सुदर्शनमेरु
जिनान्संसथापयाम्यत्राह्वाननादि-विधानतः।
सुदर्शन-भवान् पुष्पाञ्जलि-व्रत-विशुद्धये॥१॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धिजिनचैत्यालयस्थ-जिनप्रतिमासमूह अत्र अवतर अवतर संवौषट्।
ॐ ह्रीं सुदर्शनमेरुसम्बन्धिजिनचैत्यालयस्थ-जिनप्रतिमासमूह अत्र तिष्ठ तिष्ठ ठ ठ।
ॐ ह्रीं सुदर्शनमेरुसम्बन्धिजिनचैत्यालयस्थ-जिनप्रतिमासमूह अत्र मम सन्निहितो भव भव वषट्। ]
स्वर्धुनी-जल-निर्मल-धारया
विशद-कान्ति-निशाकर-भारया।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान्
यजत षोडश-नित्य-जिनालयान्॥२॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धिभद्रशाल-नन्दन-सौमनस-पाण्डुक-वनसम्बन्धिपूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थजिनबिम्बेभ्यो जलं निर्वपामीति स्वाहा। ]
मलय-चन्दन-मर्दित-सद्द्रवैः सुरभि-कुङ्कुम-सौरभ-मिश्रितैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥३॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि० जिनबिम्बेभ्यः चन्दनं निर्वपामीति स्वाहा। ]
अशकलैरमलैः शुभ-शालिजैर्विधुकुरोज्ज्वल-कान्तिभिरक्षतैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥४॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि जिनबिम्बेभ्यः अक्षतं निर्वपामीति स्वाहा। ]
अमरपुष्प-सुवारिज-चम्पकैर्वकुल-मालति-केतकि-सम्भवैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥५॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि जिनबिम्बेभ्यः पुष्पं निर्वपामीति स्वाहा। ]
घृतवरादि-सुगन्ध-चरूत्करैः कनक-पात्रचितैर्नाप्रियैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥६॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि० जिनबिम्बेभ्यो नैवेद्यं निर्वपामीति स्वाहा। ]
मणि-घृतादि-नवैर्वरदीपकैस्तर-दीप्ति-चिरोचित-दिग्गणैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥७॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि जिनबिम्बेभ्यो दीपं निर्वपामीति स्वाहा। ]
अगुरु-देवतरूद्भव-धूपकैः परिमलोद्गम-धूपित-विष्टपैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥८॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि जिनबिम्बेभ्यो धूपं निर्वपामीति स्वाहा। ]
क्रमुक-दाडिम-निम्बुक-सत्फलैः प्रमुख-पक्व-फलैः सरसोत्तमैः।
प्रथम-मेरु-सुदर्शन-दिक्स्थितान् ०॥९॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि जिनबिम्बेभ्यः फलं निर्वपामीति स्वाहा। ]
विमल-सलिल-धारा-शुभ्र-गन्धाक्षतोघैः
कुसुम-निकर-चारु-स्वेष्ट-नैवेद्य-वर्गैः।
प्रहत-तिमिर-दीपैर्धूप-धूम्रैः फलैश्च
रजत-रचितमर्घं रत्नचन्द्रो भजेऽहम्॥१०॥
[ ॐ ह्रीं सुदर्शनमेरुसम्बन्धि जिनबिम्बेभ्योऽर्घं निर्वपामीति स्वाहा। ]
(जयमाला)
जम्बूद्वीप-धरा-स्थितस्य सुमहामेरोश्च पूर्वादिषु
दिग्भागेषु चतुर्षु षोडश-महाचैत्यालये सद्गनैः।
नाना-रत्न-विभूषितैर्मणिमयैर्भद्रादिशालान्तकैः
