तत्त्वार्थसूत्र — आचार्य उमास्वामी (मूल सूत्र, १० अध्याय)

अध्याय १

१.१ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥

१.२ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥

१.३ तन्निसर्गादधिगमाद्वा ॥

१.४ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥

१.५ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥

१.६ प्रमाणनयैरधिगमः ॥

१.७ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥

१.८ सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥

१.९ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥

१.१० तत्प्रमाणे ॥

१.११ आद्ये परोक्षम् ॥

१.१२ प्रत्यक्षमन्यत् ॥

१.१३ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥

१.१४ तदिन्द्रियानिन्द्रियनिमित्तम् ॥

१.१५ अवग्रहेहावायधारणाः ॥

१.१६ बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥

१.१७ अर्थस्य ॥

१.१८ व्यञ्जनस्यावग्रहः ॥

१.१९ न चक्षुरनिन्द्रियाभ्याम् ॥

१.२० श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥

१.२१ भवप्रत्ययोऽवधिर्देवनारकाणाम् ॥

१.२२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥

१.२३ ऋजुविपुलमती मनःपर्ययः ॥

१.२४ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥

१.२५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥

१.२६ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥

१.२७ रूपिष्ववधेः ॥

१.२८ तदनन्तभागे मनःपर्ययस्य ॥

१.२९ सर्वद्रव्यपर्यायेषु केवलस्य ॥

१.३० एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥

१.३१ मतिश्रुतावधयो विपर्ययश्च ॥

१.३२ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥

१.३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नयाः ॥

अध्याय २

२.१ औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥

२.२ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥

२.३ सम्यक्त्वचारित्रे ॥

२.४ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥

२.५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥

२.६ गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥

२.७ जीवभव्याभव्यत्वानि च ॥

२.८ उपयोगो लक्षणम् ॥

२.९ स द्विविधोऽष्टचतुर्भेदः ॥

२.१० संसारिणो मुक्ताश्च ॥

२.११ समनस्काऽमनस्काः ॥

२.१२ संसारिणस्त्रसस्थावराः ॥

२.१३ पृथिव्यप्तेजो वायुवनस्पतयः स्थावराः ॥

२.१४ द्वीन्द्रियादयस्त्रसाः ॥

२.१५ पंचेन्द्रियाणि ॥

२.१६ द्विविधानि ॥

२.१७ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥

२.१८ लब्ध्युपयोगो भावेन्द्रियम् ॥

२.१९ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥

२.२० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥

२.२१ श्रुतमनिन्द्रियस्य ॥

२.२२ वनस्पत्यन्तानामेकम् ॥

२.२३ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥

२.२४ संज्ञिनः समनस्काः ॥

२.२५ विग्रहगतौ कर्मयोगः ॥

२.२६ अनुश्रेणी गतिः ॥

२.२७ अविग्रहा जीवस्य ॥

२.२८ विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥

२.२९ एकसमयाऽविग्रहा ॥

२.३० एकं द्वौ त्रीन्वानाहारकः ॥

२.३१ सम्मूर्च्छनगर्भोपपादा जन्म ॥

२.३२ सचित्तशीतसंवृताः सेतरामिश्राश्चैकशस्तद्योनयः ॥

२.३३ जरायुजाण्डजपोतानां गर्भः ॥

२.३४ देवनारकाणामुपपादः ॥

२.३५ शेषाणां सम्मूर्च्छनं ॥

२.३६ औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥

२.३७ परं परं सूक्ष्मम् ॥

२.३८ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥

२.३९ अनन्तगुणे परे ॥

२.४० अप्रतीघाते ॥

२.४१ अनादिसंबन्धे च ॥

२.४२ सर्वस्य ॥

२.४३ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥

२.४४ निरुपभोगमन्त्यम् ॥

२.४५ गर्भसम्मूर्च्छनजमाद्यम् ॥

२.४६ औपपादिकं वैक्रियिकम् ॥

२.४७ लब्धिप्रत्ययं च ॥

२.४८ तैजसमपि ॥

२.४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥

२.५० नारकसंमूर्च्छिनो नपुंसकानि ॥

२.५१ न देवाः ॥

२.५२ शेषास्त्रिवेदाः ॥

२.५३ औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपवर्त्यायुषः ॥

अध्याय ३

३.१ रत्नशर्करावालुकापंकधूमतमोमहातमः प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः ॥

