श्री रत्नत्रय पूजा (संस्कृत) | Shri Ratnatray Puja (Sanskrit)

श्रीवर्द्धमानमन्मथ्य गौतमादींश्च सद्गुरून्।
रत्नत्रय-विधिं वक्ष्ये यथाम्नायं विमुक्तये॥१॥

परमेष्ठी परंज्योतिः परमात्मा जगद्गुरुः।
ज्ञानमूर्तिरमृतोऽपि भूयान्नो भव-शान्तये॥२॥

निर्विकल्पं निराबाधं शाश्वतानन्द-मन्दिरम्।
तोष्टुवीमि चिदात्मानं स्व-स्वरूपोपलब्धये॥३॥

यस्य ज्ञानान्तरिच्चैकदेशे सर्वं जगत्त्रयम्।
एक ऋक्ष इवाभाति तस्मै ज्ञानात्मने नमः॥४॥

अनन्तानन्त-संसार-पारावारैक-तारकम्।
परमात्मानमव्यक्तं ध्यायाम्यहमनारतम्॥५॥

अनन्यशरणोभूय तद्गुण-ग्राम-लुब्धये।
स्फुरत्समरसीभाव-मितोऽहं चिद्धनं स्तुवे॥६॥

विपयेषु विपाभेषु श्वभ्र-पातैक-हेतुषु।
मनः पराङ्मुखीभूय लीयतां परमात्मनि॥७॥

यन्नाम-मन्त्र-जापेन दुखदोऽयं भव-ज्वरः।
सद्यः संक्षीयते तस्मै नमोऽस्तु परमात्मने॥८॥

अविद्यानादि-संभूता यस्य स्मरण-मात्रतः।
क्षणाद् विलीयते तस्मै नमोऽस्तु परमात्मने॥९॥

अनन्त-दर्शन-ज्ञान-वीर्यानन्दैक-मूर्तये।
सदा समयसाराय नमोऽस्तु परमात्मने॥१०॥

स्वसंवेदनसम्यक्तं यत्तत्त्वं सत्त्वशान्तिदम्।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥११॥

सनातनोऽपि यः स्वामी स्थित्युत्पत्ति-व्ययात्मकः।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१२॥

रत्नत्रय-स्वभावोऽयं निगदन्ति महर्षयः।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१३॥

यः स्वानुभव-संगम्योऽप्यवाङ्-मनस-गोचरः।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१४॥

अनन्तं सर्वदा यस्य सौख्यं वाचामगोचरम्।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१५॥

स्वात्म-स्थितोऽपि यः सर्व-गतः संगीयते बुधैः।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१६॥

यस्योदये निहन्त्येनामविद्या-रजनीं बलात्।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१७॥

सती मुक्ति-सखी विद्या यस्योन्मीलति सेवया।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१८॥

स्वयमानन्द-रूपोऽयं त्रिजगत्परमेश्वरः।
नमस्तस्मै विशुद्धाय चिद्रूपाय परमात्मने॥१९॥

[ इदं पठित्वा साष्टाङ्गनमस्कारं कुर्यात् ]

मुक्तेः प्रकाशकतया समवापि येन
लोकोत्तरोऽत्र महिमा स्व-परानवाप्य॥
विध्वस्त-मोह-तमसे परमाय तस्मै
रत्नत्रयाय महसे सततं नमोऽस्तु॥२०॥

सन्निश्चयश्चिदाचिदादिषु दर्शनं तद्
जीवादि-तत्त्व-परमावगमः प्रबोधः॥
पाप-क्रिया-विरमणं चरणं किलेति।
रत्नत्रयं हृदि दधे व्यवहारतोऽहम्॥२१॥

दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः।
स्थितिरात्मनि चारित्रं निश्चय-रत्नत्रयं वन्दे॥२२॥

ये याता यान्ति यास्यन्ति यमिनः पदमव्ययम्।
समाराध्यैव ते नूनं रत्न-त्रयमखण्डितम्॥२३॥

रत्नत्रयं तज्जननाति-मृत्यु-सर्पन्न्रयो-दर्पहरं नमामि।
यद्भूषर्ण प्राप्य भवन्ति शिष्टा मुक्तेर्विरूपाकृतयोऽप्यभीष्टाः॥

[ ॐ ह्रीं श्रीसम्यग्दर्शनज्ञानचारित्रस्वरूप रत्नत्रय ! अत्र अवतर अवतर संवौषट्। ]

[ ॐ ह्रीं श्रीसम्यग्दर्शनज्ञानचारित्रस्वरूप रत्नत्रय ! अत्र तिष्ठ तिष्ठ ठः ठः। ]

[ ॐ ह्रीं श्रीसम्यग्दर्शनज्ञानचारित्रस्वरूप रत्नत्रय ! अत्र मम सन्निहितं भव भव वषट्। ]

स्वर्धुनी-नीर-धाराभिः गन्ध-साराभिरादरात्।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥२५॥

[ ॐ ह्रीं अष्टविधसम्यग्दर्शनाय अष्टविधसम्यग्ज्ञानाय त्रयोदश-विधसम्यक्चारित्राय जलं निर्वपामीति स्वाहा। ]

हरिचन्दन-निर्यांसैः दिग्वासैः काश-हासिभिः।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥२६॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः चन्दनं निर्वपामीति स्वाहा। ]

तन्दुलैः पाण्डुराखण्डैः पुञ्जितैरलि-गुञ्जितैः।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥२७॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो अक्षतं निर्वपामीति स्वाहा। ]

प्रसूनैः सौरभाक्रान्तैर्नूतनैर्गुण-दुर्लभैः।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥२८॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः पुष्पं निर्वपामीति स्वाहा। ]

सन्नाज्यैस्तर्जितानाज्यैर्निकायैर्गुण-सम्पदाम्।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥२९॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो नैवेद्यं निर्वपामीति स्वाहा। ]

प्रदीपैर्दीपिताशेष-दिक्-चक्रैर्नयनप्रियैः।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥३०॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो दीपं निर्वपामीति स्वाहा। ]

धूपनैर्धूप-धूमाभ्रं विभ्राणैर्घाण-तर्पणैः।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥३१॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो धूपं निर्वपामीति स्वाहा। ]

फलभेदै रस-स्पर्श-गन्ध-वर्णानुशोभितैः।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥३२॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः फलं निर्वपामीति स्वाहा। ]

अर्घेणार्याम्बु-दूर्वादि-द्रव्य-सर्वस्व-हारिणा।
द्वेधा सद्दर्शन-ज्ञान-चारित्राण्यर्चयाम्यहम्॥३३॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो अर्घं निर्वपामीति स्वाहा। ]

