येन स्वयंबोधमयेन लोका आश्वासिताः केचन चित्तकार्ये।
प्रबोधिताः केचन मोक्षमार्गे तमादिनाथं प्रणमामि नित्यम्॥
इन्द्रादिभिः क्षीरसमुद्र-तोयैः संस्नापितो मेरुगिरौ जिनेन्द्रः।
यः कामजेता जन-सौख्यकारी तं शुद्ध-भावादजितं नमामि॥
ध्यान-प्रबन्ध-प्रभवेन येन निहत्य कर्म-प्रकृतीः समस्ताः।
मुक्ति-स्वरूपां पदवीं प्रपेदे तं सम्भवं नौमि महानुरागात्॥
स्वप्ने यदीया जननी क्षपायां गजादि-वह्न्यन्तमिदं ददर्श।
यत्तात इत्याह गुरुः परोऽयं नौमि प्रमोदादभिनन्दनं तम्॥
कुवादि-वादं जयता महान्तं नय-प्रमाणैर्वचनैर्जगत्सु।
जैनं मतं विस्तरितं च येन तं देव-देवं सुमतिं नमामि॥
यस्यावतारे सति पितृधिष्ण्ये ववर्ष रत्नानि हरेर्निदेशात्।
धनाधिपः षण्णव-मासपूर्वं पद्मप्रभं तं प्रणमामि साधुम्॥
नरेन्द्र-सर्पेश्वर-नाकनाथैर्वाणी भवन्ती जगृहे स्वचित्ते।
यस्यात्मबोधः प्रथितः सभायामहं सुपार्श्वं ननु तं नमामि॥
सत्प्रातिहार्यातिशय-प्रपन्नो गुण-प्रवीणो हत-दोष-संगः।
यो लोक-मोहान्ध-तमः-प्रदीपश्चन्द्रप्रभं तं प्रणमामि भावात्॥
गुप्ति-त्रयं पंच महाव्रतानि पंचोपदिष्टाः समितिश्च येन।
बभाण यो द्वादशधा तपांसि तं पुष्पदन्तं प्रणमामि देवम्॥
ब्रह्म-व्रतान्तो जिननायकेनोत्तम-क्षमादिर्दशधापि धर्मः।
येन प्रयुक्तो व्रत-बन्ध-बुद्ध्या तं शीतलं तीर्थकरं नमामि॥
गणे जनानन्दकरे धरान्ते विध्वस्त-कोपे प्रशमैकचित्ते।
यो द्वादशाङ्गं श्रुतमादिदेश श्रेयांसमानौमि जिनं तमीशम्॥
मुक्त्यङ्गनाया रचितां विशालां रत्नत्रयी-शेखरता च येन।
यत्कण्ठमासाद्य बभूव श्रेष्ठा तं वासुपूज्यं प्रणमामि वेगात्॥
ज्ञानी विवेकी परमस्वरूपी ध्यानी व्रती प्राणिहितोपदेशी।
मिथ्यात्वघाती शिवसौख्यभोजी बभूव यस्तं विमलं नमामि॥
आभ्यन्तरं बाह्यमनेकधा यः परिग्रहं सर्वमपाचकार।
यो मार्गमुद्दिश्य हितं जनानां वन्दे जिनं तं प्रणमाम्यनन्तम्॥
सार्द्धं पदार्था नव सप्त तत्त्वैः पंचास्तिकायाश्च न कालकायाः।
षड्द्रव्यनिर्णोतिरलोकयुक्तिर्येनोदिता तं प्रणमामि धर्मम्॥
यश्चक्रवर्ती भुवि पंचमोऽभूच्छ्रीनन्दनो द्वादशको गुणानाम्।
निधि-प्रभुः षोडशको जिनेन्द्रस्तं शान्तिनाथं प्रणमामि भेदात्॥
प्रशंसितो यो न बिभर्ति हर्षं विराधितो यो न करोति रोषम्।
शील-व्रताद् ब्रह्मपदं गतो यस्तं कुन्थुनाथं प्रणमामि हर्षात्॥
न संस्तुतो न प्रणतः सभायां यः सेवितोऽन्तर्गण-पूरणाय।
पद-च्युतैः केवलिभिर्जिनस्य देवाधिदेवं प्रणमाम्यरं तम्॥
रत्न-त्रयं पूर्व-भवान्तरे यो व्रतं पवित्रं कृतवानशेषम्।
कायेन वाचा मनसा विशुद्ध्या तं मल्लिनाथं प्रणमामि भक्त्या॥
ध्रुवन्नमः सिद्ध-पदाय वाक्यमित्यग्रहीद्यः स्वयमेव लोचम्।
लौकान्तिकेभ्यः स्तवनं निशम्य वन्दे जिनेशं मुनिसुव्रतं तम्॥
विद्यावते तीर्थकराय तस्मायाहारदानं ददतो विशेषात्।
गृहे नृपस्याजनि रत्नवृष्टिः स्तौमि प्रणामान्नयतो नमिं तम्॥
राजीमतीं यः प्रविहाय मोक्षे स्थितिं चकारापुनरागमाय।
सर्वेषु जीवेषु दयां दधानस्तं नेमिनाथं प्रणमामि भक्त्या॥
सर्पाधिराजः कमठारितो यैर्ध्यान-स्थितस्यैव फणावितानैः।
यस्योपसर्गं निरवर्तयन्तं नमामि पार्श्वं महतादरेण॥
भवार्णवे जन्तुसमूहमेनमाकर्षयामास हि धर्म-पोतात्।
मज्जन्तमुद्धृत्य य एनसापि, श्रीवर्द्धमानं प्रणमाम्यहं तम्॥
यो धर्मं दशधा करोति पुरुषः स्त्री वा कृतोपस्कृतं
सर्वज्ञ-ध्वनि-सम्भवं त्रिकरण-व्यापार-शुद्ध्यानिशम्।
भव्यानां जयमालया विमलया पुष्पाञ्जलिं दापयन्-
नित्यं स श्रियमातनोति सकलं स्वर्गापवर्ग-स्थितिम्॥
स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ २८८ (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)