३.२ तासु त्रिंशत्पंचविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥

३.३ नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥

३.४ परस्परोदीरितदुःखाः ॥

३.५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥

३.६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥

३.७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥

३.८ द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥

३.९ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥

३.१० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥

३.११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥

३.१२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥

३.१३ मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्ताराः ॥

३.१४ पद्ममहापद्मतिगिञ्छकेशरि महापुण्डरीकपुण्डरीकाहृदास्तेषामुपरि ॥

३.१५ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो हृदः ॥

३.१६ दशयोजनावगाहः ॥

३.१७ तन्मध्ये योजनं पुष्करम् ॥

३.१८ तद् द्विगुणद्विगुणा हृदाः पुष्कराणि च ॥

३.१९ तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः ॥

३.२० गंगासिन्धु रोहिद्रोहितास्याहरिद्धरिकान्ता सीतासीतोदानारीनरकान्ता सुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥

३.२१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥

३.२२ शेषास्त्वपरगाः ॥

३.२३ चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः ॥

३.२४ भरतः षड्विंशतिपंचयोजनशतविस्तारः षट्चैकोनविंशतिभागायोजनस्य ॥

३.२५ तद् द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥

३.२६ उत्तरा दक्षिणतुल्याः ॥

३.२७ भरतैरावतयोर्वृद्धिह्रासौ षट् समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥

३.२८ ताभ्यामपरा भूमयोऽवस्थिताः ॥

३.२९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदेवकुरवकाः ॥

३.३० तथोत्तराः ॥

३.३१ विदेहेषु संख्येयकालाः ॥

३.३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥

३.३३ द्विर्धातकीखण्डे ॥

३.३४ पुष्करार्द्धे च ॥

३.३५ प्राङ् मानुषोत्तरान्मनुष्याः ॥

३.३६ आर्या म्लेच्छाश्च ॥

३.३७ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥

३.३८ नृस्थितीपरावरे त्रिपल्योपमान्तर्मुहूर्ते ॥

३.३९ तिर्यग्योनिजानां च ॥

अध्याय ४

४.१ देवाश्चतुर्णिकायाः ॥

४.२ आदितस्त्रिषु पीतान्तलेश्याः ॥

४.३ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥

४.४ इंद्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्विषिकाश्चैकशः ॥

४.५ त्रायस्त्रिंशलोकपालवर्ज्या व्यंतरज्योतिष्काः ॥

४.६ पूर्वयोर्द्वीन्द्राः ॥

४.७ कायप्रवीचारा आ ऐशानात् ॥

४.८ शेषाः स्पर्शरूपशब्दमनः प्रवीचाराः ॥

४.९ परेऽप्रवीचाराः ॥

४.१० भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥

४.११ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥

४.१२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥

४.१३ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥

४.१४ तत्कृतः कालविभागः ॥

४.१५ बहिरवस्थिताः ॥

४.१६ वैमानिकाः ॥

४.१७ कल्पोपपन्नाः कल्पातीताश्च ॥

४.१८ उपर्युपरि ॥

४.१९ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्त जयन्तापराजितेषु सर्वार्थसिद्धौ च ॥

