न्यायदीपिका मूल (संस्कृत)
श्रीमद् अभिनव धर्मभूषण यति
अभिनव धर्मभूषण यति कृत न्यायदीपिका का पूरा संस्कृत मूल पाठ, तीनों प्रकाश, अनुच्छेद (§) क्रम से: प्रमाणसामान्यप्रकाश (§ 1-28), प्रत्यक्षप्रकाश (§ 1-28), परोक्षप्रकाश (§ 1-89)। आरम्भ का मंगल श्लोक, बीच में उद्धृत श्लोक और अंत का प्रशस्ति श्लोक भी उसी क्रम में हैं।
पाठ संलग्न पुस्तक के अनुसार है: पं. दरबारीलाल कोठिया जैन (बीना) द्वारा सम्पादित संस्कृत न्यायदीपिका, जो “अध्यात्मन्यायदीपिका” (हिन्दी भावानुवाद: अध्यात्मयोगी प. पू. 108 वीरसागरजी महाराज; प्रकाशक सुभाष गांधी, फलटण; द्वितीय आवृत्ती, अप्रैल 2000) में छपी है। पाद-टिप्पणियाँ और प्रकाश टिप्पण यहाँ नहीं लिए; वे और पूरा हिन्दी भावानुवाद संलग्न पीडीएफ में हैं। जहाँ छपाई की भूल लगी, वहाँ पाठ नहीं बदला, उस भाग के नीचे टिप्पणी दी।
सम्बन्धित: न्यायदीपिका क्यों महत्त्वपूर्ण है? · अभिनव धर्मभूषण यति
तीनों प्रकाश इसी पोस्ट में अपने शीर्षक के साथ हैं।
प्रथम प्रमाणसामान्यप्रकाश, § 1 से 28
१. प्रमाणसामान्यप्रकाशः
श्रीवर्द्धमानमर्हन्तं नत्वा बाल-प्रबुद्धये।
विरच्यते मित-स्पष्ट-सन्दर्भ-न्यायदीपिका॥१॥
[प्रमाण-नय-विवेचनस्य पीठिका]
§ १ ‘‘प्रमाणनयैरधिगमः’’ इति महाशास्त्रतत्त्वार्थसूत्रम् [१-६] तत्खलु परमपुरुषार्थनिःश्रेयससाधनसम्यग्दर्शनादिविषयभूतजीवादितत्त्वाधिगमोपायनिरूपणपरम्। प्रमाणनयाभ्यां हि विवेचिता जीवादयः सम्यगधिगम्यन्ते। तद्व्यतिरेकेण जीवाद्यधिगमे प्रकारान्तरासम्भवात्। तत एव जीवाद्यधिगमोपायभूतौ प्रमाणनयावपि विवेक्तव्यौ। तद्विवेचनपराः प्राक्तनग्रन्थाः सन्त्येव, तथापि ते केचिद्विस्तृताः, केचिद्गम्भीरा इति न तत्र बालानामधिकारः। ततस्तेषां सुखोपायेन प्रमाण-नयात्मकन्यायस्वरूपप्रतिबोधकशास्त्राधिकारसम्पत्तये प्रकरणमिदमारभ्यते।
[त्रिविधायाः प्रकरणप्रवृत्तेः कथनम]
§ २ इह हि प्रमाण-नयविवेचनमुद्देश-लक्षणनिर्देश-परीक्षाद्वारेण क्रियते। अनुद्दिष्टस्य लक्षणनिर्देशानुपपत्तेः। अनिर्दिष्टलक्षणस्य परीक्षितुमशक्यत्वात्। अपरीक्षितस्य विवेचनायोगात्। लोकशास्त्रयोरपि तथैव वस्तुविवेचनप्रसिद्धेः।
§ ३ तत्र विवेक्तव्यनाममात्रकथनमुद्देशः। व्यतिकीर्णवस्तुव्यावृत्तिहेतुर्लक्षणम्। तदाहुर्वार्तिककारपादाः ‘‘परस्परव्यतिकरे सति येनाऽन्यत्वं लक्ष्यते तल्लक्षणम्’’ [तत्त्वार्थवा. २-८] इति।
§ ४ द्विविधं लक्षणम्, आत्मभूतमनात्मभूतं चेति। तत्र यद्वस्तुस्वरूपानुप्रविष्टं तदात्मभूतम्, यथाऽग्नेरौष्ण्यम्। औष्ण्यं ह्यग्नेः स्वरूपं सदग्निमबादिभ्यो व्यावर्तयति। तद्विपरीतमनात्मभूतम्, यथा दण्डः पुरुषस्य। दण्डिनमानयेत्युक्ते हि दण्डः पुरुषाननुप्रविष्ट एव पुरुषं व्यावर्तयति। यद्भाष्यम् ‘‘तत्रात्मभूतमग्नेरौष्ण्यमनात्मभूतं देवदत्तस्य दण्डः’’ [राजवा. भा. २-८] इति।
§ ५ ‘असाधारणधर्मवचनं लक्षणम्’ इति केचित्; तदनुपपन्नम्; लक्ष्यधर्मिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसङ्गात्, दण्डादेरतद्धर्मस्यापि लक्षणत्वाच्च। किञ्चाव्याप्ताभिधानस्य लक्षणाभासस्यापि तथात्वात्। तथा हि- त्रयो लक्षणाभासभेदाः, अव्याप्तमतिव्याप्तमसम्भवि चेति। तत्र लक्ष्यैकदेशवृत्त्यव्याप्तम्, यथा गोः शावलेयत्वम्। लक्ष्यालक्ष्यवृत्त्यतिव्याप्तम्, यथा तस्यैव पशुत्वम्। बाधितलक्ष्यवृत्त्यसम्भवि, यथा नरस्य विषाणित्वम्। अत्र हि लक्ष्यैकदेशवर्तिनः पुनरव्याप्तस्यासाधारणधर्मत्वमस्ति, न तु लक्ष्यभूतगोमात्रव्यावर्तकत्वम्। तस्माद्यथोक्तमेव लक्षणम्, तस्य कथनं लक्षणनिर्देशः।
§ ६ विरुद्धनानायुक्तिप्राबल्यदौर्बल्यावधारणाय प्रवर्तमानो विचारः परीक्षा। सा खल्वेवं चेदेवं स्यादेवं चेदेवं न स्यादित्येवं प्रवर्तते।
§ ७ प्रमाणनययोरप्युद्देशः सूत्र एव कृतः। लक्षणमिदानीं निर्देष्टव्यम्। परीक्षा च यथौचित्यं भविष्यति। ‘उद्देशानुसारेण लक्षणकथनम्’ इति न्यायात्प्रधानत्वेन प्रथमोद्दिष्टस्य प्रमाणस्य तावल्लक्षणमनुशिष्यते।
[प्रमाणसामान्यस्य लक्षणकथनम्]
§ ८ सम्यग्ज्ञानं प्रमाणम्। अत्र प्रमाणं लक्ष्यं सम्यग्ज्ञानत्वं तस्य लक्षणम्। गोरिव सास्नादिमत्वम्, अग्नेरिवौष्ण्यम्। अत्र सम्यक्पदं संशयविपर्ययानध्यवसायनिरासाय क्रियते, अप्रमाणत्वादेतेषां ज्ञानानामिति।
§ ९ तथा हि- विरुद्धानेककोटिस्पर्शि ज्ञानं संशयः, यथा स्थाणुर्वा पुरुषो वेति। स्थाणुपुरुषसाधारणोर्ध्वतादिधर्मदर्शनात्तद्विशेषस्य वक्रकोटरशिरःपाण्यादेः साधकप्रमाणाभावादनेककोट्यवलम्बित्वं ज्ञानस्य। विपरीतैककोटिनिश्चयो विपर्ययः, यथा शुक्तिकायामिदं रजतमिति ज्ञानम्। अत्रापि सादृश्यादिनिमित्तवशाच्छुक्तिविपरीते रजते निश्चयः। किमित्यालोचनमात्रमनध्यवसायः, यथा पथि। गच्छतस्तृणस्पर्शादिज्ञानम्। इदं हि नानाकोट्यवलम्बनाभावान्न संशयः। विपरीतैककोटिनिश्चयाभावान्न विपर्यय इति पृथगेव। एतानि च स्वविषयप्रमितिजनकत्वाभावादप्रमाणानि ज्ञानानि भवन्ति, सम्यग्ज्ञानानि तु न भवन्तीति सम्यक्पदेन व्युदस्यन्ते। ज्ञानपदेन प्रमातुः प्रमितेश्च व्यावृत्तिः। अस्ति हि निर्दोषत्वेन तत्रापि सम्यक्त्वं न तु ज्ञानत्वम्।
§ १० ननु प्रमितिकर्तुः प्रमातुर्ज्ञातृत्वमेव न ज्ञानत्वमिति यद्यपि ज्ञानपदेन व्यावृत्तिस्तथापि प्रमितिर्न व्यावर्तयितुं शक्या, तस्या अपि सम्यग्ज्ञानत्वादिति चेत्; भवेदेवम्; यदि भावसाधनमिह ज्ञानपदम्। करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति। ‘‘करणाधारे चानट्’’ [जैनेन्द्रव्या.] इति करणेऽप्यनट्प्रत्ययानुशासनात्। भावसाधनं तु ज्ञानपदं प्रमितिमाह। अन्यद्धि भावसाधनात्करणसाधनं पदम्। एवमेव प्रमाणपदमपि प्रमीयतेऽनेनेति करणसाधनं कर्तव्यम्। अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याघटनात्। तेन प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धम्। तदुक्तं प्रमाणनिर्णये- ‘‘इदमेव हि प्रमाणस्य प्रमाणत्वं यत्प्रमितिक्रियां प्रति साधकतमत्वेन करणत्वम्’’ [प्रत्यक्षनिर्णय पृ. १] इति।
§ ११ नन्वेवमप्यक्षलिङ्गादावतिव्याप्तिर्लक्षणस्य, तत्रापि प्रमितिरूपं फलं प्रति करणत्वात्, दृश्यते हि चक्षुषा प्रमीयते, धूमेन प्रमीयते, शब्देन प्रमीयत इति व्यवहार। इति चेत् न; अक्षादेः प्रमितिं प्रत्यसाधकतमत्वात्।
§ १२ तथा हि- प्रमितिः प्रमाणस्य फलमिति न कस्यापि विप्रतिपत्तिः। सा चाज्ञाननिवृत्तिरूपा, तदुत्पत्तौ करणेन सता तावदज्ञानविरोधिना भवितव्यम्। न चाक्षादिकमज्ञानविरोधि, अचेतनत्वात्। तस्मादज्ञानविरोधिनश्चेतनधर्मस्यैव करणत्वमुचितम्। लोकेऽप्यन्धकारविघटनाय तद्विरोधी प्रकाश एवोपास्यते न पुनर्घटादिः, तदविरोधित्वात् ।
§ १३ किञ्च, अस्वसंविदितत्वादक्षादेर्नार्थप्रमितौ साधकतमत्वम्, स्वावभासनाशक्तस्य परावभासकत्वायोगात्। ज्ञानं तु स्वपरावभासकं प्रदीपादिवत्प्रतीतम्। ततः स्थितं प्रमितावसाधकतमत्वादकरणमक्षादय इति।
§ १४ चक्षुषा प्रमीयत इत्यादिव्यवहारे पुनरुपचारः शरणम्, उपचारप्रवृत्तौ च सहकारित्वं निबन्धनम्। न हि सहकारित्वेन तत्साधकमिदमिति करणं नाम, साधकविशेषस्यातिशयवतः करणत्वात्। तदुक्तं जैनेन्द्रे- ‘‘साधकतमं करणम्’’ [१।२।११४] इति। तस्मान्न लक्षणस्याक्षादावतिव्याप्तिः।
§ १५ अथापि धारावाहिकबुद्धिष्वतिव्याप्तिस्तासां सम्यग्ज्ञानत्वात्। न च तासामार्हतमते प्रामाण्याभ्युपगम इति; उच्यते; एकस्मिन्नेव घटे घटविषयाज्ञानविघटनार्थमाद्ये ज्ञाने प्रवृत्ते तेन घटप्रमितौ सिद्धायां पुनर्घटोऽयं घटोऽयमित्येवमुत्पन्नान्युत्तरोत्तरज्ञानानि खलु धारावाहिकज्ञानानि भवन्ति। न ह्येतेषां प्रमितिं प्रति साधकतमत्वम्, प्रथमज्ञानेनैव प्रमितेः सिद्धत्वात्। कथं तत्र लक्षणमतिव्याप्नोति ? तेषां गृहीतग्राहित्वात्।
§ १६ ननु घटे दृष्टे पुनरन्यव्यासङ्गेन पश्चात् घट एव दृष्टे पश्चात्तनं ज्ञानं पुनरप्रमाणं प्राप्नोति धारावाहिकवदिति चेत्; न; दृष्टस्यापि मध्ये समारोपे सत्यदृष्टत्वात्। तदुक्तम्- ‘‘दृष्टोऽपि समारोपात्तादृक्’’ [परीक्षा. १-५] इति।
§ १७ एतेन निर्विकल्पके सत्तालोचनरूपे दर्शनेऽप्यतिव्याप्तिः परिहृता। तस्याव्यवसायरूपत्वेन प्रमितिं प्रति करणत्वाभावात्। निराकारस्य ज्ञानात्वाभावाच्च। ‘‘निराकारं दर्शनं साकारं ज्ञानम्’’ [सर्वार्थसि. २-९] इति प्रवचनात्। तदेवं प्रमाणस्य सम्यग्ज्ञानमिति लक्षणं नाऽतिव्याप्तम्। नाऽप्यव्याप्तम्, लक्ष्ययोः प्रत्यक्षपरोक्षयोर्व्याप्यवृत्तेः। नाऽप्यसम्भवि, लक्ष्यवृत्तेरबाधितत्वात्।
[प्रमाणस्य प्रामाण्यनिरूपणम्]
§ १८ किमिदं प्रमाणस्य प्रामाण्यं नाम ? प्रतिभातविषयाऽव्यभिचारित्वम्। तस्योत्पत्तिः कथम् ? स्वत एवेति मीमांसकाः। प्रामाण्यस्य स्वत उत्पत्तिरिति ज्ञानसामान्यसामग्रीमात्रजन्यत्वमित्यर्थः। तदुक्तम्- ‘‘ज्ञानोत्पादकहेत्वनतिरिक्तजन्यत्वमुत्पत्तौ स्वतस्त्वम्’’ इति। न ते मीमांसकाः, ज्ञानसामान्यसामग्र्याः संशयादावपि ज्ञानविशेषे सत्त्वात्। वयं तु ब्रूमहे ज्ञानसामान्यसामग्र्याः साम्येऽपि संशयादिरप्रमाणं, सम्यग्ज्ञानं प्रमाणमिति विभागस्तावदनिबन्धनो न भवति। ततः संशयादौ यथा हेत्वन्तरमप्रामाण्ये दोषादिकमङ्गीक्रियते तथा प्रमाणेऽपि प्रामाण्यनिबन्धनमन्यदवश्यमभ्युपगन्तव्यम्, अन्यथा प्रमाणाप्रमाणविभागानुपपत्तेः।
