्थिव ॥४८॥
स त्वं कुरु दयामस्यां निर्दोषेयं प्रवेश्यताम् । ननु केतुमती ज्ञाता क्रूरा कस्य न विष्टपे ॥४९॥
तस्य तद्वचनं श्रोत्रे राज्ञश्चक्रे न संश्रयम् । नलिनीदलविन्यस्तं बिन्दुजालमिवाम्भसः ॥५०॥
जगाद च सखी स्नेहात् कदाचित् सत्यमप्यदः । अन्यथाकथयत्केन निश्चयोऽत्रावधार्यते ॥५१॥
तस्मात् संदिग्धशीलेयमाशु निर्वास्यतामतः । नगराद्यावदमले कुले नो जायते मलम् ॥५२॥
विशुद्धविनया चार्वी चारुचेष्टाविधायिनी । भवेदभ्यर्हितात्यन्तं कस्य नो कुलबालिका ॥५३॥
पुण्यवन्तो महासत्त्वा पुरुषास्तेऽतिनिर्मलाः । यैः कृतो दोषमूलानां दाराणां न परिग्रहः ॥५४॥
परिग्रहे तु दाराणां भवत्येवंविधं फलम् । यस्मिन् गते सति ख्यातिं भूप्रवेशोऽभिवाञ्छ्यते ॥५५॥
दुःखप्रत्यायनस्वान्तस्तावल्लोकोऽवतिष्ठताम् । जातमेव ममाप्यत्र मनोऽद्य कृतशङ्कनम् ॥५६॥
एषा भर्तुरचक्षुष्या श्रुता पूर्वं मयाऽसकृत् । ततस्तेन न संभूतिरस्या गर्भस्य निश्चिता ॥५७॥
तस्मादन्योऽपि यस्तस्मै प्रयच्छति समाश्रयम् । वियोज्यः स मया प्राणैरित्येष मम संगरः ॥५८॥
कुपितेनेति सा तेन द्वारादविदिता परैः । निर्वाटिता समं सख्या दुःखपूरितविग्रहा ॥५९॥
यद्यत्स्वजनगेहं सा जगामाश्रयकाङ्क्षया । तत्र तत्राप्यधीयन्त द्वाराणि नृपशासनात् ॥६०॥
यत्रैव जनकः क्रुद्धो विदधाति निराकृतिम् । तत्र शेषजने काऽऽस्था तच्छन्दकृतचेष्टिते ॥६१॥
एवं निर्घाट्यमाना सा सर्वत्रात्यन्तविक्लवा । सखीं जगाद बाष्पौघसमार्द्रीकृतदेहिका ॥६२॥
अम्बे इहात्र किं भ्रान्तिं कुर्वन्त्यावास्वहे सखि । पाषाणहृदयो लोको जातोऽयं नः कुकर्मभिः ॥६३॥
वनं तदेव गच्छावस्तत्रैवास्तु यथोचितम् । अपमानात्ततो दुःखान्मरणं परमं सुखम् ॥६४॥
इत्युक्त्वासौ समं सख्या तदेव प्राविशद्वनम् । मृगीव मोहसंप्राप्ता मृगराजविभीषिता ॥६५॥
वातातपपरिश्रान्ता दुःखसंभारपीडिता । उपविश्य वनस्यान्तं सा चक्रे परिदेवनम् ॥६६॥
हा हता मन्दभाग्यास्मि विधिना दुःखदायिना । अहेतुवैरिणा कष्टं कं परित्राणमाश्रये ॥६७॥
दौर्भाग्यसागरस्यान्ते प्रसादं कथमप्यगात् । नाथो मे स गतस्त्यक्त्वा दुष्कर्मपरिचोदितः ॥६८॥
श्वश्र्वादिकृतदुःखानां नारीणां पितुरालये । अवस्थानं ममापुण्यैरिदमप्यवसारितम् ॥६९॥
मात्रापि न कृतं किंचित्परित्राणं कथं मम । भर्तृच्छन्दानुवर्तिन्यो जायन्ते च कुलाङ्गनाः ॥७०॥
त्वय्यविज्ञातगर्भायामेष्यामीति त्वयोदितम् । हा नाथ वचनं कस्मात्स्मर्यते न कृपावता ॥७१॥
अपरीक्ष्य कथं श्वश्रु त्यक्तुं मामुचितं तव । ननु संदिग्धशीलानां सन्त्युपायाः परीक्षणे ॥७२॥
उत्सङ्गलालितां बाल्ये सदा दुर्लडितास्मिकाम् । निष्परीक्ष्य पितस्त्यक्तुं मां कथं तेऽभवन्मतिः ॥७३॥
हा मातः साधु वाक्यं ते न कथं निर्गतं मुखात् । सकृदप्युत्तमा प्रीतिरधुना सा किमुज्झिता ॥७४॥
एकोदरोषितां भ्रातस्त्रातुं ते मां सुदुःखिताम् । कथं न काचिदुद्भूता चेष्टा निष्ठुरचेतसः ॥७५॥
यत्र यूयमिदंचेष्टाः प्रधाना बन्धुसंहतेः । तत्र कुर्वन्तु किं शेषा वराका दूरबान्धवाः ॥७६॥
अथवा कोऽत्र वो दोषः पुण्यर्तौ मम निष्ठिते । फलितोऽपुण्यवृक्षोऽयं निषेव्योऽवशया मया ॥७७॥
प्रतिशब्दसमं तस्या विलापमकरोत् सखी । तदाक्रन्दविनिर्धूतधैर्यदूरितमानसा ॥७८॥
अत्यन्तदीनमेतस्यां रुदन्त्यां तारनिस्वनम् । मृगीभिरपि निर्मुक्ताः सुस्थूला वाष्पबिन्दवः ॥७९॥
ततश्चिरं रुदित्वैनामरुणीभूतलोचनाम् । सखी दोर्भ्यां समालिङ्ग्य जगादैवं विचक्षणा ॥८०॥
स्वामिन्यलं रुदित्वा ते नन्ववश्यं पुराकृतम् । नेत्रे निमील्य सोढव्यं कर्म पाकमुपागतम् ॥८१॥
सर्वेषामेव जन्तूनां पृष्ठतः पार्श्वतोऽग्रतः । कर्म तिष्ठति यद्देवि तत्र कोऽवसरः शुचः ॥८२॥
अप्सरःशतनेत्रालीनिलयीभूतविग्रहाः । प्राप्नुवन्ति परं दुःखं सुकृतान्ते सुरा अपि ॥८३॥
चिन्तयत्यन्यथा लोकः प्राप्नोति फलमन्यथा । लोकव्यापारसक्तात्मा परमो हि गुरुर्विधिः ॥८४॥
हितंकरमपि प्राप्तं विधिर्नाशयति क्षणात् । कदाचिदन्यदा धत्ते मानसस्याप्यगोचरम् ॥८५॥
गतयः कर्मणां कस्य विचित्रा परिनिश्चिताः । तस्मात्त्वमस्य मा कार्षीर्व्यथां गर्भस्य दुःखिता २ ॥८६॥
आक्रम्य दशनैर्दन्तान्कृत्वा ग्रावसमं मनः । कर्म स्वयं कृतं देवि सहस्वाशक्यवर्जनम् ॥८७॥
ननु स्वयं विबुद्धाया मया ते शिक्षणं कृतम् । अधिक्षेप इवाभाति वद ज्ञातं न किं तव ॥८८॥
अभिधायेति सा तस्या नयने शोणरोचिषी । न्यमार्ष्ट वेपथुयुतपाणिना सान्त्वतत्परा ॥८९॥
भूयश्चोचे प्रदेशोऽयं देवि संश्रयवर्जितः । तस्मादुत्तिष्ठ गच्छावः पार्श्वमस्य महीभृतः ॥९०॥
गुहायामत्र कस्यांचिदगम्यायां कुजन्तुभिः । सूतिकल्याणसंप्राप्त्यै समयं कंचिदास्वहे ॥९१॥
ततस्तयोपदिष्टा सा पदवीं पादचारिणी । गर्भभाराद् वियच्चारमसमर्था निषेवितुम् ॥९२॥
अनुयान्ती महारण्यधरणीं समयागिरिम् । व्यालजालसमाकीर्णां तन्नादात्यन्तभीषणाम् ॥९३॥
महानोकहसंरुद्धदिवाकरकरोत्कराम् । महीभृत्पादसंकीर्णां दर्भसूचीसुदुश्चराम् ॥९४॥
युक्तां मातङ्गमालाभिर्न्यस्यन्तीं कृच्छ्रतः पदम् । मातङ्गमालिनीं नाम प्राप मानसदुर्गमाम् ॥९५॥
शक्तापि गगने गन्तुं पद्भ्यां तस्याः सखी ययौ । प्रेमबन्धनसंबद्धा छायावृत्तिमुपाश्रिता ॥९६॥
भयानकां ततः प्राप्य तामसौ संकटाटवीम् । वेपमानसमस्ताङ्गा कांदिशीकत्वमागमत् ॥९७॥
ततस्तामाकुलां ज्ञात्वा गृहीत्वा करपल्लवे । आली जगाद मा भैषीः स्वामिन्येहीति सादरात् ॥९८॥
ततः सख्यंसविन्यस्तविस्रंसिकरपल्लवा । दर्भसूचीमुखस्पर्शकूणितेक्षणकोणिका ॥९९॥
तत्र तत्रैव भूदेशे न्यस्यन्ती चरणौ पुनः । स्तनन्ती दुःखसंभाराद्देहं कृच्छ्रेण बिभ्रती ॥१००॥
उत्तरन्ती प्रयासेन निर्झरान् वेगवाहिनः । स्मरन्ती स्वजनं सर्वं निष्ठुराचारकारिणम् ॥१०१॥
निन्दन्ती स्वमुपालम्भं प्रयच्छन्ती मुहुर्विधेः । कारुण्यादिव वल्लीभिः श्लिष्यमाणाखिलाङ्गिका ॥१०२॥
त्रस्तसारङ्गजायाक्षी श्रमजस्वेदवाहिनी । सक्तं कण्टकिगुच्छेषु मोचयन्त्यंशुकं चिरात् ॥१०३॥
क्षतजेनाचितौ पादौ लाक्षिताविव बिभ्रती । शोकाग्निदाहसंभूतां श्यामतां दधती पराम् ॥१०४॥
तलेऽपि चलिते त्रासं व्रजन्ती चलविग्रहा । संत्रासस्तम्भितावूरू वहन्ती खेददुर्वहौ ॥१०५॥
मुहुर्विश्रम्यमानाल्या नितान्तप्रियवाक्यया । गिरेः प्रापाञ्जना मूलं शनकैरिति दुःखिता ॥१०६॥
तत्र धारयितुं देहमसक्ता साश्रुलोचना । अपकर्ण्य सखीवाक्यं महाखेदादुपाविशत् ॥१०७॥
जगाद च न शक्नोमि प्रयातुं पदमप्यतः । तिष्ठाम्यत्रैव देशेऽहं प्राप्नोमि मरणं वरम् ॥१०८॥
सान्त्वयित्वा ततो वाक्यैः कुशला हृदयंगमैः । विश्रमय्य प्रणम्योचे सख्येवं प्रेमतत्परा ॥१०९॥
पश्य पश्य गुहामेतां देवि नेदीयसीं पराम् । कुरु प्रसादमुत्तिष्ठ स्थास्यावोऽत्र यथासुखम् ॥११०॥