संयुक्तस्य निवासिनो जिनवरान् भक्त्या स्तवीमि स्तवैः॥
जन्मदूरा नता देवकैर्निष्कलाः स्वेदवीताः सदा क्षीर-देहाकुलाः।
मेरु-सम्बन्धिनो वीतरागा जिनाः सन्तु भव्योपकाराय संपूजिताः॥
शुद्ध-वर्णाङ्किताः शुद्ध-भावोद्धरा रत्न-वर्णोज्ज्वलाः सद्गुणैर्निर्मराः।
मेरु-सम्बन्धिनो वीतरागा जिनाः सन्तु भव्योपकाराय संपूजिताः॥
मान-मायातिगा मुक्ति-भावोद्धराः शुद्ध-सद्बोध-शङ्कादि-दोपाहराः।
मेरु-सम्बन्धिनो वीतरागा जिनाः सन्तु भव्योपकाराय संपूजिताः॥
पूर्ण-चन्द्राम-तेजोभिर्निर्वेशकाः चन्द्र-सूर्य-प्रतापाः करावेशकाः।
मेरु-सम्बन्धिनो वीतरागा जिनाः सन्तु भव्योपकाराय संपूजिताः॥
इति रचित-फलौघाः प्राप्त-सुज्ञान-पारा
हत-तम-घन-पापा नम्र-सर्वामरेन्द्राः।
गत-निखिल-विलापाः कान्ति-दीप्ता जिनेन्द्राः
अपगत-घन-मोहाः सन्तु सिद्ध्यै जिनेन्द्राः॥
[ ॐ ह्रीं सुदर्शन-मेरुसंबंधि-भद्रशाल-नन्दन-सौमनस-पाण्डुकवन-संबंधिपूर्व-दक्षिण-पश्चिमोत्तरस्थ-जिनचैत्यालयस्थ-जिनबिम्बेभ्यः पूर्णार्घं निर्वपामीति स्वाहा॥ ]
सर्व-व्रताधिपं सारं सर्व-सौख्यकरं सताम्।
पुष्पाञ्जलिव्रतं पुण्यायुष्माकं शाश्वतीं श्रियम्॥
[ इत्याशीर्वादः ]
विजयमेरु
जिनान्संस्थापयाम्यत्राह्वाननादि-विधानतः।
धातकीखण्ड-पूर्वाशा - मेरोर्विजय - वर्तिनः॥१॥
[ ॐ ह्रीं विजयमेरुसम्बन्धिजिनप्रतिमासमूह! अत्र अवतर
अवतर संवौषट्।
ॐ ह्रीं विजयमेरुसम्बन्धिजिनप्रतिमासमूह! अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं विजयमेरुसम्बन्धिजिनप्रतिमासमूह! अत्र मम सन्नि-
हितो भव भव वषट्। ]
सुतोयैः सुतीर्थोद्भवैर्वातदोषैः सुगाङ्गेय-भृङ्गारनालास्यसङ्गैः।
द्वितीयं सुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलं रत्नचन्द्रः।
[ ॐ ह्रीं विजयमेरुसम्बन्धिभद्रशालनन्दन-सौमनस-पाण्डुक-
वन-सम्बन्धि-पूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थजिनविम्बेभ्यो
जन्मजराविनाशनाय जलं निर्वपामीति स्वाहा॥ ]
सुगन्धागतालि-व्रजैः कुङ्कुमादि-द्रवैश्चन्दनैश्चन्द्रपूर्णाभिरामैः।
द्वितीयं सुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलं रत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि जिनविम्बेभ्यः चन्दनं निर्व-
पामीति स्वाहा ]
सुशाल्यक्षतैरक्षतैर्दिव्य-देहैः सुगन्धाक्षताब्ध-शृङ्गार-मानैः।
द्वितीयं सुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलंरत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि-जिनविम्बेभ्यो अक्षतं निर्व-
पामीति स्वाहा। ]
लवङ्गैः प्रसूनैस्ततामोदवृद्धिः सुमन्दार-माला-पयोजादि-जातैः।
द्वितीयं सुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलंरत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धिजिनविम्बेभ्यः पुष्पं निर्वपा-
मीति स्वाहा। ]
मनोज्ञैः सुखाद्यैर्विनाज्यतप्तैः सुशाल्योदनैर्मोदकैर्मण्डकाद्यैः।