§ १९ एवमप्यप्रामाण्यं परतः प्रामाण्यं तु स्वत इति न वक्तव्यम्; विपर्ययेऽपि समानत्वात्। शक्यं हि वक्तुमप्रामाण्यं स्वतः प्रामाण्यं तु परत इति। तस्मादप्रामाण्यवत्प्रामाण्यमपि परत एवोत्पद्यते। न हि पटसामान्यसामग्री रक्तपटे हेतुः। तद्वन्न ज्ञानसामान्यसामग्री प्रमाणज्ञाने हेतुः, भिन्नकार्ययोर्भिन्नकारणप्रभवत्वावश्यम्भावादिति।
§ २० कथं तस्य ज्ञप्तिः ? अभ्यस्ते विषये स्वतः, अनभ्यस्ते तु परतः। कोऽयमभ्यस्तो विषयः को वाऽनभ्यस्तः ? उच्यते; परिचितस्वग्रामतटाकजलादिरभ्यस्तः, तद्व्यतिरिक्तोऽनभ्यस्तः। किमिदं स्वत इति ? किं नाम परत इति ? ज्ञानज्ञापकादेव प्रामाण्यज्ञप्तिः। स्वत इति। ततोऽतिरिक्ताज्ज्ञप्तिः परत इति।
§ २१ तत्र तावदभ्यस्ते विषये जलमिति ज्ञाने जाते ज्ञानस्वरूपज्ञप्तिसमय एव तद्गतं प्रामाण्यमपि ज्ञायत एव। अन्यथोत्तरक्षण एव निःशङ्कप्रवृत्तेरयोगात्। अस्ति हि जलज्ञानोत्तरक्षण एव निःशङ्कप्रवृत्तिः। अनभ्यस्ते तु विषये जलज्ञाने जाते जलज्ञानं मम जातमिति ज्ञानस्वरूपनिर्णयेऽपि प्रामाण्यनिर्णयोऽन्यत एव, अन्यथोत्तरकाले सन्देहानुपपत्तेः। अस्ति हि सन्देहो ‘जलज्ञानं मम जातं तत्किं जलमुत मरीचिका’ इति। ततः कमलपरिमलशिशिरऽमरुत्प्रचारप्रभृतिभिरवधारयति-’ प्रमाणं प्राक्तनं जलज्ञानं कमलपरिमलाद्यन्यथानुपपत्तेः ’ इति।
§ २२ उत्पत्तिवत्प्रामाण्यस्य ज्ञप्तिरपि परत एवेति यौगाः। तत्र प्रामाण्यस्योत्पत्तिः परत इति युक्तम्। ज्ञप्तिः पुनरभ्यस्तविषये स्वत एवेति स्थितत्वात् ज्ञप्तिरपि परत एवेत्यवधारणानुपपत्तिः । ततो व्यवस्थितमेतत्प्रामाण्यमुत्पत्तौ परत एव, ज्ञप्तौ तु कदाचित्स्वतः कदाचित्परत इति। तदुक्तं प्रमाणपरीक्षायां ज्ञप्तिं प्रति-
प्रमाणादिष्ट-संसिद्धिरन्यथाऽतिप्रसङ्गतः ।
प्रामाण्यं तु स्वतः सिद्धमभ्यासात् परतोऽन्यथा ॥ [प्र.प.पृ.६३]
§ २३ तदेवं सुव्यवस्थितेऽपि प्रमाणस्वरूपे दुरभिनिवेशवशंगतैः सौगतादिभिरपि कल्पितं प्रमाणलक्षणं सुलक्षणमिति येषां भ्रमस्ताननुगृह्णीमः । तथा हि-
[सौगतीयप्रमाणलक्षणस्य समीक्षा]
§ २४ ‘’ अविसंवादि ज्ञानं प्रमाणम् ‘’ [प्रमाणवा. २-१] इति बौद्धाः । तदिदमविसंवादित्वमसम्भवित्वादलक्षणम् । बौद्धेन हि प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवानुमन्यते । तदुक्तं न्यायबिन्दौ - ‘’ द्विविधं सम्यग्ज्ञानम् ‘’, ‘’ प्रत्यक्षमनुमानं च ‘’ [न्यायबिन्दु पृ. १०] इति । तत्र न तावत्प्रत्यक्षस्याविसंवादित्वम्, तस्य निर्विकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभावात् । नाऽप्यनुमानस्य, तन्मतानुसारेण तस्याऽप्यपरमार्थभूतसामान्यगोचरत्वादिति ।
[कुमारिलभट्टीयप्रमाणलक्षणस्य समीक्षा]
§ २५ ‘’ अनधिगततथाभूतार्थनिश्चायकं प्रमाणम् ‘’ [शास्त्र-दी. पृ. १२३] इति भाट्टाः। तदप्यव्याप्तम्, तैरेव प्रमाणत्वेनाभिमतेषु धारावाहिकज्ञानेष्वनधिगतार्थनिश्चायकत्वाभावात्। उत्तरोत्तरक्षणविशेषविशिष्टार्थावभासकत्वेन तेषामनधिगतार्थनिश्चायकत्वमिति नाऽऽशङ्कनीयम्, क्षणानामतिसूक्ष्माणामालक्षयितुमशक्यत्वात्।
[प्रभाकरीयप्रमाणलक्षणस्य समीक्षा]
§ २६ ''अनुभूतिः प्रमाणम् ‘’ [बृहती १-१-५] इति प्राभाकराः । तदप्यसङ्गतम्; अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः, करणसाधनत्वे तु भावलक्षणप्रमाणाव्याप्तेः, करण-भावयोरुभयोरपि तन्मते प्रामाण्याभ्युपगमात्। तदुक्तं शालिकानाथेन- ‘’ यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्म-मनःसन्निकर्षः ‘’ [प्रकरणप. प्रमाणपा. पृ. ६४] इति।
[नैयायिकानां प्रमाणलक्षणस्य समीक्षा]
§ २७ ‘’ प्रमाकरणं प्रमाणम् ‘’ [न्यायमं.प्रमा.पृ.२५] इति नैयायिकाः। तदपि प्रमादकृतं लक्षणम्; ईश्वराख्य एव तदङ्गीकृते। प्रमाणेऽव्याप्तेः। अधिकरणं हि महेश्वरः प्रमायाः, न तु करणम्। न चायमनुक्तोपालम्भः, ‘’ तन्मे प्रमाणं शिवः ‘’ [न्यायकुसु. ४-६] इति यौगाग्रसरेणोदयनेनोक्तत्वात्। तत्परिहाराय केचन बालिशाः ‘’ साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तं प्रमाणम् ‘’ [सर्वदर्शनसं. पृ. २३५] इति वर्णयन्ति तथापि साधनाश्रयान्यतरपर्यालोचनायां साधनमाश्रयो वेति फलति। तथा च परस्पराव्याप्तिर्लक्षणस्य ।
§ २८ अन्यान्यपि पराभिमतानि प्रमाणसामान्यलक्षणान्यलक्षणत्वादुपेक्ष्यन्ते । तस्मात्स्वपरावभासनसमर्थं सविकल्पमगृहीतग्राहकं सम्यग्ज्ञानमेवाज्ञानमर्थे निवर्तयत्प्रमाणमित्यार्हतं मतम् ।
इति श्रीपरमार्हताचार्य-धर्मभूषण-यति-विरचितायां न्यायदीपिकायां प्रमाणसामान्यलक्षणप्रकाशः प्रथमः ॥१॥
टिप्पणी: § ११ में पुस्तक में “व्यवहार।” छपा है; शुद्ध रूप “व्यवहारः।” होना चाहिए।
टिप्पणी: § १७ में पुस्तक में “ज्ञानात्वाभावाच्च” छपा है; शुद्ध रूप “ज्ञानत्वाभावाच्च” होना चाहिए।
टिप्पणी: § २१ में पुस्तक में “शिशिरऽमरुत्” छपा है; शुद्ध रूप “शिशिरमरुत्” होना चाहिए।
द्वितीय प्रत्यक्षप्रकाश, § 1 से 28
२. प्रत्यक्षप्रकाशः
[प्रमाणं द्विधा विभज्य प्रत्यक्षस्य लक्षणकथनम्]
§ १ अथ प्रमाणविशेषस्वरूपप्रकाशनाय प्रस्तूयते। प्रमाणं द्विविधम् - प्रत्यक्षं परोक्षं चेति। तत्र विशदप्रतिभासं प्रत्यक्षम्। इह प्रत्यक्षं लक्ष्यं विशदप्रतिभासत्वं लक्षणम्। यस्य प्रमाणभूतस्य ज्ञानस्य प्रतिभासो विशदस्तत्प्रत्यक्षमित्यर्थः।
§ २ किमिदं विशदप्रतिभासत्वं नाम ? उच्यते - ज्ञानावरणस्य क्षयाद्विशिष्टक्षयोपशमाद्वा । शब्दानुमानाद्यसम्भवि यन्नैर्मल्यमनुभवसिद्धम्, दृश्यते खल्वग्निरस्तीत्याप्तवचनाद्धूमादिलिङ्गाच्चोत्पन्नाज्ज्ञानादयमग्निरित्युत्पन्नस्यैन्द्रियकस्य ज्ञानस्य विशेषः । स एव नैर्मल्यम्, वैशद्यम्, स्पष्टत्वमित्यादिभिः शब्दैरभिधीयते। तदुक्तं भगवद्भिरकलङ्कदेवैर्न्यायविनिश्चये - ‘’ प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा । ‘’ [का० ३] इति। विवृतं च स्याद्वादविद्यापतिना - ‘’ निर्मलप्रतिभासत्वमेव स्पष्टत्वम्, स्वानुभवप्रसिद्धं चैतत्सर्वस्यापि परीक्षकस्येति नातीव निर्बाध्यते ‘’ [न्यायविनि० वि०का०३] इति। तस्मात्सुष्ठूक्तं विशदप्रतिभासात्मकं ज्ञानं प्रत्यक्षमिति।
[सौगतीयप्रत्यक्षस्य निरासः]
§ ३ ‘‘कल्पनापोढमभ्रान्तं प्रत्यक्षम्’’ [न्यायबिन्दु पृ०११] इति ताथागताः। अत्र हि कल्पनापोढपदेन सविकल्पकस्य व्यावृत्तिः, अभ्रान्तमिति पदेन त्वाभासस्य। तथा च समीचीनं निर्विकल्पकं प्रत्यक्षमित्युक्तं भवति; तदेतद् बालचेष्टितम्; निर्विकल्पकस्य प्रामाण्यमेव दुर्लभम्, समारोपाविरोधित्वात्, कुतः प्रत्यक्षत्वम्? व्यवसायात्मकस्यैव प्रामाण्यव्यवस्थापनात्।
§ ४ ननु निर्विकल्पकमेव प्रत्यक्षप्रमाणमर्थजत्वात्। तदेव हि परमार्थसत्स्वलक्षणजन्यं न तु सविकल्पकम्, तस्यापरमार्थभूतसामान्यविषयत्वेनार्थजत्वाभावादिति चेत्; न; अर्थस्यालोकवज्ज्ञानकारणत्वानुपपत्तेः। तद्यथा - अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः। तत्रालोकस्तावन्न ज्ञानकारणम्, तदभावेऽपि नक्तञ्चराणां मार्जारादीनां ज्ञानोत्पत्तेः, तद्भावेऽपि[च] घूकादीनां तदनुत्पत्तेः। तद्वदर्थोऽपि न ज्ञानकारणम्, तदभावेऽपि केशमशकादिज्ञानोत्पत्तेः। तथा च कुतोऽर्थजत्वं ज्ञानस्य? तदुक्तं परीक्षामुखे - ‘‘नार्थालोकौ कारणम्’’ [२-६] इति। प्रामाण्यस्य चार्थाव्यभिचार एव निबन्धनं न त्वर्थजन्यत्वम्, स्वसंवेदनस्य विषयाजन्यत्वेऽपि प्रामाण्याभ्युपगमात्। न हि किञ्चित्स्वस्मादेव जायते।
§ ५ नन्वतज्जन्यस्य ज्ञानस्य। कथं तत्प्रकाशकत्वम् ? इति चेत्; घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्ट्वा सन्तोष्टव्यमायुष्मता। अथ कथमयं विषयप्रतिनियमः ? यदुत ’ घटज्ञानस्य घट एव विषयो न पटः ’ इति। अर्थजत्वं हि विषयप्रतिनियमकारणम्, तज्जन्यत्वात् तद्विषयमेव चैतदिति। तत्तु भवता नाऽभ्युपगम्यते इति चेत्; योग्यतैव विषयप्रतिनियमकारणमिति ब्रूमः। का नाम योग्यता ? इति। उच्यते- स्वावरणक्षयोपशमः। तदुक्तम्- ‘‘स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति’’ [परीक्षा. २-९] इति।
§ ६ एतेन ’ तदाकारत्वात्तत्प्रकाशकत्वम् ’ इत्यपि प्रत्युक्तम्। अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात्। ततस्तदाकारवत्तज्जन्यत्वमप्रयोजकं प्रामाण्ये। सविकल्पकविषयभूतस्य सामान्यस्य परमार्थत्वमेव, अबाधितत्वात्। प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः। तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य।
[नैयायिकाभिमतस्य सन्निकर्षस्य प्रत्यक्षत्वनिरासः]
§ ७ सन्निकर्षस्य च यौगाभ्युपगतस्याचेतनत्वात् कुतः प्रमितिकरणत्वम्, कुतस्तरां प्रमाणत्वम्, कुतस्तमां प्रत्यक्षत्वम् ?
