(आचार्य श्री श्रुतसागर जी विरचित)
सद्रत्नपूर्वैः सकलैः प्रपूर्णै, प्रकीर्णकैः सप्तविधैश्च भङ्गैः।
पूज्यं श्रुतस्कन्धमिहार्चनाय, संस्थापये ज्ञानसमस्तबीजं॥
(एतत् पठित्वा श्रुतस्कन्धस्थापनार्थं स्वस्तिकोपरि पुष्पाणि क्षिपेत्)
नरामरेन्द्र संसेव्यं श्री जिनेन्द्रमुखोद्-गतं। स्वर्गादिदं गुणाधानं संस्थापयामि सच्छ्रुतं॥
ऊँ ह्रीं श्रुतस्कन्ध! अत्रावतर अवतर संवौषट् आह्वानं।
ऊँ ह्रीं श्रुतस्कन्ध! अत्र तिष्ठौ तिष्ठौ ठः ठः स्थापनम्।
ऊँ ह्रीं श्रुतस्कन्ध! अत्र मम सन्निहितौ भव भव वषट् सन्निधापनं।
(अष्टक छन्द)
क्षीरोदगङ्गादिसुनीरजातैः धाराव्रजैः स्वच्छतरैः सुगन्धैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।1।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय जलं निर्वपामीति स्वाहा।
श्री खण्डकर्पूरसुकुङ्कुमादि द्रव्योद्भवेधारु विलेपनाद्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।2।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय चंदनं निर्वपामीति स्वाहा।
श्रीशालिपुञ्जैर्वरमौक्तिकाभैः दिव्यैरखण्डैर्बहुपुण्यकारैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।3।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय अक्षतं निर्वपामीति स्वाहा।
श्रीहेमरूपादिमयैः सुवर्णैः, सत्केतकीं कुन्दसुचम्पकाद्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।4।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय पुष्पं निर्वपामीति स्वाहा।
पक्वान्नक्षीरान्नसुमोदकाद्यैः, नैवेद्यसारैर्वरभोगमूलैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।5।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय नैवेद्यं निर्वपामीति स्वाहा।
श्रीरत्नदीपैश्चघृतादिजातैः, कर्पूरजैः मोहित मोहरूपैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।6।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय दीपं निर्वपामीति स्वाहा।
कर्पूरकृष्णागरुचन्दनादि, श्रीसारवस्तूद्भवधूपवर्गैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।7।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय धूपं निर्वपामीति स्वाहा।
श्रीमातुलिङ्गामसुनालिकेर, पूगादिभिर्दिव्यफलैः रसाढ्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।8।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय फलं निर्वपामीति स्वाहा।
प्रपूज्य भक्त्याष्टविधार्चनैश्च, स्वर्गेण वाद्यादि महोत्सवार्द्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।9।
ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय अर्घ्यं निर्वपामीति स्वाहा।
अथ श्रुतलक्षणं भेदं चाह
मतिपूर्वं श्रुतज्ञानं पर्यादिभेदविंशतिं। द्वयनेकं द्वादशं ज्ञेयं श्रुतं त्रिधा नमाम्यहम्। पुष्पाञ्जलिं।
अथपीठबन्धमाह
अष्ट सप्त नभस्त्रिकं अष्टौ चतुस्त्रिकं षषं। एकं मध्यपदं वर्ण अक्षरं न पुनः कथम्।
16348307888
एकावण कोडीउ लक्ख अट्ठेव सहसचुलसीदी। सयछक्कं णायव्वं साढा एकवीस पय
गंत्था।510884621।
शतैकाद्वादशकोटिं लक्षत्र्यशीतिमेव च। सहस्रमष्टपञ्चाशत् पञ्चपादाङ्ग सार्वकम्।11283358005
द्वादशांगानां सर्वपदानि प्राह-
पञ्चसप्तैकचाष्टौ च दशाशीति समक्षरम्। अङ्गबाह्यश्रुतं ज्ञेयं चतुर्दश प्रकीर्णकम्॥80108175॥
अष्टकोटिएकलक्षअष्टसहस्रएकशतपंचसत्तरि पदैकारक्षराणि॥
अङ्गबाह्यस्याक्षराणि सन्ति
सिद्धान्तस्थानकं नाम, एक पञ्चाशदुत्तमम्। तस्यपूजामहं कुर्वे, केवलज्ञानसिद्धये॥
11 अङ्ग, 5 परिकर्म, 1 सूत्र, 1 प्रथमानुयोग, 14 पूर्व, 5 चूलिका, 14 प्रकीर्णक एवं
सर्वस्थानकम् 51।
इति पीठत्रयबन्धप्रकाशनाय पुष्पाञ्जलिं क्षिपेत्।
अथांगपूजा