४.२० स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥

४.२१ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥

४.२२ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥

४.२३ प्राग्ग्रैवेयकेभ्यः कल्पाः ॥

४.२४ ब्रह्मलोकालया लौकान्तिकाः ॥

४.२५ सारस्वतादित्य वह्न्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥

४.२६ विजयादिषु द्विचरमाः ॥

४.२७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥

४.२८ स्थितिरसुरनागसुपर्णद्वीपशेषाणांसागरोपमत्रिपल्योपमार्द्धहीनमिताः ॥

४.२९ सौधर्मेशानयोः सागरोपमेऽधिके ॥

४.३० सानत्कुमारमाहेन्द्रयोः सप्त ॥

४.३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥

४.३२ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥

४.३३ अपरा पल्योपममधिकम् ॥

४.३४ परतः परतः पूर्वा पूर्वाऽनन्तरा ॥

४.३५ नारकाणां च द्वितीयादिषु ॥

४.३६ दशवर्षसहस्राणि प्रथमायाम् ॥

४.३७ भवनेषु च ॥

४.३८ व्यन्तराणां च ॥

४.३९ परा पल्योपममधिकम् ॥

४.४० ज्योतिष्काणां च ॥

४.४१ तदष्टभागोऽपरा च ॥

४.४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥

अध्याय ५

५.१ अजीवकायाधर्माधर्माकाशपुद्गलाः ॥

५.२ द्रव्याणि ॥

५.३ जीवाश्च ॥

५.४ नित्यावस्थितान्यरूपाणि ॥

५.५ रूपिणः पुद्गलाः ॥

५.६ आ आकाशादेकद्रव्याणि ॥

५.७ निष्क्रियाणि च ॥

५.८ असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥

५.९ आकाशस्यानन्ताः ॥

५.१० संख्येयासंख्येयाश्च पुद्गलानाम् ॥

५.११ नाणोः ॥

५.१२ लोकाकाशेऽवगाहः ॥

५.१३ धर्माधर्मयोः कृत्स्ने ॥

५.१४ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥

५.१५ असंख्येयभागादिषु जीवानाम् ॥

५.१६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥

५.१७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥

५.१८ आकाशस्यावगाहः ॥

५.१९ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥

५.२० सुखदुःखजीवितमरणोपग्रहाश्च ॥

५.२१ परस्परोपग्रहो जीवानाम् ॥

५.२२ वर्तनापरिणामक्रियापरत्वापरत्वे च कालस्य ॥

५.२३ स्पर्शरसगंधवर्णवन्तः पुद्गलाः ॥

५.२४ शब्दबंधसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥

५.२५ अणवः स्कन्धाश्च ॥

५.२६ भेदसंघातेभ्य उत्पद्यन्ते ॥

५.२७ भेदादणुः ॥

५.२८ भेदसंघाताभ्यां चाक्षुषः ॥

५.२९ सद् द्रव्यलक्षणम् ॥

५.३० उत्पादव्ययध्रौव्ययुक्तं सत् ॥

५.३१ तद्भावाव्ययं नित्यम् ॥

५.३२ अर्पितानर्पितसिद्धेः ॥

५.३३ स्निग्धरूक्षत्वाद् बन्धः ॥

५.३४ न जघन्यगुणानाम् ॥

५.३५ गुणसाम्ये सदृशानाम् ॥

५.३६ द्व्यधिकादिगुणानां तु ॥

५.३७ बन्धेऽधिकौ पारिणामिकौ च ॥

५.३८ गुणपर्ययवद् द्रव्यम् ॥

५.३९ कालश्च ॥

५.४० सोऽनन्तसमयः ॥

५.४१ द्रव्याश्रया निर्गुणा गुणाः ॥

५.४२ तद्भावः परिणामः ॥

अध्याय ६

६.१ कायवाङ्मनः कर्मयोगः ॥

६.२ स आस्रवः ॥

६.३ शुभः पुण्यस्याशुभः पापस्य ॥

६.४ सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥

६.५ इन्द्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंख्याः पूर्वस्य भेदाः ॥

६.६ तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥

६.७ अधिकरणं जीवाजीवाः ॥

६.८ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥

६.९ निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥

६.१० तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥

६.११ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेद्यस्य ॥

६.१२ भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षांतिः शौचमिति सद्वेद्यस्य ॥

६.१३ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥

६.१४ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥

६.१५ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥

६.१६ माया तैर्यग्योनस्य ॥

६.१७ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥

६.१८ स्वभावमार्दवं च ॥

६.१९ निःशीलव्रतत्वं च सर्वेषाम् ॥

६.२० सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥

६.२१ सम्यक्त्वं च ॥

६.२२ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥

६.२३ तद्विपरीतं शुभस्य ॥

६.२४ दर्शनविशुद्धिर्विनयसम्पन्नताशीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावनाप्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥

६.२५ परात्मनिन्दाप्रशंसे सदसद् गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥

