जैनदर्शने लोकस्वरूपम्
-प्रो. वीरसागरो जैनः
जैनदर्शने लोकस्वरूपनिरूपणपराः बहवः ग्रन्थाः विद्यन्ते येष्वाचार्ययतिवृषभविरचिता तिलोयपण्णत्तिः, आचार्यपद्मनंदिविरचिता जंबूदीवपण्णत्तिः, आचार्यनेमिचन्द्रविरचितः त्रिलोकसारश्च प्रमुखाः वर्तन्ते। एतेषां ग्रन्थानामभिधानेभ्य एव स्पष्टं वर्तते यदेतेषां मुख्यविषयः एव लोकस्वरूपमस्ति। एतदतिरिक्तं धवलग्रन्थे, तत्त्वार्थसूत्रे, तत्त्वार्थसूत्रस्य च सर्वेषु वृत्तिवार्तिकटीकाग्रन्थेष्वपि विशदतया लोकस्वरूपं प्रतिपादितम्। महापुराण-हरिवंशपुराण-पद्मचरितेष्वपि ग्रन्थारम्भे संक्षेपेण लोकस्वरूपं निगदितम्। कार्तिकेयानुप्रेक्षाद्यनुप्रेक्षाग्रन्थेष्वपि लोकानुप्रेक्षाप्रसङ्गे लोकवर्णनं समागतम्।
अत्रोक्तान् सर्वान् ग्रन्थानाश्रित्य किमपि संक्षेपेण लिख्यते।
जैनदर्शनेऽनेकत्र लोकशब्दस्य व्युत्पत्तिरपि प्रकाशिता, अतः सर्वप्रथमं लोकशब्दस्य कोऽर्थः इति ज्ञातव्यः। विषयेऽस्मिन्नाचार्याः वीरसेनस्वामिमहोदयाः धवलग्रन्थे कथयन्ति प्रश्नोत्तररूपेण-
“को लोकः? लोक्यन्त उपलभ्यन्ते यस्मिन् जीवादयः पदार्थाः सः लोकः।”1
एवमेव सर्वार्थसिद्धावपि पूज्यपादमहोदयाः लिखन्ति-
“धर्माधर्मादीनि द्रव्याणि यत्र लोक्यन्ते स लोकः इति। स यत्र तल्लोकाकाशम्। ततो बहिः सर्वतोऽनन्ता-काशम्।”2
आचार्याः नेमिचन्द्रसिद्धान्तचक्रवर्तिमहोदयाः अपि त्रिलोकसारे आज्ञापयन्ति-
"धम्माधम्मागासा गदिरागदि जीवपोग्गलाणं य।
जावत्तावल्लोगो आयासमदो परमणंतं॥"3
अर्थादाकाशस्य यावति प्रदेशे जीवपुद्गलधर्माधर्मादीनि द्रव्याणि वर्तन्ते तत् लोकाकाशं ततः परममनन्त-मलोकाकाशम्।
स्वामिकार्तिकेयमहोदयाः अपि लोकानुप्रेक्षावर्णनप्रसङ्गे एवमेव कथयन्ति-
"दीसंति जत्थ अत्था जीवादीया स भण्णओ लोओ।
तस्स सिहरम्मि सिद्धा अंतविहीणा विरायंते॥"4
तात्पर्यमिदं यत् यत्र जीवादीनि षद्रव्याणि लोक्यन्ते सः लोकः, लोकात्परं च यदनंताकाशं परिशुद्धं तदलोकाकाशम्। लोकालोकमेव यौगपद्येन विश्वसंज्ञया प्ररूप्यते।
यद्यप्याकाशद्रव्यमेकमखण्डं नित्यं निष्क्रियमविभाज्यञ्च विद्यते किन्तु जीवाद्यवस्थानापेक्षया एव तस्य लोकालोकविभागः कृतः।5 द्रव्यसंग्रहग्रन्थेऽपि विभागोऽयं स्पष्टतया सूचितः। यथा-
"धम्माधम्माकालो पोग्गलजीवा य संति जावदिये।
आयासे सो लोगो तत्तो परदो अलोगुत्तो॥"6