चतुष्कोटिस्मृतं लक्षं पञ्चदशसहस्रकम्। द्वितयैकादशाङ्गानि पदसंख्यास्तुमध्यमा।41502000।
इति एकादशाङ्गानां सर्वपदेषु पुष्पाञ्जलिं क्षिपेत्।
अथ पृथक् पूजा
यस्यप्रसादतः पान्ति मुनीन्द्रा सद्व्रतानि वै। तदाचाराख्यकं नित्यं यजेऽहं सज्जलादिभिः। 1।
ऊँ ह्रीं अष्टादशसहस्रपदप्रमाणाय आचाराङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।
विनयादिक्रियामेति, सूत्रकृताङ्गपाठतः। भव्यौघतारकाङ्ग तं, यजेऽहं सज्जलादिभिः। 2।
ऊँ ह्रीं षट्-त्रिंशत् सहस्रपदप्रमाणाय सूत्रकृताङ्गायकेवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।
जीवादिसप्तपदार्थानां स्वरूपस्य निरूपकम्। स्थानाङ्ग श्रमणानां तत् यजेऽहं सज्जलादिभिः। 3।
ऊँ ह्रीं द्विचत्वारिंशत्सहस्रपदप्रमाणाय स्थानाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।
कर्मौघशातने दक्षं, स्वपरार्थप्रकाशकम्। गुणाढ्यं समवायाङ्गं, यजेऽहं सज्जलादिभिः। 4।
ऊँ ह्रीं एकलक्षचतुःषष्टिसहस्रपदप्रमाणाय समवायाङ्गाय केवलज्ञानादि विभूतये अर्घ्यं निर्वपामीति
स्वाहा।
कृतप्रश्नमुनीन्द्राणां प्रश्नोत्तरसुदापकम्। व्याख्याप्रज्ञप्तिनामाङ्गं, यजेऽहं सज्जलादिभिः।5।
ऊँ ह्रीं द्विलक्ष अष्टाविंशति सहस्रपदप्रमाणाय व्याख्याप्रज्ञप्तिनामाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।
तीर्थंकरगणैन्द्राणां विभूतिख्यापकं सदा। ज्ञातृकथासदगं तं, यजेऽहं सज्जलादिभिः। 6।
ऊँ ह्रीं पञ्चलक्ष षट् पञ्चाशत्सहस्रपदप्रमाणाय ज्ञातृकथाङ्गाय केवलज्ञानादि विभूतये अर्घ्यं
निर्वपामीति स्वाहा।
श्रावकसद्व्रतानां च, फलादीनां प्ररूपकम्। अङ्गमुपासकाख्यं तं, यजेऽहं सज्जलादिभिः।7।
ऊँ ह्रीं एकादशलक्षसप्ततिसहस्रपदप्रमाणाय उपासकाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।
सदंतकृद्दशाङ्गं तत् गुणौघप्रतिपादकम्। द्विपञ्चयतिनाथानां, यजेऽहं सज्जलादिभिः। 8।
ऊँ ह्रीं त्रयोविंशतिलक्ष अष्टाविंशति सहस्रपदप्रमाणाय अन्तकृद्दशाङ्गाय केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।
द्विपञ्चगणनाथाना-मुपसर्गादिवर्णकं। तदनुत्तरधेयाङ्गं, यजेऽहं सज्जलादिभिः। 9।
ऊँ ह्रीं द्विनवतिलक्षचतुः चत्वारिंशत्सहस्रपदप्रमाणाय अनुत्तरधेयाङ्गाय केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।
प्रश्नवयाकरणाङ्गं तं, नष्टाद्यर्थ प्रसूचकम्। जिनैन्द्रमुखजं सारं, यजेऽहं सज्जलादिभिः। 10।
ऊँ ह्रीं त्रिनवतिलक्षषोडशसहस्रपदप्रमाणाय प्रश्नव्याकरणाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।
विपाकसूत्रनामाङ्गं सातासातादिकर्मणां। सूचयति विपाकं तं, यजेऽहं सज्जलादिभिः। 11।
ऊँ ह्रीं एककोटिचतुरशीतिलक्षपदप्रमाणाय विपाकसूत्राङ्गाय केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।
दृष्टिवयाख्याननामांगं, पञ्चस्थानं निवेदकम्। सारं तदुज्जितं नित्यं, यजेऽहं सज्जलादिभिः। 12।
ऊँ ह्रीं अष्टोत्तरशतकोट्यष्टाषष्टिलक्ष षट्पञ्चाशतसहस्रं तथा पञ्चपदप्रमाणाय दृष्टिव्याख्यानाङ्गाय
केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।
द्वादशांगं श्रुतं नित्यं मोक्षमार्गप्रदीपकम्। सम्मानयामि चार्घ्येण नित्यानंदपदायवै॥13।
ऊँ ह्रीं द्वादशांगाय श्रुतज्ञानाय महार्घ्यं निर्वपामीति स्वाहा॥
अथपरिकर्म पञ्चपूजा
चन्द्रप्रज्ञप्तिनामाख्यमादिमं परिकर्म च। वर्णकं चन्द्रयानादेर्यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं षट्त्रिंशल्लक्ष पञ्चसहस्रपदप्रमाणाय चन्द्रप्रज्ञप्तिपरिकर्मणे केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।1।
सूर्यप्रज्ञप्तिनामाख्यं परिकर्मद्वितीयकं। कथकं सूर्यलक्ष्मदि यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं पञ्चलक्षत्रिसहस्रपदप्रमाणाय सूर्यप्रज्ञप्ति परिकर्मणे केवलज्ञानादि विभूतये जलगन्धादिकं
