तीर्थंकरभक्ति (भक्ति पाठ) | Tirthankar Bhakti (Bhakti Path)

तीर्थंकरभक्ति

(आर्या)
चउवीसं तित्थयरे उसहाईवीरपच्छिमे वंदे ।
सव्वेसिं मुणिगणहर सिद्धे सिरसा णमंसामि ।।१।।

(शार्दूलविक्रीड़ित)
ये लोकेष्टसहस्रलक्षणधरा ज्ञेयार्णवांतर्गता ।
ये सम्यग्भवजालहेतुमथनाश्चन्द्रार्कतेजोधिकाः ।।
ये साध्विद्रसुराप्सरोगणशतैर्गीतप्रणुत्यार्चिताः ।
तान्देवान्वृषभादिवीरचरमान्भक्त्या नमस्याम्यहम् ।।२।।

(स्रग्धरा)
नाभेयं देवपूज्य जिनवरमजितं सर्वलोकप्रदीपं ।
सर्वज्ञं सम्भवाख्यं मुनिगणवृषभं नंदनं देवदेवम् ।।
कर्मारिघ्नं सुबुद्धि वरकमलनिभ पद्मपुष्पाभिगन्धं ।
क्षांतं दांतं सुपाश्र्व सकलशशिनिभं चन्द्रनामानमीडे ।।३।।

विख्यातं पुष्पदंतं भवभयमथनं शीतलं लोकनाथं ।
श्रेयांसं शीलकोशं प्रवरनरगुरुं वासुपूज्यं सुपूज्यम् ।।
मुक्तं दान्तेन्द्रियाश्वं विमलमृषिपतिं सिंहसैन्यं मुनींद्रं ।
धर्म सद्धर्मकेतुं शमदमनिलयं स्तौमि शांतिं शरण्यम् ।।४।।

कुन्थु सिद्धालयस्थं श्रमणपतिमरं त्यक्तभोगेषुचक्रम् ।
मल्लिं विख्यातगोत्रं खचरगणनुतं सुव्रतं सौख्यराशिम् ।।
देवेन्द्रार्च्यं नमीशं हरिकुलतिलकं नेमिचन्द्रं भवांतम् ।
पाश्र्व नागेन्द्रवन्द्यं शरणमहमितो वर्द्धमानं च भक्त्या ।।५।।

इच्छामि भंते चउवीसतित्थयरभत्तिकाउस्सग्गो कओ तस्सालोचेउं । पंचमहाकल्याणसम्पण्णाणं, अट्ठमहापाडिहेरसहियाणं चउतीसअतिसयविसेससंजुत्ताणं, बत्तीसदेविंदमणिमउडमत्थयमहियाणं, बलदेववासुदेवचक्कहररिसिमुणिजइ अणगारो-वगूढाणं, थुइसयसहस्सणिलयाणं, उसहाइवीरपच्छिमंगलमहापुरिसाणं णिच्चकालं अंचेमि, पुज्जेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं समाहिमरणं, जिणगुणसम्पत्ति होउ मज्झं ।
कान्त्यैव स्नपयन्ति ये दश दिशो धाम्ना निरून्धान्ति ये ।
धामोद्दाम महस्विनां जनमनो मुष्णान्ति रूपेण ये ।।
दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात्क्षरन्तोऽमृतम् ।
वन्द्यास्तेऽष्ट सहस्र लक्षण धरा- स्तीर्थेश्वराः सूरयः ।।
-आत्मख्याति : आचार्य अमृतचन्द्र


स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ६८ से ६९