§ ८ किञ्च, रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकम्, अप्राप्यकारित्वात्तस्य। ततः सन्निकर्षाभावेऽपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य। न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धम्, प्रत्यक्षतस्तथैव प्रतीतेः। ननु प्रत्यक्षागम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन साधयिष्यामः परमाणुवत्। यथा प्रत्यक्षासिद्धोऽपि, परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते तथा ’ चक्षुः प्राप्तार्थप्रकाशकं बहिरिन्द्रियत्वात् त्वगिन्द्रियवत् ’ इत्यनुमानात् प्राप्तिसिद्धिः। प्राप्तिरेव हि सन्निकर्षस्ततो न सन्निकर्षस्याव्याप्तिरिति चेत्; न; अस्यानुमानाभासत्वात्। तद्यथा -
§ ९ चक्षुरित्यत्र कः पक्षोऽभिप्रेतः ? किं लौकिकं चक्षुरुतालौकिकम् ? आद्ये हेतोः कालात्ययापदिष्टत्वम्, गोलकाख्यस्य लौकिकचक्षुषो विषयप्राप्तेः प्रत्यक्षबाधितत्वात्। द्वितीये त्वाश्रयासिद्धिः, अलौकिकस्य चक्षुषोऽद्याऽप्यसिद्धेः। शाखासुधादीधिति समानकालग्रहणान्यथानुपपत्तेश्च चक्षुरप्राप्यकारीति निश्चीयते। तदेवं सन्निकर्षाभावेऽपि चक्षुषा रूपप्रतीतिर्जायत इति सन्निकर्षोऽव्यापकत्वात्प्रत्यक्षस्य स्वरूपं न भवतीति स्थितम्।
§ १० अस्य च प्रमेयस्य प्रपञ्चः प्रमेयकमलमार्त्तण्डे [१-१ तथा २-४] सुलभः। संग्रहग्रन्थत्वात्तु नेह प्रतन्यते। एवं च न सौगताभिमतं निर्विकल्पं प्रत्यक्षम्, नापि यौगाभिमतं इन्द्रियार्थसन्निकर्षः। किं तर्हि ? विशदप्रतिभासं ज्ञानमेव प्रत्यक्षं सिद्धम्।
[प्रत्यक्षं द्विधा विभज्य सांव्यवहारिकस्य लक्षणपुरस्सरं भेदनिरूपणम्]
§ ११ तत्प्रत्यक्षं द्विविधम् । - सांव्यवहारिकं पारमार्थिकं चेति। तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षम्। यज्ज्ञानं देशतो विशदमीषन्निर्मलं तत्सांव्यवहारिकप्रत्यक्षमित्यर्थः। तच्चतुर्विधम्-अवग्रहः, ईहा, अवायः, धारणा चेति। तत्रेन्द्रियार्थसमवधानसमनन्तरसमुत्थसत्तालोचनानन्तरभावी सत्ताऽवान्तरजातिविशिष्टवस्तुग्राही ज्ञानविशेषोऽवग्रहः - यथाऽयं पुरुष इति। नाऽयं संशयः, विषयान्तरव्युदासेन स्वविषयनिश्चायकत्वात्। तद्विपरीतलक्षणो हि संशयः। यद्राजवार्तिकम्- ‘‘अनेकार्थानिश्चिताऽपर्युदासात्मकः संशयस्तद्विपरीतोऽवग्रहः’’ [१-१५-९] इति। भाष्यं च-‘’ संशयो हि निर्णयविरोधी नत्ववग्रहः’’ [१-१५-१०] इति। अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यतनमीहा। तद्यथा -पुरुष इति निश्चितेऽर्थे किमयं दाक्षिणात्य उतौदीच्य इति संशये सति दाक्षिणात्येन भवितव्यमिति तन्निरासायेहाख्यं ज्ञानं जायत इति। भाषादिविशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः, यथा दाक्षिणात्य एवायमिति। कालान्तराविस्मरणयोग्यतया तस्यैव ज्ञानं धारणा। यद्वशादुत्तरकालेऽपि स इत्येवं स्मरणं जायते।
§ १२ ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसङ्ग इति चेत्; न; विषयभेदेनागृहीतग्राहकत्वात्। तथा हि-योऽवग्रहस्य विषयो नासावीहायाः, यः पुनरीहाया नायमवायस्य, यश्चावायस्य नैष धारणाया इति परिशुद्धप्रतिभानां सुलभमेवैतत्। तदेतदवग्रहादिचतुष्टयमपि यदेन्द्रियेण जन्यते तदेन्द्रियप्रत्यक्षमित्युच्यते, यदा पुनरनिन्द्रियेण तदाऽनिन्द्रियप्रत्यक्षं गीयते। इन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुःश्रोत्राणि पञ्च, अनिन्द्रियं तु मनः। तद्द्वयनिमित्तकमिदं लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिकं प्रत्यक्षमुच्यते। तदुक्तं परीक्षामुखे ‘’ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम्’’ (२-५) इति। इदं चामुख्यप्रत्यक्षम्, उपचारसिद्धत्वात्। वस्तुतस्तु परोक्षमेव, मतिज्ञानत्वात्। कुतो न खल्वेतन्मतिज्ञानं परोक्षमिति ? उच्यते- ‘‘आद्ये परोक्षम्’’ [तत्त्वार्थसू. १-११] इति सूत्रणात्। आद्ये मति-श्रुतज्ञाने परोक्षमिति हि सूत्रार्थः। उपचारमूलं पुनरत्र देशतो वैशद्यमिति कृतं विस्तरेण।
[पारमार्थिकप्रत्यक्षं लक्षयित्वा तद्भेदानां प्ररूपणम्]
§ १३ सर्वतो विशदं पारमार्थिकप्रत्यक्षम्। यज्ज्ञानं साकल्येन स्पष्टं तत्पारमार्थिकप्रत्यक्षम्, मुख्यप्रत्यक्षमिति यावत्। तद् द्विविधम्- विकलं सकलं च। तत्र कतिपयविषयं विकलम्। तदपि द्विविधम्- अवधिज्ञानं मनःपर्ययज्ञानं च। तत्रावधिज्ञानावरणक्षयोपशमाद्वीर्यान्तरायक्षयोपशमसहकृताज्जातं रूपिद्रव्यमात्रविषयमवधिज्ञानम्। मनःपर्ययज्ञानावरण-वीर्यान्तरायक्षयोपशमसमुत्थं परमनोगतार्थविषयं मनःपर्ययज्ञानम्। मतिज्ञानस्येवावधिमनःपर्यययोरवान्तरभेदाः तत्त्वार्थराजवार्तिक-श्लोकवार्तिकभाष्याभ्यामवगन्तव्याः।
§ १४ सर्वद्रव्यपर्यायविषयं सकलम्। तच्च घातिसंघातनिरवशेषघातनसमुन्मीलितं केवलज्ञानमेव। ‘‘सर्वद्रव्यपर्यायेषु केवलस्य’’ [तत्त्वार्थसू. १-२९] इत्याज्ञापितत्वात्।
§ १५ तदेवमवधि-मनःपर्यय-केवलज्ञानत्रयं सर्वतो वैशद्यात् पारमार्थिकप्रत्यक्षम्। सर्वतो वैशद्यं चात्ममात्रसापेक्षत्वात्।
§ १६ नन्वस्तु केवलस्य पारमार्थिकत्वम् अवधि-मनःपर्यययोस्तु न युक्तम्, विकलत्वादिति चेत्; न; साकल्य-वैकल्ययोरत्र विषयोपाधिकत्वात्। तथा हि- सर्वद्रव्यपर्यायविषयमिति केवलं सकलम्। अवधि-मनःपर्ययौ तु कतिपयविषयत्वाद्विकलौ। नैतावता तयोः पारमार्थिकत्वच्युतिः। केवलवत्तयोरपि वैशद्यं स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेव।
[अवध्यादित्रयस्यातीन्द्रियप्रत्यक्षत्वप्रतिपादनम्]
§ १७ कश्चिदाह- ‘’ अक्षं नाम चक्षुरादिकमिन्द्रियम्, तत् प्रतीत्य यदुत्पद्यते तदेव प्रत्यक्षमुचितम्, नान्यत् ‘’ इति; तदसत्; आत्ममात्रसापेक्षाणामवधिमनःपर्ययकेवलानामिन्द्रियनिरपेक्षाणामपि प्रत्यक्षत्वाविरोधात्। स्पष्टत्वमेव हि प्रत्यक्षत्वप्रयोजकं नेन्द्रियजन्यत्वम्। अत एव हि मतिश्रुतावधिमनःपर्ययकेवलानां ज्ञानत्वेन प्रतिपन्नानां मध्ये ‘’ आद्ये परोक्षम् ‘’ [तत्त्वार्थसू. १-११] ‘’ प्रत्यक्षमन्यत् ‘’ [तत्त्वार्थसू. १-१२] इत्याद्ययोर्मतिश्रुतयोः परोक्षत्वकथनमन्येषां त्ववधिमनःपर्ययकेवलानां प्रत्यक्षत्ववाचो युक्तिः।
§ १८ कथं पुनरेतेषां प्रत्यक्षशब्दवाच्यत्वम् ? इति चेत्; रूढित इति ब्रूमः।
§ १९ अथवा अक्षणोति व्याप्नोति जानातीत्यक्ष आत्मा, तन्मात्रापेक्षोत्पत्तिकं प्रत्यक्षमिति किमनुपपन्नम्। ? तर्हि इन्द्रियजन्यमप्रत्यक्षं प्राप्तमिति चेत्; हन्त विस्मरणशीलत्वं वत्सस्य। अवोचाम खल्वौपचारिकं प्रत्यक्षत्वमक्षजज्ञानस्य। ततस्तस्याप्रत्यक्षत्वं कामं प्राप्नोतु, का नो हानिः। एतेन ‘‘अक्षेभ्यः परावृत्तं परोक्षम्’’ इत्यपि प्रतिविहितम्, अवैशद्यस्यैव परोक्षलक्षणत्वात्।
§ २० स्यादेतत् अतीन्द्रियं प्रत्यक्षमस्तीत्यतिसाहसम्; असम्भावितत्वात्। यद्यसम्भावितमपि कल्प्येत, गगनकुसुमादिकमपि कल्प्यं स्यात्; न स्यात्; गगनकुसुमादेरप्रसिद्धत्वात्, अतीन्द्रियप्रत्यक्षस्य तु प्रमाणसिद्धत्वात्। तथा हि- केवलज्ञानं तावत्किञ्चिज्ज्ञानां कपिलादीनामसम्भवदप्यर्हतः सम्भवत्येव। सर्वज्ञो हि स भगवान्।
[प्रासङ्गिकी सर्वज्ञसिद्धिः]
§ २१ ननु सर्वज्ञत्वमेवाप्रसिद्धं, किमुच्यते सर्वज्ञोऽर्हन्निति, क्वचिदप्यप्रसिद्धस्य विषयविशेषे व्यवस्थापयितुमशक्तेरिति चेत्; न; सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, अग्न्यादिवत्, इत्यनुमानात्सर्वज्ञत्वसिद्धेः। तदुक्तं स्वामिभिर्महाभाष्यस्यादावाप्तमीमांसाप्रस्तावे-
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा।
अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः।
[का.५] इति।
§ २२ सूक्ष्माः स्वभावविप्रकृष्टाः परमाण्वादयः, अन्तरिताः कालविप्रकृष्टा रामादयः, दूरा देशविप्रकृष्टा मेर्वादयः। एते स्वभावकालदेशविप्रकृष्टाः पदार्था धर्मित्वेन विवक्षिताः। तेषां कस्यचित्प्रत्यक्षत्वं साध्यम्। इह प्रत्यक्षत्वं प्रत्यक्षज्ञानविषयत्वम्, विषयिधर्मस्य विषयेऽप्युपचारोपपत्तेः। अनुमेयत्वादिति हेतुः। अग्न्यादिर्दृष्टान्तः। अग्न्यादावनुमेयत्वं कस्यचित्प्रत्यक्षत्वेन सहोपलब्धं परमाण्वादावपि कस्यचित्प्रत्यक्षत्वं साधयत्येव। न चाण्वादावनुमेयत्वमसिद्धम्. सर्वेषामप्यनुमेयमात्रे विवादाभावात्।
§ २३ अस्त्वेवं सूक्ष्मादीनां प्रत्यक्षत्वसिद्धिद्वारेण कस्यचिदशेषविषयं प्रत्यक्षज्ञानम्। तत्पुनरतीन्द्रियमिति कथम् ? इत्थम्- यदि तज्ज्ञानमैन्द्रियिकं स्यात् अशेषविषयं न स्यात्, इन्द्रियाणां स्वयोग्यविषय एव ज्ञानजनकत्वशक्तेः। सूक्ष्मादीनां च तदयोग्यत्वादिति। तस्मात्सिद्धं तदशेषविषयं ज्ञानमनैन्द्रियकमेव इति। अस्मिंश्चार्थे सर्वेषां सर्वज्ञवादिनां न विवादः। यद् बाह्या अप्याहुः- ‘‘अदृष्टादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्।’’ इति।
[सामान्यतः प्रसिद्धस्य सार्वज्ञ्यस्यार्हति प्रसाधनम्]
§ २४ नन्वस्त्वेवमशेषविषयसाक्षात्कारित्वलक्षणमतीन्द्रियप्रत्यक्षज्ञानम्, तच्चार्हत इति कथम् ? कस्यचिदिति सर्वनाम्नः सामान्यज्ञापकत्वादिति चेत्; सत्यम्; प्रकृतानुमानात्सामान्यतः सर्वज्ञत्वसिद्धिः। अर्हत एतदिति पुनरनुमानान्तरात्। तथा हि-अर्हन् सर्वज्ञो भवितुमर्हति, निर्दोषत्वात्, यस्तु न सर्वज्ञो नासौ निर्दोषः, यथा रथ्यापुरुष इति केवलव्यतिरेकिलिङ्गकमनुमानम्।
§ २५ आवरणरागादयो दोषास्तेभ्यो निष्क्रान्तत्वं हि निर्दोषत्वम्। तत्खलु सर्वज्ञत्वमन्तरेण। नोपपद्यते, किञ्चिज्ज्ञस्यावरणादिदोषरहितत्वविरोधात्। ततो निर्दोषत्वमर्हति विद्यमानं सार्वज्ञ्यं साधयत्येव। निर्दोषत्वं पुनरर्हत्परमेष्ठिनि युक्ति-शास्त्राविरोधिवाक्त्वात्सिद्ध्यति। युक्ति-शास्त्राविरोधिवाक्त्वं च तदभिमतस्य मुक्ति-संसारतत्कारण[त]त्त्वस्यानेकधर्मात्मकचेतनाचेतनतत्त्वस्य च प्रमाणाबाधितत्वात्सुव्यवस्थितमेव।
§ २६ एवमपि सर्वज्ञत्वमर्हत एवेति कथम् ? कपिलादीनामपि सम्भाव्यमानत्वादिति चेत्; उच्यते-कपिलादयो न सर्वज्ञाः सदोषत्वात्। सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात्। तच्च तदभिमतमुक्त्यादितत्त्वस्य सर्वथैकान्तस्य च प्रमाणबाधितत्वात्। तदुक्तं स्वामिभिरेव-
स त्वमेवासि निर्दोषो युक्ति-शास्त्राविरोधिवाक्।
अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते।
त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम्।
आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते॥ [आप्तमी. का. ६-७]
§ २७ इति कारिकाद्वयेन एतयोरेव ‘परात्माभिमततत्त्वबाधाबाधयोः’ समर्थनं प्रस्तुत्य ‘‘भावैकान्ते’’ [का.९] इत्युपक्रम्य ‘‘स्यात्कारः सत्यलाञ्छनः’’ [का. ११२] इत्यन्त आप्तमीमांसासन्दर्भ इति कृतं विस्तरेण।
§ २८ तदेवमतीन्द्रियं केवलज्ञानमर्हत एवेति सिद्धम्। तद्वचनप्रामाण्याच्चावधिमनःपर्यययोरतीन्द्रिययोः सिद्धिरित्यतीन्द्रियप्रत्यक्षमनवद्यम्। ततः स्थितं सांव्यवहारिकं पारमार्थिकं चेति द्विविधं प्रत्यक्षमिति।
इति श्रीपरमार्हताचार्य-धर्मभूषण-यति-विरचितायां न्यायदीपिकायां प्रत्यक्षप्रकाशो द्वितीयः ॥२॥
तृतीय परोक्षप्रकाश, § 1 से 89
३. परोक्षप्रकाशः
[परोक्षप्रमाणस्य लक्षणम्]
§ १ अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते। अविशदप्रतिभासं परोक्षम्। अत्र परोक्षं लक्ष्यम्; अविशदप्रतिभासत्वं लक्षणम्। यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः। वैशद्यमुक्तलक्षणम्। ततोऽन्यदवैशद्यमस्पष्टत्वम्। तदप्यनुभवसिद्धमेव।