६.२६ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥

६.२७ विघ्नकरणमन्तरायस्य ॥

अध्याय ७

७.१ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् ॥

७.२ देशसर्वतोऽणुमहती ॥

७.३ तत्स्थैर्यार्थं भावनाः पञ्चपञ्च ॥

७.४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥

७.५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च ॥

७.६ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पञ्च ॥

७.७ स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥

७.८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेष वर्जनानि पञ्च ॥

७.९ हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥

७.१० दुःखमेव वा ॥

७.११ मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेषु ॥

७.१२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥

७.१३ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥

७.१४ असदभिधानमनृतम् ॥

७.१५ अदत्तादानं स्तेयम् ॥

७.१६ मैथुनमब्रह्म ॥

७.१७ मूर्च्छा परिग्रहः ॥

७.१८ निःशल्यो व्रती ॥

७.१९ अगार्यनगारश्च ॥

७.२० अणुव्रतोऽगारी ॥

७.२१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्पन्नश्च ॥

७.२२ मारणान्तिकीं सल्लेखनां जोषिता ॥

७.२३ शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ॥

७.२४ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥

७.२५ बंधवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥

७.२६ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥

७.२७ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥

७.२८ परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥

७.२९ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥

७.३० ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतराधानानि ॥

७.३१ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥

७.३२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥

७.३३ योग दुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥

७.३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥

७.३५ सचित्तसंबंधसम्मिश्राभिषवदुःपक्वाहाराः ॥

७.३६ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥

७.३७ जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ॥

७.३८ अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥

७.३९ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥

अध्याय ८

८.१ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥

८.२ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बंधः ॥

८.३ प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ॥

८.४ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥

८.५ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चभेदायथाक्रमम् ॥

८.६ मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥

८.७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥

८.८ सदसद्वेद्ये ॥

८.९ दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबंध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ॥

८.१० नारकतैर्यग्योनमानुषदैवानि ॥

८.११ गतिजातिशरीराङ्गोपाङ्गनिर्माणबंधनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशः कीर्तिसेतराणि तीर्थकरत्वं च ॥

८.१२ उच्चैर्नीचैश्च ॥

८.१३ दानलाभभोगोपभोगवीर्याणाम् ॥

८.१४ आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥

८.१५ सप्ततिर्मोहनीयस्य ॥

८.१६ विंशतिर्नामगोत्रयोः ॥

८.१७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥

८.१८ अपरा द्वादश मुहूर्ता वेदनीयस्य ॥

८.१९ नामगोत्रयोरष्टौ ॥

८.२० शेषाणामन्तर्मुहूर्ता ॥

८.२१ विपाकोऽनुभवः ॥

८.२२ स यथानाम ॥

८.२३ ततश्च निर्जरा ॥

८.२४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥

८.२५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥

८.२६ अतोऽन्यत्पापम् ॥

अध्याय ९

९.१ आस्रवनिरोधः संवरः ॥

९.२ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥

९.३ तपसा निर्जरा च ॥

९.४ सम्यग्योगनिग्रहो गुप्तिः ॥

९.५ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥

९.६ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ॥

९.७ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः ॥

९.८ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥

९.९ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥

९.१० सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥

९.११ एकादश जिने ॥

९.१२ बादरसाम्पराये सर्वे ॥

९.१३ ज्ञानावरणे प्रज्ञाज्ञाने ॥

९.१४ दर्शनमोहान्तराययोरदर्शनालाभौ ॥

९.१५ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥

९.१६ वेदनीये शेषाः ॥

९.१७ एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतिः ॥

९.१८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमितिचारित्रम् ॥

९.१९ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥

९.२० प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥

९.२१ नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् ॥

९.२२ आलोचनाप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥

९.२३ ज्ञानदर्शनचारित्रोपचाराः ॥

९.२४ आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥

९.२५ वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥

९.२६ बाह्याभ्यन्तरोपध्योः ॥

९.२७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥

९.२८ आर्त्तरौद्रधर्म्यशुक्लानि ॥

९.२९ परे मोक्षहेतू ॥

९.३० आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥

९.३१ विपरीतं मनोज्ञस्य ॥

९.३२ वेदनायाश्च ॥

९.३३ निदानं च ॥

९.३४ तदविरतदेशविरतप्रमत्तसंयतानां ॥

९.३५ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥

९.३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥

९.३७ शुक्ले चाद्ये पूर्वविदः ॥

९.३८ परे केवलिनः ॥

९.३९ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥

९.४० त्र्येकयोगकाययोगायोगानाम् ॥

९.४१ एकाश्रये सवितर्कवीचारे पूर्वे ॥

९.४२ अवीचारं द्वितीयम् ॥

९.४३ वितर्कः श्रुतम् ॥

९.४४ वीचारोऽर्थव्यंजनयोगसंक्रान्तिः ॥

९.४५ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशांतमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥

९.४६ पुलाकवकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रंथाः ॥

९.४७ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः ॥

अध्याय १०

१०.१ मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥

१०.२ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥

१०.३ औपशमिकादिभव्यत्वानां च ॥

१०.४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥

१०.५ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥

१०.६ पूर्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथागतिपरिणामाच्च ॥

१०.७ आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥

१०.८ धर्मास्तिकायाभावात् ॥

१०.९ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