(आर्या)
अरिहन्तसिद्धसाधुत्रितयं, जिनधर्म बिम्बवचनानि।
जिननिलयान्नवदेवान्, संस्थापये भावतो नित्यम्॥१॥
ॐ ह्रीं श्री नवदेवेभ्यः पुष्पांजलि क्षिपामि।
(उपजाति)
ये घाति-जाति-प्रतिघात- जातं शक्राद्यलंध्यंजगदेकसारम्।
प्रपेदिरेऽनंत चतुष्टयं तान्, यजे जिनेन्द्रानिह कर्णिकायाम्॥
ॐ ह्रीं श्री अर्हत्परमेष्ठिने अर्घ्यम्॥१॥
निःशेषबन्धक्षयलब्धशुद्ध, - बुद्धस्वभावान्निज सौख्यवृद्धान्।
आराधये पूर्वदले सुसिद्धान्, स्वात्मोपलब्ध्यै स्फुटमष्टधेष्ट्या॥
ॐ ह्रीं श्री सिद्धपरमेष्ठिने अर्घ्यम॥२॥
ये पन्चधाचारपरं मुमुक्षूनाचारयन्ति स्वयमाचरन्तः।
अभ्यर्चये दक्षिणदिग्दले तान्, आचार्यवर्यान्स्वपरर्थचर्यान्॥
ॐ ह्रीं श्री आचार्य परमेष्ठिने अर्घ्यम्॥३॥
येषामुपान्त्यंसमुपेत्य शास्त्राण्यधीयते मुक्तिकृते विजेयाः।
अपश्चिमान्पश्चिमदिग्दलेऽस्मिन् नमूनुपाध्यायगुरून्महामि॥
ॐ ह्रीं श्री उपाध्यायपरमेष्ठिने अर्घ्यम्॥४॥
ध्यानैकतानानवहिः प्रचारान्, सर्व सहान्निवृत्ति-साधनार्थं।
संपूजयाम्युत्तरदिग्दले तान्, साधूनशेषान् गृणशीलसिंधून्॥
ॐ ह्रीं श्री साधुपरमेष्ठिने अर्घ्यम्॥५॥
आराधकानभ्युदये समस्तान्निः श्रेयसे वा धरति ध्रुवं यः।
तं धर्ममाग्नेयविदिग्दलांते, संपूजये केवलिनोपदिष्टम्॥
ॐ ह्रीं श्री जिनधर्माय अर्घ्यम्॥६॥
सुनिश्चितासंभवबाधकत्वात्, प्रमाणभूतं सनयप्रमाणम्।
यजे हि नानाष्टकभेदवेदं, मत्यादिकं नैऋतकोणपत्रे॥
ॐ ह्रीं श्री जिनागमाय अर्घ्यम्॥७॥
व्यपेतभूषायुध - वेशदोषा, नृपेत - निःसंगत याद्रभूर्तीम्।
जिनेन्द्रबिंबान्भुवनत्रयस्थान्, समर्चये वायुविदिग्दलेऽस्मिन्॥
ॐ ह्रीं श्री जिनबिम्बेभ्यः अर्घ्यम्॥८॥
शालत्रयान्सद्मनि केतुमान् स्तम्भालयान्मंगल मंगलाद्यान्।
गृहान् जिनानामकृतान्कृतांश्च, भूतेशकोणस्थदले यजामि॥
ॐ ह्रीं श्री जिनचैत्यालयेभ्यः अर्घ्यम्॥९॥
(शार्दूलविक्रीड़ित)
मध्येकर्णिकमर्हदार्यमनघं बाह्योऽष्टपत्रोदरे।
सिद्धान् सूरिवरांश्च पाठकगुरून् साधूंश्च दिक् पत्रगान्॥
सद्धर्मागम-चैत्य-चैत्य निलयान् कोणास्थदिक्पत्रगान्।
भक्त्या सर्व सुरासुरेन्द्रमहितान् तानष्टधेष्ट्या यजे॥
ॐ ह्रीं अर्हदादिनवदेवेभ्यःपूर्णार्घ्यम्॥१०॥
नोट- विवाह में पूजा शुद्धतापूर्वक नहीं हो पाती अतः स्थापना नहीं की जा रही है।
विनायक यन्त्र पूजा
(अनुष्टुप)
परमेष्ठिन्! जगत्राण करणे मंगलोत्तम्।
इतः शरण! तिष्ठ त्त्वं, सन्निधौभद पावनम्॥
ॐ ह्रीं असिआउसा मंगलोत्तमशरणभूतेभ्यः पुष्पांजलिं क्षिपामि।
(उपजाति)
पंकेरुहायातपराग पुन्जैः, सौगन्ध्यमद्भिः सलिलैः पवित्रैः।
अर्हत्पदान्भाषित मंगलादीन्, प्रत्यूहनाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्यो जलम्॥१॥
