श्री जिनसहस्रनाम स्तोत्र (आचार्य जिनसेन, संस्कृत) | Shri Jinsahasranam Stotra (Acharya Jinsen, Sanskrit)

स्वयंभुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि।
स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये॥१॥

नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते।
विदांवर नमस्तुभ्यं नमस्ते वदतां वर॥२॥

कर्मशत्रुहणं देवमामनन्ति मनीषिणः।
त्वामानमत्सुरेण्मौलि-भा-मालाभ्यर्चित-क्रमम्॥३॥

ध्यान-दुर्धण-निर्भिन्न-घन-घाति-महातरुः।
अनन्त-भव-सन्तान-जयादासीरनन्तजित्॥४॥

त्रैलोक्य-निर्जयावास-दुर्दर्पमतिदुर्जयम्।
मृत्युराजं विजित्यासीर्जिन मृत्युंजयो भवान्॥५॥

विधुताशेष-संसार-बन्धनो भव्य-बान्धवः।
त्रिपुरारिस्त्वमीशासि जन्म-मृत्युजरान्तकृत्॥६॥

त्रिकाल-विजयाशेष-तत्त्वभेदात् त्रिधोत्थितम्।
केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता॥७॥

त्वामन्धकान्तकं प्राहुर्मोहान्धासुर-मर्दनात्।
अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः॥८॥

शिवः शिव-पदाध्यासाद् दुरितारि-हरो हरः।
शङ्करः कृतशं लोके शम्भवस्त्वं भवन्सुखे॥९॥

वृषभोऽसि जगज्ज्येष्ठः पुरुः पुरु-गुणोदयैः।
नाभेयो नाभि-सम्भृतेरिक्षवाकु-कुल-नन्दनः॥१०॥

त्वमेकः पुरुषस्कंधस्त्वं द्वे लोकस्य लोचने।
त्वं त्रिधा बुद्ध-सन्मार्गस्त्रिज्ञस्त्रिज्ञान-धारकः॥११॥

चतुःशरण-माङ्गल्यमूर्तिस्त्वं चतुरस्रधीः।
पञ्च-ब्रह्ममयो देव पावनस्त्वं पुनीहि माम्॥१२॥

स्वर्गावतरणे तुभ्यं सद्योजातात्मने नमः।
जन्माभिषेक-वामाय वामदेव नमोऽस्तु ते॥१३॥

सन्निष्क्रान्तावघोरराय परं प्रशममीयुषे।
केवलज्ञान-संसिद्धावीशानाय नमोऽस्तु ते॥१४॥

पुरस्तत्पुरुपत्वेन विमुक्त-पद-भागिने।
नमस्तत्पुरुषावस्थां भाविनीं तेऽद्य बिभ्रते॥१५॥

ज्ञानावरणनिर्हासान्नमस्तेऽनन्तचक्षुषे।
दर्शनावरणोच्छेदान्नमस्ते विश्वदृश्वने॥१६॥

नमो दर्शनमोहघ्ने क्षायिकामलदृष्टये।
नमश्चारित्रमोहघ्ने विरागाय महौजसे॥१७॥

नमस्तेऽनन्त-वीर्याय नमोऽनन्त-सुखात्मने।
नमस्तेऽनन्त-लोकाय लोकालोकावलोकिने॥१८॥

नमस्तेऽनन्त-दानाय नमस्तेऽनन्त-लब्धये।
नमस्तेऽनन्त-भोगाय नमोऽनन्तोपभोगिने॥१९॥

नमः परम-योगाय नमस्तुभ्यमयोगये।
नमः परम-पूताय नमस्ते परमर्षये॥२०॥

नमः परम-विद्याय नमः पर-मत-च्छिदे।
नमः परम-तत्त्वाय नमस्ते परमात्मने॥२१॥

नमः परमरूपाय नमः परम-तेजसे।
नमः परम-मार्गाय नमस्ते परमेष्ठिने॥२२॥

परमर्द्धिजुषे धाम्ने परम-ज्योतिषे नमः।
नमः पारेतमःप्राप्तधाम्ने परतरात्मने॥२३॥

नमः क्षीण-कलङ्काय क्षीण-बन्ध नमोऽस्तु ते।
नमस्ते क्षीण-मोहाय क्षीण-दोषाय ते नमः॥२४॥

नमः सुगतये तुभ्यं शोभनां गतिमीयुषे।
नमस्तेऽतीन्द्रिय-ज्ञान-सुखायानिन्द्रियात्मने॥२५॥