प्रदेशे संचरन्तीह प्राणिनः क्रूरचेष्टिताः । ननु ते रक्षणीयोऽयं गर्भः स्वामिनि मा मुह ॥१११॥
इत्युक्ता सानुरोधेन सख्या वनभयेन च । गमनाय समुत्तस्थौ भूयोऽपि परितापिनी ॥११२॥
महानुभावतायोगादनुज्ञातेरभावतः । ह्रीतश्च नान्तिकं वायोरयासिष्टामिमे तदा ॥११३॥
हस्तावलम्बदानेन ततस्तां विषमां भुवम् । लङ्घयित्वा सखी कृच्छ्राद् गुहाद्वारमुपाहरत् ॥११४॥
प्रवेष्टुं सहसा भीते तत्र ते तस्थतुः क्षणम् । विषमग्रावसंक्रान्तिसंजातविपुलश्रमे ॥११५॥
विश्रान्ताभ्यां चिराद् दृष्टिस्तत्राभ्यां न्यासि मन्दगा । म्लानरक्तशितिश्वेतनीरजस्रक्समप्रभा ॥११६॥
अपश्यतां ततः शुद्धसमामलशिलातले । पर्यङ्कसुस्थितं साधुं चारणातिशयान्वितम् ॥११७॥
निभृतोच्छ्वासनिश्वासं नासिकाग्राहितेक्षणम् । ऋजुश्लथवपुर्यष्टिं स्थाणुवच्चलनोज्झितम् ॥११८॥
अङ्कस्थवामपाण्यङ्कन्यस्तान्योत्तानपाणिकम् । निष्प्रकम्पं नदीनाथगाम्भीर्यस्थितमानसम् ॥११९॥
ध्यायन्तं वस्तुयाथात्म्यं यथाशासनभावनम् । निःशेषसंगनिर्मुक्तं वायुवद्गगनामलम् ॥१२०॥
शैलकूटगताशङ्कं वीक्ष्य ताभ्यां चिरादसौ । निरचायि महासत्त्वः सौम्यभासुरविग्रहः ॥१२१॥
ततः पूर्वकृतानेकश्रवणासेवने मुदा । समीपं जग्मतुस्तस्या क्षणात्ते विस्मृतासुखे ॥१२२॥
त्रिःपरीत्य च भावेन नेमतुर्विहिताञ्जली । मुनिं परमिव प्राप्ते बान्धवं विकचेक्षणे ॥१२३॥
काले यदृच्छया तत्र तेन योगः समाप्यते । भवत्येव हि भव्यानां क्रिया प्रस्तावसंगता ॥१२४॥
ते ततोऽवदतामेवमविभक्तकरद्वये । अनगाराङ्घ्रिविन्यस्तनिरश्रुस्थिरलोचने ॥१२५॥
भगवन्नपि ते देहे कुशलं कुशलाशय । मूलमेष हि सर्वेषां साधनानां सुचेष्टित ॥१२६॥
उपर्युपरिसंवृद्धं तपः कँचिद् गुणाम्बुधे । विहारोऽपि दमोद्वाहव्युपसर्गो महाक्षमः ॥१२७॥
आचार इति पृच्छावो भवन्तमिदमीदृशम् । अन्यथा कस्य नो योग्याः कुशलस्य भवद्विधाः ॥१२८॥
भवन्ति क्षेमताभाजो भवद्विधसमाश्रिताः । स्वस्मिंस्तु कैव भावानां कथा साध्वितरात्मनाम् ॥१२९॥
इत्युक्त्वा ते व्यरंसिष्टां विनयानतविग्रहे । निःशेषभयनिर्मुक्ते तद् दृष्टे च बभूवतुः ॥१३०॥
अथ प्रशान्तया वाचा श्रमणोऽमृतकल्पया । गम्भीरया जगादैवं पाणिमुत्क्षिप्य दक्षिणम् ॥१३१॥
कल्याणि कुशलं सर्वं मम कर्मानुभावतः । ननु सर्वमिदं बाले नैजकर्मविचेष्टितम् ॥१३२॥
पश्यतां कर्मणां लीलां यदिहागोविवर्जिता । बन्धुनिर्वास्यतां याता महेन्द्रस्येयमात्मजा ॥१३३॥
ततोऽकथितविज्ञाततद्वृत्तान्तं महामुनिम् । कुतूहलसमाक्रान्तमानसा सुमहादरा ॥१३४॥
नत्वा वसन्तमालोचे स्वामिनीप्रियतत्परा । पादयोर्नेत्रकान्त्यास्य कुर्वतीवाभिषेचनम् ॥१३५॥
विज्ञापयामि नाथ त्वां कृपया वक्तुमर्हसि । परोपकारभूयस्यो ननु युष्मादृशां क्रियाः ॥१३६॥
हेतुना केन भर्तास्याश्चिरं कालं व्यरज्यत । अरज्यत पुनर्दुःखं प्राप्ता चैषा महावने ॥१३७॥
को वातिमन्दभाग्योऽयं जीवोऽस्याः कुक्षिमाश्रयत् । सुखोचितेयमानीता येन जीवितसंशयम् ॥१३८॥
ततः सोऽमितगत्याख्यो ज्ञानत्रयविशारदः । यथावृत्तं जगादास्या वृत्तिरेषा हि धीमताम् ॥१३९॥
वत्से शृणु यतः प्राप्ता भव्येयं दुःखमीदृशम् । पूर्वमाचरितात् पापात् संप्राप्तपरिपाकतः ॥१४०॥
इह जम्बूमति द्वीपे वास्ये भरतनामनि । नगरे मन्दरामिख्ये प्रियनन्दीति सद्गृही ॥१४१॥
जाया जायास्य तत्राभूद्दमयन्ताभिधः सुतः । महासौभाग्यसंपन्नः कल्याणगुणभूषणः ॥१४२॥
अथान्यदा मधौ क्रीडा परमा तत्पुरेऽभवत् । नन्दनप्रतिमोद्याने पौरलोकसमाकुले ॥१४३॥
चिक्रीड दमयन्तोऽपि तत्र मित्रैः समं सुखम् । पटवासवलक्षाङ्गः कुण्डलादिविभूषितः ॥१४४॥
अथ तेन स्थितेनारात्क्रीडता गगनाम्बराः । दृष्टास्तपोधना ध्यानस्वाध्यायादिक्रियोदिताः ॥१४५॥
निस्सृत्य मण्डलान्मित्राद् रश्मिवत् सोऽतिभासुरः । जगाम मुनिसंघातं मेरुशृङ्गौघसंनिभम् ॥१४६॥
ततः साधुं स वन्दित्वा श्रुत्वा धर्मं यथाविधि । सम्यग्दर्शनसंपन्नो बभूव नियमस्थितः ॥१४७॥
दत्वा सप्तगुणोपेतामन्यदा पारणामसौ । साधुभ्यः पञ्चतां प्राप्य कल्पवासमशिश्रियत् ॥१४८॥
नियमाद्दानतश्चात्र मोगमन्वभवत् परम् । देवीशतेक्षणच्छायानीलाब्जस्रग्विभूषितः ॥१४९॥
च्युतस्तस्मादिह द्वीपे मृगाङ्कनगरेऽभवत् । प्रियङ्गुलक्ष्मीसंभूतो हरिचन्द्रनृपात्मजः ॥१५०॥
सिंहचन्द्र इति ख्यातः कलागुणविशारदः । स्थितः प्रत्येकमेकोऽपि चेतःसु प्राणधारिणाम् ॥१५१॥
तत्रापि मुक्तसद्भोगः साधुभ्योऽवाप्य सन्मतिम् । कालधर्मेण संयुक्तो जगाम त्रिदशालयम् ॥१५२॥
तत्रोदारं सुखं प्राप संकल्पकृतकल्पनम् । देवीवदनराजीवमहाखण्डदिवाकरः ॥१५३॥
च्युत्वात्रैव ततो वास्ये विजयार्धमहीधरे । नगरेऽरुणसंज्ञाके सुकण्ठस्य नरप्रभोः ॥१५४॥
जायायां कनकोदर्यां सिंहवाहनशब्दितः । उदपादि गुणाकृष्टसमस्तजनमानसः ॥१५५॥
तत्र देव इवोदारसभोगमनुभूतवान् । अप्सरोविभ्रमस्तेने कान्तालिङ्गनलालितः ॥१५६॥
तीर्थे विमलनाथस्य सोऽन्यदा जातसंमतिः । निक्षिप्य तनये लक्ष्मीं घनवाहननामनि ॥१५७॥
पुरुसंवेगसंपन्नो विदितासारसंसृतिः । लक्ष्मीतिलकसंज्ञस्य मुनेरानर्च्छ शिष्यताम् ॥१५८॥
अनुपाल्य समीचीनं व्रतं जिनवरोदितम् । अनित्यत्वादिभिः कृत्वा चेतनां भावनामयीम् ॥१५९॥
तपः कापुरुषाचिन्त्यं तप्त्वा तन्वादरोज्झितम् । रत्नत्रितयतो जातां दधानः परमार्थताम् ॥१६०॥
नानालब्धिसमुत्पत्तेः शक्तोऽप्यहितवारणे । परीषहरिपून् घोरानधिसह्य सुमानसः ॥१६१॥
आयुर्विराममासाद्य ध्यानमास्थाय निर्मलम् । ज्योतिषां पटलं भित्त्वा लान्तवेऽभूत् सुरो महान् ॥१६२॥
इच्छानुरूपमासाद्य तत्र भोगं परस्थितिः । छद्मस्थजनधीवाचां स्थितं संचक्ष्य [संत्यज्य] गोचरम् ॥१६३॥
च्युत्वा पुण्यावशेषेण प्रेरितः परमोदयः । कुक्षिमस्या विवेशायं जीवः सौख्यस्य भाजनम् ॥१६४॥
एवं तावदयं गर्भः स्वामिन्यास्ते तनुं श्रितः । हेतुं विरहदुःखस्य शृणु कल्याणचेष्टिते ॥१६५॥
भवेऽस्याः कनकोदर्या लक्ष्मीर्नाम सपत्न्यभूत् । सम्यग्दर्शनपूतात्मा साधुपूजनतत्परा ॥१६६॥
प्रतिमा देवदेवानां प्रतीके सद्मनस्तया । स्थापयित्वार्चिता भक्त्या स्तुतिमङ्गलवक्त्रया ॥१६७॥
महादेव्यभिमानेन सपत्न्यै क्रुद्धया तया । चक्रे बाह्यावकाशेऽसौ जिनेन्द्रप्रतियातना ॥१६८॥
अत्रान्तरेऽविशद् गेहमस्या भिक्षार्थमार्यिका । संयमश्रीरिति ख्याता तपसा विष्टपेऽखिले ॥१६९॥
ततः परिभवं दृष्ट्वा साप्यर्हत्प्रतियातनम् । ययावतिपरं दुःखं पारणापेतमानसा ॥१७०॥
इमां च मोहिनीं दृष्ट्वा परं कारुण्यमागता । साधुवर्गो हि सर्वेभ्यः प्राणिभ्यः शुभमिच्छति ॥१७१॥
अपृष्टोऽपि जनः साधुर्गुरुभक्तिप्रचोदितः । अज्ञप्राणिहितार्थं च धर्मवाक्ये प्रवर्तते ॥१७२॥