इत्यर्चयन्ति ये भेदाभेद-रत्न-त्रयं सदा।
ते शिवाशा-धरा भक्त्या श्रियं गच्छन्ति शाश्वतीम्॥

[ ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः पूर्णार्घं निर्वपामीति स्वाहा। ]

सम्यग्दर्शन

श्रद्धानं सप्त-तत्त्वानां स्थित्युत्पत्ति-व्ययात्मनाम्।
व्यवहारेण सम्यक्त्वमामनन्ति मनीषिणः॥३५॥

सान्द्रानन्दमये शुद्धे चिद्रूपे परमात्मनि।
निश्चयो निश्चयात् सम्यक् सम्यक्त्वं मुक्तयेऽस्तु नः॥

सति यस्मिन् तपस्तप्तमपि स्वल्पं बहु-प्रदम्।
नमस्तस्मै गरिष्ठाय सम्यक्त्वायामलत्विषे॥३७॥

अम्बुनेव कृपिर्येन विना दानादि-सत्क्रिया।
सर्वापि विफला तस्मात् सम्यक्त्वं शरणं मम॥३८॥

धर्मेणैवार्थ-कामौ द्वौ येनात्र भवतः सताम्।
बोध-वृत्तेस्ततः तत्प्राक् सम्यक्त्वं शरणं मम॥३९॥

यत्सिद्धाः प्राणिनः पूर्वमग्रे सेत्स्यन्ति ये पुनः।
ये च सिद्ध्यन्ति तन्मन्ये सर्वं सम्यक्त्व-वैभवम्॥४०॥

शेपाहरेरिव जिह्वानां सहस्र-द्वितयं मुखे।
यस्य सोऽपि न सम्यक्त्व-माहात्म्यं गदितुं क्षमः॥४१॥

जन्मिनां यस्य सामर्थ्यादुपलब्धिश्चिदात्मनः।
नमस्तस्मै गरिष्ठाय सम्यक्त्वाय महात्मने॥४२॥

[ पुष्पाञ्जलिं क्षिपामि ]

शुद्ध-बुद्ध-स्वचिद्रूपादन्यस्यामिसुखी रुचिः।
व्यवहारेण सम्यक्त्वं निश्चयेन तथात्मनः॥४३॥

प्रतिदिनं खलु यन्न वितन्वते कृत-मुदा वसतिं शिव-सम्पदा।
समयसार-रसे मम मानसे तदवतारमुपैतु दृगम्बुजम्॥४४॥

[ ॐ ह्रां ह्रीं ह्रूं ह्रः अष्टाङ्गसम्यग्दर्शन ! अत्र अवतर अवतर संवौषट्। ]

भव-प्रभव-दुर्वार-दुःखाग्नि-शमनाम्बुदम्।
अष्टाङ्गं स्थापयाम्यत्र दर्शनं तद्विशुद्धये॥४५॥

[ ॐ ह्रां ह्रीं ह्रूं ह्रः अष्टाङ्गसम्यग्दर्शन ! अत्र तिष्ठ तिष्ठ ठः ठः। ]

भव-विपत्तिमत्यि शिव-श्रियामधिपतिर्यदनुग्रहतो नरः।
दलित-निर्द्दलनं मम दर्शनं तदिह सन्निहितं भवतुत्तमम्॥४६॥

[ ॐ ह्रां ह्रीं ह्रूं ह्रः अष्टाङ्गसम्यग्दर्शन ! अत्र मम सन्निहितं भव भव वषट्। ]

स्वात्मोपलब्धिर्यदनुग्रहेण भव्यात्मनां स्यादचिरादभीष्टा।
साष्टाङ्गमर्चामि सुदर्शनं तत् सुरेन्द्र-सिन्धोरमृतेन रत्नम्॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। ]

भव्यात्मनां द्वादशसु प्रमाणं मिथ्यानिवासेषु यकेन रुद्धम्।
साष्टाङ्गमर्चामि सुदर्शनं तद् रत्नं मनो-नन्दन-चन्दनेन॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा। ]

स्वप्नेऽपि दुःखावनिषु प्रपातः स्वप्नेऽपि यस्मिन् सति नाङ्गभाजाम्।
साष्टाङ्गमर्चामि सुदर्शनं तद् रत्नं विशुद्धं ललिताक्षतौघैः॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अक्षयपदप्राप्तये अक्षतं निर्वपामीति स्वाहा। ]

ज्ञान-श्रियो मूलमपास्त-दोषं चारित्र-वल्ली-वन-जीवनं यत्।
साष्टाङ्गमर्चामि सुदर्शनं तद् रत्नं सरोज-प्रमुखैः प्रसूनैः॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। ]

श्रद्धान-रूपं किल चेतनादि-तत्त्वोत्तमानां निगृहीत-मोहम्।
साष्टाङ्गमर्चामि सुदर्शनं तद् रत्नं रसान्यैश्चरुभिर्विमुक्त्यै॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ]

निसर्गतो वाधिगमात्प्रजानामृत्युद्यते यत्किल काल-लब्ध्या।
साष्टाङ्गमर्चामि सुदर्शनं तद् रत्नं मुदा रत्न-भव-प्रदीपैः॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। ]

अष्टाङ्ग-पूजा

संवेग-मुख्यैः परमैः गुणौघैरलंकृतं ध्वस्त-समस्त-पापम्।
साष्टाङ्गमर्चामि सुदर्शनं तद् रूपैः सुगन्धीकृत-दिग्विभागैः॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। ]

मुख्यं फलं यस्य विमुक्ति-सौख्यमनुख्यमत्यद्भुत-राज-लक्ष्मीः।
साष्टाङ्गमर्चामि सुदर्शनं तद् सन्मातुलिङ्ग-प्रमुखैः फलौघैः॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। ]

दुष्कर्म-दाव-हुतभुक्-शमने पयोदं
संसार-कारण-निवारण-बद्ध-कक्षम्।
निःश्रेयसाङ्ग त-सुखाय निरस्त-दोषं
सद्दर्शनं सुकुसुमाञ्जलिमातनोमि॥५५॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अनर्घपदप्राप्तये अर्घं निर्वपामीति स्वाहा। ]

अष्टाङ्ग-पूजा

येनान्वितो भव्य-जनो जिनोक्ते न संशयी जातु पदार्थ-जाते।
तद्दर्शनाङ्गं शिव-सौख्य-बीजं निःशङ्कितत्वं हृदये ममास्ताम्॥

[ ॐ ह्रीं निःशङ्किताङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

चक्रश्रिया शक्र-पद-श्रिया च हर्षादहंपूर्वकया शरीरी।
यस्य प्रभावाद् ध्रियते तदुच्चैर्निःकांक्षितत्वं हृदये ममास्ताम्॥