अर्थादाकाशस्य यावत्यंशे जीवपुद्गलादय पदार्थाः निवसन्ति तल्लोकाकाशं ततो परमनन्तमलोकाकाश-मिति। अलोकाकाशे विशुद्धमाकाशमात्रमेवोपलभ्यते। नास्ति किमप्याकाशादतिरिक्तं तत्र।
अत्रेदमेकं महत्त्वपूर्ण तत्त्वं ध्यातव्यं यत् लोके विद्यमानाः अंनतानंतसंख्याकाः जीवाद्यर्थाः परस्परं स्पृशन्ति, प्रविशन्ति, मिलन्ति तथापि कश्चिदेकोऽप्यर्थः स्वकीयं स्वभावं न त्यजति। यथोक्तमाचार्यकुन्दकुन्ददेवैः पञ्चास्तिकायसङ्ग्रहे-
"अण्णोण्णं पविसंता दिंता ओगासमण्णमण्णस्स।
मेलंता वि य णिच्चं सगं सहावं ण विजहंति॥7
नयचक्रे देवसेनाचार्यैरप्येवमेवोक्तम्-
“अवरोप्परं विमिस्सा तह अण्णोण्णावगासदो णिच्चं।
संतो वि एयखेत्ते ण परसहावेहि गच्छंति॥8
अर्थात् परस्परं मिलन्ताः प्रविशन्ताः एकस्मिन्नेव क्षेत्रे निवसन्ताः अपि सर्वे जीवाद्यर्थाः स्वकीयं स्वकीयं स्वभावं न परित्यजंति, परभावरूपे वा कदापि न परिणमन्ति।
अथानंतरं लोकस्य त्रयः विभागाः कल्प्यन्ते- अधोलोकः, मध्यलोकः, ऊर्ध्वलोकश्चेति। यथोक्तमाचार्य वीरसेनस्वामिभिः धवलग्रन्थे-
“देसभेएण तिविहो, मंदरचिलियादो उवरिमुड्ढलोगो, मंदरमूलादो हेट्टा अधोलोगो, मंदरपरिच्छिण्णो मज्झलोगो त्ति।” 9
अथ प्रथमं लोकस्याकारः तदनंतरं तस्य विस्तारः तथा तस्याप्यनन्तरं लोकस्य त्रयाणां विभागानां संक्षिप्तः परिचयः प्ररूप्यते।
लोकस्य त्रिषु विभागेष्वधोलोकस्याकारः वेत्रासनमिव, मध्यलोकस्याकारः मृदङ्गस्योपरितनं भागमिव, ऊर्ध्वलोकस्याकारः उत्थितमृदङ्गसदृशः विद्यते। तदेवोक्तं त्रिलोकप्रज्ञप्तौ यतिवृषभाचार्यैः-
"हेट्ठिमलोयायारो वेत्तासणसपिणहो सहावेण॥
मज्झिमलोयायारो उब्भियमुरवेण होइ सरिसत्तो।
संठाणो एदाणं लोयाणं एहिँ साहेमि॥"10
जैनशास्त्रेषु लोकस्य विस्तारविषयेऽपि बहुत्वेन लिखितम्। तदनुसारेण सम्पूर्णलोकस्य विस्तारः ऊर्ध्वाक्षया चतुर्दशरज्जुप्रमाणः तिर्यगपेक्षया च पृथक्-पृथक् स्थानेषु पृथक्-पृथक् परिमाणः। यथा अधस्तने भागे सप्तरज्जुप्रमाणः यः मध्यभागपर्यन्तं क्रमशः क्षीणो भूत्वा रज्जुमात्रप्रमाणः तिष्ठति, उपरितने भागे ब्रह्मस्वर्गपर्यन्तं पुनः क्रमशः वृद्धिंगतो भूत्वा पञ्चरज्जुप्रमाणः परितिष्ठति लोकस्यान्ते लोकाग्रे वा रज्जुमात्रविस्तारः।