अवोचत ततः सैवं शीलभूषणधारिणी । तदेमामितया वाचा माधुर्यमुपमोज्झितम् ॥१७३॥
भद्रे शृणु मनः कृत्वा परमं परमद्युते । नरेन्द्रकृतसंमाने भोगायतनविग्रहे ॥१७४॥
भवे चतुर्गतौ भ्राम्यन् जीवो दुःखैश्चितः सदा । सुमानुषत्वमायाति शमे कटुककर्मणः ॥१७५॥
मनुष्यजातिमापन्ना सा त्वं पुण्येन शोभने । माभूज्जुगुप्सिताचारा कर्तुं योग्यासि सत्क्रियाम् ॥१७६॥
लब्ध्वा मनुष्यतां कर्म यो नादत्ते जनः शुभम् । रत्नं करगतं तस्य भ्रंशमायाति मोहिनः ॥१७७॥
कायवाक्चेतसां वृत्तिः शुभा हितविधायिनी । सैवेतरेतराधानकारिणी प्राणधारिणाम् ॥१७८॥
स्वस्य ये हितमुद्दिश्य प्रवर्तन्ते सुकर्मणि । उत्तमास्ते जना लोके निन्दिताचारभूयसि ॥१७९॥
कृतार्था अपि ये सन्तो भवदुःखमहार्णवात् । तारयन्ति जनान् भव्यानुपदेशविधानतः ॥१८०॥
उत्तमोत्तमतां तेषां बिभ्रतां धर्मचक्रिणाम् । अर्हतां ये तिरस्कारं प्रतिबिम्बस्य कुर्वते ॥१८१॥
जन्तूनां मोहिनां तेषां यदनेकभवानुगम् । दुःखं संजायते कस्तद्वक्तुं शक्नोति कात्स्न्र्यतः ॥१८२॥
यद्यप्येषां प्रपन्नेषु प्रासादो नोपजायते । न चापकारनिष्ठेषु द्वेषो माध्यस्थ्यमीयुषाम् ॥१८३॥
स्वस्मात्तथापि जन्तूनां परिणामाच्छुभाशुभात् । तदुद्देशेन संजातात् सुखदुःखसमुद्भवः ॥१८४॥
यथाग्नेः सेवनाच्छीतदुःखं जन्तुरपोहते । क्षुत्तृष्णापरिपीडां च भक्तशीताम्बुसेवनात् ॥१८५॥
निसर्गोऽयं तथा येन जिनानामर्चनात्सुखम् । जायते प्राणिनां दुःखं परमं च तिरस्कृतेः ॥१८६॥
यन्नाम दृश्यते लोके दुःखं तत्पापसंभवम् । सुखं च चरितात्पूर्वंसुकृतादिति विद्यताम् ॥१८७॥
सा त्वं पुण्यैरिमां वृद्धिं भर्तारं पुरुषाधिपम् । पुत्रं चाद्भुतकर्माणं प्राप्ता श्लाघ्यासुधारिणाम् ॥१८८॥
तथा कुरु यथा भूयो लप्स्यसे सुखमात्मनः । मद्वाक्यादवटे भव्ये ! मा पप्तः सति भास्करे ॥१८९॥
अभविष्यत्तवावासो नरके घोरवेदने । अहं नाबोधयिष्यं चेत्प्रमादोऽयमहो महान् ॥१९०॥
इत्युक्ता सा परित्रस्ता दुःखतो नरकोद्भवात् । प्रत्ययादिति शुद्धात्मा सम्यग्दर्शनमुत्तमम् ॥१९१॥
अगृहीद् गृहिधर्मं च शक्तेश्च सदृशं तपः । जन्मान्यदिव मेने च सांप्रतं धर्मसंगमात् ॥१९२॥
प्रतिमां च प्रवेश्यैनां पूर्वदेशे व्यतिष्ठपत् । आनर्च च विचित्राभिः सुमनोभिः सुगन्धिभिः ॥१९३॥
कृतार्थं मन्यमाना स्वं तस्या धर्मनियोजनात् । जगाम स्वोचितं स्थानं संयमश्रीः प्रमोदिनी ॥१९४॥
कनकोदर्यपि श्रेयः समुपार्ज्य गृहे रता । कृत्वा कालं दिवं गत्वा भुक्त्वा भोगं महागुणम् ॥१९५॥
च्युत्वा महेन्द्रराजस्य महेन्द्रपुटभेदने । मनोवेगासमाख्यायामञ्जनेति सुताभवत् ॥१९६॥
सेयं पुण्यावशेषेण कृतेन जननान्तरे । जातेहाढ्यकुले शुद्धे प्राप्ता च वरमुत्तमम् ॥१९७॥
प्रतिमां च जिनेन्द्रस्य त्रिकालार्च्यस्य यद्बहिः । अकार्षीत्समयं कंचित्तेनातो दुःखमागतम् ॥१९८॥
विद्युत्प्रभगुणस्तोत्रं क्रियमाणं पुरस्तव । मिश्रकेश्याः स्वनिन्दां च समित्रः पवनंजयः ॥१९९॥
श्रुत्वा गवाक्षजालेन त्रियामायां तिरोहितः । द्वेषमस्यै परिप्राप्तो वैधुर्यमकरोत् पुरः ॥२००॥
युद्धाय प्रस्थितो दृष्ट्वा सोऽन्यदा चक्रवाकिकाम् । विरहाद्दीपितां रम्ये मानसे सरसि द्रुतम् ॥२०१॥
सख्येव कृपया नीतः समये तां मनोहराम् । गतश्च गर्भमादाय कर्तुं जनकशासनम् ॥२०२॥
इत्युक्त्वा पुनरूचेऽसावञ्जनां मुनिपुङ्गवः । महाकारुण्यसंपन्नः क्षरन्निव गिरामृतम् ॥२०३॥
सा त्वं कर्मानुभावेन बाले दुःखमिदं श्रिता । ततो भूयोऽपि मा कार्षीरीदृशं कर्म निन्दितम् ॥२०४॥
यानि यानि च सौख्यानि जायन्ते चात्र भूतले । तानि तानि हि सर्वाणि जिनभक्ते विशेषतः ॥२०५॥
भक्ता भव जिनेन्द्राणां संसारोत्तारकारिणाम् । गृहाण नियमं शक्त्या कुरु श्रमणपूजनम् ॥२०६॥
दिष्ट्या बोधिं प्रपन्नासि तदा दत्तां तदार्थया । उदहार्षीत् करालम्बात् सा त्वां यान्तीमधोगतिम् ॥२०७॥
अयं च ते महाभाग्यः कुक्षिं गर्भः समाश्रितः । पुरा निर्लोठते सम्यग्बहुकल्याणभाजनम् ॥२०८॥
परमां भूतिमेतस्मात् सुतात् प्राप्स्यसि शोभने । अखण्डनीयवीर्योऽयं गीर्वाणैः सकलैरपि ॥२०९॥
अल्पैरेव च तेऽहोभिः प्रियसंगो भविष्यति । ततो भव सुखस्वान्ता प्रमादरहिता शुभे ॥२१०॥
इत्युक्ताभ्यां ततस्ताभ्यां तुष्टाभ्यां मुनिसत्तमः । प्रणतो विकसन्नेत्रराजीवाभ्यां पुनः पुनः ॥२११॥
सोऽपि दत्त्वाशिषं ताभ्यां समुत्पत्य नभस्तलम् । संयमस्योचितं देशं जगामामलमानसः ॥२१२॥
पर्यङ्कासनयोगेन यस्मात्तस्यां स सन्मुनिः । तस्थौ जगाम पर्यङ्कगुहाख्यां सा ततो भुवि ॥२१३॥
इत्थं निजभवान् श्रुत्वाभवद् विस्मितमानसा । निन्दन्ती दुष्कृतं कर्म पूर्वं यदधमं कृतम् ॥२१४॥
महेन्द्रदुहिता तस्यां सूतिकालव्यपेक्षया । तस्थौ मगधराजेन्द्रपूतायां मुनिसंगमात् ॥२१५॥
वसन्तमालया तस्या विद्याबलसमृद्धया । पानाशनविधिश्चक्रे मनसा विषयीकृतः ॥२१६॥
अथ प्रियविमुक्तां तां कारुण्येनेव भूयसा । असमर्थो रविर्द्रष्टुमस्तमैच्छन्निषेवितुम् ॥२१७॥
तद्दुःखादिव मन्दत्वं भास्करस्य करा ययुः । चित्रकर्मार्पितादित्यकरोत्करकृतोपमाः ॥२१८॥
शोकादिव रवेर्बिम्बं सहसा पातमागतम् । गिरिवृक्षाग्रसंसक्तं करजालं समाहरन् ॥२१९॥
अथागन्तुकसिंहस्य दृष्ट्यैव क्रोधताम्रया । संध्यया पिहितं सर्वं क्षणेन नभसस्तलम् ॥२२०॥
ततो भाव्युपसर्गेण प्रेरितेव त्वरावती । उदियाय तमोलेखा वेतालीव रसातलात् ॥२२१॥
कृतकोलाहलाः पूर्वं दृष्ट्वा तामिव भीतितः । निःशब्दा गहने तस्थुर्वृक्षाग्रेषु पतत्रिणः ॥२२२॥
प्रावर्तन्त शिवारावा महानिर्घातभीषणाः । वादिता उपसर्गेण प्रकटाः पटहा इव ॥२२३॥
अथ धूतेभकीलालशोणकेसरसंचयः । मृत्युपत्राङ्गुलिच्छायां भृकुटिं कुटिलां दधत् ॥२२४॥
विमुञ्चन्विषमच्छेदान्नादान् सप्रतिशब्दकान् । वेगिनः सकलं व्योम कुर्वाण इव खण्डशः ॥२२५॥
प्रलयज्वलनज्वालाविलासाञ्चलयन्मुहुः । महास्यगह्वरे जिह्वां प्रह्वां भूरिजनक्षये ॥२२६॥
जीवाकर्षां कुशाकारां दंष्ट्रां तीक्ष्णाग्रसंकटाम् । कुटिलां धारयन् रौद्रां मृत्योरपि भयंकराम् ॥२२७॥
उद्यत्प्रलयतीव्रांशुमण्डलप्रतिमे वहन् । छुरयन्ती दिशां चक्रं नेत्रे वित्रासकारिणी ॥२२८॥
मस्तकन्यस्तपुच्छाग्रो नखकोटिक्षतक्षितिः । अष्टापदतटोरस्को जघनं घनमुद्वहन् ॥२२९॥
मृत्युर्दैत्यः कृतान्तो नु प्रेतेशो नु कलिः क्षयः । अन्तकस्यान्तको नु स्याद्भास्करो नु तनूनपात् ॥२३०॥
इति संजनिताशङ्कं जन्तुभिर्वीक्षितोऽखिलैः । आविर्बभूव तद्देशे केसरी विकटः क्षणात् ॥२३१॥
तस्य प्रतिनिनादेन पूरतोदारकन्दराः । भीता इवातिगम्भीरं रुरुदुर्धरणीधराः ॥२३२॥
मुद्गरेणेव घोरेण शब्देनास्य तरस्विना । श्रोत्रयोस्ताडिताश्चक्रुरिति चेष्टाः शरीरिणः ॥२३३॥
