(अनुष्टुप)
मेरुपूर्वापराशासु वैदेहा ये जिनेश्वराः,
तेषां कुर्वे समाह्वानं मामकीनविशुद्धये।
ॐ ह्रीं विदेहक्षेत्रस्थविद्यमानविंशतितीर्थंकरा अत्रावतरतावतरतेति समाह्वाननकर्म।
सार्द्धद्विमानुषे द्वीपे विद्यमानान् विदेहगान्,
स्थापयाम्यत्र विंशार्हान् तीर्थेशान् भावशुद्धये।
ॐ ह्रीं विदेहस्थविद्यमानविंशतितीर्थंकरा अत्र तिष्ठत तिष्ठत ठः ठः स्थापनकर्म।
पंचसंख्यविदेहेषु विद्यमानजिनेश्वरान्,
संदधाम्यत्र सान्निध्ये पूजायै दृष्टिशुद्धये।
ॐ ह्रीं विदेहस्थविद्यमानविंशतितीर्थंकरा अत्र मम सन्निहिता भवत भवत वषट् सन्निधिकरणकर्म।
(वसंततिलकानि)
गंगाप्रमुख्यशुचिनिर्मलनीरजातैः,
स्फाटिक्यकान्तिहिममिश्रितगंधजातै;
सीमंधरादिजिनविंशतिपादपद्मान्,
सन्तर्पयामि जनिमृत्युजरान्तहेतोः।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः जन्मजरामृत्युविनाशनाय जलं०
कर्पूरकुंकुमसुगन्धितपुष्पसारै-
रेकीकृतैर्मलयजद्रवगंधसारैः;
सीमंधरादिजिनविंशतिपादपद्मान्,
संचर्चयामि भवतापविनाशहेतोः।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः संसारतापविनाशनाय चंदनं०
स्वच्छाक्षतैर्हृदयमोदकरैरखंडै-
श्चान्द्रप्रभैरतुषपद्मसुवासितैष्टैः;
सीमंधरादिजिनविंशतितीर्थनाथान्,
सम्पूजयामि विषदाक्षयधामहेतोः।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः अक्षयपदप्राप्तये अक्षतान्०
अम्भोजचम्पकलतातृणशून्यजाति-
बन्धूककेसरसुगन्धितपुष्पजातैः,
सीमंधरादिजिनविंशतिमारमारान्,
अभ्यर्चयामिमदनज्वरनाशहेतोः।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः कामबाणविनाशनाय पुष्पं०
स्वादिष्टमिष्टरसपायसमोदकाद्यैः,
नैवेद्यकैःशुचितमैश्च सुधासमानैः;
सीमंधरादिजिनविंशतिमुख्यतीर्थान्,
प्रार्चे क्षुधाविषमरोगविमुक्तिहेतोः।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः क्षुधारोगविनाशनाय नैवेद्यं०
दीपैः प्रदीपितजगत्त्रयरश्मिजालैः;
दूरीकृतान्धघनमोहमहत्प्रजालैः;
सीमंधरादिजिनविंशतिपूज्यपादान्,
अर्चे महातिमिरमोहविनाशहेतोः।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः मोहांधकारविनाशनाय दीपं०
सौगन्ध्यसारघनसारविशिष्टधूपैः
सौगन्ध्यसारवपुरेकविधानरूपैः;
सीमंधरादिजिनविंशतितीर्थवर्यान्,
प्रार्चेऽष्टकर्मदहनाय सदा समर्च्यान्।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः अष्टकर्मदहनाय धूपं०
नारंगदाडिमरसालबदामपुंगैः,
श्रेष्ठैः फलै सुफलमोक्षफलैकफुलैः;
सीमंधरादिजिनविंशतितीर्थकर्तॄन्,
सम्पूजये सुफलमोक्षफलाप्तिहेतोः
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः मोक्षफलप्राप्तये फलं०
सन्मिश्रितैर्जलसुगंधदक्षताद्यै-
रर्घ्यैरनर्घ्यपदमोक्षसुखादिभावैः;
सीमंधरादिजिनविंशतितीर्थभर्तॄन्,
प्रार्चाम्यनर्घ्यपदमौक्तिकमुख्यहेतोः
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः अनर्घ्यपदप्राप्तये अर्घं०
जयमाला
(शार्दूलविक्रीडितं)
दृष्टिज्ञानसुचारुदीप्तमणिना दीप्ताः सदा शाश्वताः,
तीर्थेशा भवभावपाशरहिताः सीमंधराद्या जिनाः;
भव्यानां जयमालिकैकरणा विद्वेषिणा कर्मणः,
ये तेभ्यः प्रददामि मोक्षगमने यानं महार्घ्यं शुभम्।
ॐ ह्रीं पंचविदेहस्थविद्यमानविंशतितीर्थंकरेभ्यः महार्घं निर्वपामीति स्वाहा।
शान्तिपाठ
(वसंततिलकम्)
सीमंधरादिभवशान्तिकरा जिनेन्द्राः,
सर्वार्थसाधनगुणप्रणिधानरूपाः;
तेभ्योऽर्पयामि भवकारणनाशबीजं,
पुष्पांजलि विमलमंगलकामरूपम्।
(पुष्पांजलि)
स्रोत: श्री जिनेन्द्र पूजासंग्रह (सोनगढ़), पृष्ठ ४२ (श्री जिनेन्द्र पूजासंग्रह (सोनगढ़) | Shri Jinendra Puja Sangrah (Songadh))