निर्वपामीति स्वाहा।2।
जम्बूद्वीप प्रज्ञप्त्याख्यं, परिकर्मतृतीयकं। वर्णनं जम्बूद्वीपस्य, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं त्रिलक्षपञ्चविंशतिसहस्रपदप्रमाणाय जम्बूद्वीप प्रज्ञप्ति परिकर्मणे केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।3।
द्वीपार्णव प्रज्ञप्त्याख्यं परिकर्मचतुर्थकं। वर्णनं लवणादीनां यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्विपञ्चाशल्लक्ष षट्-त्रिंशत्सहस्रपदप्रमाणाय असंख्यातद्वीप सागर प्रज्ञप्ति परिकर्मणे
केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।4।
व्याख्याप्रज्ञप्ति नामाख्यं परिकर्म च पञ्चमं। ज्ञापकं भव्यभेदादर्यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं चतुशीतिलक्ष षट्-त्रिंशत्सहस्रपदप्रमाणाय व्याख्याप्रज्ञप्ति परिकर्मणे केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।5।
अथ सूत्रपूजा
सूत्राख्यं सुष्ठुसिद्धान्तं कुदृष्टिचिन्हसूचकं। दृष्टिवादाङ्गकं ज्ञेयं यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं अष्टाशीतिलक्षपदप्रमाणाय सूत्रसिद्धान्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।
अथ प्रथमानुयोग पूजा
आद्यानुयोगनामाख्यं दृष्टिवादाङ्गकं शुभं। ख्यापकं श्रयादिदेवादेर्यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं पञ्चसहस्रपद प्रथमानुयोगसिद्धान्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।
अथ चतुर्दशपूर्व पूजा
उत्पादनामपूर्वं तदुत्पादादिनिवेदकं। जीवाद्यर्थसमस्तानां यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं एककोटिपदप्रमाणाय उत्पादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।1।
पृथ्व्यादिषु च जातानां पूर्वमग्रायणीयकं। भेदं करोति जन्तूनां, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं षण्णवति लक्षपदप्रमाणाय अग्रायणी पूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।2।
वीर्यानुवादपूर्वाङ्गं वीर्यादिज्ञापकं वरं। चक्रायुधादिमर्त्यानां, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं सप्ततिलक्षपदप्रमाणाय वीर्यानुवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।3।
अस्तिनास्ति सुपूर्वं तत् अस्ति नास्तिप्रसूचकं। जीवाद्यर्थ समूहानां यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं षष्टिलक्षपदप्रमाणाय अस्तिनास्ति पूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।4।
ज्ञानप्रवादपूर्वं तत् मत्यादीनां प्रभेदकम्। प्रपञ्चयति तन्नार्थं, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं एकोनकोटिपदप्रमाणाय ज्ञानप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।5।
सत्यप्रवादपूर्वं तत् सज्जातानां च जन्तुषु। प्रभेदकं सुशब्दानां, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं षष्ठोत्तरैककोटिपदप्रमाणाय सत्यप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।6।
आत्मप्रवादपूर्वं तत् आत्मस्वरूपबोधकम्। द्रव्यादिसप्ततत्त्वानां, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय आत्मप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।7।
कर्मप्रवादपूर्वं तत् कर्मोदयादिसूचकं। पठन्ति ज्ञानिनो नित्यं यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं एककोटि अशीतिलक्षपदप्रमाणाय कर्म्मप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।8।
प्रत्याख्यान सुपूर्वं तत् प्रत्याख्यानं मुनीश्वराः। यज्ज्ञात्वा च प्रकुर्वन्ति यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं चतुरशीति लक्षपदप्रमाणाय प्रत्याख्यान पूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।9।