लोचने मुकुलीकुर्वन्नभिदुर्गे महीभृति । शार्दूलो दर्पनिर्मुक्तः संचुकोप सवेपथुः ॥२३४॥
शैरपुष्पसमाकारहृष्टरोमाञ्चसंभ्रमः । बभ्रूतरलगुञ्जाक्षो विवेश विवरं गिरेः ॥२३५॥
सारङ्गामुखविभ्रंसिदूर्वाकोमलपल्लवाः । यथापूर्वक्षयास्तस्थुर्भयस्तम्भितविग्रहाः ॥२३६॥
संभ्रान्तबभ्रुनेत्राणामुत्कर्णानां विचेतसाम् । दानौघा निश्चलाङ्गानां मातङ्गानां विचिच्छिदुः ॥२३७॥
मण्डलस्यान्तरे कृत्वा शावकान् भयवेपितान् । तस्थुः पश्वङ्गना सङ्घा यूथपन्यस्तलोचनाः ॥२३८॥
केसरिध्वनिवित्रस्ता कम्पमानशरीरिका । वपुराहारयोस्त्यागं चक्रे सालम्बमञ्जना ॥२३९॥
उत्पत्य त्वरिता व्योम्नि सख्यस्यास्तद्ग्रहाक्षमा । बभ्राम पक्षिणीवालं मण्डलेनाकुलात्मिका ॥२४०॥
भूयः समीपमाकाशमेति प्रेमगुणाहृता । पुनश्च तीव्रवित्रासात् प्रयाति नभसः शिरः ॥२४१॥
अथ ते सभये दृष्ट्वा विशीर्णहृदये शुभे । गन्धर्वस्तद्गुहावासी कारुण्याश्लेषमीयिवान् ॥२४२॥
तमूचे मणिचूलाख्यं रत्नचूला निजाङ्गना । कारुण्येनोरुणा साध्वी चोदिता द्रुतभाषिणी ॥२४३॥
पश्य पश्य प्रिय ! त्रस्तां तां मृगेन्द्रादिह स्त्रियम् । एतत्प्रति समादिष्टां द्वितीयां च नभोऽङ्गणे ॥२४४॥
कुरु नाथ प्रसादं मे रक्षैतामतिविह्वलाम् । अभिजातां वरां नारीं कुतोऽपि विषमश्रिताम् ॥२४५॥
एवमुक्तोऽथ गन्धर्वो विकृत्यं शरभाकृतिम् । त्रैलोक्यभीषणद्रव्यसंभारेणेव निर्मिताम् ॥२४६॥
हस्तत्रितयमात्रस्थामञ्जनामसमागतम् । सिंहं पुरोऽकरोद्देहच्छन्नसानुकदम्बकः ॥२४७॥
तयोस्तत्राभवद्भीमः संघट्टो रवसंकुलः । विद्युद्योतितप्रावृड्घनसङ्घं हसन्निव ॥२४८॥
एवंविधेऽपि संप्राप्ते काले वीरभयावहे । अञ्जनासुन्दरी चक्रे हृदये जिनपुङ्गवान् ॥२४९॥
इत्थं वसन्तमाला च मण्डलेन कृतभ्रमा । विललाप महादुःखा कुररीव नभस्तले ॥२५०॥
हा भर्तृदारिके पूर्वं दौर्भाग्यमसि संगता । तस्मिन्नपि गते कृच्छ्राद् वर्जिता सर्वबन्धुभिः ॥२५१॥
संप्राप्तासि वनं भीमं कथमप्यागतां गुहाम् । मुनिनाश्वासितासन्नप्रियावाप्तिनिवेदनात् ॥२५२॥
सा त्वं केसरिणो वक्त्रमधुना देवि यास्यसि । दंष्ट्राकरालमुद्वृत्तद्विरदक्षयकारणम् ॥२५३॥
हा देवि ते गतः कालो दुर्जनस्य विधेर्वशात् । उपर्युपरिदुःखेन मम दुर्मतिकारणात् ॥२५४॥
परित्रायस्व हा नाथ ! पवनञ्जय ! गेहिनीम् । हा महेन्द्र ! कथं नेमां तनयां परिरक्षसि ॥२५५॥
हा किं केतुमति क्रूरे मुधास्यां त्वयका कृतम् । हा करुणे मनोवेगे तनयां किं न रक्षसि ॥२५६॥
मरणं राजपुत्रीयं प्राप्नोति विजने वने । कुरुत त्राणमेतस्याः कृपया वनदेवताः ॥२५७॥
मुनेरपि तथा तस्य लोकतत्त्वावबोधिनः । शुभार्थसूचनं वाक्यं संभवेदन्यथा किमु ॥२५८॥
आक्रन्दमिति कुर्वाणा दोलारूढेव विह्वला । चक्रे वसन्तमालाशु स्वामिन्यन्तं गतागतम् ॥२५९॥
अथ भङ्गं गतः सिंहः शरभेण तलाहतः । अन्तर्दधे कृतार्थश्च शरभो निलये निजे ॥२६०॥
ततः स्वप्नोपमं दृष्ट्वा विरतं युद्धमेतयोः । द्रुतं वसन्तमालागात् स्वेदिगात्रा पुनर्गुहाम् ॥२६१॥
अन्तःपल्लवकान्ताभ्यां हस्ताभ्यां कृतमार्गणा । क्वासि क्वासीति भीशेषात्कृतगद्गदनिस्वना ॥२६२॥
ज्ञात्वा वसन्तमाला तां स्पर्शेनात्यन्तनिश्चलाम् । तां प्रतिप्राणनाशङ्कासमाकुलितमानसा ॥२६३॥
ध्रियसे देवि देवीति चालयन्ती पुनः पुनः । जगाद स्वामिनीवक्षोविन्यस्तकरपल्लवा ॥२६४॥
ततोऽसौ तत्करस्पर्शादागतस्पष्टचेतना । चिरात्सखीयमस्मीति जगादास्पष्टया गिरा ॥२६५॥
ततस्ते संगमात्प्राप्य कियतीमपि निर्वृतिम् । पुनर्जन्मेव मेनाते लब्धसंभाषणोद्यते ॥२६६॥
भयशेषेण चाभीलां मुग्धे तां जग्मतुर्निशाम् । समासमां कृताशेषबन्धुनैष्ठुर्यसंकथे ॥२६७॥
ततो विध्वस्य नागारिं नागारिरिव पन्नगम् । प्रमोदवानसौ मद्यं पीतवान् सुमहागुणम् ॥२६८॥
गन्धर्वकान्तयावाचि गन्धर्वो लब्धवर्णया । तदूरौ बाहुमाधाय तरत्तारकनेत्रया ॥२६९॥
स्थानकं यच्छ मे नाथ जिगासाम्यधुनोचितम् । उपदेशो हि गन्तव्यं कादम्बर्यामनुत्तमम् ॥२७०॥
शेषं साध्वसमेते च वनिते परिमुञ्चतः । श्रुत्वा नौ मधुरं गीतं दैवीयं हृदयंगमम् ॥२७१॥
अर्धरात्रे ततस्तस्मिन्नन्यशब्दविवर्जिते । संस्कृत्यावीवदद्वीणां गन्धर्वः श्रोत्रहारिणीम् ॥२७२॥
कांसिके वादयन्ती च प्रियवक्त्राहितेक्षणा । रत्नचूला जगौ मन्दं मुनिक्षोभणकारणम् ॥२७३॥
तयोर्घनं कृतं वाद्यं सुषिरं च कृतं ततम् । परिवर्गेण गम्भीरकरतलक्रमोचितम् ॥२७४॥
पाणिधैरेकतानेन मन्दध्वनिसमन्वितम् । तथा वैणविकैर्वाद्यं प्रवीणैर्भ्रूविलासिभिः ॥२७५॥
प्रवीणाभः प्रवालाभां वीणां चारूपमानिकाम् । कोणेनाताडयद्यक्षो गन्धर्वः काकलीबुधः ॥२७६॥
मध्यमर्षभगान्धारषड्जपञ्चमधैवतान् । निषादसप्तमांश्चक्रे स स्वरान्क्रममत्यजन् ॥२७७॥
भेजे वृत्तीर्यथास्थानं द्रुतमध्यविलम्बिताः । एकविंशतिसंख्याश्च मूर्च्छना नर्तितेक्षणाः ॥२७८॥
हाहाहूहूसमानं स गानं चक्रेऽथवाधिकम् । प्रायो गन्धर्वदेवानां प्रसिद्धिमिदमागतम् ॥२७९॥
स्वनान्येकोनपञ्चाशत्संजगौ परिनिष्ठितम् । जिनेन्द्रगुणसंबद्धैर्वचनैर्ललिताक्षरैः ॥२८०॥
देवादेवैर्भक्तिप्रह्वैः पुष्पैरर्घैर्नानागन्धैः । अर्चामुच्चैर्नीतं वन्द्यं देवं भक्त्या त्वामर्हन्तम् ॥२८१॥
त्रिभुवनकुशलमतिशय-पूतं [ नित्यं ] नमामि भक्त्या परया । मुनिसुव्रतचरणयुगं सुरपतिमुकुटप्रवृत्तनखमणिकिरणम् ॥२८२॥
ततो वसन्तमाला तद्गेयमत्यन्तशोभनम् । प्रशशंसाश्रुतपूर्वं विस्मयव्याप्तमानसा ॥२८३॥
अहो गीतमहो गीतं केनाप्येतन्मनोहरम् । आर्द्रीकृतमिवानेन हृदयं मे सुधामुचा ॥२८४॥
स्वामिनीं च जगादैवं देवि कोऽप्यनुकम्पकः । देवोऽयं येन नौ रक्षा कृता केसरिनोदनात् ॥२८५॥
मन्येऽस्मद्वृत्तयेऽनेन गीतमेतच्छ्रुतिप्रियम् । श्रुताबलाकलध्वानमन्तरे सकलाङ्गकम् ॥२८६॥
देवि शीलवती कस्य नानुकम्प्यासि शोभने । महारण्येऽपि भव्यानां भवन्ति सुहृदो जनाः ॥२८७॥
उपसर्गस्य विध्वंसादेतस्मात्ते सुनिश्चितः । भविता प्रियसंपर्कः किं वा वक्ष्यन्यथा मुनिः ॥२८८॥
तस्मात्साधुमिमं देवं समाश्रित्य कृतोचितम् । मुनिपर्यङ्कपूतायां गुहायामत्र संश्रयात् ॥२८९॥
मुनिसुव्रतनाथस्य विन्यस्य प्रतियातनाम् । अर्चयन्त्यौ सुखप्राप्त्यै स्वामोदैः कुसुमैरलम् ॥२९०॥
सुखप्रसूतिमेतस्य गर्भस्याध्यायचेतसि । विस्मृत्य वैरहं दुःखं समयं किंचिदास्वहे ॥२९१॥
त्वत्संगमं समासाद्य प्रमोदं परमागतः । नैर्झरैः शीकरैरेष हसतीव महीधरः ॥२९२॥
फलभारविनम्राग्रा लसत्कोमलपल्लवाः । पुष्पहासकृतो वृक्षा इमे तोषमुपागताः ॥२९३॥
मयूरसारिकाकीरकोकिलादिकलस्वनैः । कृतजल्पा इवैतस्य वनाभोगा महीभृतः ॥२९४॥
नानाधातुकृतच्छायास्तरुसंघातवाससः । अस्मिन् गुहा विराजन्ते कुसुमामोदवासिताः ॥२९५॥
जिनपूजनयोग्यानि पङ्कजानि सरस्सु हि । विद्यन्ते तव वक्त्रस्य धारयन्ति समानताम् ॥२९६॥