काय-बन्धननिर्मोक्षादकायाय नमोऽस्तु ते।
नमस्तुभ्यमयोगाय योगिनामधियोगिने॥२६॥

अवेदाय नमस्तुभ्यमकषायाय ते नमः।
नमः परम-योगीन्द्र-वन्दितांघ्रि-द्वयाय ते॥२७॥

नमः परम-विज्ञान नमः परम-संयम।
नमः परमदृग्दृष्ट-परमार्थाय तायिने॥२८॥

नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक-स्पृशे।
नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे॥२९॥

संज्ञ्यसंज्ञिद्वयावस्थाव्यतिरिक्तामलात्मने।
नमस्ते वीतसंज्ञाय नमः क्षायिकदृष्टये॥३०॥

अनाहाराय तृप्ताय नमः परमभाजुषे।
व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे॥३१॥

अजराय नमस्तुभ्यं नमस्ते स्तादजन्मने।
अमृत्यवे नमस्तुभ्यमचलायाक्षरात्मने॥३२॥

अलमास्तां गुणस्तोत्रमनन्तास्तावका गुणाः।
त्वां नामस्मृतिमात्रेण पर्युपासिसिषामहे॥३३॥

एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधीः
पठेद्दृष्टोत्तरं नाम्नां सहस्रं पाप-शान्तये॥३४॥

इति प्रस्तावना

प्रसिद्धाष्ट-सहस्रैर्लक्षणैस्त्वां गिरां पतिम्।
नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये॥१॥

श्रीमान्स्वयम्भूर्वृषभः शंभवः शंभुरात्मभूः।
स्वयंप्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः॥२॥

विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः।
विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वरः॥३॥

विश्वदृश्वा विभर्धाता विश्वेशो विश्वलोचनः।
विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतोमुखः॥४॥

विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिर्जिनेश्वरः।
विश्वदृक् विश्वभूतेशो विश्वज्योतिरनीश्वरः॥५॥

जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः।
अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः॥६॥

युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः।
परः परतरः सूक्ष्मः परमेष्ठी सनातनः॥७॥

स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः।
मोहारिविजयी जेता धर्मचक्री दयाध्वजः॥८॥

प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः।
ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः॥९॥

शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः।
सिद्धः सिद्धान्तविद् ध्येयः सिद्धसाध्यो जगद्धितः॥१०॥

सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः।
प्रभूष्णुरजरोऽजय्यो भ्राजिष्णुर्धीश्वरोऽव्ययः॥११॥

विभावसुरसम्भविष्णुः स्वयम्भविष्णुः पुरातनः।
परमात्मा परंज्योतिस्त्रिजगत्परमेश्वरः॥१२॥

इति श्रीमदादिशतम्॥१॥

दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः।
पूतात्मा परमज्योतिर्धर्मधृग्धो दमीश्वरः॥१॥

श्रीपतिर्भगवानर्हन्नरजा विरजाः शुचिः।
तीर्थकृत्केवलीशानः पूजार्हः स्नातकोऽमलः॥२॥

अनन्तदीप्तिर्ज्ञानात्मा स्वयम्बुद्धः प्रजापतिः।
मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः॥३॥

निरञ्जनो जगज्ज्योतिर्निर्मुक्तोकिरनामयः।
अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः॥४॥

अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत्।
शास्ता धर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत्॥५॥

वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः।
वृषो वृषपतिर्धर्ता वृषभाङ्को वृषोद्भवः॥६॥

हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः।
प्रभवो विभवो भास्वान् भवो भावो भवान्तकः॥७॥

हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः।
स्वयंप्रभः प्रभूतात्मा भूतनाथो जगत्पतिः॥८॥

सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः।
सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित्॥९॥

सुगतिः सुश्रुतः सुश्रुत् सुवाक् सूरिर्बहुश्रुतः।
विश्रुतः विश्वतः पादो विश्वशीर्षः शुचिश्रवाः॥१०॥

सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात्।
भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वरः॥११॥

इति दिव्यादिशतम्॥२॥ अर्घम्।

स्थविष्ठः स्थविरो ज्येष्ठः प्रष्ठः श्रेष्ठो वरिष्ठधीः।
स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठोऽणिष्ठो गरिष्णुगीः॥१॥

विश्वसृद्विश्वसृट् विश्वेट् विश्वभुग्विश्वनायकः
विश्वाशीर्विश्वरूपात्मा विश्वजिद्विजितान्तकः॥२॥