काश्मीर-कर्पूर-कृतद्रवेण, संसार-तापापहृतौ युतेन।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्यः चंदनम्॥२॥
शाल्यक्षतैरक्षत-मूर्तिमद्भि-रब्जादिवासेन सुगन्धवद्भिः।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठयो अक्षतान्॥३॥
कदंबजात्यादिभवैः सुरद्रुमै, जतितर्मनोजातविपाशदक्षैः।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठभ्य पुष्पम्॥४॥
पीयूषपिंडैश्च शशांकशांति-स्पर्द्धद्भिरिष्टैर्नयन-प्रियैश्च।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्यः नैवेद्यम्॥५॥
ध्वस्तांधकारप्रसरैः सुदीपै - धृतोद्भवैरत्नविनिर्मितै र्वा।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्यः दीपं॥६॥
स्वकीय धूमेन नभोवएकाश व्यापदिभरुधैश्च सुगंधधूपैः।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं श्री मंगलोत्तशरण भूतेभ्यः पंचपरमेष्ठिभ्यः धूपं॥७॥
नारंग पूगादिफलैरनर्ध्यै, हृन्मानसादिप्रियतर्पकैश्च।
अर्हत्पदान्भाषित मंगलादीन् प्रत्यूह नाशार्थमहं यजामि॥
ॐ ह्रीं मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्यः फल॥८॥
(शार्दूल विक्रीडित)
अंभश्चन्दन नन्दनाक्षत तरूद्भूतै र्निवेद्यैर्वरै।
र्दीपर्धूप फलोत्तमैः समुदितै - रेभिः सुपात्रस्थितैः॥
अर्हत्सिद्धसुसूरिपाठकमुनीन् लोकोत्तमान्मंगलान्।
प्रत्यूहौघनिवृत्तये शुभकृतः सेवे शरण्याम्हम्॥
ॐ ह्रीं श्री मगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्योऽर्घ्यं॥९॥
प्रत्येक पूजनम्
(वसंततिलका)
कल्याणपंचक कृतोटयनाप्तमीश-
मर्हन्तमच्युत चतुष्टयभासुरांगम्।
स्याद्वादतागमृत-सिंधुशशांक कोटि-
मर्चे जलादिभिरनंतगुणालयं तम्॥१॥
ॐ ह्रीं श्री अनन्तचतुष्टयसमवशरणादिलक्ष्मीविभ्रतेऽर्हत्परमेष्ठिने अर्घ्यम्।
कर्माष्टकेध्मचय मुत्पथ माशु हुत्वा।
सद्ध्यानवन्हिविसरे स्वयमात्मवन्तम्॥
निःश्रेयसामृतसरस्यथ सन्निनाय,
तं सिद्धमुच्चपददं परिपूजयामि॥२॥
ॐ ह्रीं श्री अष्टकर्मकाष्ठगण भस्मीकृतेसिद्धपरमेष्ठिनेऽर्घ्यम्।
स्वाचार-पंचकमपि स्वयमाचरंति,
ह्याचारयन्ति भविकान्निजशुद्धि-भाजः।
तानर्चयामि विविधैः सलिलादिभिश्च,
प्रत्यूहनाशनविधौ निपुणान् पवित्रैः॥३॥
ॐ ह्रीं श्री पंचाचारपरायणाय आचार्यपरमेष्ठिनेऽर्घ्यम।
अंगांग-बाह्यपरिपाठन लालसाना-
मष्टांगभानपरिशीलन-भावितानाम्।
पादारविंदयुगलं खलु पाठकानां,
शुद्धैर्जलादिवसुभिः परिपूजयामि॥४॥
ॐ ह्रीं श्री द्वादशांगपठनपाठनोद्यताय उपाध्यायपरमेष्ठिनेऽर्घ्यम्।
आराधना सुखविलास-महेश्वराणां,
सद्धर्मलक्षणमयात्मविकस्वराणाम्!
स्तोतुं गुणान् गिरिवनादिनिदासिनां वै,
एषोऽर्धतश्चरणपीठभुवं यजामि॥५॥
ॐ ह्रीं श्री त्रयोदशप्रकारचारित्राराधक साधुपरमेष्ठिनेऽर्घ्यम्।
(अनुष्टुप)
अर्हन्मंगलमर्चामि, जगन्मंगल दायकम्!