[ ॐ ह्रीं निःकांक्षिताङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

उदेति विद्या-विलसद्-विवेकात् प्रस्फूर्यदम्यास-वशान्नरेषु।
तदुत्तमं निर्विचिकित्सितत्वं सुदर्शनाङ्गं हृदये ममास्ताम्॥

[ ॐ ह्रीं निर्विचिकित्सिताङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

अनारतं यद्वशगोऽयमात्मा न मोहमन्वेति परात्म-तत्त्वे।
अमूढदृष्टित्वमकल्पनं तत् सुदर्शनाङ्गं हृदये ममास्ताम्॥

[ ॐ ह्रीं अमूढताङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

न दुःखलेशोऽपि सतीह यस्मिन् शरीरिणां ध्वान्तमिव द्युरत्ने।
निगूहनाख्यं सुख-कारणं तत् सुदर्शनाङ्गं हृदये ममास्ताम्॥

[ ॐ ह्रीं उपगूहनाङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

न्यायात् पथः सञ्चलतः परस्य यत्प्रत्यवस्थापनमात्मनो वा।
तत्सुस्थितीसंस्करणं वरेण्यं सद्दर्शनाङ्गं हृदये ममास्ताम्॥

[ ॐ ह्रीं स्थितीकरणाङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

यत्सत्त्व-सन्तान-विचित्रमेतत् त्रैलोक्यमप्याशु वशीकरोति।
वात्सल्यमात्मोदय-कारणं तत्सुदर्शनाङ्गं हृदये ममास्ताम्॥६२॥

[ ॐ ह्रीं वात्सल्याङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

यशः-शशाङ्कोज्ज्वलमन्र येन नृणाममुत्र त्रिदिवे निवासः।
प्रभावनाख्यं प्रथित-प्रभावं सुदर्शनाङ्गं हृदये ममास्ताम्॥६३॥

[ ॐ ह्रीं प्रभावनाङ्गाय नमः अर्घं निर्वपामीति स्वाहा। ]

अष्टकम्

रचयाम्यर्चनं भक्त्या वारिभिश्चित्त-हारिभिः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥६४॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यो जलं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या चन्दनैश्चित्त-नन्दनैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥६५॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यः चन्दनं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या तण्डुलैरतिनिर्मलैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥६६॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यः अक्षतं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या कुसुमैर्विगतोपमैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥६७॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यः पुष्पं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या पक्वान्नैः सरसैर्नवैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥६८॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यः नैवेद्यं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या दीप-व्रातैः प्रभाचितैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥६९॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यो दीपं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या धूप-धूमैर्मनोरमैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥७०॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यो धूपं निर्वपामीति स्वाहा। ]

रचयाम्यर्चनं भक्त्या फलैः पूजादि-सत्फलैः।
निःशङ्कितादिकाङ्गानां स्व-स्वरूपोपलब्धये॥७१॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यः फलं निर्वपामीति स्वाहा। ]

(आर्या)

जल-चन्दन-विशदाक्षत-सुशोभिना मोक्ष-सौख्य-संलब्ध्यै।
कुसुमाञ्जलिना नित्यं दृष्टाङ्गन्यादरात् प्रयजे॥७२॥

[ ॐ ह्रीं निःशङ्किताद्यष्टाङ्गेभ्यो अर्घं निर्वपामीति स्वाहा। ]

जयमाला

(घत्ता)

जय जय सद्दर्शन भव-भय-निरसन मोह-महातम-वारण।
उपशम-कमल-दिवाकर सकल-गुणाकर परम-मुक्ति-सुख-कारण॥

जय दर्शन भुवन-सरोज-सूर दूरीकृत-दुर्नय-तिमिर-पूर।
जय विषम-मदाष्टक-विटापि-नाग जय वाञ्छितार्थ-वितरण-सुराग॥

अष्टाङ्ग-समन्वित दुरित-हरण भव-भीत-यतीश-समूह-शरण।
दुर्वार-नरक-भूरुह-कुठार जय मुक्ति-कामिनी-कण्ठ-हार॥७५॥

उद्भासित-बहु-मिथ्या-निवास जिन-गदित-सप्त-तत्त्वावभास।
सेवा-भर-निर्भर-सद्वनीप निर्वाण-मार्ग-भासन-सुदीप॥७६॥

जय दुष्ट-कर्म-कानन-हुताश संछिन्न-मदोद्धत-मोह-पाश।
आनन्द-सान्द्र-परमात्मरूप उद्भासित-घन-जननान्धकूप॥७७॥

जय-राग-भुजङ्ग-मद-दमन-मन्त्र मुनि-गण-भूषण शिव सौख्य-सत्र
विद्वेष-सिन्धु-वडवा-निवास निःशेष-लोक-सफली-कृताश॥७८॥

चिन्तामणि-सन्निभ-लोक-शरण
वारित-दुर्गति-कर पाप-हरण।
जय विमल-बोध-सम्बन्ध-निमित्त
आनन्दित-निखिल-मुमुक्षु-चित्त॥७९॥

(घत्ता)

इति दर्शन-संस्तुतिमतिशय-चित्त-मतिरिह रचयति बहु-भक्त्या।
स स्यादसमद्युतिरखिल-धरापतिरात्म-हस्त-गत-कृत-मुक्तिः॥

यत्कस्मादपि नो बिभेति न किमप्याशंसति क्वाप्युप-
क्रोशं नाश्रयते न मुह्यति निजाः पुष्णाति शक्तीः सदा।
मार्गान्न च्यवतेऽञ्जसा शिव-पथं स्वात्मानमालोकते
माहात्म्यं स्वमभिव्यनक्ति च तदा साष्टाङ्ग-सद्दर्शनम्॥८१॥

शङ्कादृष्टि-विमोह-कांक्षणविधि-व्यावृत्ति-सन्नद्धतां
वात्सल्यं विचिकित्सितादुपरतिं धर्मोपबृंह-क्रियाम्।
शक्त्या शासन-दीपनं हित-पथाद् भ्रष्टस्य संस्थापनं
वन्दे दर्शन-गोचरं सुचरितं मूर्ध्ना नमन्नादरात्॥८२॥

[ ॐ ह्रीं अष्टाङ्गसम्यग्दर्शनाय अर्घं निर्वपामीति स्वाहा। ]

यो रागादि-रिपून्निरस्य रभसा निर्दोषभावं गतः
संवेगच्छलमास्थितो विकचयन् विश्वक् कृपाम्भोजिनीम्।
व्यक्तास्तिक्य-पथस्त्रिलोक-महितः पन्थाः शिवश्रीजुषा-
माराद्धुं प्रणतीच्छितैः स भवतः सम्यक्त्वसूर्योऽवतात्॥८३॥