विधत्स्व धृतिमत्रेशे माभूश्चिन्तावशात्मिका । कल्याणमत्र ते सर्वं जनयिष्यन्ति देवताः ॥२९७॥
अधुना दिनवक्त्रे ते विज्ञायेवानघं वपुः । कोलाहलकृतो जाताः प्रमोदेन पतत्त्रिणः ॥२९८॥
पलाशाग्रस्थितानेते वृक्षा मन्दानिलेरितान् । मुञ्चन्त्यानन्दवाष्पाभानवश्यायकणान् जडान् ॥२९९॥
संप्रेष्य प्रथमं संध्यां दूतीमिव सरागिकाम् । उदन्तं ते परिज्ञातुमेष भानुः समुद्गतः ॥३००॥
एवमुक्ताञ्जनावोचत्सखि मे सर्वबान्धवाः । त्वमेव त्वयि सत्यां च ममेदं विपिनं पुरम् ॥३०१॥
आपन्मध्योत्सवावस्थाः सेवते यस्य यो जनः । स तस्य बान्धवो बन्धुरपि शत्रुरसौख्यदः ॥३०२॥
इत्युक्त्वा देवदेवस्य विन्यस्य प्रतियातनाम् । पूजयन्त्यौ स्थिते तत्र ते विद्याकृतवर्तने ॥३०३॥
गन्धर्वोऽप्यनयोश्चक्रे सर्वतः परिरक्षणम् । आतोद्यं प्रत्यहं कुर्वन् कारुण्याज्जिनभक्तितः ॥३०४॥
अथान्यदाञ्जनावोचत् कुक्षिर्मे चलितः सखि । आकुलेव च जातास्मि किमिदं नु भविष्यति ॥३०५॥
ततो वसन्तमालोचे समयः शोभने तव । अवश्यं प्रसवस्यैष प्राप्तो भव सुखस्थिता ॥३०६॥
ततो विरचिते तल्पे तया कोमलपल्लवैः । असूत सा सुतं चार्वी प्राचीवाशा विरोचनम् ॥३०७॥
जातेन सा गुहा तेन तेजसा गात्रजन्मना । हिरण्मयीव संजाता निर्धूतध्वान्तसंचया ॥३०८॥
ततस्तमङ्कमारोप्य प्रमोदस्यापि गोचरे । स्मृतोभयकुला दैन्यं प्राप्ता प्ररुदितामवत् ॥३०९॥
विललाप महावत्स ! कथं ते जननोत्सवः । क्रियतां मयकैतस्मिञ्जनस्य गहने वने ॥३१०॥
स्थानेऽजनिष्यथाश्चेत्त्वं पितुर्मातामहस्य वा । अभविष्यन्महानन्दो जननोन्मत्तकारकः ॥३११॥
मुखचन्द्रमिमं दृष्ट्वा तव चारुविलोचनम् । न भवेद्विस्मयं कस्य भुवने शुभचेतसः ॥३१२॥
करोमि मन्दभाग्या किं सर्ववस्तुविवर्जिता । विधिनाहं दशामेतां प्रापिता दुःखदायिनीम् ॥३१३॥
जन्तुना सर्ववस्तुभ्यो वाञ्छयते दीर्घजीविता । यस्मात्त्वं जीवितात्तस्मान्मम वत्स परां स्थितिम् ॥३१४॥
ईदृशे पतितारण्ये सद्यः प्राणापनोदिनि । यज्जीवामि तवैवायमनुभावः सुकर्मणः ॥३१५॥
मुञ्चन्तीमिति तां वाचं जगादैवं हिता सखी । देवि कल्याणपूर्णा त्वं या प्राप्तासीदृशं सुतम् ॥३१६॥
चारुलक्षणपूर्णोऽयं दृश्यतेऽस्य शुभा तनुः । अत्यन्तमहतीमृद्धिं वहत्येषा मनोहरा ॥३१७॥
षट्पदैः कृतसंगीताश्चलत्कोमलपल्लवाः । तव पुत्रोत्सवादेता नृत्यन्तीव लताङ्गनाः ॥३१८॥
तवास्य चानुभावेन बालस्याबालतेजसः । भविष्यत्यखिलं भद्रं मोन्मनीभूरनर्थकम् ॥३१९॥
एवं तयोः समालापे वर्तमाने नभस्तले । क्षणेनाविरभूत्तुङ्गं विमानं भास्करप्रभम् ॥३२०॥
ततो वसन्तमाला तं दृष्ट्वा देव्यै न्यवेदयद् । विप्रलापं ततो भूयः सैवमाशङ्कयाकरोत् ॥३२१॥
कोऽप्यकारणवैरी मे किमेषोऽपनयेत् सुतम् । उताहो बान्धवः कश्चिद्भवेदेष समागतः ॥३२२॥
विप्रलापं ततः श्रुत्वा तद्विमानं चिरं स्थितम् । अवातरत्कृपायुक्तो विद्याभृद्वियदङ्गणात् ॥३२३॥
स्थापयित्वा गुहाद्वारि विमानं स ततोऽविशत् । पत्नीभिः सहितः शङ्कां वहमानो महानयम् ॥३२४॥
वसन्तमालया दत्ते स्वागतेऽसौ सुमानसः । उपाविशत्स्वभृत्येन प्रापिते च समासने ॥३२५॥
ततः क्षणमिव स्थित्वा स भारत्या गभीरया । सारङ्गानुत्सुकीकुर्वन् घनगर्जितशङ्किनः ॥३२६॥
ऊचे तां विनयं बिभ्रत्परं स्वागतदायिनीम् । दशनज्योत्स्नया कुर्वन् बालभासं विमिश्रिताम् ॥३२७॥
सुमर्यादे वदेयं का दुहिता कस्य वा शुभा । पत्नी वा कस्य कस्माद्वा महारण्यमिदं श्रिता ॥३२८॥
घटते नाकृतेरस्याः समाचारो विनिन्दितः । ततः कथमिमं प्राप्ता विरहं सर्वबन्धुभिः ॥३२९॥
भवन्त्येवाथवा लोके प्रायोऽकारणवैरिणः । माध्यस्थ्येऽपि निषण्णानां प्रेरिताः पूर्वकर्मभिः ॥३३०॥
ततो दुःखभरोद्वेलवाष्पसंरुद्धकण्ठिका । कृच्छ्रेणोवाच सा मन्दं भूतलन्यस्तवीक्षणा ॥३३१॥
महानुभाव वाचैव ते विशिष्टं मनः शुभम् । रोगमूलस्य हिच्छाया न स्निग्धा जायते तरोः ॥३३२॥
भावप्रवेदनस्थानं गुणिनस्त्वादृशा यतः । निवेदयामि ते तेन शृणु जिज्ञासितं पदम् ॥३३३॥
दुःखं हि नाशमायाति सज्जनाय निवेदितम् । महतां ननु शैलीयं यदापद्गततारणम् ॥३३४॥
शृण्वेषा विष्टपव्यापियशसो विमलात्मनः । सुता महेन्द्रराजस्य नामतः प्रथिताञ्जना ॥३३५॥
प्रह्लादराजपुत्रस्य गुणाकूपारचेतसः । पत्नी पवनवेगस्य प्राणेभ्योऽपि गरीयसी ॥३३६॥
सोऽन्यदा स्वैरविज्ञातः कृत्वास्यां गर्भसंभवम् । शासनाज्जनकस्यागाद्रावणस्य सुहृद्युधे ॥३३७॥
दुःस्वभावतया श्वश्र्वा ततः कारुण्यमुक्तया । मूढया जानकं गेहं प्रेषितेयं मलोज्झिता ॥३३८॥
ततो नादात्पिताप्यस्याः स्थानं भीतेरकीर्तितः । अलीकादपि हि प्रायो दोषाद्बिभ्यति सज्जनाः ॥३३९॥
सेयमालम्बनैर्मुक्ता सकलैः कुलबालिका । मृगीसामान्यमध्यस्थान्महारण्यं समं मया ॥३४०॥
एतत्कुलक्रमायाता भृत्यास्म्यस्याः सुचेतसः । विश्रम्भपदतां नीता प्रसादपरयानया ॥३४१॥
सेयमद्य प्रसूता नु वने नानोपसर्गके । न जानामि कथं साध्वी भविष्यति सुखाश्रया ॥३४२॥
निवेदितमिदं साधोर्वृत्तमस्याः पुलाकतः । सकलं तु न शक्नोमि कर्तुं दुःखनिवेदनम् ॥३४३॥
अथैतदीयसंतापविलीनस्नेहपूरितात् । अमान्तीव निरैद्स्य हृदयात्साधु भारती ॥३४४॥
स्वस्त्रीया मम साध्वि त्वं चिरकालवियोगतः । प्रायेण नाभिजानामि रूपान्तरपरिग्रहात् ॥३४५॥
पिता विचित्रभानुर्मे माता सुन्दरमालिनी । नामतः प्रतिसूर्योऽहं द्वीपे हनूरुहाभिधे ॥३४६॥
इत्युक्त्वा वस्तु यद्वृत्तं कौमारे सकलं स तत् । अञ्जनायै पतद्बाष्पनयनस्तमवादयत् ॥३४७॥
निर्ज्ञातमातुलाथासौ पूर्ववृत्तनिवेदनात् । तस्य कण्ठं समासज्य रुरोद चिरमध्वनि ॥३४८॥
तस्यास्तत्सकलं दुःखं वाष्पेण सह निर्गतम् । स्वजनस्य हि संप्राप्तावेषैव जगतः स्थितिः ॥३४९॥
तयोः स्नेहभरेणैवं कुर्वतोरथ रोदनम् । वसन्तमालयाप्युच्चैरुदितं पार्श्वयातया ॥३५०॥
रुदत्सु तेषु कारुण्यादरुदंस्तद्योषितः । कृतरोदास्वथैतासु रुरुदू रुरुयोषितः ॥३५१॥
गुहावदनमुक्तेन प्रतिनादेन भूयसा । पर्वतोऽपि रुरोदैवं संततैर्निर्झराश्रुभिः ॥३५२॥
ततः शब्दमयं सर्वं तद्बभूव तदा वनम् । शकुन्तैरपि कारुण्यादाकुलैः कृतनिस्वनम् ॥३५३॥
सान्त्वयित्वा ततस्तस्या दत्तेनोदकवाहिना । वारिणाक्षालयद्वक्त्रं स्वस्य च प्रतिमास्करः ॥३५४॥
पारम्पर्येण तेनैव ततस्तत्पुनरप्यभूत् । वनं मुक्तमहाशब्दं श्रोतुं वार्तामिवानयोः ॥३५५॥
ततः क्षणमिव स्थित्वा निष्क्रान्तौ दुःखगह्वरात् । अपृच्छतां मिथो वार्तां कुलेऽकथयतां च तौ ॥३५६॥
संभाषणं ततश्चक्रे तत्स्त्रीणामञ्जना क्रमात् । स्खलन्ति न विधातव्ये वनेऽपि गुणिनो जनाः ॥३५७॥
जगाद मातुलं चैवं पूज्य जातस्य मेऽखिलम् । निवेदय यथावस्थं दिनद्योतिःकदम्बकम् ॥३५८॥