विभवो विभयो वीरो विशोको विजरो जरन्।
विरागो विरतोऽसङ्गो विविक्तो वीतमत्सरः॥३॥

विनयेजनतावन्युर्विलीनाशेषकल्मषः।
वियोगो योगविद्विद्वान्निधाता सुविधिः सुधीः॥१४॥

क्षान्तिभाक्पृथिवीमूर्तिः शान्तिभाक् सलिलात्मकः।
वायुमूर्तिरसङ्गात्मा वह्निमूर्तिर्धर्मधक्॥५॥

सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः।
ऋत्विग्यज्ञपतिर्यज्ञो यज्ञाङ्गममृतं हविः॥६॥

व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोऽचलः।
सोममूर्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः॥७॥

मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः।
स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत्॥८॥

कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः।
नित्यो मृत्युजयो मृत्युरमृतात्माऽमृतोद्भवः॥९॥

ब्रह्मनिष्ठः परंब्रह्म ब्रह्मात्मा ब्रह्मसम्भवः।
महाब्रह्मपतिर्ब्रह्मेट् महाब्रह्मपदेश्वरः॥१०॥

सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः।
प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः॥११॥

इति स्थविष्ठादिशतम्॥३॥ अर्घम्।

महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः।
पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः॥१॥

पद्मयोनिर्जगद्योनिरनित्यः स्तुत्यः स्तुतीश्वरः।
स्तवनाहों हृषीकेशो जितजेयः कृतक्रियः॥२॥

गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः।
गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः॥३॥

गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः।
शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः॥४॥

अगण्यः पुण्यधीर्गुण्यः पुण्यकृत्पुण्यशासनः।
धर्मरामो गुणग्रामः पुण्यापुण्यनिरोधकः॥५॥

पापापेतो विपापात्मा विपाप्मा वीतकल्मषः।
निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपद्रवः॥६॥

निर्निमेषो निराहारो निष्क्रियो निरुपप्लवः।
निष्कलङ्को निरस्तैना निर्धूतागा निरास्रवः॥७॥

विशालो विपुलज्योतिरतुलॊऽचिन्त्यवैभवः।
सुसंवृतः सुगुप्तात्मा सुगुप्त सुनयतत्त्ववित्॥८॥

एकविद्यो महाविद्यो मुनिः परिवृढः पतिः।
धीशो विद्यानिधिः साक्षी विनेता विहतान्तकः॥९॥

पिता पितामहः पाता पवित्रः पावनो गतिः।
त्राता भिषग्वरो वर्यो वरदः परमः पुमान्॥१०॥

कविः पुराणपुरुषो वर्षीयान्वृषभः पुरुः।
प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः॥११॥

इति महाशोकध्वजादिशतम्॥४॥ अर्घम्।

श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः।
निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः॥१॥

सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धसाधनः।
बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिकः॥२॥

वेदाङ्गो वेदविद्वेद्यो जातरूपो विदांवरः।
वेदवेद्यः स्वसंवेद्यो चिवेदो वदतांवरः॥३॥

अनादिनिधनोऽव्यक्तो व्यक्तवागव्यक्तशासनः।
युगादिकृद्युगाधारो युगादिर्जगदादिजः॥४॥

अतीन्द्रोऽतीन्द्रियो धीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक्
अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान्॥५॥

उद्भवः कारणं कर्ता पारगो भवतारकः।
अग्राह्यो गहनं गुह्यं परार्ध्यः परमेश्वरः॥६॥

अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धिः समग्रधीः।
प्राग्र्यः प्राग्रहरॊऽग्र्यग्रः प्रत्यग्रॊऽग्र्यग्रॊऽग्रजः॥७॥

महातपा महातेजा महोदर्को महोदयः।
महायशा महाधामा महासत्त्वो महाधृतिः॥८॥

महाधैर्यो महावीर्यो महासम्पन्महाबलः।
महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः॥९॥

महामतिर्महानीतिर्महाक्षान्तिर्महादयः।
महाप्राज्ञो महाभागो महानन्दो महाकविः॥१०॥

महामहा महाकीर्तिर्महाकान्तिर्महावपुः।
महादानो महाज्ञानो महायोगो महागुणः॥११॥

महामहपतिः प्राप्तमहाकल्याणपञ्चकः।
महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः॥१२॥