[ इत्याशीर्वादः ]

सम्यग्ज्ञान

द्रव्याणि यदशेपाणि सपर्यायानि सर्वतः।
तद्गुणानपि जानाति तज्ज्ञानं केवलं स्तुवे॥१॥

ध्यान-मोहस्य यज्ज्ञान-दर्शनावरणस्य च।
उत्पद्यतेऽन्तरायस्य तदहं ज्ञानमाश्रये॥२॥

तज्ज्ञानं यन्नुदत्याशु मोह-संशय-विभ्रमान्।
नक्तं नक्तंचराख्यानि रवि-बिम्बमिवोद्गतम्॥३॥

जगत्त्रय-गुरोः सम्यक् यद्रूपं परमात्मनः।
स्तोतव्यं तन्न कस्येह सर्वाभ्युदय-साधकम्॥४॥

सम्यक्त्वस्यावलम्ब्रेन स्वयमुत्पद्य यत्क्रमात्।
उत्पादयति चारित्रं तदहं ज्ञानमाश्रये॥५॥

न ज्ञानं लोचनं यस्य विश्व-तत्त्वावलोकने।
सुलोचनोऽपि सोऽवश्यं नरो विगत-लोचनः॥६॥

तपांसि क्रियमाणानि बहून्यपि न मुक्तये।
विना ज्ञानेन तस्मात्तत् केवलं मुक्ति-साधनम्॥७॥

अमेयमत्र माहात्म्यं यद्यमुत्र न मुक्तिजम्।
सुखं वाञ्छथ तज्ज्ञानमुपाध्वं शुद्धमादरात्॥८॥

[ पुष्पाञ्जलिं क्षिपामि ]

निर्विकल्प-सुसंवित्तिरनर्पित-परिग्रहम्।
सज्ज्ञानं निश्चयादुक्तं व्यवहारेण यत्परम्॥९॥

परमात्मापि येनोच्चैर्दीव्यते त्रिजगद्गुरुः।
अभ्युपैतु तु तज्ज्ञानं भव्यं लोकैक-लोचनम्॥२॥

[ ॐ ह्रां ह्रीं ह्रूं ह्रः अष्टाङ्गसम्यग्ज्ञान अत्र अवतर अवतर संवौषट्। ]

शुक्ल-ध्यानेन यस्याप्तिः परमानन्द-शालिनी।
स्थापयामीह तज्ज्ञानं कर्म-मर्म-निषूदनम्॥३॥

[ ॐ ह्रां ह्रीं ह्रूं ह्रः अष्टाङ्गसम्यग्ज्ञान अत्र तिष्ठ तिष्ठ ठ ठ। ]

त्रैकालिकार्शमिवातिशुद्धे
यस्मिन् समं सर्व-पदार्थ-माला।
परिस्फुरत्यद्भुतवैभवं तत्
ज्ञानं परं सन्निहितं ममास्तु॥४॥

[ ॐ ह्रां ह्रीं ह्रूं ह्रः अष्टाङ्गसम्यग्ज्ञान अत्र मम सन्निहितं भव भव वषट्। ]

नेत्रं तृतीयमखिलार्थ-विलोकनेऽस्मिं-
ल्लोके यदस्य जगतो विमलं स्वभावात्।
आनन्द-सान्द्र-परमात्म-पदाप्तयेऽहं
तज्ज्ञान-रत्नमसमं पयसा यजामि॥५॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। ]

यल्लब्धयै विधिवदक्षगणं नियम्य
कुर्वन्त्यनेकविधमत्र तपो मुनीन्द्राः।
आनन्द-सान्द्र-परमात्म-पदाप्तयेऽहं
तज्ज्ञान-रत्नमसमं घृसृणैर्महामि॥६॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय संसारतापविनाशनाय चन्दनं नि० ]

चैतन्य-चिह्नमचलं किल जीवमस्माद्
देहाद्विभिन्नमिह विन्दति येन योगी।
आनन्द-सान्द्र परमात्म-पदाप्तयेऽहं
तज्ज्ञानरत्नमसमं सदक्षैर्नमामि॥७॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय अक्षयपदप्राप्तये अक्षतं नि०। ]

तीर्थङ्करोरु-पदवी न दवीयसी स्याद्-
आराधितेन भुवि येन शरीरभाजाम्।
आनन्द-सान्द्र-परमात्म-पदाप्तयेऽहं
तज्ज्ञान-रत्नमसमं कुसुमैर्महामि॥८॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय कामबाणविध्वंसनाय पुष्पं नि०। ]

येनान्वितं वरण-मालिकाया धिनोति
साधुं विमुक्ति-वनिता स्वयमेव शक्ता।
आनन्द-सान्द्र-परमात्म-पदाप्तयेऽहं
तज्ज्ञान-रत्नमसमं चरुभिर्धिनोमि॥९॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ]

सामर्थ्यमत्र मुनिरुद्धत-मोह-लक्ष्मी-
लुण्टाकमाशु लभते यदनुग्रहेण।
आनन्द-सान्द्र-परमात्म-पदाप्तयेऽहं
तज्ज्ञान-रत्नमुरुदीपगणैर्महामि॥१०॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। ]

अद्धां प्रभोगविषयोऽपि तमःसमूहो
येनास्यते दलित-दृक्-प्रसरैः क्षणेन।
आनन्द-सान्द्र-परमात्मपदाप्तयेऽहं
तज्ज्ञान-रत्नमसमं प्रयजे सुधूपैः॥११॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय दुष्टाष्टकर्मदहनाय धूपं नि०। ]

बन्धं छिनत्ति विरमत्यखिलाश्रयेभ्यो
विज्ञाय येन यतिरद्भुतमात्म-तत्त्वम्।
आनन्द-सान्द्र-परमात्म-पदाप्तयेऽहं
तज्ज्ञान-रत्नमसमं सुफलैर्यजामि॥१२॥

[ ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय मोक्षफलप्राप्तये फलं नि०। ]

अष्टाङ्ग-पूजा

श्रीमच्छरीरं श्रुत-देवतायाः स्थानेषु चाष्टासु यदाप्त-जन्म।
ज्ञानाङ्गमद्यौ शुभ-शंसि सम्यक् तद् व्यञ्जनाख्यं सततं नमामि॥

[ ॐ ह्रीं व्यञ्जनाञ्चिताय सम्यग्ज्ञानाय नम अर्घं निर्वपामीति स्वाहा। ]

येनान्वितो कामदुहेव सम्यक् गौः सर्व-कल्याणकरी जगत्याम्।
ज्ञानाङ्गमानन्दित-भव्य-लोकं तदर्थ-संज्ञं हृदये ममास्ताम्॥