§ २ सामान्यमात्रविषयत्वं परोक्षप्रमाणलक्षणमिति केचित्; तन्न; प्रत्यक्षस्येव परोक्षस्यापि सामान्य-विशेषात्मकवस्तुविषयत्वेन तस्य लक्षणस्याऽसम्भवित्वात्। तथा हि- घटादिविषयेषु प्रवर्तमानं प्रत्यक्षं प्रमाणं तद्गतं सामान्याकारं घटत्वादिकं व्यावृत्ताकारं व्यक्तिरूपं च युगपदेव प्रकाशयदुपलब्धं, तथा परोक्षमपीति न सामान्यमात्रविषयत्वं परोक्षलक्षणम्, अपि त्ववैशद्यमेव। सामान्यविशेषयोरेकतरविषयत्वे तु प्रमाणत्वस्यैवाऽनुपपत्तिः, सर्वप्रमाणानां सामान्यविशेषात्मकवस्तुविषयत्वाभ्यनुज्ञानात्। तदुक्तम्- ‘‘सामान्यविशेषात्मा तदर्थो विषयः’’- [परीक्षा. ४-१] इति। तस्मात्सुष्ठूक्तं ‘अविशदावभासनं परोक्षम्’ इति।
[परोक्षप्रमाणं पञ्चधा विभज्य तस्य प्रत्ययान्तरसापेक्षत्वप्रतिपादनम्]
§ ३ तत् पञ्चविधम्-स्मृतिः, प्रत्यभिज्ञानम्, तर्कः, अनुमानम्, आगमश्चेति। पञ्चविधस्याऽप्यस्य परोक्षस्य प्रत्ययान्तरसापेक्षत्वेनैवोत्पत्तिः। तद्यथा-स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तर्कस्यानुभव-स्मरण-प्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिङ्गदर्शनाद्यपेक्षा, आगमस्य शब्दश्रवण-सङ्केतग्रहणाद्यपेक्षा, प्रत्यक्षस्य तु न तथा स्वातन्त्र्येणैवोत्पत्तेः। स्मरणादीनां प्रत्ययान्तरापेक्षा तु तत्र तत्र निवेदयिष्यते।
[स्मृतेर्निरूपणम्]
§ ४ तत्र च का नाम स्मृतिः? तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः, यथा स देवदत्त इति। अत्र हि प्रागनुभूत एव देवदत्तस्तत्तया प्रतीयते। तस्मादेषा प्रतीतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभूते विषये तदनुत्पत्तेः। तन्मूलं चानुभवो धारणारूप एव अवग्रहाद्यनुभूतेऽपि धारणाया अभावे स्मृतिजननायोगात्। धारणा हि तथाऽऽत्मानं संस्करोति, यथाऽसावात्मा कालान्तरेऽपि तस्मिन् विषये ज्ञानमुत्पादयति। तदेतद्धारणाविषये समुत्पन्नं तत्तोल्लेखिज्ञानं स्मृतिरिति सिद्धम्।
§ ५ नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्तौ गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत इति चेत्; न; विषयविशेषसद्भावादीहादिवत्। यथा ह्यवग्रहादिगृहीतविषयाणामीहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव। धारणाया हीदन्ताऽवच्छिन्नो विषयः, स्मरणस्य तु तत्ताऽवच्छिन्नः। तथा च स्मरणं स्वविषयास्मरणादिसमारोपव्यवच्छेदकत्वात्प्रमाणमेव। तदुक्तं प्रमेयकमलमार्तण्डे- ‘’ विस्मरणसंशयविपर्यासलक्षणः समारोपोऽस्ति, तन्निराकरणाच्चास्याः स्मृतेः प्रामाण्यम् ‘’ [३-४] इति।
§ ६ यदि चानुभूते प्रवृत्तमित्येतावता स्मरणमप्रमाणं स्यात् तर्हि अनुमितेऽग्नौ पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात्।
§ ७ अविसंवादित्वाच्च प्रमाणं स्मृतिः प्रत्यक्षादिवत्। न हि स्मृत्वा निक्षेपादिषु प्रवर्तमानस्य विषयविसंवादोऽस्ति। यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत्। तदेवं स्मरणाख्यं पृथक् प्रमाणमस्तीति सिद्धम्।
[प्रत्यभिज्ञानस्य निरूपणम्]
§ ८ अनुभवस्मृतिहेतुकं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम्। इदन्तोल्लेखिज्ञानमनुभवः, तत्तोल्लेखिज्ञानं स्मरणम्। तदुभयसमुत्थं पूर्वोत्तरैक्य-सादृश्य-वैलक्षण्यादिविषयं यत्सङ्कलनरूपं ज्ञानं जायते तत्प्रत्यभिज्ञानमिति ज्ञातव्यम्। यथा स एवाऽयं जिनदत्तः, गोसदृशो गवयः, गोविलक्षणो महिष इत्यादि।
§ ९ अत्र हि पूर्वस्मिन्नुदाहरणे जिनदत्तस्य पूर्वोत्तरदशाद्वयव्यापकमेकत्वं प्रत्यभिज्ञानस्य विषयः। तदिदमेकत्वप्रत्यभिज्ञानम्। द्वितीये तु पूर्वानुभूतगोप्रतियोगिकं गवयनिष्ठं सादृश्यम्। तदिदं सादृश्यप्रत्यभिज्ञानम्। तृतीये तु पुनः प्रागनुभूतगोप्रतियोगिकं महिषनिष्ठं वैसादृश्यम्। यदिदं वैसादृश्यप्रत्यभिज्ञानम्। एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतीति स्वयमुत्प्रेक्ष्याः। अत्र सर्वत्राऽप्यनुभवस्मृतिसापेक्षत्वात्तद्धेतुकत्वम्।
§ १० केचिदाहुः- अनुभवस्मृतिव्यतिरिक्तं प्रत्यभिज्ञानं नास्तीति; तदसत्; अनुभवस्य वर्तमानकालवर्तिविवर्तमात्रप्रकाशकत्वम्, स्मृतेश्चातीतविवर्तद्योतकत्वमिति तावद्वस्तुगतिः कथं नाम तयोरतीतवर्तमानसङ्कलितैक्य-सादृश्यादिविषयावगाहित्वम् ? तस्मादस्ति स्मृत्यनुभवातिरिक्तं तदनन्तरभाविसङ्कलनज्ञानम्। तदेव प्रत्यभिज्ञानम्।
§ ११ अपरे त्वेकत्वप्रत्यभिज्ञानमभ्युपगम्यापि तस्य प्रत्यक्षेऽन्तर्भावं कल्पयन्ति। तद्यथा- यदिन्द्रियान्वयव्यतिरेकानुविधायि तत्प्रत्यक्षमिति तावत्प्रसिद्धम्, इन्द्रियान्वयव्यतिरेकानुविधायि चेदं प्रत्यभिज्ञानम्, तस्मात्प्रत्यक्षमिति; तन्न; इन्द्रियाणां वर्तमानदशापरामर्शमात्रोपक्षीणत्वेन वर्तमानातीतदशाव्यापकैक्यावगाहित्वाघटनात्। न ह्यविषयप्रवृत्तिरिन्द्रियाणां युक्तिमती, चक्षुषा रसादेरपि प्रतीतिप्रसङ्गात्।
§ १२ ननु सत्यमेतदिन्द्रियाणां वर्तमानदशावगाहित्वमेवेति तथापि तानि सहकारिसमवधानसामर्थ्याद्दशाद्वयव्यापिन्येकत्वेऽपि प्रतीतिं जनयन्तु, अञ्जनसंस्कृतं चक्षुरिव व्यवहितेऽर्थे। न हि चक्षुषो व्यवहितार्थप्रत्यायनसामर्थ्यमस्ति, अञ्जनसंस्कारवशात्तु तथात्वमुपलब्धम्। तद्वदेव स्मरणादि सहकृतानीन्द्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्याययिष्यन्तीति किं प्रमाणान्तरकल्पनाप्रयासेनेति। तदप्यसत्; सहकारिसहस्रसमवधानेऽप्यविषयप्रवृत्तेरयोगात्। चक्षुषो हि अञ्जनसंस्कारादिः सहकारी स्वविषये रूपादावेव प्रवर्तको न त्वविषये रसादौ। अविषयश्च पूर्वोत्तरावस्थाव्यापकमेकत्वमिन्द्रियाणाम्। तस्मात्तत्प्रत्यायनाय प्रमाणान्तरमन्वेषणीयमेव, सर्वत्रापि विषयविशेषद्वारेण प्रमाणभेदव्यवस्थापनात्।
§ १३ किञ्च, अस्पष्टैवेयं तदेवेदमिति प्रतिपत्तिः, तस्मादपि न तस्याः प्रत्यक्षान्तर्भाव इति। अवश्यं चैतदेवं विज्ञेयं चक्षुरादेरैक्यप्रतीतिजननसामर्थ्यं नास्तीति। अन्यथा लिङ्गदर्शनव्याप्तिस्मरणादिसहकृतं चक्षुरादिकमेव वह्न्यादिलिङ्गिज्ञानं जनयेदिति नानुमानमपि पृथक् प्रमाणं स्यात्। स्वविषयमात्र एव चरितार्थत्वाच्चक्षुरादिकमिन्द्रियं न लिङ्गिनि प्रवर्तितुं प्रगल्भमिति चेत् प्रकृतेन किमपराद्धम्? ततः स्थितं प्रत्यभिज्ञानाख्यं पृथक् प्रमाणमस्तीति।
§ १४ सादृश्यप्रत्यभिज्ञानमुपमानाख्यं पृथक् प्रमाणमिति केचित् कथयन्ति; तदसत्; स्मृत्यनुभवपूर्वकसङ्कलनज्ञानत्वेन प्रत्यभिज्ञानत्वानतिवृत्तेः। अन्यथा गोविलक्षणो महिष इत्यादिविसदृशत्वप्रत्ययस्य, इदमस्माद् दूरमित्यादेश्च प्रत्ययस्य सप्रतियोगिकस्य पृथक् प्रमाणत्वं स्यात्। ततो वैसादृश्यादिप्रत्ययवत् सादृश्यप्रत्ययस्यापि प्रत्यभिज्ञानलक्षणाक्रान्तत्वेन प्रत्यभिज्ञानत्वमेवेति प्रामाणिकपद्धतिः।
[तर्कस्य निरूपणम्]
§ १५ अस्तु प्रत्यभिज्ञानम्, कस्तर्हि तर्कः ? व्याप्तिज्ञानं तर्कः। साध्यसाधनयोर्गम्यगमकभावप्रयोजको व्यभिचारगन्धासहिष्णुः सम्बन्धविशेषो व्याप्तिरविनाभाव इति च व्यपदिश्यते । तत्सामर्थ्यात्खल्वग्न्यादिं धूमादिरेव गमयति न तु घटादिः, तदभावात्। तस्याश्चाविनाभावापरनाम्न्याः व्याप्तेः प्रमितौ यत्साधकतमं तदिदं तर्काख्यं प्रमाणमित्यर्थः। तदुक्तं श्लोकवार्तिकभाष्ये- ‘’ साध्यसाधनसम्बन्धाज्ञाननिवृत्तिरूपे हि फले साधकतमस्तर्कः’’ [१-१३-११५] इति। ऊह इति तर्कस्यैव व्यपदेशान्तरम्। स च तर्कस्तां व्याप्तिं सकलदेश-कालोपसंहारेण विषयीकरोति।
§ १६ किमस्योदाहरणम् ? उच्यते-यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति। अत्र हि धूमे सति भूयोऽग्न्युपलम्भे अग्न्यभावे च धूमानुपलम्भे ‘सर्वत्र सर्वदा धूमोऽग्निं न व्यभिचरति’ इत्येवं सर्वोपसंहारेणाविनाभावविज्ञानं पश्चादुत्पन्नं तर्काख्यं प्रत्यक्षादेः पृथगेव। प्रत्यक्षस्य सन्निहितदेश एव धूमाग्निसम्बन्धप्रकाशनान्न व्याप्तिप्रकाशकत्वम्। सर्वोपसंहारवती हि व्याप्तिः।
§ १७ ननु यद्यपि प्रत्यक्षमात्रं व्याप्तिविषयीकरणे शक्तं न भवति तथापि विशिष्टं प्रत्यक्षं तत्र शक्तमेव। तथा हि- महानसादौ तावत्प्रथमं धूमाऽग्न्योर्दर्शनमेकं प्रत्यक्षम्, तदनन्तरं भूयो भूयः प्रत्यक्षाणि प्रवर्तन्ते, तानि च प्रत्यक्षाणि न सर्वाणि व्याप्तिविषयीकरणसमर्थानि, अपि तु पूर्वपूर्वानुभूतधूमाग्निस्मरणतत्सजातीयत्वानुसन्धानरूपप्रत्यभिज्ञानसहकृतः कोऽपि प्रत्यक्षविशेषो व्याप्तिं सर्वोपसंहारवतीमपि गृह्णाति। तथा च स्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेषे व्याप्तिविषयीकरणसमर्थे किं तर्काख्येन पृथक्प्रमाणेनेति केचित्, तेऽपि न्यायमार्गानभिज्ञाः; सहकारिसहस्रसमवधानेऽप्यविषयप्रवृत्तिर्न घटत इत्युक्तत्वात्। तस्मात्प्रत्यक्षेण व्याप्तिग्रहणमसमञ्जसम्।इदं तु समञ्जसम्-स्मरणम्, प्रत्यभिज्ञानम्, भूयो दर्शनरूपं प्रत्यक्षं च मिलित्वा तादृशमेकं ज्ञानं जनयन्ति यद्व्याप्तिग्रहणसमर्थमिति। तर्कश्च स एव। अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसम्भाव्यमेव।
§ १८ बौद्धास्तु प्रत्यक्षपृष्ठभावी विकल्पः व्याप्तिं गृह्णातीति मन्यन्ते। त एवं पृष्टव्याः- स हि विकल्पः किमप्रमाणमुत प्रमाणमिति। यद्यप्रमाणम्, कथं नाम तद्गृहीतायां व्याप्तौ समाश्वासः ? अथ प्रमाणम्, किं प्रत्यक्षमथवाऽनुमानम् ? न तावत्प्रत्यक्षम्, अस्पष्टप्रतिभासत्वात्। नाप्यनुमानम्, लिङ्गदर्शनाद्यनपेक्षत्वात्। ताभ्यामन्यदेव किञ्चित्प्रमाणमिति चेदागतस्तर्हि तर्कः। तदेवं तर्काख्यं प्रमाणं निर्णीतम्।
[अनुमानस्य निरूपणम्]
§ १९ इदानीमनुमानमनुवर्ण्यते। साधनात्साध्यविज्ञानमनुमानम्। इहानुमानमिति लक्ष्यनिर्देशः, साधनात्साध्यविज्ञानमिति लक्षणकथनम्। साधनाद्धूमादेर्लिङ्गात्साध्येऽग्न्यादौ लिङ्गिनि यद्विज्ञानं जायते तदनुमानम्, तस्यैवाऽग्न्याद्यव्युत्पत्तिविच्छित्तिकरणत्वात्। न पुनः साधनज्ञानमनुमानम्, तस्य साधनाव्युत्पत्तिविच्छेदमात्रोपक्षीणत्वेन साध्याज्ञाननिवर्तकत्वायोगात्। ततो यदुक्तं नैयायिकैः- ’ लिङ्गपरामर्शोऽनुमानम् ’ [न्यायवा. १-१-५ उद्धृतम्] इत्यनुमानलक्षणम् तदविनीतविलसितमिति निवेदितं भवति। वयं त्वनुमानप्रमाणस्वरूपलाभे व्याप्तिस्मरणसहकृतो लिङ्गपरामर्शः कारणमिति मन्यामहे, स्मृत्यादिस्वरूपलाभेऽनुभवादिवत्। तथा हि-धारणाख्योऽनुभवः स्मृतौ हेतुः। तादात्विकानुभव-स्मृती प्रत्यभिज्ञाने। स्मृतिप्रत्यभिज्ञानानुभवाः साध्यसाधनविषयास्तर्के। तद्वल्लिङ्गज्ञानं व्याप्तिस्मरणादिसहकृतमनुमानोत्पत्तौ निबन्धनमित्येतत्सुसङ्गतमेव।
§ २० ननु भवतां मते साधनमेवानुमाने हेतुर्न तु साधनज्ञानं ‘साधनात्साध्यविज्ञानमनुमानम्’ इति वचनादिति चेत्; न; साधनादित्यत्र निश्चयपथप्राप्ताद्धूमादेरिति विवक्षणात्, अनिश्चयपथप्राप्तस्य धूमादेः साधनत्वस्यैवाघटनात्। तथा चोक्तं तत्त्वार्थश्लोकवार्तिके - ‘‘साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः’’ [१-१३-१२०] इति। साधनाज्ज्ञायमानाद्धूमादेः साध्येऽग्न्यादौ लिङ्गिनि यद्विज्ञानं तदनुमानम्। अज्ञायमानस्य तस्य साध्यज्ञानजनकत्वे हि सुप्तादीनामगृहीतधूमादीनामप्यग्न्यादिज्ञानोत्पत्तिप्रसङ्गः। तस्माज्ज्ञायमानलिङ्गकारणकस्य साध्यज्ञानस्यैव साध्याव्युत्पत्तिनिरासकत्वेनानुमानत्वम्, न तु लिङ्गपरामर्शादेरिति बुधाः प्रामाणिका विदुरिति वार्तिकार्थः।
[साधनस्य लक्षणकथनम्]
§ २१ किं तत्साधनं यद्धेतुकं साध्यज्ञानमनुमानम् ? इति चेत्; उच्यते-निश्चितसाध्यान्यथानुपपत्तिकं साधनम्। यस्य साध्याभावासम्भवनियमरूपा व्याप्त्यविनाभावाद्यपरपर्याया साध्यान्यथानुपपत्तिस्तर्काख्येन प्रमाणेन निर्णीता तत्साधनमित्यर्थः। तदुक्तं कुमारनन्दिभट्टारकैः- ‘‘अन्यथानुपपत्त्येकलक्षणं लिङ्गमङ्ग्यते’’ [वादन्याय…] इति।
[साध्यस्य लक्षणकथनम्]
§ २२ किं तत्साध्यं यदविनाभावः साधनलक्षणम् ? उच्यते-शक्यमभिप्रेतमप्रसिद्धं साध्यम्। यत्प्रत्यक्षादिप्रमाणाबाधितत्वेन साधयितुं शक्यम्, वाद्यभिमतत्वेनाभिप्रेतम्, सन्देहाद्याक्रान्तत्वेनाप्रसिद्धम्, तदेव साध्यम्। अशक्यस्य साध्यत्वे वह्न्यनुष्णत्वादेरपि साध्यत्वप्रसङ्गात्। अनभिप्रेतस्य साध्यत्वे त्वतिप्रसङ्गात्। प्रसिद्धस्य साध्यत्वे पुनरनुमानवैयर्थ्यात्। तदुक्तं न्यायविनिश्चये-