लोकस्य अधोभागे अधोलोके वा सप्तभूमयः सन्ति। तासां नामानि क्रमशः रत्नप्रभा, शर्कराप्रभा, बालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमप्रभा, महातमप्रभा चेति। एतासु भूमिषु नारकजीवा निवसन्ति नानाविधमपरम्पारं दुःखञ्चानुभवन्ति। जैनदर्शने नरकभूमिनां वर्णनं सुविस्तरेण प्राप्नोति किन्त्वत्र विस्तारभयान्न लिख्यते। नरकभूमिमधः रज्जुप्रमाणे क्षेत्रे निगोदजीवाः एव निवसंति।
लोकस्य मध्यभागे मध्यलोके वा असंख्याताः द्वीपसमुद्राः विद्यन्ते। यथा जम्बूद्वीपः, लवणसमुद्रः, धातकीखण्डः, कालोदसमुद्रः, पुष्करवरद्वीपः, पुष्करवरसमुद्रः, वारुणीवरद्वीपः, वारुणीवरसमुद्रः, नंदीश्वरद्वीपः, नंदीश्वरसमुद्रः, स्वयंभूरमणद्वीपः, स्वयंभूरमणसागरः इत्यादयः। एते सर्वे द्वीपसमुद्राः परस्परवेष्टिताः सन्ति। सर्वेष द्वीपसमुद्रानां मध्ये एकः जम्बूद्वीपः विराजते यस्य मध्यभागे मेरुनाम्नः विशालाचलः विद्यते। वयं सर्वे मनुष्याः अत्रैव निवसामः।
मध्यलोकस्य उपरितमे भागे रज्जुप्रमाणः ज्योतिषलोकः विद्यते। अत्रानेके नक्षत्राः सूर्यचन्द्रशुक्रादिग्रहाः अवस्थिताः सन्ति मेरुपर्वतस्य च परिक्रमां कुर्वन्ति।
ऊर्ध्वलोके स्वर्गलोकः सिद्धलोकश्च विद्येते। सिद्धलोकः सर्वोपर्यस्ति लोकाग्रे। तत्र अनन्तानन्ताः मुक्तजीवाः निवसन्ति। ते सर्वे निरंजनाः नित्याः सर्वदुःखरहिताः अतीन्द्रियसुखसागरे निमग्नाः कृतकृत्याश्च भवन्ति। यथा-
"अट्ठविहकम्मवियडा सीदीभूदा णिरंजणा णिच्चा।
अट्ठगुणा किदकिच्चा लोयग्गणिवासिणो सिद्धा॥ "11
“जाइजरामरणभया संजोयविओयदुक्खसण्णाओ।
रोगादिया य जिस्से ण होंति सा होइ सिद्धगई॥"12
सिद्धलोकमधः स्वर्गलोकः विद्यते। तस्मिन्ननेके पटलाः सन्ति कल्पकल्पातीतभेदेन। कल्पपटलाः षोडश सन्ति - सौधर्मः, ईशानः, सानत्कुमारः, माहेन्द्रः, ब्रह्मः, ब्रह्मोत्तरः, लान्तवः, कापिष्टः, शुक्रः, महाशुक्रः, शतारः, सहस्रारः, आनतः, प्राणतः, आरणः, अच्युतश्चेति। कल्पातीतपटलाः त्रयः एव- ग्रैवेयकः, अनुदिशः, अनुत्तरश्चेति। एषु सर्वेषु पटलेषु विद्यन्ते असंख्याताः विमानाः विमानेषु च दिव्यन्ते देवाः।
लोकेऽस्मिन् एका त्रसनालिका विद्यते, या लोकस्य मध्ये स्थिता ऊर्ध्वरूपेण लम्बायमाना किंचिन्यूना त्रयोदशरज्जुप्रमाणा। यथोक्तमाचार्ययतिवृषभदेवैः-
'लोयबहुमज्झदेसे तरुम्मि सारं व रज्जुपदरजुदा।
तेरसरज्जुच्छेहा किंचूणा होदि तसणाली।। "13
अस्यां त्रसनालिकायां त्रसजीवा वर्तन्ते तस्मादस्याः नाम त्रसनालिका इति। के त्रसाः? आचार्योमास्वामिमहोदयाः निरूपयन्ति-
'द्वीन्द्रियादयः त्रसाः। '14