[ ॐ ह्रीं अर्थममग्राय सम्यग्ज्ञानाय नम अर्घं निर्वपामीति स्वाहा। ]

सञ्जायते येन जगत्यजय्य-माहात्म्य-भूमिर्मनुजोऽचिरेण।
ज्ञानाङ्गमाविश्रुत-विश्वतत्त्वं तद् व्यञ्जनार्थोभयसंज्ञमीडे॥१६॥

[ ॐ ह्रीं तदुभयसमग्राय सम्यग्ज्ञानाय नम अर्घ निर्वपामीति स्वाहा। ]

येनायमात्मा स्व-पर-प्रमाता भव्यात्मनां गोचरतामुपैति।
ज्ञानाङ्गमिष्टार्थ-विधायि नित्यं तदत्र कालाध्ययनं महामि॥

[ ॐ ह्रीं कालाध्ययनोद्वुद्धप्रभावाय सम्यग्ज्ञानाय नम. अर्घं निर्वपामीति स्वाहा। ]

प्रारीप्सितस्याशु बुधोऽत्र येन ग्रन्थस्य निर्विघ्नमुपैति पारम्।
ज्ञानाङ्गमाचार-पथः प्रकाशि तत्तुपधानाख्यमहं श्रयामि॥

[ ॐ ह्रीं उपधानसमृद्धाय सम्यग्ज्ञानाय नम अर्घ निर्वपामीति स्वाहा। ]

सामीप्यमाप्यत्कुपितेव जन्तोर्नाभ्येति येनाश्रित-चित्तवृत्तिः।
ज्ञानाङ्गमानन्दभरेण सम्यक् ज्ञान-प्रदं तद्विनयाख्यमीडे॥

[ ॐ ह्रीं विनयेनोन्मुद्रितमाहात्म्याय सम्यग्ज्ञानाय नम. अर्घं निर्वपामीति स्वाहा। ]

द्रव्य-श्रुतं प्राप्य विमुक्ति-हेतुं भाव-श्रुतं विन्दति येन योगी।
ज्ञानाङ्गमध्यापक-सूरि-गुर्वनपह्नवाख्यं हृदये ममास्ताम्॥

[ ॐ ह्रीं गुर्वाद्यनपह्नवाय सम्यग्ज्ञानाय नम अर्घ निर्वपामीति स्वाहा। ]

नरं मुनीनामपि माननीयं सुसेवितं चाद्भुतमातनोति।
ज्ञानाङ्गमीडे बहुमानसंज्ञं नय-प्रमाणप्रतिपत्तये तत्॥

[ ॐ ह्रीं बहुमानसमृद्धाय सम्यग्ज्ञानाय नम अर्घं निर्वपामीति स्वाहा। ]

अष्टकम्

शुचि-तीर्थोद्भवैः नीरैः छिद्र पस्योपलब्धये।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२२॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्यो जलं निर्वपामीति स्वाहा। ]

रसैर्मलयजोद्भूतैर्जरा-जन्मादि-शान्तये।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२३॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्य चन्दन निर्वपामीति स्वाहा। ]

अक्षतैरक्षतानन्त-सुख-सम्पत्ति-हेतवे।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२४॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्यो अक्षतं निर्वपामीति स्वाहा। ]

सुमनोभिर्मनोऽनल्प-सङ्कल्प-भ्रान्ति-शान्तये।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२५॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्यः पुष्पं निर्वपामीति स्वाहा। ]

उरुभिश्चरुभिश्चारु-चिद्र पामृत-लब्धये।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२६॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्य नैवेद्य निर्वपामीति स्वाहा। ]

प्रदीपैर्ज्योतिषा भक्त्या परंज्योतिर्दिदृक्षया।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२७॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्यो दीप निर्वपामीति स्वाहा। ]

धूपैर्दशागुरु-स्तोम-सम्भवैर्भव-हानये।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२८॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्यो धूपं निर्वपामीति स्वाहा। ]

नारङ्गैर्मुक्ति-सद्गैकरस-मानस-लालसैः।
अङ्गानि व्यञ्जनादीनि ज्ञानाचारस्य संयजे॥२९॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्य. फलं निर्वपामीति स्वाहा। ]

श्रीनीर-चन्दन-वराक्षत-पुष्प-चारु-
नैवेद्य-दीपचय-धूप-फलार्घकैश्च।
ज्ञानाङ्गमेव भुवने शुचि-केलि-वासं
पुष्पाञ्जलिं शुचिमलं ह्यवतारयामि॥३०॥

[ ॐ ह्रीं व्यञ्जनोर्जितादिकेभ्य. अर्घ निर्वपामीति स्वाहा। ]

जयमाला

जय जय जिनवर-लोचन चेतन-गुण-परम-केवलज्ञान।
निखिल-द्रव्य-प्रदर्शक विगतोपम-सुख-सुधारस-कुण्ड॥३१॥

जिननाथ-मुखोत्चनमात्महितं निरुपाधि-सुखामृत-पूर-चितम्।
दृढ-मोह-महातरु-वायु-सखं भव-सम्भव-दुःख-विपद्-विमुखम्॥

मति-शान्त-महावधि-भेद-युतं सुमनोऽद्भुत-पर्यय-संविततम्।
उचितोचित-काल-सुपाठ-वरं गुरुभक्ति-पुराकृत-पापहरम्॥

उपधान-विदूरित-विघ्न-घनं बहु-मान-निराकृत-कर्म-रणम्।
निज-पाठक-निह्नव-मुक्ति-भरं विशदाक्षर-पूर-समग्रतरम्॥

अभिधेय-परंपरया सहितं शुचि तद्वय-शुद्धतरं महितम्।
कुसुमायुध-दुर्धर-वह्नि-वनं प्रतिबोधित-भव्य-यतीश-जनम्॥

बहु-लोभ-महीधर-सद्विदरं अपहस्तित-राग-रुजा-प्रसरम्।
अखिलात्म-दया-कथकं विशदं परिखण्डित-दुर्जय-मान-मदम्॥

सुविवेक-सरोरुह-तिग्मकरं परमात्म-विकाशक-युक्ति-करम्।
प्रणमामि जडत्व-रजः-शमकं शुचि-बोधमनन्त-रमा-जनकम्॥

इत्थं ज्ञानस्य साङ्गस्य स्तुतिं यो भक्ति-तत्परः।
विधत्ते सोऽद्भुतं सौख्यं लभते भव-विच्युतिम्॥३८॥

दोषोच्छेद-विजृम्भितः कृत-तमश्छेदः शिव-श्री-पथः
सत्त्वोद्बोध-प्रकर-प्रक्लृप्त-कमलोल्लास-स्फुरद्वैभवः।
लोकालोक-कृत-प्रकाश-विभवः कीर्ति जगत्पावनी
तन्वन् क्वापि चकास्ति बोध-तपनः पुण्यात्मनि व्योमनि॥