इत्युक्ते पार्श्वगं नाम्ना द्योतिर्गर्भविशारदम् । सांवत्सरमपृच्छत्स जातकर्म यथास्थितम् ॥३५९॥
ततः सांवत्सरोऽवोचत्कल्याणस्य निवेदय । जन्मसंबन्धिनी वेलामित्युक्ते चाख्यदञ्जना ॥३६०॥
अर्धयामावशेषायां रजन्यामद्य बालकः । प्रजात इति सख्या च कथितं निष्प्रमादया ॥३६१॥
मौहूर्तेन ततोऽवाचि यथास्य वपुराचितम् । सुलक्षणैस्तथा मन्ये दारकं सिद्धिभाजनम् ॥३६२॥
तथापि यद्यसंतोषः क्रियेयं लौकिकीति वा । ततः शृणु पुलाकेन कथयाम्यस्य जीवनम् ॥३६३॥
वर्तते तिथिरद्येयं चैत्रस्य बहुलाष्टमी । नक्षत्रं श्रवणः स्वामी वासरस्य विभावसुः ॥३६४॥
आदित्यो वर्तते मेषे भवनं तुङ्गमाश्रितः । चन्दमा मकरे मध्ये भवने समवस्थितः ॥३६५॥
लोहिताङ्गो वृषमध्ये मध्ये मीने विधोः सुतः । कुलीरे धिषणोऽप्युच्चैरध्यास्य भवनं स्थितः ॥३६६॥
मीने दैत्यगुरुस्तुङ्गस्तस्मिन्नेव शनैश्चरः । मीनस्यैवोदयोऽप्यासीत्तदा नृपतिपुङ्गवे ॥३६७॥
शनैश्चरं समग्राक्षस्तिग्मभानुर्निरीक्षते । अर्धदृष्ट्या महीपुत्रो दिवसस्य पतिं तथा ॥३६८॥
गुरुः पादोनया दृष्ट्या पतिमह्नोऽवलोकते । अर्धदृष्ट्या गिरामीशं वासरस्येक्षते विभुः ॥३६९॥
चन्द्रं समस्तया दृष्ट्या वचसां पतिरीक्षते । असावप्येवमेवास्य विदधात्यवलोकनम् ॥३७०॥
गुरुः शनैश्चरं पादन्यूनया वीक्षते दृशा । अर्धावलोकनेनासौ भजते बृहतां पतिम् ॥३७१॥
गुरुर्दैत्यगुरुं दृष्ट्वा वीक्षते पादहीनया । दृष्टिं तथाविधामेव पातयत्येष तत्र च ॥३७२॥
ग्रहाणां परिशिष्टानां नास्त्यपेक्षा परस्परम् । उदयक्षेत्रकालानां बलं चास्ति परं तदा ॥३७३॥
राज्यं निवेदयत्यस्य रविर्भौमो गुरुस्तथा । शनैश्चरः सुयोगित्वं निवेदयति सिद्धिदम् ॥३७४॥
एकोऽपि भारतीनाथे स्तुङ्गस्थानस्थितो भवन् । सर्वकल्याणसंप्राप्तौ कारणत्वं प्रपद्यते ॥३७५॥
ब्राह्मो नाम तदा योगो मुहूर्तश्च शुभश्रुतिः । एतौ कथयतो ब्राह्मस्थानसौख्यसमागमम् ॥३७६॥
एवमेतस्य जातस्य ज्योतिश्चक्रमिदं स्थितम् । सूचयत्यखिलं वस्तु सर्वदोषविवर्जितम् ॥३७७॥
रैशतानां सहस्रेण कालज्ञं पूजितं ततः । प्रतिसूर्यो विधायोचे भागिनेयीं ससंमदः ॥३७८॥
एहीदानीं पुरं यामो वत्से हनूरुहं मम । जातकर्मास्य बालस्य तत्र सर्वं भविष्यति ॥३७९॥
एवमुक्ता विधायाङ्के पृथुकं जिनवन्दनाम् । कृत्वा स्थानपतिं देवं क्षमयित्वा पुनः पुनः ॥३८०॥
निष्क्रान्ता सा गुहावासात् स्वजनौघसमन्विता । वनश्रीरिव जाता च विमानस्यान्तिकं स्थिता ॥३८१॥
ततस्तत्किङ्किणीजालैः प्रक्वणत्पवनेरितैः । सनिर्झरमिवोदारैर्मुक्ताहारैः सुनिर्मलैः ॥३८२॥
ललल्लम्बूषकं काचकदलीवनराजितम् । दिवाकरकरस्पर्शस्फुरत्कनकबुद्बुदम् ॥३८३॥
नानारत्नकरासङ्गजातानेकसुरायुधम् । वैजयन्तीशतैर्नानावर्णैः कल्पतरूपमम् ॥३८४॥
चित्ररत्नविनिर्माणं नानारत्नसमाचितम् । दिव्यं परिवृतं स्वर्गलोकेनेव समन्ततः ॥३८५॥
दृष्ट्वासौ पृथुको मातुरङ्कात् कौतुकसस्मितः । उत्पत्य प्रविविक्षुः सन्नपप्तद्गिरिगह्वरे ॥३८६॥
हाहाकारं ततः कृत्वा लोकस्तस्य समातृकः । स गतोऽनुपदं ज्ञातुमुदन्तमिति विह्वलः ॥३८७॥
चकार विप्रलापं च सुदीनमिममञ्जना । तिरश्चामपि कुर्वाणा करुणाकोमलं मनः ॥३८८॥
हा पुत्र किमिदं वृत्तं दैवेन किमनुष्ठितम् । प्रदर्श्य रत्नसंपूर्णं निधानं हरता पुनः ॥३८९॥
पत्यसङ्गमदुःखेन ग्रस्ताया मे भवानभूत् । जीवितालम्बनं छिन्नं कथं तदपि कर्मणा ॥३९०॥
ततः सहस्रशः खण्डैर्नीतायां सुमहास्वनम् । शिलायां पातवेगेन ददृशैवं सुखस्थितम् ॥३९१॥
अन्तरास्यकृताङ्गुष्ठं क्रीडन्तं स्मितशोभितम् । उत्तानं प्रचलत्पाणिचरणं शुभविग्रहम् ॥३९२॥
मन्दमारुतसंपृक्तरक्तोत्पलवनप्रभम् । कुर्वाणं सकलं पिङ्गं तेजसा गिरिगह्वरम् ॥३९३॥
ततोऽनघशरीरं तं जननी पृथुविस्मया । गृहीत्वा शिरसि घ्रात्वा चक्रे वक्षःस्थलस्थितम् ॥३९४॥
प्रतिसूर्यस्ततोऽवोचदहो चित्रमिदं परम् । वज्रेणेव यदेतेन शिलाजातं विचूर्णितम् ॥३९५॥
अर्भकस्य सतोऽप्येषा शक्तिः सुरवरातिगा । यौवनस्थस्य किं वाच्यं चरमेयं ध्रुवं तनुः ॥३९६॥
इति ज्ञात्वा परीत्य त्रिः शिरःपाणिसरोरुहः । सहाङ्गनासमूहेन चकारास्या नमस्कृतिम् ॥३९७॥
असौ तस्य वरस्त्रीभिर्नेत्रभामिः कृतस्मितम् । सितासितारुणाम्भोजमालाभिरिव पूजितम् ॥३९८॥
सपुत्रां यानमारोप्य भागिनेयीं ततोऽगमत् । प्रतिसूर्यो निजं स्थानं ध्वजतोरणभूषितम् ॥३९९॥
ततः प्रत्युद्गतः पौरैर्नानामङ्गलधारिभिः । स विवेश पुरं तूर्यनादव्याप्तनमस्तलम् ॥४००॥
तत्र जन्मोत्सवस्तस्य महान् विद्याधरैः कृतः । आखण्डलसमुत्पत्तौ गीर्वाणैस्त्रिदशैर्यथा ॥४०१॥
जन्म लेभे यतः शैले शैलं चाचूर्णयत्ततः । श्रीशैल इति नामास्य चक्रे मात्रा ससूर्यया ॥४०२॥
पुरे हनूरुहे यस्माज्जातः संस्कारमाप्तवान् । हनूमानिति तेनागात्प्रसिद्धिं स महीतले ॥४०३॥
सर्वलोकमनोनेत्रमहोत्सववपुःक्रियः । तस्मिन् सुरकुमाराभः पुरे रेमे सुकान्तिमान् ॥४०४॥
संभवतीह भूधररिपुः पविरपि कुसुमं वह्निरपीन्दुवादशिशिरं पृथु कमलवनम् । खड्गलतापि चारुवनितासुमृदुभुजलता प्राणिषु पूर्वजन्मजनितात्सुचरितबलतः ॥४०५॥
इत्यवगम्य दुःखकुशलाद्विरमत दुरितात् सजत सारशर्मचतुरे जिनवरचरिते ।
एष तपत्यहो परिदृढं जगदनवरतं व्याधिसहस्ररश्मिनिकरो ननु जननरविः ॥४०६॥
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते हनूमत्संभवाभिधानं नाम सप्तदशं पर्व ॥१७॥
१८. अष्टादशं पर्व (पवनाञ्जनासमागमाभिधानं)
इदं ते कथितं जन्म श्रीशैलस्य महात्मनः । शृणु संप्रति वृत्तान्तं वायोर्मगधमण्डन ॥१॥
वायुना वायुनेवाशु गत्वाभ्याशं खगेशिनः । लब्धादेशेन संयुध्य नानाशस्त्राकुले रणे ॥२॥
कृतयुद्धश्चिरं खिन्नो जलकान्तोऽपवर्तितः । जातस्तस्य निमानोऽसौ पुष्कलः खरदूषणः ॥३॥
मूयश्च जलकान्तेन निनाय खरदूषणः । कृत्वा सन्धिमहं प्राप्य परमं राक्षसाधिपात् ॥४॥
अनुज्ञातोऽवहत् कान्तां हृदयेन त्वरान्वितः । जगामाभिजनं स्थानं महासामन्तमध्यगः ॥५॥
प्रविष्टश्च पुरं पौरैरमियातः सुमङ्गलैः । ध्वजतोरणमालाभिर्मासुराभिर्विभूषितम् ॥६॥
जगाम च निजं वेश्म दृष्टो वातायनस्थितैः । मुक्तप्रस्तुतकर्तव्यैः पौरनारीकदम्बकैः ॥७॥
विवेश च कृतार्घादिसंमानो मानिनां वरः । वाग्भिर्मङ्गलसाराभिः स्वजनैरभिनन्दितः ॥८॥
विधाय प्रणतिं तत्र गुरूणामितरैर्जनैः । नमस्कृतः क्षणं तस्थौ वार्ताभिर्वरमण्डपे ॥९॥
ततः प्रासादमारुक्षदञ्जनायाः समुन्मनाः । युक्तः प्रहसितेनैव पूर्वभावनयान्वितः ॥१०॥
रिक्तकं तस्य तं दृष्ट्वा प्रासादं प्राणतुल्यया । चेतनामुक्तदेहामं पपातेव मनः क्षणात् ॥११॥
ऊचे प्रहसितं चैव वयस्य किमिदं भवेत् । अञ्जनासुन्दरी नात्र दृश्यते पुष्करेक्षणा ॥१२॥
गृहमेतत्तया शून्यं वनं मे प्रतिभासते । आकाशमेव वा क्षिप्रं तस्या वार्ताधिगम्यताम् ॥१३॥