विद्यानुवादपूर्वं तत् अष्टाङ्गसूचकं परं। विद्यामंत्र निमित्तं यत् यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं एकं कोटिदलक्षपदप्रमाणाय विद्यानुवाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।10।
कल्याणनामपूर्वं तत् कल्याणस्य प्रपञ्चकं। त्रिषष्टिपुरुषाणां च यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय कल्याणनामपूर्वाङ्गाय केवलज्ञानादि विभूतये अर्घ्यं
निर्वपामीति स्वाहा।11।
प्राणावादं च पूर्वं तत् प्राणापानादिबोधकं। यत् बोधयति मंत्रादि यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं त्रयोदशकोटिपदप्रमाणाय प्राणावाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।12।
क्रियाविशालपूर्वं तत् अलङ्कारादिकं वरं। ज्ञात्वा जानन्ति भव्यायं यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं नवकोटिपदप्रमाणाय क्रियाविशालपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति
स्वाहा।13।
लोकप्रवादपूर्वं तु मुक्तात्मनां प्रकाशकं। कैवल्य सौख्यभाजां च यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्वादशकोटिपञ्चाशल्लक्षपदप्रमाणाय लोकप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अर्घ्यं
निर्वपामीति स्वाहा।14।
अथ पञ्चचूलिका पूजा
चूलिकाञ्जलजातां च जलादिरोधदेशकां। दृष्टिवादाङ्गिकां चाद्यां यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्विकोटिनवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय जलगतचूलिकायै केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।1।
भूम्यादिषु प्रवेशादि मंत्रतंत्रादिवाचिकां। चूलिकां स्थलजातां वै यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्विकोटि नवलक्षनवाशीति सहस्र द्विशतपदप्रमाणाय स्थलगतचूलिकायै
केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।2।
मायारूपेन्द्रजालादि मंत्रतंत्रादि बोधिकां। मायाख्यां चूलिकां सारां यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्विकोटि नवलक्षनवाशीतिसहस्रद्विशतपदप्रमाणाय मायागतचूलिकायै केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।3।
सिंहव्याघ्रादिरूपाणां मंत्रतंत्रादिदेशिकां। चूलिकां रूपजातां च यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्विकोटि नवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय रूपगतचूलिकायै केवलज्ञानादिविभूतये
अर्घ्यं निर्वपामीति स्वाहा।4।
आकाशयानमंत्रादि सूचिकाख्यगतां वरां। चूलिकां दृष्टिवादाङ्गां यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं द्विकोटि नवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय आकाशगतचूलिकायै
केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।5।
दृष्टिवादं वरं चाङ्गं षट्-विंशति सुभेदगं। तीर्थनाथमुखोत्पन्नं भव्याय चास्तु सौख्यदं॥
ऊँ ह्रीं जलगत मायागत रूपगताकाशगत पञ्चचूलिकाभ्यः पूर्णार्घ्यं निर्वपामीति स्वाहा।6।
अथ अंगबाह्य प्रकीर्णक पूजा
अङ्गबाह्यं श्रुतं शेषं सामायिकादिसूचकम्। समतादिकरं ग्रन्थं, यजेऽहं सज्जलादिभिः॥
ऊँ ह्रीं अष्टकोट्यै कलक्षाष्टसहस्रै कशतपञ्चसप्ततिवर्ण प्रमाणाय अंगबाह्य श्रुतज्ञानाय
केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।
अथ प्रत्येकपूजा
आद्यं प्रकीर्णकं सारं सामायिकाभिधानकं। यति श्रावकभेदानां समताकालसूचकं।1।
ऊँ ह्रीं प्रथमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।1।
द्वादशस्तवनं नाम द्वितीयं च प्रकीर्णकं। वर्णातिशयचिन्हादि कथकं च जिनेशिना।2।