अर्घ-व्यञ्जन-तद्वयाधिकलता कालोपध-प्रश्रयः
स्वाचार्याद्यनपह्नवो बहुमतिश्चेत्यष्टधा व्याहृतम्
श्रीमत्सङ्गति-कुलेन्दुना भगवता तीर्थस्य कर्त्राञ्जसा
ज्ञानाचारमहं त्रिधा प्रणयितामुद्ध त्यये कर्मणाम्॥४०॥

[ ॐ ह्रीं अष्टविधाचाराय सम्यग्ज्ञानाय पूर्णार्घ निर्वपामीति स्वाहा।

यः सर्वथैकान्तनयान्धकार-प्राचारमस्यन्नय-रश्मिजालैः।
विश्व-प्रकाशं विदधाति नित्यं पायादनेकान्त-रविः स युष्मान्॥

[ इत्याशीर्वादः। ]

दुरित-तिमिर-हंसं मोक्ष-लक्ष्मी-सरोजं
मदन-भुजग-मन्त्रं चित्त-मातङ्ग-सिंहम्।
व्यसन-धन-समीरं विश्व-तत्त्वैक-दीपं
विपय-सफर-जालं ज्ञानमाराधय त्वम्॥४२॥

[ इत्याशीर्वादः। ]

सम्यक्चारित्र

आनन्द-रूपोऽखिलकर्म-मुक्तो निरत्ययः ज्ञानमयः सुभावः।
गिरामगम्यो मनसोऽप्यचिन्त्यो भूयान् मुदे वः पुरुषः पुराणः॥१

चारणं दुर्गतेः स्वर्गापवर्ग-सुख-कारणम्।
निवृत्ति-लक्षणं पाप-क्रियायाश्चरणं स्तुवे॥२॥

सामायिकादयो भेदा यस्य पञ्च प्रपञ्चिताः।
चरणं शरणं यामि तन्निर्वाणैक-कारणम्॥३॥

व्रतानि पञ्च पञ्चैव प्रोक्ताः समितयस्त्रयः।
गुप्तयो व्रतमित्याप्तैस्त्रयोदशविधं स्मृतम्॥४॥

संसार-पल्वलोद्भूतैर्विलिप्तः कर्म-कर्दमैः।
विशुद्धयति किलात्मायमञ्जसा चरणाम्भसा॥५॥

ज्ञानपञ्चकभूतीनां भाजनं यो मुनीश्वरः।
तत्केवलंमहं मन्ये चारित्रस्य विजृम्भितम्॥६॥

यदत्र मनसोऽचिन्त्यं यच्च वाचामगोचरम्।
एकेन चरणेनैव तत्साध्यं किं बहूच्यते॥७॥

नरोऽपि यत्सुराधीश-शिरोरत्नत्वमश्नुति।
जगत्त्रयैक-पूज्यस्य तच्चारित्रस्य वैभवम्॥८॥

चरणं स्वर्गतेर्मूलं चरणं मुक्तिसाधनम्।
चरणं धर्म-सर्वस्वं चरणं मङ्गलं परम्॥९॥

अनन्त-सुख-सम्पन्नो येनात्माऽयं क्षणादपि।
नमस्तस्मै पवित्राय चारित्राय पुनः पुनः॥१०॥

[ प्रणाम कृत्वा पुष्पाञ्जलि क्षिपामि। ]

सद्वृत्तं सर्व-सावद्य-योग-व्यावृत्तिरात्मनः।
गौणं स्याद्वृत्तिरानन्द-सान्द्रकर्मच्छिदाञ्जसा॥११॥

न मुह्यति न च क्वापि रज्यते द्वेष्टि नात्मवित्।
येनान्वितोऽपि चारित्रमवतारं करोतु तत्॥१२॥

[ ओ ह्रीं त्रयोदशप्रकार सम्यक्चारित्र ! अत्र अवतर अवतर संवौषट् ]

अनादि-कर्मोत्कर-कालिमाभिः कलङ्कितं जीवममुं विशुद्धम्।
यत्प्रापयत्यत्र चरित्रमुच्चैस्तत्तिष्ठतु ध्वस्त-समस्त-दोषम्॥१३॥

[ ओ ह्री त्रयोदशप्रकार सम्यक्चारित्र ! अत्र तिष्ठ तिष्ठ ठ ठ। ]

अनन्त-केवलज्ञान-सुखश्री-जीवनौषधम्।
लसन्महिमसन्निध्यमध्यास्तां चरणं मम॥१४॥

[ ओ ह्री त्रयोदशप्रकार सम्यक्चारित्र ! अत्र मम सन्निहितं भव भव वषट्। ]

श्रीकेवलेक्षण-विलोकित-विश्व-तत्त्वै-
र्यस्य प्रभावममितं गदितं जिनेशैः।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं शुचिभिर्जलौघैः॥१५॥

[ ओ ह्री त्रयोदशप्रकारचारित्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा। ]

आलम्बनं तनुभृतां पतताममीषां
दैवादगाध-जननाम्भसि निर्दयेऽस्मिन्।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं वर-चन्दनौघैः॥१६॥

[ ओ ह्री त्रयोदशप्रकारचारित्राय संसारतापविध्वंसनाय चन्दन निर्वपामीति स्वाहा। ]

यत्पालयन्निरतिचारमुदारसत्त्वो
भव्यो भवत्यखिल-लोक-ललाम-भूतः।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं ललिताक्षतौघैः॥१७॥

[ ओ ह्री त्रयोदशप्रकारचारित्राय अक्षयपदप्राप्तये अक्षत नि०। ]

संसार-मारव-महीषु यदच्छ-वारि-
पूर्ण सरः श्रितवतां गुरु-ताप-हारि।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं कमलैरुदारैः॥१८॥

[ ॐ ह्री त्रयोदशप्रकारचारित्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। ]

दुर्वार-दुर्गति-निबन्धनमष्टकर्म-
काष्ठं यदग्निरिव निर्दहति क्षणेन।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं चरुभिर्विशुद्धैः॥१९॥

[ ॐ ह्री त्रयोदशप्रकारचारित्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा। ]

पूर्वेरवाप्यवगमः खलु वर्तमानेः
येनाप्यते जगति भाविभिराप्स्यते च।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं विशद-प्रदीपैः॥२०॥

[ ॐ ह्री त्रयोदशप्रकारचारित्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। ]

आविर्भवन्ति यमिनां विविधर्द्धयस्ताः
येनाङ्कुरा इव नवाम्बु-धरेण सम्यक्।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं वर-धूप-धूम्रैः॥२१॥