द्वितीयं सुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलं रत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि जिनविम्बेभ्यो नैवेद्यं निर्वपा-
मीति स्वाहा। ]
प्रदीपैर्हृत-ध्वान्त-रत्नादिभूतैर्ज्वलत्कीलजातेर्भृशं भासुरैश्च।
द्वितीयं सुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलं रत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि जिनविम्बेभ्यो दीपं निर्वपामीति
स्वाहा। ]
सुधूपैः सुगन्धीकृताशा-समूहैर्मदभृङ्ग-यूथैः शुभैश्चन्दनाद्यैः।
द्वितीयं सुमेरुंशुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलं रत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि जिनविम्बेभ्यो धूपं निर्वपामीति
स्वाहा। ]
शुभैर्मोचि-चोचाग्र-जम्बीरकाद्यैर्मनोऽभीष्ट-दान-प्रदैः सत्फलाद्यैः।
द्वितीयंसुमेरुं शुभं धातकीस्थं यजे रत्न-विम्बोज्ज्वलं रत्नचन्द्रः॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि जिनविम्बेभ्यः फलं निर्वपामीति
स्वाहा। ]
विशुद्धैरष्ट-सद्द्रव्यैरर्घमुच्चारयाम्यहम्।
हेम-पात्र-स्थितं भक्त्या जिनानां विजयौकसाम्॥१०॥
[ ॐ ह्रीं विजयमेरुसम्बन्धि जिनविम्बेभ्योऽर्घं निर्वपामीति
स्वाहा। ]
जयमाला
सफल-कलिल-मुक्ता सर्व-सम्पत्ति-युक्ता
गणधर-गण-सेव्याः कर्म-पङ्क-प्रणष्टाः।
प्रहत-मदन-मानास्त्यक्त-मिथ्यात्व-पाशाः
कलित-निखिल-भावास्ते जिनेन्द्रा जयन्तु॥११॥
विमोहं विमारित-काम-भुजङ्गं अनेक-सदाविधि-भाषित-भङ्गं।
कषाय-दवानल-तत्त्व-सुरङ्गं प्रसीद जिनोत्तम मुक्ति-प्रसङ्ग॥१२॥
निरीहं निरामयं निर्मलं हंसं प्रकीर्णक-राजितं शुद्धं सुवंसं।
अनिन्द्य-चरित्रं विमानित-कंसं प्रसीद जिनोत्तम भव्य-निरंशं॥
प्रबोधं विबुद्ध-जगत्त्रयसारं, अनन्त-चतुष्टय सागर-पारं।
विचारित-मर्त्य-परिग्रह-भारं प्रसीद जिनोत्तम भव्य-सुतार॥१४॥
तपोभर-दारित-कर्म-कलङ्कं विरोगं विभोगं वियोगं निशङ्कं।
अखण्डितं चिन्मय-देह-प्रकाशं प्रसीद जिनोत्तम मुक्ति-प्रसङ्गं॥
विवर्जित-दोषं गुणौघ-करण्डं प्रसारित-मान-तमो-मद-दण्डं।
अपार-भवोदधि-तार-तरण्डं प्रसीद जिनोत्तम मुक्ति-प्रसङ्गं॥
दृगवगम-चरित्रा प्राप्त-संसार-पारा
सकल-शशि-निभास्याः सर्व-सौख्यादि-वासाः।
विदित-भव-विशिष्टाः प्रोल्लसज्ज्ञान-शिष्टाः
ददतु जिनवरास्ते मुक्ति-साम्राज्य-लक्ष्मीम्॥१७॥
[ ॐ ह्रीं विजयमेरुसम्बन्धिभद्रशाल-नन्दन-सौमनस-पाण्डुक-
वनसम्बन्धिपूर्व-दक्षिण-पश्चिमोत्तरस्थजिनचैत्यालयस्थजिनविम्बेभ्यः
पूर्णार्घं निर्वपामीति स्वाहा। ]
सर्व-व्रताधिपं सारं सर्व-सौख्यकरं सताम्।
पुष्पाञ्जलि-व्रतं पुष्पाद्युष्माकं शाश्वतीं श्रियम्॥१८॥
[ इत्याशीर्वादः ]
अचलमेरु
जिनान् संस्थापयाम्यत्राह्वानादि-विधानतः।
धातकी-पश्चिमाशास्थाचल-मेरु-प्रवर्त्तिनः॥१॥
[ ॐ ह्रीं अचलमेरुसम्बन्धिजिनप्रतिमासमूह अत्र अवतर अवतर संवौषट्।
ॐ ह्रीं अचलमेरुसम्बन्धिजिनप्रतिमासमूह अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं अचलमेरुसम्बन्धिजिनप्रतिमासमूह अत्र मम सन्निहितो भव भव वषट्। ]