प्रारब्धकर्मविघ्नौघ- प्रलयप्रदमम्बुखैः॥६॥
ॐ ह्रीं श्री अर्हन्मंगलार्घ्यम्।
चिदानन्दलसद्वीचि-मालिनं गुणशालिनम्।
सिद्धमंगलमर्चेऽहं, सलिलादिभिरुज्ज्वलैः॥७॥
ॐ ह्रीं श्री साधुमंगलायार्घ्यम्।
बुद्धिक्रियारसतपो - विक्रियौषधिमुख्यकाः।
ऋद्धयो यं न मोहंति, साधुमंगलमर्चये॥८॥
ॐ ह्रीं श्री साधुमंगलायार्घ्यम्।
लोकालोकस्वरूपज्ञ-प्रज्ञप्तं धर्म मंगलम्।
अर्चे वादित्रनिर्घोष पूरिताशं वनादिभिः॥९॥
ॐ ह्रीं श्री केवलिप्रज्ञप्तधर्म मंगलायार्घ्यम्।
लोकोत्तमोऽर्हन् जगतां, भवबाधाविनाशकः।
अर्च्यतेऽर्घेण स मया कुकर्मगणहानये॥१०॥
ॐ ह्रीं श्री अर्हल्लोकोत्तमायार्घ्यम्।
विश्वाग्रशिखरस्थायी, सिद्धो लोकोत्तमो मया।
मह्यते महसामंद- चिदानन्द सुमेदुरः॥११॥
ॐ ह्रीं श्री सिद्धलोकोत्तमायार्घ्यम्।
रागद्वेषपरित्यागी, साम्यभावावबोधकः।
साधुलोकोत्तमोऽर्घेण, पूज्यते सलिलादिभिः॥१२॥
ॐ ह्रीं श्री साधुलोकोत्तमायायर्घ्यम्।
उत्तमक्षमया भास्वान् सद्धर्मो विष्टपोत्तमः।
अनंतसुख संस्थानं यज्यतेऽम्भः सुमादिभिः॥१३॥
ॐ ह्रीं श्री केवलिप्रज्ञप्तधर्मलोकोत्तमायार्घ्यम्।
सदार्हन्शरणं मन्ये नान्यथा शरणं मम।
इति भावविशुद्ध्यर्थ-मर्हयामि जलादिभिः॥१४॥
ॐ ह्रीं श्री अर्हच्छरणार्घ्यम्।
ब्रजामि सिद्धशरणं, परावर्तनपंचकम्।
भित्वा स्वसुखसंदोह, सम्पन्नमिति पूजये॥१५॥
ॐ ह्रीं श्री सिद्धशरणायार्घ्यम्।
आश्रये साधुशरणं, सिद्धांत प्रतिपादनैः।
न्यक्कृताज्ञानतिमिर-मिति शुद्धयायजामि तम्॥१६॥
ॐ ह्रीं श्री साधुशरणायार्घ्यम्।
धर्म एव सदा बन्धुः, स एव शरणं मम।
इह वान्यत्र संसार इति तं पूजयेधुना॥१७॥
ॐ ह्रीं श्री केवलिप्रज्ञप्तधर्मशरणायार्घ्यम्।
(वसंततिलका)
संसार दुःख हनने निपुणं जनानाम्।
नाद्यन्त चक्रमिति सप्तदश प्रमाणम्॥
संपूजये विविध भक्ति भरावनम्रः।
शांतिप्रदं भुवनमुख्यपदार्थ सार्थैः॥१८॥
ॐ ह्रीं श्री अर्हदादिसप्तदश मंत्रेभ्यः समुदायार्घ्यम्।
जयमाला
(वसंततिलका)
विघ्नप्रणाशनविधौ सुरमर्त्यनाथा,
अग्रेसरं जिन वदन्ति भवंतमिष्टम्।
आनाद्यनंतयुगवर्तिनमत्र कार्ये,
गार्हस्थ्य धर्मविहितेऽहमपि स्मरामि॥१॥
विनायकः सकलधर्मिजिनेषु धर्मम्,
द्वेधा नयत्यविरतं दृढसप्तभंग्या
यद्ध्यानतो नयनभावमुज्झनेन,
बुद्धः स्वयं सकलनायक इत्यवाप्तेः॥२॥
(उपजाति)
गणानां मुनीनामधीशत्वतस्ते,
गणेशाख्यया ये भवन्तं स्तुवन्ति।
सदा विघ्नसंदोहशांतिर्जनानां,
करे संलुठत्यायतश्रायसानाम्॥३॥
यो दृक्सुधातोषित भव्य जीवो,
यो ज्ञान पीयूष पयोधि तुल्यः।
यो वृत्त दूरी कृत पाप पुंजः,
स एवं मान्यो; गणराज नाग्ना॥४॥
यतस्त्वमेवासि विनायको मे-
दृष्टेष्टयोगादविरुद्ध- वाचः
त्वन्नाममात्रेण पराभवन्ति,
विघ्नारयस्तर्हि क्रिमत्र चित्रम्॥५॥
(मालिनी)
जय जय जिनराज त्वदगुणान्को व्यनक्ति,
यदि सुरगुरुद्विन्द्रः; कोटि वर्ष प्रमाणं।
वदितुमभिलषेद्वा पारमाप्नोति नो चेत्,
कथमित हि मनुष्यः स्वल्पबुद्ध्या समेतः॥६॥
ॐ ह्रीं श्री मंगलोत्तमशरणभूतेभ्यः पंचपरमेष्ठिभ्यो जयमालाऽर्घ्यम्।
(अनुष्टुप)
श्रियं बुद्धिमनाकुल्यं, धर्मप्रीति विवर्द्धनम्।
गृहिधर्मे स्थितिर्भूयात्, श्रेयो मे दिशतु त्वरा॥
पुष्पांजलिं क्षिपेत्
स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ८५ से ९१