‘‘साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोऽपरम्।
साध्याभासं विरुद्धादि साधनाविषयत्वतः’’ ॥१७२॥इति।
§ २३ अयमर्थः- यच्छक्यमभिप्रेतमप्रसिद्धं तत्साध्यम्। ततोऽपरं साध्याभासम्। किं तत् ? विरुद्धादि। विरुद्धं प्रत्यक्षादिबाधितम्। आदिशब्दादनभिप्रेतं प्रसिद्धं चेति। कुत एतत् ? साधनाविषयत्वतः- साधनेन गोचरीकर्तुमशक्यत्वादित्यकलङ्कदेवानामभिप्रायलेशः। तदभिप्रायसाकल्यं तु स्याद्वादविद्यापतिर्वेद। साधनसाध्यद्वयमधिकृत्य श्लोकवार्तिकं च-
अन्यथानुपपत्त्येकलक्षणं तत्र साधनम्।
साध्यं शक्यमभिप्रेतमप्रसिद्धमुदाहृतम्॥ [१-१३-२२१] इति।
§ २४ तदेवमविनाभावनिश्चयैकलक्षणात्साधनाच्छक्याभिप्रेताप्रसिद्धरूपस्य साध्यस्य ज्ञानमनुमानमिति सिद्धम्।
[अनुमानं द्विधा विभज्य स्वार्थानुमानस्य निरूपणम्]
§ २५ तदनुमानं द्विविधम्- स्वार्थं परार्थं च। तत्र स्वयमेव निश्चितात्साधनात्साध्यज्ञानं स्वार्थानुमानम्। परोपदेशमनपेक्ष्य स्वयमेव निश्चितात्प्राक्तर्कानुभूतव्याप्तिस्मरणसहकृताद्धूमादेः साधनादुत्पन्नं पर्वतादौ धर्मिण्यग्न्यादेः साध्यस्य ज्ञानं स्वार्थानुमानमित्यर्थः। यथा- पर्वतोऽयमग्निमान् धूमवत्त्वादिति। अयं हि स्वार्थानुमानस्य ज्ञानरूपस्यापि शब्देनोल्लेखः। यथा ’ अयं घटः ’ इति शब्देन प्रत्यक्षस्य। ’ पर्वतोऽयमग्निमान् धूमवत्त्वात् ’ इत्यनेन प्रकारेण प्रमाता जानातीति स्वार्थानुमानस्थितिरित्यवगन्तव्यम्।
[स्वार्थानुमानस्याङ्गप्रतिपादनम्]
§ २६ अस्य च स्वार्थानुमानस्य त्रीण्यङ्गानि- धर्मी, साध्यम्, साधनं च। तत्र साधनं गमकत्वेनाङ्गम्। साध्यं तु गम्यत्वेन। धर्मी पुनः साध्यधर्माधारत्वेन। आधारविशेषनिष्ठतया हि साध्यसिद्धिरनुमानप्रयोजनम्, धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धत्वात् ’ यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वम् ’ इति।
§ २७ अथवा, पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमानस्य, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात्। तथा च स्वार्थानुमानस्य धर्मिसाध्यसाधनभेदात् त्रीण्यङ्गानि पक्षसाधनभेदादङ्गद्वयं वेति सिद्धम्, विवक्षाया वैचित्र्यात्। पूर्वत्र हि धर्मिधर्मभेदविवक्षा, उत्तरत्र तु तत्समुदायविवक्षा । स एष धर्मित्वेनाभिमतः प्रसिद्ध एव। तदुक्तमभियुक्तैः- ‘’ प्रसिद्धो धर्मी ‘’ [परीक्षा. ३-२७] इति।
[धर्मिणस्त्रिधा प्रसिद्धेर्निरूपणम्]
§ २८ प्रसिद्धत्वं च धर्मिणः क्वचित्प्रमाणात्, क्वचिद्विकल्पात्, क्वचित्प्रमाणविकल्पाभ्याम् । तत्र प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम्। अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम्। तद्द्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम्।
§ २९ प्रमाणसिद्धो धर्मी यथा-धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः। स खलु प्रत्यक्षेणानुभूयते। विकल्पसिद्धो धर्मी यथा-अस्ति सर्वज्ञः सुनिश्चितासम्भवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः। अथवा, खरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणम्। सर्वज्ञो ह्यस्तित्वसिद्धेः प्राग् न प्रत्यक्षादिप्रमाणसिद्धः, अपि तु प्रतीतिमात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी। तथा खरविषाणमपि नास्तित्वसिद्धेः प्राग्विकल्पसिद्धम्। उभयसिद्धो धर्मी यथा-शब्दः परिणामी कृतकत्वादित्यत्र शब्दः। स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यंश्च विकल्पगम्यः। स सर्वोऽपि धर्मीति प्रमाण-विकल्पसिद्धो धर्मी। प्रमाणोभयसिद्धयोर्धर्मिणोः साध्ये कामचारः। विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः। तदुक्तम्- ‘’ विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये’’ [परीक्षा. ३-२८] इति।
§ ३० तदेवं परोपदेशानपेक्षिणः साधनाद् दृश्यमानाद्धर्मिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम्। तदुक्तम्-
परोपदेशाभावेऽपि साधनात्साध्यबोधनम्।
यद्द्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते॥ इति।
[परार्थानुमानस्य निरूपणम्]
§ ३१ परोपदेशमपेक्ष्य यत्साधनात्साध्यविज्ञानं तत्परार्थानुमानम्। प्रतिज्ञा-हेतुरूपपरोपदेशवशात् श्रोतुरुत्पन्नं साधनात् साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा- पर्वतोऽयमग्निमान् भवितुमर्हति धूमवत्त्वान्यथानुपपत्तेरिति वाक्ये केनचित्प्रयुक्ते तद्वाक्यार्थं पर्यालोचयतः स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते।
§ ३२ परोपदेशवाक्यमेव परार्थानुमानमिति केचित्; त एवं प्रष्टव्याः तत् किं मुख्यानुमानम् अथ गौणानुमानम् इति ? न तावन्मुख्यानुमानम्, वाक्यस्याज्ञानरूपत्वात्। गौणानुमानं तद्वाक्यमिति त्वनुमन्यामहे, तत्कारणे तद्व्यपदेशोपपत्तेरायुर्घृतमित्यादिवत्।
[परार्थानुमानप्रयोजकवाक्यस्य प्रतिज्ञा-हेतुरूपावयवद्वयस्य प्रतिपादनम्]
§ ३३ तस्यैतस्य परार्थानुमानस्याङ्गसम्पत्तिः स्वार्थानुमानवत्। परार्थानुमानप्रयोजकस्य च वाक्यस्य द्वाववयवौ-प्रतिज्ञा हेतुश्च। तत्र धर्म-धर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा। यथा-‘पर्वतोऽयमग्निमान्’ इति। साध्याविनाभाविसाधनवचनं हेतुः। यथा- ‘धूमवत्त्वान्यथानुपपत्तेः’ इति ‘तथैव धूमवत्त्वोपपत्तेः’- इति वा। अनयोर्हेतुप्रयोगयोरुक्तिवैचित्र्यमात्रम्। पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरित्ययमर्थः- धूमवत्त्वस्याग्निमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन कथनम्। द्वितीये तु धूमवत्त्वोपपत्तेरित्ययमर्थः - अग्निमत्वे सत्येव धूमवत्त्वस्योपपत्तेरिति विधिमुखेन प्रतिपादनम्। अर्थस्तु न भिद्यते, उभयत्राऽप्यविनाभाविसाधनाभिधानाविशेषात्। अतस्तयोर्हेतुप्रयोगयोरन्यतर एव वक्तव्यः, उभयप्रयोगे पौनरुक्त्यात्। तथा चोक्तलक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यवयवद्वयं परार्थानुमानवाक्यस्येति स्थितिः, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणैवानुमित्युदयात्।
[नैयायिकाभिमतपञ्चावयवानां निरासः]
§ ३४ नैयायिकास्तु परार्थानुमानप्रयोगस्य यथोक्ताभ्यां द्वाभ्यामवयवाभ्यां सममुदाहरणमुपनयो निगमनं चेति पञ्चावयवानाहुः। तथा च ते सूत्रयन्ति ‘’ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ‘’ [न्यायसू. १-१-३२] इति। तांश्च ते लक्षणपुरस्सरमुदाहरन्ति च।। तद्यथा-पक्षवचनं प्रतिज्ञा, यथा-पर्वतोऽयमग्निमानिति। साधनत्वप्रकाशार्थं पञ्चम्यन्तं लिङ्गवचनं हेतुः, यथा-धूमवत्त्वादिति। व्याप्तिपूर्वकदृष्टान्तवचनमुदाहरणम्, यथा-यो यो धूमवानसावसावग्निमान्, यथा महानस इति साधर्म्योदाहरणम्। यो योऽग्निमान्न भवति स स धूमवान्न भवति, यथा महाह्रद इति वैधर्म्योदाहरणम्। पूर्वत्रोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदर्श्यते, द्वितीये तु व्यतिरेकव्याप्तिः। तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टान्तः, व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टान्तः। एवं दृष्टान्तद्वैविध्यात्तद्वचनस्योदाहरणस्यापि द्वैविध्यं बोध्यम्। अनयोश्चोदाहरणयोरन्यतरप्रयोगेणैव पर्याप्तत्वादितराप्रयोगः। दृष्टान्तापेक्षया पक्षे हेतोरुपसंहारवचनमुपनयः, तथा चायं धूमवानिति। हेतुपूर्वकं पुनः पक्षवचनं निगमनम्, तस्मादग्निमानेवेति। एते पञ्चावयवाः परार्थानुमानप्रयोगस्य। तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां च नानुमितिरुदेतीति नैयायिकानामभिमतिः।
§ ३५ तदेतदविमृश्यांभिमननम्; वीतरागकथायां प्रतिपाद्याशयानुरोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्यैरवयवैः।
[विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयस्यैव सार्थक्यमिति]
§ ३६ तथा हि-वादिप्रतिवादिनोः स्वमतस्थापनार्थं जयपराजयपर्यन्तं परस्परं प्रवर्तमानो वाग्व्यापारो विजिगीषुकथा। गुरुशिष्याणां विशिष्टविदुषां वा रागद्वेषरहितानां तत्त्वनिर्णयपर्यन्तं परस्परं प्रवर्तमानो वाग्व्यापारो वीतरागकथा। तत्र विजिगीषुकथा वाद इति चोच्यते। केचिद्वीतरागकथा वाद इति कथयन्ति, तत्पारिभाषिकमेव। न हि लोके गुरुशिष्यादिवाग्व्यापारे वादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादत्वप्रसिद्धेः। यथा स्वामिसमन्तभद्राचार्यैः सर्वेसर्वथैकान्तवादिनो वादे जिता इति। तस्मिंश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारकम्, नोदाहरणादिकम्। तद्यथा-लिङ्गवचनात्मकेन हेतुना तावदवश्यं भवितव्यम्, लिङ्गज्ञानाभावेऽनुमितेरेवानुदयात्। पक्षवचनरूपया प्रतिज्ञयाऽपि भवितव्यम्, अन्यथाऽभिमतसाध्यनिश्चयाभावे साध्यसन्देहवतः श्रोतुरनुमित्यनुदयात्। तदुक्तम्-‘‘एतद्द्वयमेवानुमानाङ्गम्’’ [परीक्षा. ३-३७] इति। अयमर्थः- एतयोः प्रतिज्ञाहेत्वोर्द्वयमेवानुमानस्य परार्थानुमानस्याङ्गम्। वाद इति शेषः। एवकारेणावधारणपरेण नोदाहरणादिकमिति सूचितं भवति। व्युत्पन्नस्यैव हि वादाधिकारः, प्रतिज्ञाहेतुप्रयोगमात्रेणैवोदाहरणादिप्रतिपाद्यस्यार्थस्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात्। गम्यमानस्याऽप्यभिधाने पौनरुक्त्यप्रसङ्गादिति।
§ ३७ स्यादेतत्, प्रतिज्ञाप्रयोगेऽपि पौनरुक्त्यमेव, तदभिधेयस्य पक्षस्यापि प्रस्तावादिना गम्यमानत्वात्। तथा च लिङ्गवचनलक्षणो हेतुरेक एव वादे प्रयोक्तव्य इति वदन् बौद्धपशुरात्मनो दुर्विदग्धत्वमुद्घोषयति। हेतुमात्रप्रयोगे व्युत्पन्नस्यापि साध्यसन्देहानिवृत्तेः। तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या। तदुक्तम् - ‘’ साध्यसन्देहापनोदार्थं गम्यमानस्यापि पक्षस्य वचनम् ‘’ [परीक्षा. ३-३४] इति। तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं न चाधिकमिति स्थितम्। प्रपञ्चः पुनरवयवविचारस्य पत्रपरीक्षायामीक्षणीयः।
[वीतरागकथायामधिकावयवप्रयोगस्यौचित्यसमर्थनम्]
§ ३८ वीतरागकथायां तु प्रतिपाद्याशयानुरोधेन प्रतिज्ञाहेतू द्वाववयवौ, प्रतिज्ञाहेतूदाहरणानि त्रयः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा पञ्चेति यथायोग प्रयोगपरिपाटी। तदुक्तं कुमारनन्दिभट्टारकैः - ‘’ प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ‘’ - [वादन्याय…] इति। तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं परार्थानुमानम्। तदुक्तम् -
परोपदेशसापेक्षं साधनात्साध्यवेदनम्।
श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता॥ इति।
तथा च स्वार्थं परार्थं चेति द्विविधमनुमानं साध्याविनाभावनिश्चयैकलक्षणाद्धेतोरुत्पद्यते।
[बौद्धाभिमतत्रैरूप्यहेतुलक्षणस्य निरासः]
§ ३९ इत्थमन्यथानुपपत्त्येकलक्षणो हेतुरनुमितिप्रयोजक इति प्रथितेऽप्यार्हते। मते तदेतदवितर्क्यान्येऽन्यथाऽप्याहुः। तत्र तावत्ताथागताः ‘पक्षधर्मत्वादित्रितयलक्षणाल्लिङ्गादनुमानोत्थानम्’ इति वर्णयन्ति। तथा हि-पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद्व्यावृत्तिरिति हेतोस्त्रीणि रूपाणि। तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, यथा धूमध्वजानुमाने पर्वतः, तस्मिन् व्याप्य वर्तमानत्वं हेतोः पक्षधर्मत्वम्। साध्यसजातीयधर्मा धर्मी सपक्षः, यथा तत्रैव महानसः, तस्मिन् सर्वत्रैकदेशे वा वर्तमानत्वं हेतोः सपक्षे सत्त्वम्। साध्यविरुद्धधर्मा धर्मी विपक्षः, यथा तत्रैव ह्रदः, तस्मात्सर्वस्माद् व्यावृत्तत्वं हेतोर्विपक्षाद् व्यावृत्तिः। तानीमानि त्रीणि रूपाणि मिलितानि हेतोर्लक्षणम्। अन्यतमाभावे हेतोराभासत्वं स्यादिति।