सौरभ्याहृत-सद्गन्ध-सारया जलधारया।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥२॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि… जिनबिम्बेभ्यो जलं निर्वपामीति स्वाहा। ]
चारु-चन्दन-कर्पूर-काश्मीरादि-विलेपनैः।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥३॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि… जिनबिम्बेभ्यः चन्दनं निर्वपामीति स्वाहा। ]
अक्षतैरक्षतानन्द-सुख-दान-विधानकैः।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥४॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि… जिनबिम्बेभ्यो अक्षतं निर्वपामीति स्वाहा। ]
जाति-कुन्दादि-राजीव-चम्पकानेक-पल्लवैः।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥५॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि… जिनबिम्बेभ्यः पुष्पं निर्वपामीति स्वाहा। ]
खाद्य-स्वाद्यपदैः द्रव्यैः सन्नाज्यैः सुकृतैरिव।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥६॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि… जिनबिम्बेभ्यो नैवेद्यं निर्वपामीति स्वाहा। ]
दशाग्रैः प्रस्फुरद्दीपैर्दीपैः पुण्य-जनैरिव।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥७॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि जिनबिम्बेभ्यो दीपं निर्वपामीति स्वाहा। ]
धूपैः संधूपितानेक-कर्मभिर्धूपदायिने।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥८॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि जिनबिम्बेभ्यो धूपं निर्वपामीति स्वाहा। ]
नारिकेलादिभिः पुञ्जैः फलैः पुण्यजनैरिव।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥९॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि जिनबिम्बेभ्यो फलं निर्वपामीति स्वाहा। ]
जलगन्धाक्षतानेक-पुष्प-नैवेद्य-दीपकैः।
अचल-मेरु-जिनेन्द्राय जरा-जन्म-विनाशिने॥१०॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि जिनबिम्बेभ्यो अर्घं निर्वपामीति स्वाहा। ]
(जयमाला)
श्रीधातकीखण्ड-विदेह-संस्थं तृतीयमेरुं जिन-संप्रयुक्तम्।
शुम्भत्प्रदीपोत्कर-रत्नचन्द्रं संस्तौम्यहं सद्गुण-वर्द्धमानम्॥१॥
सुर-खेचर-किन्नर-देव-गणं। यात्रागत-चरण-मुनीन्द्र-रणं।
नाना-रचना-रचित-प्रसरं। वन्दे गिरिराजमहं विमरं॥२॥
मणि-भूपित-पार्श्व-युगं सलयं। सुविराजित-प्रतिमा-जिन-निलयं।
जिनवर-मङ्गल-गुण-गण-निचयं। वन्दे गिरिराजमहं विमरं॥
भविक-भाव-भावित-शोभङ्गं। संश्रित-सुर-नर-कृत-घन-भोगं।
सम्भव-सुव-जल-गुण-शुभ-प्रकरं। वन्दे गिरिराजमहं विमरं॥
भद्रशाल-वन-परिधि-विशालं। दशविध-कल्पवृक्ष-कर-मालं।
कनक-वर्ण-लक्षण-तनुमैन्द्रं। वन्दे गिरिराजमहं विमरं॥५॥
स्फटिक-शिला-धर-कलश-निबद्धं। क्षीरोदधि-नीरं जल-शुद्धं।
नाना-विभवं जन-ताप-हरं। वन्दे गिरिराजमहं विमरं॥
विविध-मणि-निबद्धं भृगताभद्रशालं
कनक-रचित-भक्तिं बद्धसोपान-पंक्तिम्।
स्फटिक-विमल-सान्द्रं पाण्डुकाव्याप्त-देशं