[ ॐ ह्री त्रयोदशप्रकारचारित्राय दुष्टाष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। ]

जन्म-प्रबन्ध-शमनाय परात्म-निष्ठैः
यत्सेव्यते परमनन्त-सुख-प्रदायि।
चारित्रमत्र तदपास्त-समस्त-पापं
चाये त्रयोदशतयं विपुलैः फलौघैः॥२२॥

[ ॐ ह्रीं त्रयोदशप्रकारचारित्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। ]

शुद्धोपयोग उपलव्धमनन्त-सौख्यं
सिद्धान्तसारमुररीकृतमात्मविद्भिः।
सन्मुक्तिसंवरणमद्भुतमादरेण
तद्वृत्तमत्र कुसुमाञ्जलिना धिनोमि॥२३॥

[ ॐ ह्रीं त्रयोदशप्रकारचारित्राय अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा। ]

त्रयोदशाङ्ग-पूजा

निराकुलं जन्म-जराति-हीनं निरामयं निर्भयमात्म-सौख्यम्।
फलं यदीयं करणामयं तन्महाव्रतं सन्ततमाश्रयामि॥२४॥

[ ॐ ह्रीं अहिंसामहाव्रताय नम. अर्घ निर्वपामीति स्वाहा। ]

वक्तृत्वमुच्चैः सरसं कवित्वं श्रुतावगाहश्च फलं यदीयम्।
तत्सत्यवाक्याङ्कुरूपमेतन्महाव्रतं सन्ततमाश्रयामि॥२५॥

[ ॐ ह्रीं सत्यमहाव्रताय नम अर्घ निर्वपामीति स्वाहा। ]

अनर्थ-मूलस्य जगत्यदत्तादानस्य यत्सन्त्यजनं त्रिधाञ्ज।
तदद्भुतं स्तेय-निवृत्तिरूपं महाव्रतं सन्ततमाश्रयामि॥२६॥

[ ॐ ह्रीं अचौर्यमहाव्रताय नम. अर्घ निर्वपामीति स्वाहा। ]

अरं नभो-रत्नमिव ग्रहेषु व्रतेषु सर्वेष्वपि यद्विभाति।
तद्ब्रह्मचर्याद्भुत-रूपमेतन्महाव्रतं सन्ततमाश्रयामि॥२७॥

[ ॐ ह्रीं ब्रह्मचर्यमहाव्रताय नम’ अर्घ निर्वपामीति स्वाहा। ]

दुर्वार-कर्मास्रव-वारणं यत् संसाधनं दुर्जय-निर्जरायाः।
तदत्र मूर्च्छा-विलयैकरूपं महाव्रतं सन्ततमाश्रयामि॥२८॥

[ ॐ ह्रीं आकिञ्चन्यमहाव्रताय नम अर्घ निर्वपामीति स्वाहा। ]

व्रतानि शीलान्यखिलानि यां विना
विधीयमानान्यफलानि सर्वतः।
अतः परं ब्रह्मपदोपलब्धये
हि तां मनोगुप्तिमुपाश्रयामि॥२९॥

[ ॐ ह्रीं मनोगुप्तये नम अर्घ निर्वपामीति स्वाहा। ]

भवन्ति यस्यां गणनातिगा गुणाः
सत्यामसत्यादि-निवृत्ति-सम्भवाः।
भवापदामन्तमरं विधित्सतः
सा मे वचोगुप्तिरुदेति मानसे॥३०॥

[ ॐ ह्रीं वचोगुप्तये नम. अर्घ निर्वपामीति स्वाहा। ]

अतीन्द्रियज्ञानमिमे जितेन्द्रियाः
समाद्रियन्ते खलु यत्प्रसादात्।
सकायगुप्तिः करुणासमुद्रेः
ममास्तु दुर्वार-तमोऽपहारिणी॥३१॥

[ ॐ ह्रीं कायगुप्तये नम अर्घ निर्वपामीति स्वाहा। ]

प्रमादमुक्त्या युगमात्रदृष्ट्या
स्पष्टे करैरुष्णकरस्य मार्गे।
या वै गतिः सा समितिः किलेर्या
मान्या मुनीनां हृदये ममास्ताम्॥३२॥

[ ॐ ह्रीं ईर्यासमितये नम. अर्घ निर्वपामीति स्वाहा। ]

संकीर्तनैस्तीर्थकृतां जिनानां
पवित्रतोच्चैर्दश-दोष-मुक्ता।
विनिश्चितार्था समितिर्गरिष्ठा
मोक्षाय भाषा हृदये ममास्ताम्॥३३॥

[ ॐ ह्रीं भाषासमितये नम अर्घ निर्वपामीति स्वाहा। ]

अप्रार्थितं दोष-सहस्र-मुक्तमाहारमात्रं गृह्णतो मुमुक्षोः।
उत्पद्यते या नव-कोटि-शुद्धया शुद्धैषणा सा हृदये ममास्ताम्॥

[ ॐ ह्रीं एषणासमितये नम अर्घ निर्वपामीति स्वाहा। ]

पूर्वं पदार्थान् प्रनिलिख्य पश्चान्निक्षेपणं यद् ग्रहणं च तेषाम्।
आदाननिक्षेपण-नामतः सा ख्याता विशुद्धा हृदये ममास्ताम्॥

[ ॐ ह्रीं आदाननिक्षेपणसमितये नम अर्घ निर्वपामीति स्वाहा। ]

देशे शुचौ प्राणिगणोज्झिते यत् श्लेष्मादिकोत्सर्जनमप्रमादम्।
भव्यैरहिंसाव्रतसिद्धये सा व्युत्सर्गसंज्ञा प्रतिपालनीया॥३६॥

[ ॐ ह्रीं प्रतिष्ठापनसमितये नम अर्घ निर्वपामीति स्वाहा। ]

अष्टकम्

वारत्रयं तत्पुरतो लुठद्भिरुज्जैर्लसद्वापनिनीयपेय।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीर्यजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्यो जलं निर्वपामीति स्वाहा। ]

सच्चन्दनैश्चन्द्र-सितैः सुगन्धीकुर्वद्भिराशाः परितः समस्ताः।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीर्यजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्य चन्दनं निर्वपामीति स्वाहा। ]

पुण्यानुपुञ्जैरिव तण्डुलौघैः पुञ्जैः शरच्चन्द्र-करावदातैः।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीयेजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्यो अक्षत निर्वपामीति स्वाहा। ]

जात्यादि-सत्पुष्प-मतल्लिकाभिः श्रीमल्लिकाभिर्भव-ताप-नुत्यै।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीर्यजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्य पुष्प निर्वपामीति स्वाहा। ]