§ ४० तदसङ्गतम्; कृत्तिकोदयादेर्हेतोरपक्षधर्मस्य शकटोदयादिसाध्यगमकत्वदर्शनात्। तथा हि- शकटं मुहूर्तान्ते उदेष्यति कृत्तिकोदयादिति। अत्र हि- शकटं धर्मी, मुहूर्तान्तोदयः साध्यः, कृत्तिकोदयो हेतुः। न हि कृत्तिकोदयो हेतुः पक्षीकृते शकटे वर्तते, अतो न पक्षधर्मः। तथाप्यन्यथानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमयत्येव। तस्माद् बौद्धाभिमतं हेतोर्लक्षणमव्याप्तम्।
[नैयायिकाभिमतपाञ्चरूप्यहेतुलक्षणस्य निरासः]
§ ४१ नैयायिकास्तु पाञ्चरूप्यं हेतोर्लक्षणमाचक्षते। तथा हि-पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद्व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति पञ्च रूपाणि। तत्राद्यानि त्रीण्युक्तलक्षणानि। साध्यविपरीतनिश्चायकप्रबलप्रमाणरहितत्वमबाधितविषयत्वम्। तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वम् । तद्यथा- पर्वतोऽयमग्निमान्, धूमवत्त्वात्, यो यो धूमवानसा।वसावग्निमान्, यथा महानसः, यो योऽग्निमान्न भवति स धूमवान्न भवति, यथा महाह्रदः, तथा चायं धूमवांस्तस्मादग्निमानेवेति। अत्र ह्यग्निमत्त्वेन साध्यधर्मेण विशिष्टः पर्वताख्यो धर्मी पक्षः, धूमवत्त्वं हेतुः। तस्य च तावत्पक्षधर्मत्वमस्ति, पक्षीकृते पर्वते वर्तमानत्वात्। सपक्षे सत्त्वमप्यस्ति, सपक्षे महानसे वर्तमानत्वात्। ननु केषुचित्सपक्षेषु धूमवत्त्वं न वर्तते, अङ्गारावस्थापन्नाग्निमत्सु प्रदेशेषु धूमाभावात्, इति चेत्; न ; सपक्षैकदेशवृत्तेरपि हेतुत्वात्, सपक्षे सर्वत्रैकदेशे वा वृत्तिर्हेतोः सपक्षे सत्त्वमित्युक्तत्वात्। विपक्षाद्व्यावृत्तिरप्यस्ति, धूमवत्त्वस्य सर्वमहाह्रदादिविपक्षव्यावृत्तेः। अबाधितविषयत्वमप्यस्ति, धूमवत्त्वस्य हेतोर्यो विषयोऽग्निमत्त्वाख्यं साध्यं तस्य प्रत्यक्षादि प्रमाणाबाधितत्वात्। असत्प्रतिपक्षत्वमप्यस्ति, अग्निरहितत्वसाधकसमबलप्रमाणासम्भवात्। तथा च पाञ्चरूप्यसम्पत्तिरेव धूमवत्त्वस्य स्वसाध्यसाधकत्वे निबन्धनम्। एवमेव सर्वेषामपि सद्धेतूनां रूपपञ्चकसम्पत्तिरूहनीया।
§ ४२ तदन्यतमविरहादेव खलु पञ्च हेत्वाभासा असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाख्याः सम्पन्नाः। तथा हि- अनिश्चितपक्षवृत्तिरसिद्धः, यथा- ‘अनित्यः शब्दश्चाक्षुषत्वात्’। अत्र हि चाक्षुषत्वं हेतुः पक्षीकृते शब्दे न वर्तते, श्रावणत्वाच्छब्दस्य। तथा च पक्षधर्मविरहादसिद्धत्वं चाक्षुषत्वस्य। साध्यविपरीतव्याप्तो विरुद्धः, यथा - ‘नित्यः शब्दः कृतकत्वात्’ इति। कृतकत्वं हेतुः साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन व्याप्तः, सपक्षे गगनादावविद्यमानो विरुद्धः। सव्यभिचारोऽनैकान्तिकः, यथा’अनित्यः शब्दः प्रमेयत्वात्’ इति। प्रमेयत्वं हि हेतुः साध्यभूतमनित्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सह वृत्तेः। ततो विपक्षाद्व्यावृत्त्यभावादनैकान्तिकः। बाधितविषयः कालात्ययापदिष्टः। यथा- ‘अग्निरनुष्णः पदार्थत्वात्’ इति। अत्र हि पदार्थत्वं हेतुः स्वविषयेऽनुष्णत्वे उष्णत्वग्राहकेण प्रत्यक्षेण बाधिते प्रवर्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्टः। प्रतिसाधनप्रतिरुद्धो हेतुः प्रकरणसमः, यथा-‘अनित्यः शब्दो नित्यधर्मरहितत्वात्’ इति। अत्र हि नित्यधर्मरहितत्वादिति हेतुः प्रतिसाधनेन प्रतिरुद्धः। किं तत्प्रतिसाधनम् इति चेत्; नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनम्। तथा चासत्प्रतिपक्षत्वाभावात्प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः। तस्मात्पाञ्चरूप्यं हेतोर्लक्षणमन्यतमाभावे हेत्वाभासत्वप्रसङ्गादिति सूक्तम्। ‘हेतुलक्षणरहिता हेतुवदवभासमानाः खलु हेत्वाभासाः। पञ्चरूपान्यतमशून्यत्वाद्धेतुलक्षणरहितत्वम्, कतिपयरूपसम्पत्तेर्हेतुवदवभासमानत्वम्’ इति वचनात्।
§ ४३ तदेतदपि नैयायिकाभिमतमनुपपन्नम्, कृत्तिकोदयस्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात्पाञ्चरूप्यस्याव्याप्तेः।
§ ४४ किञ्च, केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पाञ्चरूप्याभावेऽपि गमकत्वं तैरेवाङ्गीक्रियते। तथा हि-ते मन्यन्ते त्रिविधो हेतुः-अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति। तत्र पञ्चरूपोपपन्नोऽन्वयव्यतिरेकी। यथा-‘शब्दोऽनित्यो भवितुमर्हति कृतकत्वात्, यद्यत्कृतकं तत्तदनित्यं यथा घटः, यद्यदनित्यं न भवति तत्तत् कृतकं न भवति। यथाऽऽकाशम्, तथा चायं कृतकः, तस्मादनित्य एवेति’। अत्र शब्दं पक्षीकृत्यानित्यत्वं साध्यते। तत्र कृतकत्वं हेतुस्तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति। सपक्षे घटादौ वर्तमानत्वाद्विपक्षे गगनादाववर्तमानत्वादन्वयव्यतिरेकित्वम्।
§ ४५ पक्षसपक्षवृत्तिर्विपक्षरहितः केवलान्वयी। यथा-‘अदृष्टादयः कस्यचित्प्रत्यक्षा अनुमेयत्वात्, यद्यदनुमेयं तत्तत्कस्यचित्प्रत्यक्षम्, यथाऽग्न्यादि’ इति। अत्रादृष्टादयः पक्षः, कस्यचित् प्रत्यक्षत्वं साध्यम्, अनुमेयत्वं हेतुः अग्न्याद्यन्वयदृष्टान्तः। अनुमेयत्वं हेतुः पक्षीकृतेऽदृष्टादौ वर्तते, सपक्षभूतेऽग्न्यादौ वर्तते। ततः पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति। विपक्षः पुनरत्र नास्त्येव, सर्वस्यापि पक्षसपक्षान्तर्भावात्तस्माद्विपक्षाद्व्यावृत्तिर्नास्त्येव। व्यावृत्तेरवधिसापेक्षत्वात्, अवधिभूतस्य च विपक्षस्याभावात्। शेषमन्वयव्यतिरेकिवद् द्रष्टव्यम्।
§ ४६ पक्षवृत्तिर्विपक्षव्यावृत्तः सपक्षरहितो हेतुः केवलव्यतिरेकी। यथा-'जीवच्छरीरं सात्मकं भवितुमर्हति प्राणादिमत्त्वात्, यद्यत्सात्मकं न भवति तत्तत्प्राणादिमन्न भवति यथा लोष्ठम् इति। अत्र जीवच्छरीरं पक्षः, सात्मकत्वं साध्यम्, प्राणादिमत्त्वं हेतुः, लोष्ठादिर्व्यतिरेकदृष्टान्तः। प्राणादिमत्त्वं हेतुः पक्षीकृते जीवच्छरीरे वर्तते। विपक्षाच्च लोष्ठादेर्व्यावर्तते। सपक्षः पुनरत्र नास्त्येव, सर्वस्यापि पक्षविपक्षान्तर्भावादिति। शेषं पूर्ववत्।
§ ४७ एवमेतेषां त्रयाणां हेतूनां मध्येऽन्वयव्यतिरेकिण एव पाञ्चरूप्यम्, केवलान्वयिनो विपक्षव्यावृत्तेरभावात्, केवलव्यतिरेकिणः सपक्षे सत्त्वाभावाच्च नैयायिकमतानुसारेणैव पाञ्चरूप्यव्यभिचारः। अन्यथानुपपत्तेस्तु सर्वहेतुव्याप्तत्वाद्धेतुलक्षणत्वमुचितम्, तदभावे हेतोः स्वसाध्यगमकत्वाघटनात्।
§ ४८ यदुक्तम्-‘असिद्धादिदोषपञ्चकनिवारणाय पञ्चरूपाणि’ इति, तन्न; अन्यथानुपपत्तिमत्त्वेन निश्चितत्वस्यैवास्मदभिमतलक्षणस्य तन्निवारकत्वसिद्धेः। तथा हि-साध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वं खलु हेतोर्लक्षणम्, ‘‘साध्याविनाभावित्वेन निश्चितो हेतुः’’ [परीक्षा. ३-१५] इति वचनात्। न चैतदसिद्धस्यास्ति। शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुषत्वादेः स्वरूपस्यैवाभावे कुतोऽन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिः? ततः साध्यान्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्त्यभावादेवास्य हेत्वाभासत्वम्, न तु पक्षधर्मत्वाभावात्, अपक्षधर्मस्यापि कृत्तिकोदयादेर्यथोक्तलक्षणसम्पत्तेरेव सद्धेतुत्वप्रतिपादनात्। विरुद्धादेस्तदभावः स्पष्ट एव। न हि विरुद्धस्य व्यभिचारिणो बाधितविषयस्य सत्प्रतिपक्षस्य वाऽन्यथानुपपत्तिमत्त्वेन निश्चयपथप्राप्तिरस्ति। तस्माद्यस्यान्यथानुपपत्तिमत्त्वे सति योग्यदेशनिश्चयपथप्राप्तिरस्तीति स एव सद्धेतुरपरस्तदाभास इति स्थितम्।
§ ४९ किञ्च, ‘गर्भस्थो मैत्रीतनयः श्यामो भवितुर्महति, मैत्रीतनयत्वात्, सम्प्रतिपन्नमैत्रीतनयवत्’ इत्यत्रापि त्रैरूप्यपाञ्चरूप्ययोर्बौद्ध-यौगाभिमतयोरतिव्याप्तेरलक्षणत्वम्। तथा हि-परिदृश्यमानेषु पञ्चसु मैत्रीपुत्रेषु श्यामतामुपलभ्य तद्गर्भगतमपि विवादापन्नं पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रीतनयत्वाख्यो हेतुराभास इति तावत्प्रसिद्धम्, अश्यामत्वस्यापि तत्र सम्भावितत्वात्। तत्सम्भावना च श्यामत्वं प्रति मैत्रीतनयत्वस्यान्यथानुपपत्त्यभावात्। तदभावाश्च सहक्रमभावनियमाभावात्।
§ ५० यस्य हि धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति। यथा शिंशपात्वस्य वृक्षत्वेन सहभावनियमोऽस्तीति शिंशपात्वं हेतुर्वृक्षत्वं गमयति। यस्य च क्रमभावनियमः स तं गमयति। यथा धूमस्याग्न्यनन्तरभावनियमोऽस्तीति धूमोऽग्निं गमयति। न हि मैत्रीतनयत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा नियमोऽस्ति, येन मैत्रीतनयत्वं हेतुः श्यामत्वं साध्यं गमयेत्।
§ ५१ यद्यपि सम्प्रतिपन्नमैत्रीपुत्रेषु श्यामत्वमैत्रीतनयत्वयोः सहभावोऽस्ति तथापि नासौ नियतः। मैत्रीतनयत्वमस्तु श्यामत्वं माऽस्तु इत्येवंरूपे विपक्षे बाधकाभावात्। विपक्षे बाधकप्रमाणबलात्खलु हेतुसाध्ययोर्व्याप्तिनिश्चयः। व्याप्तिनिश्चयतः सहभावः क्रमभावो वा। ‘‘सहक्रमभावनियमोऽविनाभावः’’ [परीक्षा. ३-१६] इति वचनात्। विवादाध्यासितो वृक्षो भवितुमर्हति शिंशपात्वात्। या या शिंशपा स स वृक्षः, यथा सम्प्रतिपन्न इति। अत्र हि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्य-विशेष-भावभङ्गप्रसङ्गो बाधकः। वृक्षत्वं हि सामान्यं शिंशपात्वं तद्विशेषः। न हि विशेषः सामान्याभावे सम्भवति। न चैवं मैत्रीतनयत्वमस्तु श्यामत्वं माऽस्तु इत्युक्ते किञ्चिद्बाधकमस्ति। तस्मान्मैत्रीतनयत्वं हेत्वाभास एव। तस्य तावत्पक्षधर्मत्वमस्ति, पक्षीकृते गर्भस्थे तत्सद्भावात्। सपक्षेषु सम्प्रतिपन्नपुत्रेषु तस्य विद्यमानत्वात्सपक्षे सत्त्वमप्यस्ति। विपक्षेभ्यः पुनरश्यामेभ्यश्चैत्रपुत्रेभ्यो व्यावर्तमानत्वाद्विपक्षाद्व्यावृत्तिरस्ति। विषयबाधाभावादबाधितविषयत्वमस्ति। न हि गर्भस्थस्य श्यामत्वं केनचिद् बाध्यते। असत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात्। इति पाञ्चरूप्यसम्पत्तिः। त्रैरूप्यं तु सहस्रशतन्यायेन सुतरां सिद्धमेव।
[अन्यथानुपपन्नत्वमेव हेतोर्लक्षणमित्युपपादनम्]
§ ५२ ननु च न पाञ्चरूप्यमात्रं हेतोर्लक्षणम्। किं तर्हि ? अन्यथानुपपत्त्युपलक्षितमेव लक्षणमिति चेत्; तर्हि सैवैका तल्लक्षणमस्तु तदभावे पाञ्चरूप्यसम्पत्तावपि मैत्रीतनयत्वादौ न हेतुत्वम्। तत्सद्भावे पाञ्चरूप्याभावेऽपि कृत्तिकोदयादौ हेतुत्वमिति। तदुक्तम् -
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्।
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥
इति बौद्धान् प्रति।
§ ५३ यौगं। प्रति तु -
अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः।
नान्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः॥ [प्रमाणपरी. पृ. ७२] इति।
[हेतुं विधिप्रतिषेधरूपाभ्यां द्विधा विभज्य तयोरवान्तरभेदानां कथनम्]
§ ५४ सोऽयमन्यथानुपपत्तिनिश्चयैकलक्षणो हेतुः संक्षेपतो द्विविधः - विधिरूपः, प्रतिषेधरूपश्चेति। विधिरूपोऽपि द्विविधः - विधिसाधकः प्रतिषेधसाधकश्चेति। तत्राद्योऽनेकधा। तद्यथा- कश्चित्कार्यरूपः, यथा - ‘पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेः’ इत्यत्र धूमः। धूमो ह्यग्नेः कार्यभूतस्तदभावेऽनुपपद्यमानोऽग्निं गमयति। कश्चित्कारणरूपः, यथा - ‘वृष्टिर्भविष्यति विशिष्टमेघान्यथानुपपत्तेः’ इत्यत्र मेघविशेषः। मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्षं गमयति।
§ ५५ ननु कार्यं कारणानुमापकमस्तु, कारणाभावे कार्यस्यानुपपत्तेः। कारणं तु कार्याभावेऽपि सम्भवति, यथा-धूमाभावेऽपि सम्भवन् वह्निः सुप्रतीतः। अत एव वह्निर्न धूमं गमयतीति चेत्; तन्न; उन्मीलितशक्तिकस्य कारणस्य कार्याव्यभिचारित्वेन कार्यं प्रति हेतुत्वाविरोधात्।