भजत गिरिवरं तं ह्यर्धपात्रैरनर्घैः॥७॥
[ ॐ ह्रीं अचलमेरुसम्बन्धि…जिनबिम्बेभ्योऽर्घं निर्वपामीति स्वाहा। ]
सर्व-व्रताधिपं सारं मुक्ति-सौख्य-वरं सताम्।
पुष्पाञ्जलिव्रतं पुण्यायुष्मार्कं शाश्वतीं श्रियम्॥८॥
[ आशीर्वादं ]
मन्दिरमेरु
जिनान् संस्थापयाम्यत्राह्वाननादि-विधानतः।
मेरु-मन्दिर-नामानः पुष्पाञ्जलि-विशुद्धये॥१॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धिजिनप्रतिमासमूह! अत्र अवतर अवतर संवौषट्।
ॐ ह्रीं मन्दिरमेरुसम्बन्धिजिनप्रतिमासमूह अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं मन्दिरमेरुसम्बन्धिजिनप्रतिमासमूह अत्र मम सन्निहितो भव भव वषट्। ]
गङ्गातरङ्ग-चयैः सुपवित्रताङ्गै
रम्यैः सुशीतलतरैर्भव-ताप-हारैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं
श्रीमन्दिरं वितत-पुष्कर-द्वीप-संस्थम्॥२॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि…जिन-विम्बेभ्यो जलं निर्वपामीति स्वाहा। ]
काश्मीर-कुङ्कुम-रसैर्हरि-चन्दनाद्यैः
गन्धोत्कटैर्वन-भवैर्घनसार-मिश्रैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥३॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि जिनविम्बेभ्यः चन्दनं निर्वपामीति स्वाहा। ]
चन्द्रांशु-गौर-विहितैः कलमाक्षतोद्यै-
र्गुणाप्रियैरवितथैर्विमलैरखंडैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥४॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि…जिनविम्बेभ्यो अक्षतं निर्वपामीति स्वाहा। ]
गन्धागतालि-निवहैः शुभ-चम्पकादि-
पुष्पोत्करैरमरपुष्प-युतैर्मनोज्ञैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥५॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि जिनविम्बेभ्यो पुष्पं निर्वपामीति स्वाहा। ]
स्वर्णादि-पात्र-निहितैर्घृत-पक्व-खण्डै-
र्नानाविधैर्घृतवरै रसनेन्द्रियेष्टैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥६॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि जिनविम्बेभ्यो नैवेद्यं निर्वपामीति स्वाहा। ]
कर्पूर-दीप-निचयैर्निहितान्यकारैः
सङ्भासितांशु-निकरैः शुभ-कील-जालैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥७॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि जिनविम्बेभ्यो दीपं निर्वपामीति स्वाहा। ]
कालागुरु-त्रिदश-दारु-सुचन्दनादि-
द्रव्योद्भवैः सुभग-गन्ध-सधूप-धूम्रैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥८॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि जिनविम्बेभ्यो धूपं निर्वपामीति स्वाहा। ]
नारिङ्ग-पूग-पनसाम्र-सुमोच-चोचैः
शीलाञ्जलि-प्रमुख-भव्य-फलैः सुरम्यैः।
मेरुं यजेऽखिल-सुरेन्द्र-समर्चनीयं…॥९॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि…जिनविम्बेभ्यो फलं निर्वपामीति स्वाहा ]
जलैः सुगन्धाक्षत-चारु-पुष्पैर्नैवेद्य-दीपैर्वर-धूप-वर्गैः।