अर्थात् द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाश्चैते सर्वे जीवाः त्रसजीवाः एव।
एवमेव प्रतिपादितं प्राकृतभाषायाः पञ्चसंग्रहे -
"विहिं तिहिं चऊहिं पंचहिं सहिया जे इंदिएहिं लोयस्मि ।
ते तसकाया जीवा णेया वीरोवदेसेण ।। "15
अस्याः प्राकृतबद्धायाः गाथायारपि तात्पर्यमुक्तमेव यत् द्वीन्द्रीयाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाश्चैते सर्वे जीवाः वीरजिनेन्द्रस्योपदेशे त्रसजीवाः निरूपिताः।
एते सर्वे त्रसजीवाः त्रसनालिकायामेव वसन्ति। न ह्येकोऽपि त्रसः अस्याः त्रसनालिकायाः बहिर्भागेऽस्ति। यथोक्तमाचार्यैः वीरसेनस्वामिभिः धवलग्रन्थे-
"तसजीवलोकणालीए अब्भंतरे चेव होंति, णो बहिद्धा। "16
आचार्यकार्तिकेयस्वामिभिरप्येवमेवोक्तं यत्-
"तसनाडीए वि तसा ण बाहिरा होंति सव्वत्थ॥"17
किन्त्वत्रेदमपि ज्ञातव्यं यत् त्रसजीवाः एव त्रसनालिकायाः बहिर्भागे न सन्ति, स्थावरजीवाः तु लोके सर्वत्र विद्यमानाः सन्ति। लोकस्यैकोऽपि प्रदेशः एतादृशः न विद्यते यत्र सूक्ष्माः स्थावरजीवाः न सन्ति। तथा हि-
“एइंदिएहिं भरिदो पंचपयारेहिं सव्वदो लोओ।"18
स्थावरजीवाः एकेन्द्रियाः भवन्ति। ते पञ्चविधाः - पृथिवीकायिकः जलकायिकः तेजस्कायिकः वायुकायिकः वनस्पतिकायिकश्चेति। एषु स्थावरजीवेष्वपि ये बादराः स्थूलाः वा जीवाः सन्ति ते त्रसनालिकायामेवोपलभ्यन्ते, ये च सूक्ष्माः ते तु लोके सर्वत्र एव निवसन्ति।
एवं जैनदर्शनानुसारेण लोकस्य सामान्यस्वरूपं निरूपितम्।
अथेदानीमेकः महत्त्वपूर्णविषयः विचार्यते यज्जैनाभिमतं लोकमन्यदर्शनाभिमतात् लोकात् भिन्नं प्रदर्शयति। कानिचिद् दर्शनानि मन्यन्ते यदस्य लोकस्य कर्ता रचयिता वा कोऽपीश्वरः अवश्यमेव विद्यते, एवमेव कोऽपीश्वरः एवास्य लोकस्य भर्ता पालनकर्ता वा विद्यते, कोऽपि च विनाशकः संहारकर्ता वा विद्यते।
किन्तु जैनदर्शनानुसारेणायं लोको अनादिनिधनः नित्यः अकृत्रिमः स्वभावसिद्धः वा विद्यते। अस्य कर्ता धर्ता हर्ता च कोऽपि भवितुं नार्हति। लोकस्य विषये एतादृशं निरूपणमेव जैनदर्शनस्य वैशिष्ट्यं विद्यते। तत्र आप्तपरीक्षास्याद्वादमञ्जर्याद्यनेकेषु ग्रन्थेषु यत्र-तत्र विषयोऽयं विशदतया निरूपितः। विविधैः युक्तिमत्तकैरपि लोकस्य स्वभावसिद्धत्वमेव समर्थितम्। आचार्यवर्याः श्रीनेमिचन्द्रसिद्धान्तचक्रवर्तिमहोदयाः स्पष्टरूपेण कथयन्ति त्रिलोकसारे-