ऊँ ह्रीं द्वितीयप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।2।
वन्दनाशब्दसंयुक्तं तृतीयं च प्रकीर्णकं। अर्हदादिकपूज्यानां वन्दनाभेददीपकं॥
ऊँ ह्रीं तृतीयप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।3।
प्रतिक्रमणसंज्ञं च चतुर्थं च प्रकीर्णकं। दिनादि सप्तभेदानां प्रतिक्रमणदेशकं॥
ऊँ ह्रीं चतुर्थप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।4।
वैनेयिकाभिधं ज्ञेयं पञ्चमं च प्रकीर्णकं। दर्शनज्ञानचारित्र तपसां विनयाख्यकं॥
ऊँ ह्रीं पञ्चमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।5।
कृतिकर्म्माभिधं ज्ञेयं षष्ठं सुष्ठु प्रकीर्णकं। दीक्षाङ्गीकारभेदादिक्रियासूचनतत्परं॥
ऊँ ह्रीं षष्ठप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।6।
दशवैकालिकं नाम सप्तमं वै प्रकीर्णकं। जिनोक्तपिण्डशुद्ध्यादि पुण्याचरणसूचकं॥
ऊँ ह्रीं सप्तमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।7।
उत्तराध्ययनमाख्यं हि चाष्टमं सुप्रकीर्णकं। नानोपसर्गदुःखादेः सहनफलभाषकं॥
ऊँ ह्रीं अष्टमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।8।
व्यवहारान्तकल्पादि नामकं नवमं बहिः। प्रकीर्णकसुयत्यादेः प्रायश्चितप्ररूपकं॥
ऊँ ह्रीं नवमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।9।
कल्पाकल्पं च नामानं दशम च प्रकीर्णकं। यतिसागारभेदानां कालाश्रितनिरूपकं।
ऊँ ह्रीं दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।10।
प्रकीर्णकं महाकल्पमेकादशमसंख्यकं। दीक्षाशिक्षादिषट्कालं भेदाचरणभेदकं॥
ऊँ ह्रीं एकादशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।11।
द्विषट्संख्याप्रमं श्रेष्ठं पुण्डरीकं प्रकीर्णकम्। चतुर्णिकायदेवानामुत्पत्त्यादिकवर्णनम्॥
ऊँ ह्रीं द्वादशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।12।
महादिपुण्डरीकान्तं त्रयोदशं प्रकीर्णकं। इन्द्राण्यादिषु देवीषु जन्महेतुः प्ररूपकं॥
ऊँ ह्रीं त्रयोदशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।13।
अशीतिकाभिधं शुद्धं चान्तिमं सुप्रकीर्णकं। सत्त्वाद्यपेक्षयापेक्षं प्रायश्चित्तप्रभाषकं॥
ऊँ ह्रीं चतुर्दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा।14।
प्रकीर्णकं शुभं चाये श्रुतं श्रीजिनभाषितम्। केवलज्ञानसम्प्राप्ति लोकालोकप्रकाशकं॥
ऊँ ह्रीं चतुर्दशमप्रकीर्णकपूजानिमित्ताय केवलज्ञानादिविभूतये अर्घ्यं निर्वपामीति स्वाहा॥
अथ वास्तूप्राभृतादि पूजा
दश च चतुर्दश चाष्टावष्टादश च द्वयोर्द्विषट्कं च।
षोडशविंशतिं च त्रिंशत्मपि पञ्चदश च तथा। 1।
वस्तूनि दशदशान्येष्वनुपूर्वं भाषितानि पूर्वाणां।
प्रतिवस्तूप्राभृतकानि विंशतिं विंशतिं नौमि। 2।
चतुर्दशपूर्वाणि तेषां वस्तूनि 195; तेषां प्राभृतकानि 3900। तस्य द्विद्वादशानुयोगकं। तेषां
प्राभृतिकानि 93600 तेषां अनुयोगाः। 2246400।
इति वस्तुप्राभृतकानुयोगेषु पुष्पाञ्जलिं क्षिपेत्।
श्रुतपूजापराभक्त्या अवध्याकूतपर्ययज्ञानमाप्नोति यत्रभावेषु रञ्जिताः॥
इतित्रिषु ज्ञानेषु पुष्पाञ्जलिं क्षिपेत्।
एवं स्तुतं श्रुतं नित्यं त्रैलोक्यसौख्यसागरं। ज्ञानायाऽस्तु च भव्यानां त्रिभुवनादिकिर्तये॥
ऊँ ह्रीं वस्तुप्राभृतकानुयोगेभ्यः पूर्णार्घ्यं निर्वपामीति स्वाहा।
अथ जाप्यमंत्र
ऊँ ह्रीं श्रीद्वादशाङ्गश्रुताय नमः। जाप्य 108 दीयते॥
ऊँ ह्री वदवद वाग्वादिनि! भगवति! सरस्वति! ह्रीं नमः॥
अथ जयमाला
नानानन्दमयं प्रमोदसुकरं चिद्रूपभावोद्धुरं।
ज्ञानं विश्वशरीरिभावकथकं कर्मारिनिर्दाहकम्॥
श्री सर्वज्ञ विकासितं गणधरै। सेव्यं परं मुक्तिदम्।
भक्त्या संविभजामि तत् त्रिभुवने कीर्तिं प्रमोदावहम्॥
विकासित भव्यसुयोगिचरित्र ! क्रियाभरभूषितपुण्यपवित्र !