फलैर्महार्घं ह्यवतारयामि श्रीरत्नचन्द्रो यति-वृन्द-सेव्यः॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धि भद्रशालवननन्दनवनसौमनस-
वनपाण्डुकवनसम्बन्धिपूर्वदक्षिणपश्चिमोत्तरस्थ-जिनचैत्यालयस्थ-
जिनविम्बेभ्यो अर्घं निर्वपामीति स्वाहा। ]
(जयमाला)
प्रोद्यत्षोडश-लक्ष-योजन-मित-श्री-पुष्करार्द्ध-स्थितः
श्रीमत्पूर्व-विदेह-मन्दिर-गिरिर्देवेन्द्र-वृन्दार्चितः।
चञ्चत्पञ्च-सुवर्ण-रत्न-जटितो नाना-द्रुमौघोजितः
तत्सम्बन्धि-जिनौकसां गुण-गणान् संस्तौम्यहं सर्वदा॥
देव-विद्याधरैश्चासुरैश्चर्चितं, किन्नरी-गीत-कल-गान-संजृम्भितम्।
नर्तितानेक-देवाङ्गना-सुन्दरं, श्रीजिनागारचारं भजे भासुरम्॥
जन्मकल्याण-संमोहितामर-बलं, दर्शितानेक-देवाङ्गना-सुन्दरम्।
प्रोल्लसत्केतु-मालालयेः सुन्दरं, श्रीजिनागारवारं भजे भासुरम्॥
धूप-घट-धूपितावास-शोभा-वरं, रत्न-स्तम्भोजितालीभिराशाकुलम्
अष्ट-मङ्गल-महाद्रव्य-चय-सुन्दरं, श्रीजिनागारवारं भजे भासुरम्॥
ताल-वीणा-मृदङ्गादि-पटह-स्वरं, कल्पतरु-पुष्प-वापी-तडागाकरम्
जंघचारण-मुनि-व्रागताशाकरं, श्रीजिनागारवारं भजे भासुरम्॥
रुचिर-मणि-मयैः गोपुरैः संयुतं, हर्म्यावली-लसन्मुक्त-मालावृतम्।
तुङ्ग-तोरण-लसद्घंटिका-झङ्करं, श्रीजिनागारवारं भजे भासुरम्॥
(घत्ता)
विविध-विषय-भव्यं भव्य-संसारतारं
शतमख-शत-पूज्यं प्राप्त-सज्ज्ञान-पारम्।
विषय-विषम-दुष्ट-व्याल-पक्षीशमीशं
जिनवर-निकरं तं रत्नचन्द्रो भजेऽहम्॥१७॥
[ ॐ ह्रीं मन्दिरमेरुसम्बन्धिभद्रशाल-नन्दन-सौमनस-पाण्डुक-
वनसम्बन्धिपूर्वदक्षिणपश्चिमोत्तरस्थजिनचैत्यालयस्थजिनविम्बेभ्यो
पूर्णार्घं निर्वपामीति स्वाहा। ]
सर्व-व्रताधिपं सारं सर्व-सौख्य-करं सताम्।
पुष्पाञ्जलि-व्रतं पुण्यायुष्पाकं शाश्वतीं श्रियम्॥
[ इत्याशीर्वादः। ]
विद्युन्मालिमेरु
जिनान्संस्थापयाम्यत्राह्वाननादि-विधानतः।
पुष्करे पश्चिमाशास्थान् विद्युन्मालि-प्रवर्तिनः॥१॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनप्रतिमासमूह! अत्रावतर अवतर संवौषट्।
ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनप्रतिमासमूह! अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धिजिनप्रतिमासमूह! अत्र मम सन्निहितो भव भव वषट्! ]
निर्मलैः सुशीतलैर्महापगा-भवैर्जलैः
शातकुम्भ-कुम्भगैरजगज्जनाङ्ग-तापहारैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनैः
पञ्चमं सुमन्दिरं महाम्यहं शिवप्रदम्॥२॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा। ]
चन्दनैः सुचन्द्रसार-मिश्रितैः सुगन्धिभि-
रर्क-वेणु-मूलभूत-वर्जितैर्गुणोज्ज्वलैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥३॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो चन्दनं निर्वपामीति स्वाहा। ]
इन्दु-रश्मि-हार-यष्टि-हेम-भास-भासितै-
रक्षतैरखण्डितैः सुवासितैर्मनःप्रियैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥४॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो अक्षतं निर्वपामीति स्वाहा। ]
गन्ध-लुब्ध-षट्पदैः सुपारिजात-पुष्पकैः