आप्तवर्गात् परिज्ञाय वार्तां प्रहसितोऽवदत् । यथावत् सकलां तस्मै हृदये क्षोदकारिणीम् ॥१४॥
वञ्चित्वा स्वजनं सोऽथ समं मित्रेण तत्क्षणम् । महेन्द्रनगरं तेन प्रवृत्तो गन्तुमुन्मनाः ॥१५॥
तस्यासन्नभुवं प्राप्य मित्रमेवमभाषत । मन्यमानोऽङ्कसंप्राप्तां दयितां प्रमदान्वितः ॥१६॥
पश्य पश्य पुरस्यास्य वयस्य रमणीयताम् । अञ्जनासुन्दरी यत्र वर्तते चारुविभ्रमा ॥१७॥
कैलासकूटसंकाशा यत्र प्रासादपङ्क्तयः । उद्यानपादपैर्गुप्ताः प्रावृषेण्यघनप्रभैः ॥१८॥
ब्रुवन्नेवं स संप्राप्तः पुरं पुरुषसत्तमः । सुहृदाद्वैतचित्तेन विहितप्रतिभाषणः ॥१९॥
ततो जनौघतः श्रुत्वा संप्राप्तं पवनजयम् । । अर्घादिनोपचारेण श्वसुरोऽस्य समागमत् ॥२०॥
पुरस्सरेण तेनासौ प्रीतियुक्तेन चेतसा । निजं प्रवेशितः स्थानं पौरैः सादरमीक्षितः ॥२१॥
विवेश भवनं चास्य कान्तादर्शनलालसः । संकथामिर्मुहूर्तं च तस्थौ संवर्गणं भजन् ॥२२॥
ततस्तत्राप्यसौ कान्तामपश्यद्विरहातुरः । अपृच्छद् बालिकां कांचिदन्तर्भवनगोचराम् ॥२३॥
अपि बालेऽत्र जानासि मत्प्रिया वर्ततेऽञ्जना । सावोचदेव नास्त्यत्र त्वत्प्रियेत्यसुखावहम् ॥२४॥
वज्रेणेव ततस्तस्य तेन वाक्येन चूर्णितम् । हृदयं पूरितौ कर्णौ तप्तक्षाराम्बुनेव च ॥२५॥
वियुक्त इव जीवेन क्षणं चाभूत् स निश्चलः । शोकप्रालेयसंपर्कविच्छायमुखपङ्कजः ॥२६॥
निर्गत्यासौ ततस्तस्माच्छद्मना श्वासुरात् पुरात् । बभ्राम धरणीं वार्तामधिगन्तुं स्वयोषितः ॥२७॥
ज्ञात्वा वायुकुमारं च वायुनेवातुरीकृतम् । ऊचे प्रहसितः सान्त्वं तद्दुःखादमिदुःखितः ॥२८॥
किं वयस्य विषण्णोऽसि कुरु चित्तमनाकुलम् । द्रक्ष्यते दयिता द्राक्ते कियद्वेदं महीतलम् ॥२९॥
सोऽवोचद् गच्छ गच्छ त्वं सखे रविपुरं द्रुतम् । इदं ज्ञापय वृत्तान्तं गुरूणां मदनुष्ठितम् ॥३०॥
अहं पुनरसंप्राप्य दयितां क्षितिसुन्दरीम् । न मन्ये जीवितं तस्मात्पर्यटाम्यखिलां भुवम् ॥३१॥
इत्युक्तस्तेन दुःखेन विमुच्य कथमप्यमुम् । आदित्यनगरीं दीनः क्षिप्रं प्रहसितो ययौ ॥३२॥
पवनोऽपि समारुह्य नागमम्बरगोचरम् । विचरन् धरणीं सर्वामेवं चिन्तामुपागतः ॥३३॥
शोकातपपरिम्लानपद्मकोमलविग्रहा । क्व गता मे भवेत् कान्ता वहन्ती हृदयेन माम् ॥३४॥
वैधुर्यारण्यमध्यस्था विरहानलदीपिता । वराकी कांदिशीकासौ दिशं स्यात् कामुपाश्रिता ॥३५॥
सत्यार्जवसमेतासौ गर्भगौरवधारिणी । वसन्तमालया त्यक्ता भवेत् किन्नु महावने ॥३६॥
शोकान्धनयना किं नु व्रजन्ती विषमे पथि । पतिता स्याजरत्कूपे क्षुधिताजगरान्विते ॥३७॥
किं नु गर्भपरिक्लिष्टा श्वापदानां च भीषणम् । श्रुत्वा शब्दं परित्रस्ता प्राणान्मुक्तवती भवेत् ॥३८॥
अहो तृष्णार्दिता शुष्कतालुकण्ठा जलोज्झिते । विन्ध्यारण्ये विमुक्ता स्यात् प्राणैः प्राणसमा मम ॥३९॥
किं वा मन्दाकिनीं मुग्धा विविधग्राहसंकुलाम् । अवतीर्णा भवेद् व्यूढा वारिणा तीव्ररंहसा ॥४०॥
दर्भसूचीविनिर्भिन्नचरणस्रुतशोणिता । अशक्ता पदमप्येकं गन्तुं किं नु मृता भवेत् ॥४१॥
किं वा दुष्टेन केनापि नीता स्यात् खविचारिणा । कष्टं वार्तापि नो तस्याः केनचिन्मे निवेद्यते ॥४२॥
किं वा दुःखाच्च्युते गर्भे निर्वेदं परमागता । आर्यिकाणां पदं प्राप्ता भवेद्धर्मानुसेविनी ॥४३॥
चिन्तयन्निति पर्यट्य धरणीं मतिविह्वलः । ददर्श न यदा कान्तां सर्वेन्द्रियमनोहराम् ॥४४॥
तदापश्यज्जगत्कृत्स्नं शून्यं विरहदीपितः । विनिश्चितमसौ चेतश्चकार मरणं प्रति ॥४५॥
न शैलेषु न वृक्षेषु न रम्यासु नदीष्वभूत् । धृतिरस्य वियुक्तस्य तया सर्वस्वभूतया ॥४६॥
तस्या वार्तासु मुग्धेन तेन पृष्टा नगा अपि । विवेकेन हि निर्मुक्ता जायन्ते दुःखिनो जनाः ॥४७॥
अथ भूतरवाभिख्यं वनं प्राप्य गजादसौ । अवतीर्य क्षणं स्थित्वा ध्यायन्मुनिरिव प्रियाम् ॥४८॥
अनादरेण निक्षिप्य धरण्यामस्त्रकङ्कटम् । घनपादपशाखाग्रतिरोहितमहातपः ॥४९॥
जगाद गजनाथं तं विनयेन पुरःस्थितम् । गिरा मधुरयात्यर्थं श्रमेण गुरुणान्वितः ॥५०॥
व्रजेदानीं गजेन्द्र त्वं भव स्वच्छन्दविभ्रमः । तस्या वार्तासु मुग्धेन क्षमस्व च पराभवम् ॥५१॥
तीरेऽस्याः सरितः शष्पं शल्लकीनां च पल्लवान् । चरन् विहर यूथेन करिणीनां समन्वितः ॥५२॥
इत्युक्तः सुकृतज्ञोऽसौ स्वामिवात्सल्यदक्षिणः । न मुमोचान्तिकं तस्य शोकार्तस्य सुबन्धुवत् ॥५३॥
लप्स्ये यदि न तां रामामभिराममहं ततः । यास्याम्यत्र वने मृत्युमिति वायुर्विनिश्चितः ॥५४॥
प्रियागतमनस्कस्य तस्य रात्रिरभूद्वने । शरच्चतुष्टयोदारा नानासंकल्पसंकुला ॥५५॥
एवं तावदिदं वृत्तं शृणु श्रेणिक ते परम् । कथयामि गते तस्मिन् यत् पितृभ्यां विचेष्टितम् ॥५६॥
पवनंजयवृत्तान्ते तन्मित्रेण निवेदिते । समस्ता बान्धवा वायोः परमं शोकमागताः ॥५७॥
अथ केतुमती पुत्रशोकेनाभ्यावृता भृशम् । ऊचे प्रहसितं वाष्पधाराजनितदुर्दिना ॥५८॥
युक्तं प्रहसितेदं ते कर्तुमीदृग्विचेष्टितम् । मम पुत्रं परित्यज्य यदेकाकी समागतः ॥५९॥
सोऽवोचदम्ब तेनैव प्रेषितोऽहं प्रयत्नतः । न मे केनापि भावेन दत्तं स्थातुमुपान्तिके ॥६०॥
उवाच सा गतः क्वासौ सोऽवोचद्यत्र साञ्जना । क्वाञ्जनेति च पृष्टेन को वेत्तीति निवेदितम् ॥६१॥
अपरीक्षणशीलानां सहसा कार्यकारिणाम् । पश्चात्तापो भवत्येव जनानां प्राणधारिणाम् ॥६२॥
कान्तां यदि न पश्यामि मृत्युमेमि ततो ध्रुवम् । प्रतिज्ञैवं कृतानेन त्वत्पुत्रेण सुनिश्चिता ॥६३॥
इति श्रुत्वा विलापं सा चकारेति सुदुःखिता । वेष्टिता स्त्रीसमूहेन स्रवल्लोचनवारिणा ॥६४॥
अज्ञातसत्यया कष्टं पापया किं मया कृतम् । येन पुत्रः परिप्राप्तो जीवनस्य तु संशयम् ॥६५॥
क्रूरसंधानधारिण्या वक्रमानसया मया । असमीक्षितकारिण्या मन्दया किमनुष्ठितम् ॥६६॥
मुक्तं वायुकुमारेण पुरमेतन्न शोभते । विजयार्धगिरीशो वा सेवा वा रक्षसां विभोः ॥६७॥
दुष्करो रावणस्यापि सन्धिर्यैन रणे कृतः । कस्तस्य मम पुत्रस्य सदृशोऽत्र नरो भुवि ॥६८॥
हा वत्स ! विनयाधार ! गुरुपूजनतत्पर ! जगत्सुन्दर ! विख्यातगुण ! क्वासि गतो मम ॥६९॥
भवद्दुःखाग्निसंतप्तां मातरं मातृवत्सल ! प्रतिवाक्यप्रदानेन कुरु शोकविवर्जिताम् ॥७०॥
विलापमपि कुर्वाणां ताडयन्तीमुरो भृशम् । सान्त्वयन्वनितां कृच्छ्रात्प्रह्लादः साश्रुलोचनः ॥७१॥
सर्वबन्धुजनाकीर्णः कृत्वा प्रहसितं पुरः । निर्यातः स्वपुरात् पुत्रमुपलब्धुं समुत्सुकः ॥७२॥
सर्वे चाह्वायिता तेन खगा द्विश्रेणिवासिनः । प्रीत्या ते तु समायाताः परिवारसमन्विताः ॥७३॥
रवेः पन्थानमाश्रित्य भास्वद्विविधवाहनाः । अन्वेष्यंस्ते महीं यत्नाद् गह्वरन्यस्तलोचनाः ॥७४॥
प्रतिभानुरुदन्तं तं ज्ञात्वा प्रह्लाददूततः । उद्वहन्मनसा शोकमञ्जनायै न्यवेदयत् ॥७५॥