प्राणानुदारैरमृतैरिवान्नैरभ्युद्धरद्भिर्निखिलाङ्गभाजाम्।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीर्यजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्यो नैवेद्य निर्वपामीति स्वाहा। ]

नदत्सु वाद्येषु जयेति शब्दान् वदत्सु लोकेषु मणि-प्रदीपैः।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीर्यजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्यो दीपं निर्वपामीति स्वाहा। ]

एकेन्द्रियोत्पत्ति-जिहासयेव क्षिपद्भिरग्नौ स्वामिहागुरुघैः।
व्रतानि सत्य-प्रभृतीनि हर्षाद् गुप्तीर्यजामः समितीश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्यो धूपं निर्वपामीति स्वाहा। ]

जम्बीर-नारङ्ग-सुपक्व-जम्बू-फलोत्तमाद्यै रसमुद्भिरद्भिः।
व्रतानि सत्य-प्रभृतीनि हर्षात् गुप्तीर्यजामः समितोश्च पञ्च॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्य फलं निर्वपामीति स्वाहा। ]

जल-चन्दन-विशदाक्षत-सुशोभिना मोक्ष-सौख्य-संलब्ध्यै।
कुसुमाञ्जलिना नित्यं वृत्ताङ्गान्यादरात्प्रयजे॥

[ ॐ ह्रीं अहिंसामहाव्रतादिकाङ्गेभ्यो अर्घ निर्वपामीति स्वाहा। ]

जयमाला

जय जय शिव-सुखकारण दुर्गति-वारण सकल-सत्त्व-सुचित-करण
पर-नय-कृत-दूषण मुनि-गण-भूषण भव्य-निवह-संस्तुत-चरण॥

करुणा-रस-पूरितयात्महितं बहु-भक्ति-पराभरनाथ-नुतम्।
परमं शिव-सौध-निवासकरं चरणं प्रणमामि विशुद्धतरम्॥

शुचि-केवल-केलि-कला-सदनं जित-सूचित-विश्व-विपन्मदनम्।
परमं शिव-सौध-निवास-करं चरणं प्रणमामि विशुद्धतरम्॥

विशदागमविन्मुनिनाथ-धनं दुरितौघ-धनञ्जय-चण्डघनम्।
परमं शिव-सौध-निवास-करं चरणं प्रणमामि विशुद्धतरम्॥

रमणीय-विमुक्ति-रमा-कमलं सुविवेककरं हत-दुःख-मलम्।
परमं शिव-सौध-निवास-करं चरणं प्रणमामि विशुद्धतरम्॥

ममता-रजनी-दिवसाधिपतिं प्रकटीकृत-सत्य परात्म-हितम्।
परमं शिव-सौध-निवासकरं चरणं प्रणमामि विशुद्धतरम्॥

घन-कर्म-पयोद-समीरमलं सुतरीकृत-शोक-पयोधि-जलम्।
परमं शिव-सौध-निवास-करं चरणं प्रणमामि विशुद्धतरम्॥

जनताभिमत्तार्थकरं सुखदं भव-भीति-हरं कृत-सिद्ध-पदम्।
परमं शिव-सौध-निवास-करं चरणं प्रणमामि विशुद्धतरम्॥

मद्-राग-कषाय-रजः-शमनं भव-दुर्जय-दानव-संदमनम्।
परमं शिव-सौध-निवास-करं चरणं प्रणमामि विशुद्धतरम्॥

इत्थं चारित्र-रत्नं यः संस्तवीति पवित्रधीः।
अभिप्रेतार्थ-संसिद्धिं संप्राप्नोत्यचिरान्नरः॥५५॥

ते केनापि कृताजवं जवजया सिद्धाः सदा पान्तु वः
सम्पाद्यानि पुरा त्रि पञ्च यदि वा चत्वारि वृत्तानि यैः।
मुक्ति-श्री-परिरम्भ-शुम्भ-दशकस्थानेषु भावात्मना
केनाप्येकतमेन वीत-विपदः स्वात्माभिपिक्ताः पदे॥५६॥

तिस्रः सत्तम-गुप्तयस्तनु-मनो-भाषा-निमित्तोदयाः
पञ्चेर्यादि-समाश्रयाः समितयः पञ्च व्रतानीत्यपि।
चारित्रोपहितं त्रयोदशतयं पूर्वं न दृष्टं परै-
राचारं परमेष्ठिनो जिनपतेः वीरान्नमामो वयम्॥५७॥

[ ॐ ह्रीं त्रयोदशप्रकाराय सम्यक्चारित्राय महार्घं निर्वपामीति स्वाहा। ]

श्रद्धा स्वात्मैव शुद्धः प्रमदचपुरुपादेय इत्यांजसी दृक्
तस्यैव स्वानुभूत्या पृथगनुभवनं विग्रहादेश्च संवित्।
तत्रैवात्यन्त-तृप्त्या मनसि लयमितेव स्थितिः स्वस्य चर्या
स्वात्मानं भेद-रत्नत्रय-परमपरं तन्मयं विद्धि शुद्धम्॥५८॥

विरम विरम सङ्गात् मुञ्च मुञ्च प्रपञ्चं
विसृज विसृज मोहं विद्धि विद्धि स्वतत्त्वम्।
कलय कलय वृत्तं पश्य पश्य स्वरूपं
कुरु कुरु पुरुषार्थं निर्वृतानन्तहेतोः॥५९॥

[ ॐ ह्रीं व्यवहाररत्नत्रयैकसाध्याय निश्चयत्नत्रयाय अर्घं निर्वपामीति स्वाहा। ]

येनान्योन्य-विरोध-वैरि-विसृजा शक्रादि-पूजा कृता
सौधर्माधिप-चक्र-पूर्वक-पदं श्रीमुक्ति-शर्ममृतम्।
पायं पायमपापदूरमचलं भव्याश्रियं प्राप्यते
तद्वच्चारु-चरित्र-रत्नमनिशं प्रद्योततां चेतसि॥६०॥

तत्त्वार्थाभिनिवेश-निर्णयतपश्श्रेष्टामयीमात्मनः
शुद्धिं लब्धिवशाद् भजन्ति विकलां यद्यच्च पूर्णामपि।
स्वात्माप्रत्ययवृत्ति तल्लयमयीं तद्भव्य-सिंह-प्रियं
भूयाद्भो व्यवहार-निश्चयमयं रत्न-त्रयं श्रेयसे॥६१॥

मोहमल्लममल्लं यो व्यजेष्ट निश्चय-कारणम्।
करीन्द्रं वा हरिः सोऽर्हन् मल्लिः शल्यहरोऽस्तु वः॥६२॥

[ इत्याशीर्वादः ]


स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ २२० (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)