वारिजाति-कुन्द-देवपुष्प-मालती-भवैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥५॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यः पुष्पं निर्वपामीति स्वाहा। ]
प्राज्य-पूर-पूरितैः सुखज्जकैः सुमोदकैः
इन्द्रिय-प्रभूतकरैः सुचारुभिश्चरूत्करैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥६॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो नैवेद्यं निर्वपामीति स्वाहा। ]
अन्धकार-भार-नाश-कारणैर्दशेन्धनैः
रत्न-सोमजैः प्रदीप्ति-भूषितैः शिखोज्ज्वलैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥७॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो दीपं निर्वपामीति स्वाहा। ]
सिह्लिकागुरूद्भवैः सुधूपकैर्नभोगत-
र्गन्धिताश-चक्र-केश-वृन्दकैः प्रशस्तकैः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥८॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो धूपं निर्वपामीति स्वाहा। ]
आम्र-दाडिमैः सुमोच-चोचकैः शुभैः फलैः
मातुलिङ्ग-नारिकेल-पूग-चूतकादिभिः।
जैन-जन्म-मज्जनाम्भस-प्लवातिपावनं············॥९॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो फलं निर्वपामीति स्वाहा। ]
जल-गन्धाक्षतैः पुष्पैश्चरु-दीप-सुधूपकैः
फलैरुत्तारयाम्यर्घ विद्युन्मालि-प्रवर्तिनाम्॥१०॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्यो अर्घं निर्वपामीति स्वाहा। ]
जयमाला
स्तुवे मन्दिरं पञ्चमं सद्गुणौघं, समुत्तुङ्ग-चैत्यालयं भासुराङ्गम्।
चलद्रत्न-सोपान-विद्याधरीशं, नमो देव-नागेन्द्र-मर्त्येन्द्र-वृन्दम्।
भद्रशालाभिधरण्य-संशोभितं, कोकिलानां कलालाप-संकूजितम्।
पुष्करार्द्धाचले संस्थितं मन्दिरं, चञ्चलामालिनं पूजये सुन्दरम्॥
नन्दनैर्नन्दितानेकलौकाकरैर्भ्राजमानं सदाशोकवृक्षोत्करैः।
पुष्करार्द्धाचले संस्थितं मन्दिरं, चञ्चलामालिनं पूजये सुन्दरम्॥
सौमनसैर्वनैः कल्पवृक्षादिभिः, भ्राजमानं बुधागारकेत्वादिभिः।
पुष्करार्द्धाचले संस्थितं मन्दिरं, चञ्चलामालिनं पूजये सुन्दरम्॥
ऊर्ध्वगैः पाण्डुकैः काननै राजितं
पाण्डुकाख्याशिलाभिः समालिङ्गितैः।
पुष्करार्द्धाचले संस्थितं मन्दिरं
चञ्चलामालिनं पूजये सुन्दरम्॥
निर्जितानेकरत्नप्रभाभासुरं दिक्चतुष्काश्रितार्हत्प्रभाभासुरम्।
पुष्करार्द्धाचले संस्थितं मन्दिरं चञ्चलामालिनं पूजये सुन्दरम्॥
(घत्ता)
घण्टा-तोरण-तारिकाब्ज-कलशैश्छत्राष्ट-द्रव्यैः परैः
श्री-भामण्डल-चामरैः सुरचितैश्चन्द्रोपकरणादिभिः।
त्रैकाल्ये वर-पुष्प-जाप्य-जपनैर्जैनैः करोत्वर्चनां
भव्यैर्दान-परायणैः कृतदयैः पुष्पाञ्जलिं शुद्धये॥
[ ॐ ह्रीं विद्युन्मालिमेरुसम्बन्धि जिनबिम्बेभ्योऽर्घं निर्वपामीति स्वाहा। ]
सर्वव्रताधिपं सारं सर्वसौख्यकरं सताम्।
पुष्पाञ्जलिव्रतं पुष्याद्युष्माकं शाश्वतीं श्रियम्॥
[ इत्याशीर्वादः। ]
स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ १४८ (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)