श्री विद्यमान विंशति तीर्थंकर पूजा (संस्कृत) | Shri Vidyaman Vinshati Tirthankar Puja (Sanskrit)

श्रीमज्जम्बू-धातकि-पुष्करार्द्ध-द्वीपेपूच्चैर्ये विदेहाः शराः स्युः।
वेदा वेदा विद्यमाना जिनेन्द्राः प्रत्येकं तांस्तेषु नित्यं यजामि॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करा अत्र अवतर अवतर सवौषट्।
ॐ ह्रीं विद्यमानविंशतितीर्थङ्करा अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं विद्यमानविंशतितीर्थङ्करा अत्र मम सन्निहिता भवत भवत वषट्। ]

(अष्टकम्)

सुरनदी-जल-निर्मल-धारया प्रवर-कुङ्कुम-चन्द्रसुसारया।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ओं ह्रीं सीमन्धर-युगमन्धर-बाहु-सुबाहु-सञ्जातक-स्वयंप्रभ-ऋषभानन-अनन्तवीर्य-सूरप्रभ-विशालकीर्ति-वज्रधर-चन्द्रानन-भद्रबाहु-भुजङ्गम-ईश्वर-नेमिप्रभ-वीरसेन-महाभद्र-देवयशोऽजितवीर्यैति विंशतिविद्यमानतीर्थङ्करेभ्यो जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा॥१॥ ]

मलय-चन्दन-केशर-वारिणा निखिल-जाड्य-रुजातप-हारिणा।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यः संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा। ]

सरल-तण्डुलकैरतिनिर्मलैः प्रवर-मौक्तिक-पुञ्ज-बहूज्ज्वलैः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्योऽक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। ]

बकुल-केतकि-चम्पक-पुष्पकैः परिमलागत-षट्पद-वृन्दकैः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यः कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। ]

प्रवर-मोदक-खज्जक-पूपकैः वरसुमण्डक-सूप-शुभौदनैः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यः क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ]

अतिसुदीप्तिमयैर्वरदीपकैर्विमल-काञ्चन-भाजन-संस्थितैः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यो मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। ]

अगुरु-चन्दन-मुख्य-सुधूपकैः प्रचुर-धूप-ततामलगन्धकैः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यः कर्माष्टदहनाय धूपं निर्वपामीति स्वाहा। ]

प्रवर-पूग-लवङ्ग-सदाग्रकैः प्रचुर-दाडिम-मोच-सुचोचकैः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यो मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। ]

जल-सुगन्ध-प्रसून-सुतण्डुलैश्चरु-प्रदीपक-धूप-फलादिभिः।
सकल-मङ्गल-वाञ्छित-दायकान् परम-विंशति-तीर्थपतीन् यजे॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्योऽनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। ]

जयमाला

श्रीवीस-जिणेसर विहरमाण, पणमामि पंचसय-धणुप्रमाण।
जे भविय-कमल पडिबोधयंत, विहरंति विदेहे तम हरंत॥११॥

सीमंधर पणवों जिणवरिंद, जुगमंधर वंदों दुह-दलिंद।
हौं वंदों बाहु-सुबाहुसामि, जंबू-विदेहे जे सिद्धिगामि॥१२॥

संजाइ सयंपहु जिण जयंति, ऋषभानन धम्म पयासयंति।
तह णंतवीर सूरप्प होइ, वंदों विसाल वज्जरधरोइ॥१३॥

चंदानन अट्ठम-दीव वीर, हौ पणऊं पत्त जे भवह् तीर।
तहं पुंडकरार्ध जिण भद्दबाहु, भुयंगम ईसर जगइ णाहु॥१४॥

णेमिप्पह प्रणवों वीरसेण, महाभद्द भवंबुहि तरिउ जेण।
मैं पणवों देवजस सुभाव, जिण अजियवीर जिय मुक्कपाव॥१५॥

(घत्ता)

ए वीर जिणेसर णमिय सुरेसर विहरमाण मइ संथुणियं।
जे भणहिं भणावहिं अरु मन भावहिं ते णर पावहिं परमपयं॥१६॥

[ ॐ ह्रीं विद्यमानविंशतितीर्थङ्करेभ्यो महार्घं निर्वपामीति स्वाहा। ]


स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ ५८ (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)