"लोगो अकिट्टिमो खलु अणाइणिहणो सहावणिव्वत्तो।
जीवाजीवेहिं फुडो सव्वागासावयवो णिच्चो॥"19
अर्थादयं लोकोऽकृत्रिमः अनादिनिधनः स्वभावनिर्वृत्तः नित्यश्च लोकेऽस्मिन् सर्वत्र जीवाद्यर्थाः परिपूर्णाः। स्वामिकार्तिकेयैरप्येवमेवोक्तमनुप्रेक्षायाम्-
"सव्वाकासमणंतस्स य बहुमज्झसंठिओ लोओ।
सो केण वि णेय कओ ण य धरिओ हरिहरादीहिं। "20
तात्पर्यमिदं यदनंताकाशस्य मध्ये स्थितोऽयं लोकः न हि केनापि कृतः निर्मितः, न च कैश्चिद् हरिहरादिभिः धृतः, अपितु स्वभावसिद्धोऽकृत्रिमोऽनादिनिधन एव।
जैनदर्शने लोकस्यानादिनिधनत्वस्य नित्यत्वस्य स्वभावसिद्धत्वस्य च हेतुरपि निर्दिष्टः। सः चायं यत् सर्वेऽर्थाः अनादिनिधनाः नित्याः स्वभावसिद्धाश्च, तस्माद् तेषां समुदायभूतः लोकोऽप्यनादिनिधनः नित्यः स्वभावसिद्धः एव। द्रव्याणामर्थानां वा कर्ता हर्ता च कोऽपि न विद्यते तस्मात्तेषां समुदायभूतस्य लोकस्यापि कर्ता हर्ता च कोऽपि न भवितुं शक्यते। तथा चोक्तम् -
"अण्णोण्णपवेसेण य दव्वाणं अच्छणं भवे लोओ।
दव्वाणं णिच्चत्तो लोयस्स वि मुणह णिच्चत्तं॥"21
एवमेवान्यैरनेकैः जैनाचार्यैः विविधैः युक्तिमत्तकैरिदं विशदतया प्रतिपादितं यदयं लोकः स्वभावसिद्धः एव, न हि कोऽप्यस्य कर्ता हर्ता वा विद्यते।
पादसंदर्भाः
१. धवलपुस्तकं १३, खण्डः ५, भागः ५ सूत्रम् ५०
२. सर्वार्थसिद्धिः, अध्यायः ५, सूत्रम् १२
३. त्रिलोकसारः, गाथा ११०
४. कार्तिकेयानुप्रेक्षा, गाथा १२१
५. प्रवचनसारस्य जयसेनाचार्यकृता तात्पर्यवृत्तिः, गाथा १४०
६. द्रव्यसंग्रहः, गाथा २०
७. पंचास्तिकायसंग्रहः, गाथा ७
८. देवसेनाचार्यस्य नयचक्रम्, गाथा ७
९. धवलपुस्तकं ४, खण्डः १, भागः ३, सूत्रम् १
१०. तिलोयपण्णत्तिः, अधिकारः प्रथमः, गाथा १३७-१३८
११. तत्त्वार्थसूत्रम्, अध्यायः ३, सूत्रम् १
१२. तिलोयपण्णत्तिः, अधिकारः पञ्चमः, गाथा ८ तः १०
१३. पंचसंग्रहः (प्राकृते), गाथा ३९
१४. पंचसंग्रहः (प्राकृते), गाथा ६४
१५. तिलोयपण्णत्तिः, द्वितीय अधिकारः, गाथा ६
१६. तत्त्वार्थसूत्रम्, अध्यायः ४. सूत्रम् १ ९
१७. पंचसंग्रहः (प्राकृते), गाथा ८६
१८. धवलपुस्तकं ४, खण्डः १, भागः ४, सूत्रम् ४
१९. कार्तिकेयानुप्रेक्षा, गाथा १२२
२०. कार्तिकेयानुप्रेक्षा, गाथा १२२
२१. त्रिलोकसारः, गाथा १०९
२२. कार्तिकेयानुप्रेक्षा, गाथा ११५
२३. कार्तिकेयानुप्रेक्षा, गाथा ११६
जैनदर्शने_लोकस्वरूपम्.pdf (0.1 MB)