§ ५६ कश्चिद्विशेषरूपः, यथा-वृक्षोऽयं शिंशपात्वान्यथानुपपत्तेरित्यत्र [शिंशपा]। शिंशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति। न हि वृक्षाभावे वृक्षविशेषो घटत इति। कश्चित्पूर्वचरः, यथा-उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः। कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति। कश्चिदुत्तरचरः, यथा-उदगाद्धरणिः प्राक्, कृत्तिकोदयादित्यत्र कृत्तिकोदयः। कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति। कश्चित्सहचरः, यथा-मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्र रसः। रसो हि नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तद्गमयति।
§ ५७ एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन् साधयन्तो धूमादयो हेतवो भावरूपा एवेति विधिसाधक-विधिरूपः। एत एवाविरुद्धोपलब्धय इत्युच्यन्ते। एवं विधिरूपस्य हेतोर्विधिसाधकाख्य आद्यो भेद उदाहृतः।
§ ५८ द्वितीयस्तु निषेधसाधकाख्यः, विरुद्धोपलब्धिरिति तस्यैव नामान्तरम्। स यथा-नास्य मिथ्यात्वम्, आस्तिक्यान्यथानुपपत्तेरित्यत्रास्तिक्यम्। आस्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितत्त्वार्थरुचिलक्षणम्। तन्मिथ्यात्ववतो न सम्भवतीति मिथ्यात्वाभावं साधयति। यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, अनेकान्तात्मकत्वान्यथानुपपत्तेरित्यत्रानेकान्तात्मकत्वम्। अनेकान्तात्मकत्वं हि वस्तुन्यबाधितप्रतीतिविषयत्वेन प्रतिभासमानं सौगतादिपरिकल्पितसर्वथैकान्ताभावं साधयत्येव।
§ ५९ ननु किमिदमनेकान्तात्मकत्वं यद्बलाद्वस्तुनि सर्वथैकान्ताभावः साध्यते इति चेत्; उच्यते; सर्वस्मिन्नपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपत्वमित्येवमादिकमनेकान्तात्मकत्वम्। एवं विधिरूपो हेतुर्दर्शितः।
§ ६० प्रतिषेधरूपोऽपि हेतुर्द्विविधः-विधिसाधकः प्रतिषेधसाधकश्चेति। तत्राद्यो यथा, अस्त्यत्र प्राणिनि सम्यक्त्वं विपरीताभिनिवेशाभावात्। अत्र विपरीताभिनिवेशाभावः प्रतिषेधरूपः सम्यक्त्वसद्भावं साधयतीति प्रतिषेधरूपो विधिसाधको हेतुः।
§ ६१ द्वितीयो यथा, नास्त्यत्र धूमोऽग्न्यनुपलब्धेरित्यत्राग्न्यभावः प्रतिषेधरूपो धूमाभावं प्रतिषेधरूपमेव साधयतीति प्रतिषेधरूपः प्रतिषेधसाधको हेतुः। तदेवं विधिप्रतिषेधरूपतया द्विविधस्य हेतोः कतिचिदवान्तरभेदा उदाहृताः। विस्तरतस्तु परीक्षामुखतः प्रतिपत्तव्याः। इत्थमुक्तलक्षणा एव हेतवः साध्यं गमयन्ति। नान्ये, हेत्वाभासत्वात्।
[हेत्वाभासानां चातुर्विध्यमुक्त्वा तेषां निरूपणम्]
§ ६२ के ते हेत्वाभासाः इति चेत्; उच्यते; हेतुलक्षणरहिता हेतुवदवभासमाना हेत्वाभासाः। ते चतुर्विधाः - असिद्धविरुद्धानैकान्तिकाकिञ्चित्करभेदात्। तत्रानिश्चयपथप्राप्तोऽसिद्धः। अनिश्चयपथप्राप्तिश्च हेतोः स्वरूपाभावनिश्चयात् स्वरूपसन्देहाच्च। स्वरूपाभावनिश्चये स्वरूपासिद्धः, स्वरूपसन्देहे सन्दिग्धासिद्धः। तत्राद्यो यथा-परिणामी शब्दः चाक्षुषत्वादिति। शब्दस्य हि श्रावणत्वाच्चाक्षुषत्वाभावो निश्चित इति स्वरूपासिद्धश्चाक्षुषत्वहेतुः। द्वितीयो यथा, धूमबाष्पादिविवेकानिश्चये कश्चिदाह- ‘अग्निमानयं प्रदेशो धूमवत्त्वात्’ इति। अत्र हि धूमवत्त्वं हेतुः सन्दिग्धासिद्धः, तत्स्वरूपे सन्देहात्।
§ ६३ साध्यविपरीतव्याप्तो हेतुर्विरुद्धः। यथाऽपरिणामी शब्दः कृतकत्वादिति। कृतकत्वं ह्यपरिणामित्वविरोधिना परिणामित्वेन व्याप्तम्।
§ ६४ पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः। स द्विविधः - निश्चितविपक्षवृत्तिकः शङ्कितविपक्षवृत्तिकश्च। तत्राद्यो यथा, धूमवानयं प्रदेशोऽग्निमत्त्वादिति। अत्राग्निमत्त्वं पक्षीकृते सन्दिह्यमानधूमे पूरोवर्तिनि प्रदेशे वर्तते, सपक्षे धूमवति महानसे च वर्तते, विपक्षे धूमरहितत्वेन निश्चितेऽङ्गारावस्थापन्नाग्निमति प्रदेशे वर्तते इति निश्चयान्निश्चितविपक्षवृत्तिकः। द्वितीयो यथा, गर्भस्थो मैत्रीतनयः श्यामो भवितुमर्हति मैत्रीतनयत्वादितरतत्तनयवदिति। अत्र मैत्रीतनयत्वं हेतुः पक्षीकृते गर्भस्थे वर्तते, सपक्षे इतरतत्पुत्रे वर्तते, विपक्षे अश्यामे वर्तेतापीति शङ्काया अनिवृत्तेः शङ्कितविपक्षवृत्तिकः। अपरमपि शङ्कितविपक्षवृत्तिकस्योदाहरणम्-अर्हन् सर्वज्ञो न भवितुमर्हति वक्तृत्वात् रथ्यापुरुषवदिति। वक्तृत्वस्य हि हेतोः पक्षीकृते अर्हति, सपक्षे रथ्यापुरुषे यथा वृत्तिरस्ति तथा विपक्षे सर्वज्ञेऽपि वृत्तिः सम्भाव्येत, वक्तृत्वज्ञातृत्वयोरविरोधात्। यद्धि येन सह विरोधि तत्खलु तद्वति न वर्तते। न च वचन-ज्ञानयोर्लोके विरोधोऽस्ति, प्रत्युत ज्ञानवत एव वचनसौष्ठवं स्पष्टं दृष्टम्। ततो ज्ञानोत्कर्षवति सर्वज्ञे वचनोत्कर्षे काऽनुपपत्तिरिति?
§ ६५ अप्रयोजको हेतुरकिञ्चित्करः। स द्विविधः - सिद्धसाधनो बाधितविषयश्चेति। तत्राद्यो यथा, शब्दः श्रावणो भवितुमर्हति शब्दत्वादिति। अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धेतुरकिंचित्करः। बाधितविषयस्त्वनेकधा। कश्चित्प्रत्यक्षबाधितविषयः, यथा- अनुष्णोऽग्निर्द्रव्यत्वादिति। अत्र द्रव्यत्वं हेतुस्तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितम्। ततः किञ्चिदपि कर्तुमशक्यत्वादकिंचित्करो द्रव्यत्वहेतुः। कश्चित्पुनरनुमानबाधितविषयः, यथा-अपरिणामी शब्दः कृतकत्वादिति। अत्र परिणामी शब्दः प्रमेयत्वादित्यनुमानेन बाधितविषयत्वम्। कश्चिदागमबाधितविषयः, यथा-प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवदिति। अत्र धर्मः सुखप्रद इत्यागमस्तेन बाधितविषयत्वं हेतोः। कश्चित्स्ववंचनबाधितविषयः, यथा-मे माता वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत्। एवमादयोऽप्यकिञ्चित्करविशेषाः स्वयमूह्याः। तदेवं हेतुप्रसङ्गाद्धेत्वाभासा अवभासिताः।
[उदाहरणस्य निरूपणम्]
§ ६६ ननु व्युत्पन्नं प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्तं तथापि बालबोधार्थमुदाहरणादिकमप्यभ्युपगतमाचार्यैः। उदाहरणं च सम्यग्दृष्टान्तवचनम्। कोऽयं दृष्टान्तो नाम इति चेत्; उच्यते; व्याप्तिसम्प्रतिपत्तिप्रदेशो दृष्टान्तः। व्याप्तिर्हि साध्ये वह्न्यादौ सत्येव साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधननियतसाहचर्यलक्षणा। एतामेव साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदिशन्ति। तस्याः सम्प्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यम्, सैषा यत्र सम्भवति स सम्प्रतिपत्तिप्रदेशो महानसादिर्हृदादिश्च। तत्रैव धूमादौ सति नियमेनाऽग्न्यादिरस्ति, अग्न्याद्यभावे नियमेन धूमादिर्नास्तीति सम्प्रतिपत्तिसम्भवात्। तत्र महानसादिरन्वयदृष्टान्तः। अत्र साध्यसाधनयोर्भावरूपान्वयसम्प्रतिपत्तिसम्भवात्। हृदादिस्तु व्यतिरेकदृष्टान्तः, अत्र साध्यसाधनयोरभावरूपव्यतिरेकसम्प्रतिपत्तिसम्भवात्। दृष्टान्तौ चैतौ, दृष्टावन्तौ धर्मौ साध्यसाधनरूपौ यत्र स दृष्टान्त इत्यर्थानुवृत्तेः।
§ ६७ उक्तलक्षणस्य दृष्टान्तस्य यत्सम्यग्वचनं तदुदाहरणम्। न च वचनमात्रमयं दृष्टान्त इति। किन्तु दृष्टान्तत्वेन वचनम्। तद्यथा-यो यो धूमवानसावसावग्निमान्, यथा महानस इति। यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाह्रद इति च। एवंविधेनैव वचनेन दृष्टान्तस्य दृष्टान्तत्वेन प्रतिपादनसम्भवात्।
[उदाहरणप्रसङ्गादुदाहरणाभासस्य कथनम्]
§ ६८ उदाहरणलक्षणरहित उदाहरणवदवभासमान उदाहरणाभासः। उदाहरणलक्षणराहित्यं द्वेधा सम्भवति, दृष्टान्तस्यासम्यग्वचनेनादृष्टान्तस्य सम्यग्वचनेन वा। तत्राद्यं यथा, यो योऽग्निमान् स स धूमवान्, यथा महानस इति, यत्र यत्र धूमो नास्ति तत्र तत्राऽग्निर्नास्ति, यथा महाह्रद इति च व्याप्यव्यापकयोर्वैपरीत्येन कथनम्।
§ ६९ ननु किमिदं व्याप्यं व्यापकं नाम इति चेत्; उच्यते; साहचर्यनियमरूपां व्याप्तिक्रियां प्रति यत्कर्म तद्व्याप्यम्, विपूर्वादापेः कर्मणि ण्यद्विधानाद्व्याप्यमिति सिद्धत्वात्। तत्तु व्याप्यं धूमादि। एतामेव व्याप्तिक्रियां प्रति यत्कर्तृ तद्व्यापकम्, व्यापेः कर्तरि ण्वुलि सति व्यापकमिति सिद्धेः। एवं सति धूममग्निर्व्याप्नोति, यत्र धूमो वर्तते तत्र नियमेनाग्निर्वर्तते इति, यावत्सर्वत्र धूमवति नियमेनाग्निदर्शनात्। धूमस्तु न तथाऽग्निं व्याप्नोति, तस्याङ्गारावस्थस्य धूमं विनापि वर्तनात्। यत्राग्निर्वर्तते तत्र नियमेन धूमो वर्तते इत्यसम्भवात्।
§ ७० नन्वार्द्रेन्धनमग्निं व्याप्नोत्येव धूम इति चेत्; ओमिति ब्रूमहे। यत्र यत्राविच्छिन्नमूलो धूमस्तत्र तत्राग्निरिति यथा, तथैव यत्र यत्राऽऽर्द्रेन्धनोऽग्निः तत्र तत्र धूम इत्यपि सम्भवात्। वह्निमात्रस्य तु धूमविशेषं प्रति व्यापकत्वमेव, अनुमानस्य तावन्मात्राऽपेक्षत्वात्। ततो यो यो धूमवानसावसावग्निमान्, यथा महानस इत्येवं सम्यग्दृष्टान्तवचनं वक्तव्यम्। विपरीतवचनं तु दृष्टान्ताभास एवेत्ययमसम्यग्वचनरूपोऽन्वयदृष्टान्ताभासः। व्यतिरेकव्याप्तौ तु व्यापकस्याग्नेरभावो व्याप्यः, व्याप्यस्य धूमस्याभावो व्यापकः। तथा सति यत्र यत्राऽग्न्यभावस्तत्र तत्र धूमाभावो यथा हृद इत्येवं वक्तव्यम्। विपरीतकथनं तु, असम्यग्वचनत्वादुदाहरणाभास एव। अदृष्टान्तवचनं तु, अन्वयव्याप्तौ व्यतिरेकदृष्टान्तवचनम्, व्यतिरेकव्याप्तावन्वयदृष्टान्तवचनं च, उदाहरणाभासौ। स्पष्टमुदाहरणम्।
§ ७१ ननु गर्भस्थो मैत्रीतनयः श्यामः, मैत्रीतनयत्वात्, साम्प्रतमैत्रीतनयवत् इत्याद्यनुमानप्रयोगे पञ्चसु मैत्रीतनयेष्वन्वयदृष्टान्तेषु ‘यत्र यत्र मैत्रीतनयत्वं तत्र तत्र श्यामत्वम्’ इत्यन्वयव्याप्तेः, व्यतिरेकदृष्टान्तेषु गौरेष्वमैत्रीतनयेषु सर्वत्र ‘यत्र यत्र श्यामत्वं नास्ति तत्र तत्र मैत्रीतनयत्वं नास्ति’ इति व्यतिरेकव्याप्तेश्च सम्भवान्निश्चितसाधने गर्भस्थमैत्रीतनये पक्षे साध्यभूतश्यामत्वसन्देहस्य गुणत्वात् सम्यगनुमानं प्रसज्येदिति चेत्; न; दृष्टान्तस्य विचारान्तरबाधितत्वात् ।
§ ७२ तथा हि-साध्यत्वेनाभिमतमिदं हि श्यामत्वरूपं। कार्यं सत् स्वसिद्धये कारणमपेक्षते। तच्च कारणं न तावन्मैत्रीतनयत्वम्, विनाऽपि तदिदं पुरुषान्तरे श्यामत्वदर्शनात्। न हि कुलालादिकमन्तरेण सम्भविनः पटस्य कुलालादिकं कारणम्। एवं मैत्रीतनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मैत्रीतनयत्वं न तत्र तत्र श्यामत्वम्, किन्तु यत्र यत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्तत्र तत्र तस्य कार्यं श्यामत्वम्, इति सिद्धं सामग्रीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य श्यामत्वं प्रति व्याप्यत्वम्। स तु पक्षे न निश्चीयत इति सन्दिग्धासिद्धः। मैत्रीतनयत्वं तु अकारणत्वादेव श्यामत्वं कार्यं न गमयेदिति।
§ ७३ केचित् ‘‘निरुपाधिकः सम्बन्धो व्याप्तिः’’ इत्यभिधाय ‘‘साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधिः’’ इत्यभिदधते। सोऽयमन्योन्याश्रयः। प्रपञ्चितमेतदुपाधिनिराकरणं कारुण्यकलिकायामिति विरम्यते।
[उपनयनिगमनयोस्तदाभासयोश्च लक्षणकथनम्]
§ ७४ साधनवत्तया पक्षस्य दृष्टान्तसाम्यकथनमुपनयः- तथा चायं धूमवानिति। साधनानुवादपुरस्सरं साध्यनियमवचनं निगमनम्- तस्मादग्निमानेवेति। अनयोर्व्यत्ययेन कथनमनयोराभासः। अवसितमनुमानम्।
[परोक्षप्रमाणभेदस्यागमस्य निरूपणम्]