प्रथमादपि सा दुःखात्ततो दुःखेन भूयसा । अश्रुधौतमुखा चक्रे करुणं परिदेवनम् ॥७६॥
हा नाथ प्राणसर्वस्व मम मानसबन्धन । क्व मां त्यक्त्वा प्रयातोऽसि क्लेशसंततिभागिनीम् ॥७७॥
किं वाद्यापि न तं कोपं विमुञ्चसि पुरातनम् । अदृश्यस्त्वं यदेतोऽसि सर्वविद्याभृतामपि ॥७८॥
अप्येकं प्रतिवाक्यं मे नाथ यच्छामृतोपमम् । सत्वापन्नहितोन्मुक्ता महात्मानो भवन्ति हि ॥७९॥
इयन्तं धारिताः कालं भवद्दर्शनकाङ्क्षया । प्राणा मयाधुना कार्यं किमेतैः पापकर्मभिः ॥८०॥
समागममवाप्स्यामि प्रियेणेति समं कृताः । कथं मनोरथा भग्ना दैवेनाफलिता मम ॥८१॥
कृते मे मन्दभाग्यायाः प्रियोऽवस्थां गतो भवेत् । तामिदं हृदयं क्रूरं यां समाशङ्कते मुहुः ॥८२॥
वसन्तमालिके पश्य किमिदं वर्तते मम । असह्यविरहाङ्गारपल्यङ्कपरिवर्तनम् ॥८३॥
वसन्तमालया चोक्ता देवि मैवममङ्गलम् । व्यरटीः सर्वथासौ ते भर्ता गोचरमेष्यति ॥८४॥
एष कल्याणि ते नाथमानयाम्यचिरादिति । प्रतिसूर्यः समाश्वास्य कृच्छ्रेणाञ्जनसुन्दरीम् ॥८५॥
मनोहरं समारुह्य खगयानं मनोजवम् । नभोमूर्धानमुत्पत्य वीक्षमाणः क्षितिं ययौ ॥८६॥
प्रतिमानुसमेतास्ते वैजयार्द्धा नभश्चराः । त्रैकूटाश्च प्रयत्नेन निरैक्षन्त महीतलम् ॥८७॥
अथ भूतरवाटव्यां ददृशुस्ते महाद्विपम् । प्रावृषेण्यघनोदारसंघाताकारधारिणम् ॥८८॥
अयं स कालमेघाख्यः पवनद्विप इत्यमी । अभ्यङ्गासिषुरेनं च पूर्वदृष्टेरनेकशः ॥८९॥
अयमेष स हस्तीति जगदुश्च परस्परम् । सर्वे विद्याधराः हृष्टाः समं कृतमहारवाः ॥९०॥
नीलाञ्जनगिरिच्छायः कुन्दराशिसितद्विजः । युक्तप्रमाणहस्तोऽयं हस्ती यत्रावतिष्ठते ॥९१॥
पवनंजयवीरेण देशेऽत्र गतसंशयम् । भवितव्यमयं तस्य मित्रवत्पार्श्वगोचरः ॥९२॥
वदन्त इति ते याताः समीपं तस्य दन्तिनः । निरङ्कुशतया तस्य मनाग्वित्रस्तमानसाः ॥९३॥
रवेण महता तेषां चुक्षोभ स महागजः । दुर्निवारश्चलद्भीमसमस्ताङ्गो महाजवः ॥९४॥
मदक्लिन्नकपोलोऽसौ स्तब्धकर्णः सुगर्जितः । दिशं पश्यति यामेव तत्र क्षुभ्यन्ति खेचराः ॥९५॥
दृष्ट्वा जनसमूहं तं स्वामिरक्षणतत्परः । पवनंजयसामीप्यं न जहाति स वारणः ॥९६॥
मण्डलेन भ्रमत्यस्य सलीलं भ्रमयन् करम् । दशनेनैव चण्डेन त्रासयन् सर्वखेचरान् ॥९७॥
करिणीभिरथावृत्य द्विपं यत्नेन खेचराः । वशीकृत्य तमुद्देशमवतीर्णाः समुत्सुकाः ॥९८॥
उपायेभ्यो हि सर्वेभ्यो वशीकरणवस्तुनि । कामिनीसंगमुज्झित्वा नापरं विद्यते परम् ॥९९॥
अथेक्षांचक्रिरे वायुं विस्रस्ताङ्गं नभश्चराः । पुस्तकर्मसमाकारं वाचंयमतया स्थितम् ॥१००॥
यथार्हमुपचारं ते चक्रुरस्य तथाप्यसौ । न प्रयच्छति चिन्तास्थः प्रतिवाक्यं मुनिर्यथा ॥१०१॥
पुत्रप्रीत्या तमाघ्राय पितरौ मस्तके मुहुः । आलिङ्ग्य च प्रमोदेन बाष्पस्थगितलोचनौ ॥१०२॥
ऊचतुर्वत्स संत्यज्य पितरौ कथमीदृशम् । चेष्टितं क्रियते त्वं हि विनीतानां धुरिस्थितः ॥१०३॥
वरशय्योचितः कायस्त्वयाद्य विजने वने । संवाहितः कथं भीमे रात्रौ पादपगह्वरे ॥१०४॥
इति संभाष्यमाणोऽपि नासौ वाचमुदाहरत् । मरणे निश्चितोऽस्मीति संज्ञयैव न्यवेदयत् ॥१०५॥
व्रतमेतन्मयोपात्तं यदप्राप्य महेन्द्रजाम् । न भुञ्जे न वदामीति तत्कथं भज्यतेऽधुना ॥१०६॥
आस्तां तावत्प्रिया सत्यव्रतं संरक्षता मया । गुरू प्रश्वासितावेतौ कथमित्याकुलोऽभवत् ॥१०७॥
ततस्तं नतमूर्धानं मौनव्रतसमाश्रितम् । मरणे निश्चितं ज्ञात्वा जग्मुर्विद्याधराः शुचम् ॥१०८॥
समेतास्तत्पितृभ्यां ते विलेपुर्दीनमानसाः । संस्पृशन्तः करैरस्य शरीरं स्वेदधारिभिः ॥१०९॥
ततः स्मितमुखोऽवोचत् प्रतिसूर्यो नभश्चरान् । मा भूत विक्लवा वायुमेष वो भाषयाम्यहम् ॥११०॥
पवनं च परिष्वज्य जगादानुक्रमान्वितम् । कुमार शृणु यद्वृत्तं कथयामि तवाखिलम् ॥१११॥
संध्याभ्रपर्वते रम्ये मुनेः कैवल्यमुद्गतम् । अनङ्गवीचिसंज्ञस्य देवेन्द्रक्षोभकारणम् ॥११२॥
वन्दित्वा तं प्रदीपेन रात्रावागच्छता मया । रुदितध्वनिरश्रावि स्त्रैणस्तन्त्रीस्वनोपमः ॥११३॥
अढौकिषि तमुद्देशं गिरेः प्रस्थं समुन्नतम् । पर्यङ्कनाम्नि दृष्टा च गुहायामञ्जना मया ॥११४॥
निर्वासकारणं चास्या विज्ञाय विनिवेदितम् । मया प्राश्वासिता बाला रुदती शोकविह्वला ॥११५॥
तस्यामसूत सा पुत्रमन्वितं लक्षणैः शुभैः । यस्य भासा गुहा सासीत् सुवर्णेनेव निर्मिता ॥११६॥
स तोषं परमं प्राप्तः श्रुत्वा तां जातपुत्रिकाम् । ततस्तत इति क्षिप्रमपृच्छच्च समीरणः ॥११७॥
अवोचत् स ततस्तस्याः सुतोऽसौ चारुचेष्टितः । विमाने स्थाप्यमानः सन् पतितः शैलगह्वरे ॥११८॥
अत्रान्तरे पुनः प्राप्तो विषादं पवनंजयः । हाकारमुखरः सार्द्धं तया खेचरसेनया ॥११९॥
प्रतिभानुः पुनश्चोचे मा गाः शोकं ततः शृणु । यद्वृत्तं तत्समस्तं ते वायो दुःखं हरिष्यति ॥१२०॥
ततो हाकारशब्देन मुखरीकृतदिङ्मुखाः । अवतीर्यानघं बालमैक्षिष्महि नगान्तरे ॥१२१॥
चूर्णितश्च ततः शैलस्तेनासौ पतनात्तदा । श्रीशैल इति तेनासावस्माभिर्विस्मितैः स्तुतः ॥१२२॥
वसन्तमालया साकं ततः पुत्रेण संयुता । विमानमञ्जनारोप्य मया नीता निजं पुरम् ॥१२३॥
ततो हनूरुहाभिख्ये पुरे संवर्द्धितः शिशुः । हनूमानिति तेनास्य द्वितीयं नाम निर्मितम् ॥१२४॥
एषा ते कथिता साकं पुत्रेणाद्भुतकर्मणा । मत्पुरे शीलसंपन्ना तिष्ठतीति विबुध्यताम् ॥१२५॥
पुरस्कृत्य ततो वायुं हृष्टा गगनचारिणः । क्षिप्रं हनूरुहं जग्मुरञ्जनादर्शनोत्सुकाः ॥१२६॥
तेषां महोत्सवस्तत्र समागमकृतोऽभवत् । सुसंवेद्यस्तु दम्पत्योर्दुराख्यानो विशेषतः ॥१२७॥
तत्र मासद्वयं नीत्वा खेचराः प्रीतमानसाः । आमन्त्र्य लब्धसंमाना ययुः स्थानं यथायथम् ॥१२८॥
चिरात्संप्राप्तपत्नीकः पवनोऽपि सुचेष्टितः । तत्र गीर्वाणवद्रेमे सुतचेष्टाभिनन्दितः ॥१२९॥
हनूमांस्तत्र संप्राप्य यौवनश्रियमुत्तमाम् । मेरुकूटसमानाङ्गः स्तेनकः सर्वचेतसाम् ॥१३०॥
सिद्धविद्यः प्रभावाढ्यो विनयज्ञो महाबलः । सर्वशास्त्रार्थकुशलः परोपकृतिदक्षिणः ॥१३१॥
नाकोपभुक्तपाकस्य पुण्यशेषस्य मोजकः । रमते स्म पुरे तत्र गुरुपूजनतत्परः ॥१३२॥
श्रीशैलस्य समुद्भवेन सहितं वायोः समं कान्तया यो भावेन श्रृणोति सङ्गममिमं नानारसैरद्भुतम् । जन्तोस्तस्य समस्तसंसृतिविधिज्ञानेन लब्धात्मनो बुद्धिर्नाशुभकर्मणि प्रभवति प्रारब्धसत्कर्मणः ॥१३३॥
आयुर्दीर्घमुदारविभ्रमयुतं कान्तं वपुर्नीरुजं मेधां सर्वकृतान्तपारविषयां कीर्तिं च चन्द्रामलाम् । पुण्यं स्वर्गसुखोपभोगचतुरं लोके च यद्दुर्लभं तत्सर्वं सकृदश्नुते रविरिव स्फीतप्रभामण्डलम् ॥१३४॥
इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मचरिते पवनाञ्जनासमागमाभिधानं नामाष्टादशं पर्व ॥१८॥