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिद पापविनाश !
सुजीवपदार्थ विकाशनचण्ड ! परोन्नतकर्म सुरूपकदण्ड !
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिदपापविनाश!!
सुभावपदार्थविकाशनचण्ड ! परोन्नतिकर्मसुरूपकरण्ड !
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिदपापविनाश!!
मुनीशसुपर्य्यनुयोगसुभोग ! जिनेशविभूतिविवादनयोग !
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिदपापविनाश!!
उपासकमार्गसमुज्ज्वलचन्द्र ! द्विपञ्चयतीश्वरवाद महेन्द्र !!
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिद पापविनाश!!
दशान्तसुकेवलिनिर्णयकार ! निमित्तनिरूपमनिर्भरभार !
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिदपापविनाश!!
सुखासुखकारणरूपतरङ्ग ! प्रकाशितबोधसुचन्द्रतरण्ड !
जयामरसेवितबोधविकास ! समुज्ज्वलमुक्तिदपापविनाश!!
सुजीवहिताहितकर्मविपाक ! नरेन्द्र ! महेन्द्र ! विभूतिपताक !
जयामरसेवित बोध विकास ! समुज्ज्वल मुक्तिद पाप विनाश!!
अबोधतमोभरवारणसूर ! सुमुक्तिसुखामृतजीरिधिपूर !
जयामरसेवित बोध विकास ! समुज्ज्वल मुक्तिद पाप विनाश!!
(धत्ता)
अखिलनृपति सेव्यं मोहमातङ्गसिंहं। परमपदविकासं, बोधनं चिद्स्वरूपं॥
त्रिभुवनयशसे तत् कर्मदावाग्निमेथं। भजतिशिवपदं यः सेव्यते शास्त्रसारं॥
गुणैर्गरिष्ठं भवनं गुणानां, स्वर्गादिदाने विदधाति दक्षं।
करोतु बोधो भवतां नितान्तं, सारं च सौख्यं भवदुःखपारं॥
(इत्याशीर्वादः)
इयं पूजा जगत्सारा तेजपुञ्जसुपूरिता। ये पठन्ति श्रुताचार्यैस्तेषां स्यात् ज्ञानपञ्चकम्॥
एषापूजा प्रमादेन वर्द्धमानेन वर्द्धिता। कृष्णादिवीरदासत्वं करोत्वर्च्चां सुभक्तितः॥
श्रुतसकलगुणाब्धिं ये श्रुतस्कन्धसारभिममपगतदोषं प्रार्थयन्तेऽतिभक्त्याः।
नृसुरजिनगणेशाद्यैः पदैः सार्द्धमाशु, सकलविमलकीर्त्या ते लभन्तेऽखिलार्थान्।
एतद् भणित्वां श्रुतस्कन्धोपरि पुष्पाणिक्षिप्य पञ्चाङ्गं प्रणामं कुर्यात्।
इति श्रुतस्कन्ध पूजा सम्पूर्णा।
Artist: आचार्य श्री श्रुतसागर जी
स्रोत: श्रुतस्कन्धपूजा विधान (आचार्य श्रुतसागर), पृष्ठ १