§ ७५ अथागमो लक्ष्यते। आप्तवाक्यनिबन्धनमर्थज्ञानमागमः। अत्रागम इति लक्ष्यम्। अवशिष्टं लक्षणम्। अर्थज्ञानमित्येतावत्युच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्यनिबन्धनमिति। वाक्यनिबन्धनमर्थज्ञानमित्युच्यमानेऽपि यादृच्छिकसंवादिषु विप्रलम्भवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः, अत उक्तमाप्तेति। आप्तवाक्यनिबन्धनज्ञानमित्युच्यमानेऽप्याप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽतिव्याप्तिः, अत उक्तमर्थेति। अर्थस्तात्पर्यरूढः [प्रयोजनारूढ] इति यावत्। अर्थ एव ‘तात्पर्यमेव वचसि’ इत्यभियुक्तवचनात्। तत आप्तवाक्यनिबन्धनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव। यथा-‘’ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ‘’। [तत्त्वार्थसू.१-१] इत्यादिवाक्यार्थज्ञानम्। सम्यग्दर्शनादीनि। मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायः, न तु मार्गाः। ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वम्, न तु प्रत्येकमित्ययमर्थो मार्ग इत्येकवचनप्रयोगतात्पर्य सिद्धः। अयमेव वाक्यार्थः। अत्रैवार्थे प्रमाणसाध्या संशयादिनिवृत्तिः प्रमितिः।
[आप्तस्य लक्षणम्]
§ ७६ कः पुनरयमाप्तः इति चेत्; उच्यते; आप्तः प्रत्यक्षप्रमितसकलार्थत्वे सति परमहितोपदेशकः। प्रमितेत्यादावेवोच्यमाने श्रुतकेवलिष्वतिव्याप्तिः, तेषामागमप्रमितसकलार्थत्वात्। अत उक्तं प्रत्यक्षेति। प्रत्यक्षप्रमितसकलार्थ इत्येतावत्युच्यमाने सिद्धेष्वतिव्याप्तिः। अत उक्तं परमेत्यादि। परमहितं निःश्रेयसम्, तदुपदेश एवार्हतः प्रामुख्येन प्रवृत्तिः। अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः। नैवंविधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात्। ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः। आप्तसद्भावे प्रमाणमुपन्यस्तम्। नैयायिकाद्यभिमतानामाप्ताभासानामसर्वज्ञत्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनैव निरासः।
§ ७७ ननु नैयायिकाभिमत आप्तः कथं न सर्वज्ञः इति चेत्; उच्यते; तस्य ज्ञानस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं ’ सर्वज्ञोऽहम् ’ इति कथं जानीयात् ? एवमनात्मज्ञोऽयमसर्वज्ञ एव। प्रपञ्चितं च सुगतादीनामाप्ताभासत्वमाप्तमीमांसाविवरणे श्रीमदाचार्यपादैरिति विरम्यते। वाक्यं तु तन्त्रान्तरसिद्धमिति नेह लक्ष्यते।
[अर्थस्य लक्षणम्]
§ ७८ अथ कोऽयमर्थो नाम ? उच्यते; अर्थोऽनेकान्तः। अर्थ इति लक्ष्यनिर्देशः, अभिधेय इति यावत् । अनेकान्त इति लक्षणकथनम् । अनेके अन्ता धर्माः सामान्य-विशेष-पर्यायगुणा। यस्येति सिद्धोऽनेकान्तः । तत्र सामान्यमनुवृत्तिस्वरूपम् । तद्धि घटत्वं पृथुबुध्नोदराकारः, गोत्वमिति सास्नादिमत्वमेव । तस्मान्न व्यक्तितोऽत्यन्तमन्यन्नित्यमेकमनेकवृत्ति । अन्यथा -
न याति न च तत्रास्ते न पश्चादस्ति नांशवत् ।
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ॥
इति दिग्नागदर्शितदूषणगणप्रसरप्रसङ्गात् । पृथुबुध्नोदराकारादिदर्शनानन्तरमेव ‘घटोऽयं घटोऽयं गौरयं गौरयम्’ इत्याद्यनुवृत्तप्रत्ययसम्भवात् । विशेषोऽपि ‘स्थूलोऽयं घटः, सूक्ष्मः’ इत्यादिव्यावृत्तप्रत्ययालम्बनं घटादिस्वरूपमेव । तथा चाह भगवान् माणिक्यनन्दिभट्टारकः - ‘‘सामान्य-विशेषात्मा तदर्थो विषयः’’ [परीक्षा. ४-१] इति ।
§ ७९ पर्यायो द्विविधः - अर्थपर्यायो व्यञ्जनपर्यायश्चेति । तत्रार्थपर्यायो भूतत्वभविष्यत्वसंस्पर्शरहितशुद्धवर्तमानकालावच्छिन्नं वस्तुस्वरूपम् । तदेतदृजुसूत्रनयविषयमामनन्त्यभियुक्ताः । एतदेकदेशावलम्बिनः खलु सौगताः क्षणिकवादिनः । व्यञ्जनं व्यक्तिः प्रवृत्तिनिवृत्तिनिबन्धनं जलानयनाद्यर्थक्रियाकारित्वम्, तेनोपलक्षितः पर्यायो व्यञ्जनपर्यायः, मृदादेः [यथा] पिण्ड-स्थास-कोश-कुशूल-घट-कपालादयः पर्यायाः ।
§ ८० यावद्द्रव्यभाविनः सकलपर्यायानुवर्तिनो गुणाः वस्तुत्व-रूप-रस-गन्ध-स्पर्शादयः। मृद्द्रव्यसम्बन्धिनो हि वस्तुत्वादयः पिण्डादिपर्यायाननुवर्तन्ते, न तु पिण्डादयः स्थासादीन्। तत एव पर्यायाणां गुणेभ्यो भेदः। यद्यपि सामान्यविशेषौ पर्यायौ तथापि सङ्केतग्रहणनिबन्धनत्वाच्छब्दव्यवहारविषयत्वाच्चागमप्रस्तावे तयोः पृथग्निर्देशः। तदनयोर्गुणपर्याययोः द्रव्यमाश्रयः, ‘’ गुणपर्ययवद् द्रव्यम् ‘’ [तत्त्वार्थसू. ५-३८] इत्याचार्यानुशासनात्। तदपि सत्त्वमेव ‘’ सत्त्वं द्रव्यम् ‘’ इत्यकलङ्कीयवचनात्।
[सत्त्वं द्विधा विभज्य द्वयोरप्यनेकान्तात्मकत्वप्ररूपणम्]
§ ८१ तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविधम्। द्वयमप्येतदुत्पत्तिविनाशस्थितियोगि ‘’ उत्पादव्ययध्रौव्ययुक्तं सत् ‘’ [तत्त्वार्थसू. ५-३०] इति निरूपणात्। तथा हि-जीवद्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य व्ययः, दिव्यस्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति। जीवद्रव्यस्य सर्वथैकरूपत्वे पुण्योदयवैफल्यप्रसङ्गात्। सर्वथा भेदे पुण्यवानन्यः फलवानन्य इति पुण्यसम्पादनवैयर्थ्यप्रसङ्गात्। परोपकारेऽप्यात्मसुकृतार्थमेव प्रवर्तनात् तस्माज्जीवद्रव्यरूपेणाभेदो मनुष्यदेवपर्यायरूपेण भेद इति प्रतिनियतनयनिरस्तविरोधौ भेदाभेदौ प्रामाणिकावेव।
§ ८२ तथैवाजीवस्य मृद्द्रव्यस्यापि मृदः पिण्डाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पादः, मृद्रूपस्य ध्रुवत्वमिति सिद्धमुत्पादादियुक्तत्वमजीवद्रव्यस्य। स्वामिसमन्तभद्राचार्याभिमतानुसारी वामनोऽपि सदुपदेशात्प्राक्तनमज्ञानस्वभावं हन्तुमुपरितनमर्थज्ञानस्वभावं स्वीकर्तुं च यः समर्थ आत्मा स एव शास्त्राधिकारीत्याह ‘’ न शास्त्रमसद्द्रव्येष्वर्थवत् ‘’ इति। तदेवमनेकान्तात्मकं वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते। तथा च प्रयोगः - सर्वमनेकान्तात्मकं सत्त्वात्। यदुक्तसाध्यं न, तन्नोक्तसाधनम्, यथा गगनारविन्दमिति।
§ ८३ ननु यद्यप्यरविन्दं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वरूपहेतुव्यावृत्तिरिति चेत्; तर्हि तदेतदरविन्दमधिकरणविशेषापेक्षया सदसदात्मकमनेकान्तमित्यन्वयदृष्टान्तत्वं भवतैव प्रतिपादितमिति सन्तोष्टव्यमायुष्मता। उदाहृतवाक्येनापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव, न संसारकारणत्वमिति विषयविभागेन कारणाकारणात्मकत्वं प्रतिपाद्यते। ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात्। एवं प्रमाणसिद्धमनेकान्तात्मकं वस्तु।
[नयं स्वरूपतः प्रकारतश्च निरूप्य सप्तभङ्गीप्रतिपादनम्]
§ ८४ नया विभज्यन्ते। ननु कोऽयं नयो नाम ? उच्यते; प्रमाणगृहीतार्थैकदेशग्राही प्रमातुरभिप्रायविशेषः। ‘’ नयो ज्ञातुरभिप्रायः ‘’ [लघीय.का.५२] इत्यभिधानात्। स नयः संक्षेपेण द्वेधा - द्रव्यार्थिनयः पर्यायार्थिकनयश्चेति। तत्र द्रव्यार्थिकनयः द्रव्यपर्यायरूपमेकानेकात्मकमनेकान्तं प्रमाणप्रतिपन्नमर्थं विभज्य पर्यायार्थिकनयविषयस्य भेदस्योपसर्जनभावेनावस्थानमात्रमभ्यनुजानन् स्वविषयं द्रव्यमभेदमेव व्यवहारयति, ‘’ नयान्तरविषयसापेक्षः सन्नयः ‘’ इत्यभिधानात्। यथा सुवर्णमानयेति। अत्र द्रव्यार्थिकनयाभिप्रायेण सुवर्णद्रव्यानयनचोदनायां कटकं कुण्डलं केयूरं चोपनयन्नुपनेता कृती भवति, सुवर्णरूपेण कटकादीनां भेदाभावात्। द्रव्यार्थिकनयमुपसर्जनीकृत्य प्रवर्तमानपर्यायार्थिकनयमवलम्ब्य कुण्डलमानयेत्युक्ते न कटकादौ प्रवर्तते, कटकादिपर्यायात् कुण्डलपर्यायस्य भिन्नत्वात्। ततो द्रव्यार्थिकनयाभिप्रायेण सुवर्णं स्यादेकमेव। पर्यायार्थिकनयाभिप्रायेण स्यादनेकमेव। क्रमेणोभयनयाभिप्रायेण स्यादेकमनेकं च। युगपदुभयनयाभिप्रायेण स्यादवक्तव्यम्, युगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयोरेकत्वानेकत्वयोर्विमर्शासम्भवात्। न हि युगपदुपनतेन शब्दद्वयेन घटस्य प्रधानभूतयो रूपवत्त्वरसवत्त्वयोर्विविक्तस्वरूपयोः प्रतिपादनं शक्यम्। तदेतदवक्तव्यस्वरूपं तत्तदभिप्रायैरुपनतैनैकत्वादिना समुचितं स्यादेकमवक्तव्यम्, स्यादनेकमवक्तव्यम्, स्यादेकानेकमवक्तव्यमिति स्यात्। सैषा नयविनियोगपरिपाटी सप्तभङ्गीत्युच्यते, भङ्गशब्दस्य वस्तुस्वरूपभेदवाचकत्वात् सप्तानां भङ्गानां समाहारः सप्तभङ्गीति सिद्धेः।
§ ८५ नन्वेकत्र वस्तुनि सप्तानां भङ्गानां कथं सम्भवः इति चेत्; यथैकस्मिन् रूपवान् घटः रसवान् गन्धवान् स्पर्शवानिति पृथग्व्यवहारनिबन्धना। रूपवत्त्वादिस्वरूपभेदाः सम्भवन्ति तथैवेति सन्तोष्टव्यमायुष्मता।
§ ८६ एवमेव परमद्रव्यार्थिकनयाभिप्रायविषयः परमद्रव्यं सत्ता, तदपेक्षया ‘’ एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन ‘’, सद्रूपेण चेतनानामचेतनानां च भेदाभावात्। भेदे तु सद्विलक्षणत्वेन तेषामसत्त्वप्रसङ्गात्।
§ ८७ ऋजुसूत्रनयस्तु परमपर्यायार्थिकः। स हि भूतत्वभविष्यत्वाभ्यामपरामृष्टं शुद्धं वर्तमानकालावच्छिन्नवस्तुस्वरूपं परामृशति। तन्नयाभिप्रायेण बौद्धाभिमतक्षणिकत्वसिद्धिः। एते नयाभिप्रायाः सकलस्वविषयाशेषात्मकमनेकान्तं प्रमाणविषयं विभज्य व्यवहारयन्ति। स्यादेकमेव वस्तु द्रव्यात्मना न नाना, स्यान्नानैव पर्यायात्मना नैकमिति। तदेतत्प्रतिपादितमाचार्यसमन्तभद्रस्वामिभिःअनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य, नियतैकधर्मवद्वस्तुविषयत्वाच्च नयस्य। यद्येनामार्हतीं सरणिमुल्लङ्घ्य सर्वथैकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन, कथञ्चिदपि नाना नेत्याग्रहः स्यात्तदेतदर्थाभासः। एतत्प्रतिपादकं वचनमपि आगमाभासः, प्रत्यक्षेण ‘’ सत्यं भिदा तत्त्वं भिदा’’ इत्यादिनाऽऽगमेन च बाधितविषयत्वात्। सर्वथा भेद एव, न कथञ्चिदप्यभेद इत्यत्राप्येवमेव विज्ञेयम्, सद्रूपेणापि भेदेऽसतः अर्थक्रियाकारित्वासम्भवात्।
अनेकान्तोऽप्यनेकान्तः प्रमाण-नयसाधनः।
अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात्॥ [स्वयम्भू. १०३] इति।
§ ८८ ननु प्रतिनियताभिप्रायगोचरतया पृथगात्मनां परस्परसाहचर्यानपेक्षायां मिथ्याभूतानामेकत्वानेकत्वादीनां धर्माणां साहचर्यलक्षणसमुदायोऽपि मिथ्यैवेति चेत्; तदङ्गीकुर्महे, परस्परोपकार्योपकारकभावं विना स्वतन्त्रतया नैरपेक्ष्यापेक्षायां पटस्वभावविमुखतन्तुसमूहस्य शीतनिवारणाद्यर्थक्रियावदेकत्वानेकत्वादीनामर्थक्रियायां सामर्थ्याभावात् कथञ्चिन्मिथ्यात्वस्यापि सम्भवात्। तदुक्तमाप्तमीमांसायां स्वामिसमन्तभद्राचार्यैः-
मिथ्यासमूहो मिथ्या चेन्न मिथ्यैकान्तताऽस्ति नः।
निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥१०८॥इति।
§ ८९ ततो ‘नयप्रमाणाभ्यां वस्तुसिद्धिः’ इति सिद्धः सिद्धान्तः। पर्याप्तमागमप्रमाणम्।
मद्गुरोर्वर्द्धमानेशो वर्द्धमानदयानिधेः।
श्रीपादस्नेहसम्बन्धात् सिद्धेयं न्यायदीपिका ॥२॥
इति श्रीमद्वर्द्धमानभट्टारकाचार्यगुरुकारुण्यसिद्धसारस्वतोदयश्रीमदभिनवधर्मभूषणाचार्यविरचितायां न्यायदीपिकायां परोक्षप्रकाशस्तृतीयः ॥३॥
समाप्तेयं न्यायदीपिका।
टिप्पणी: § ९ में पुस्तक में “यदिदं” छपा है; पिछले वाक्यों के क्रम से “तदिदं” अपेक्षित लगता है।
टिप्पणी: § ३३ में पुस्तक में “अग्निमत्वे” छपा है; शुद्ध रूप “अग्निमत्त्वे” होना चाहिए।
टिप्पणी: § ३५ में पुस्तक में “तदेतदविमृश्यांभिमननम्” छपा है; शुद्ध रूप “तदेतदविमृश्याभिमननम्” होना चाहिए।
टिप्पणी: § ३८ में पुस्तक में “यथायोग” छपा है; शुद्ध रूप “यथायोगं” होना चाहिए।
टिप्पणी: § ४९ में पुस्तक में “भवितुर्महति” छपा है; शुद्ध रूप “भवितुमर्हति” होना चाहिए।
टिप्पणी: § ४९ में पुस्तक में “तदभावाश्च” छपा है; शुद्ध रूप “तदभावश्च” होना चाहिए।
टिप्पणी: § ६४ में पुस्तक में “पूरोवर्तिनि” छपा है; शुद्ध रूप “पुरोवर्तिनि” होना चाहिए।
टिप्पणी: § ६५ में पुस्तक में “स्ववंचनबाधितविषयः” छपा है; शुद्ध रूप “स्ववचनबाधितविषयः” होना चाहिए।
टिप्पणी: § ८४ में पुस्तक में “द्रव्यार्थिनयः” छपा है; शुद्ध रूप “द्रव्यार्थिकनयः” होना चाहिए।
टिप्पणी: § ८४ में पुस्तक में “तत्तदभिप्रायैरुपनतैनैकत्वादिना” छपा है; शुद्ध रूप “तत्तदभिप्रायैरुपनतेनैकत्वादिना” होना चाहिए।
टिप्पणी: § ८४ में पुस्तक में “समुचितं” छपा है; शुद्ध रूप “समुच्चितं” होना चाहिए।
स्रोत: NYAYDEEPIKA.PDF.pdf
NYAYDEEPIKA.PDF.pdf (58551 KB)
खोज: Nyayadipika Mul