इति श्रीवृक्षादिशतम्॥५॥ अर्घम्।

महामुनिर्महामौनी महाध्यानी महादमः।
महाक्षमो महाशीलो महायज्ञो मखामखः॥१॥

महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः।
महामैत्री महामेयो महोपायो महोमयः॥२॥

महाकारुण्यको मन्ता महामन्त्रो महायतिः।
महानादो महाघोषो महेज्यो महसांपतिः॥३॥

महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक्।
महात्मा महसांधाम महर्षिर्महितोदयः॥४॥

महाक्लेशङ्कुशः शूरो महाभूतपतिर्गुरुः।
महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी॥५॥

महाभवाब्धिसन्तारिर्महामोहाद्रिसूदनः।
महागुणाकरः क्षान्तो महायोगीश्वरः शमी॥६॥

महाध्यानपतिर्ध्याता महाधर्मा महाव्रतः।
महाकर्मारिहाऽऽत्मज्ञो महादेवो महेशिता॥७॥

सर्वक्लेशपहः साधुः सर्वदोषहरो हरः।
असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः॥८॥

सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः।
दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः॥९॥

प्रधानमात्मा प्रकृतिः परमः परमोदयः।
प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः॥१०॥

प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः।
प्रमाणं प्रणिधिर्दक्षो दक्षिणोऽध्वर्युरध्वरः॥११॥

आनन्दो नन्दनो नन्दो वन्द्योऽनिन्द्योऽभिनन्दनः।
कामहा कामदः काम्यः कामधेनुररिञ्जयः॥१२॥

इति महामुन्यादिशतम्॥६॥ अर्घम्।

असंस्कृतसुसंस्कारः प्राकृतो वैकृतान्तकृत्।
अन्तकृत्कान्तगुः कान्तश्चिन्तामणिर्भीष्टदः॥१॥

अजितो जितकामारिरमितोऽमितशासनः।
जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः॥२॥

जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः।
महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः॥३॥

नाभेयो नाभिजोऽजातः सुव्रतो मनुरुत्तमः।
अभेद्योऽनन्तयोजनाश्चानधिकोऽधिगुरुः सुधीः॥४॥

सुमेधा विक्रमी स्वामी दुराधर्षो निरुत्सुकः।
विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कामनोऽनघः॥५॥

क्षेमी क्षेमङ्करोऽक्षय्यः क्षेमधर्मपतिः क्षमी।
अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः॥६॥

सुकृती धातुरिज्यार्हः सुनयश्रुतराननः।
श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः॥७॥

सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः।
सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः॥८॥

स्थेयान्स्थवीयान्भेदीयान्दवीयान् दूरदर्शनः।
अणोरणीयाननणुर्गुरुराद्यो गरीयसां॥९॥

सदायोगः सदाभोगः सदातृप्तः सदाशिवः।
सदागतिः सदासौख्यः सदाविद्यः सदोदयः॥१०॥

सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत्।
सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः॥११॥

इति असंस्कृतादिशतम्॥७॥ अर्घम्।

बृहद्बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः।
मनीषी धिषणो धीमांश्छेमुषीशो गिरांपतिः॥१॥

नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत्।
अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञः कृतलक्षणः॥२॥

ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः।
पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः॥३॥

लक्ष्मीवांस्त्रिदशाध्यक्षो दृढीयानिन ईशिता।
मनोहरो मनोज्ञाङ्गो धीरो गम्भीरशासनः॥४॥

धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः।
धर्मचक्रायुधो देवः कर्महा धर्मघोषणः॥५॥

अमोघवागमोघाङ्गो निर्मलोऽमोघशासनः।
सुरूपः सुभगस्त्यागी समयज्ञः समाहितः॥६॥

सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरुद्भवः।
अलेपो निष्कलङ्कात्मा वीतरागो गतस्पृहः॥७॥

वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः।
प्रशान्तोऽनन्तधामाऽर्षिर्मङ्गलं मलहानघः॥८॥

अनीदृगुपमाभूतो दृष्टिर्दैवमगोचरः।
अमूर्तो मूर्तिमानेको नैको नानैकतत्त्वदृक्॥९॥

अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः।
सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक्॥१०॥

शङ्करः शंवदो दान्तो दमी क्षान्तिपरायणः।
अधिपः परमानन्दः परात्मज्ञः परात्परः॥११॥

त्रिजगद्वल्लभोऽस्यर्ध्यस्त्रिजगन्मङ्गलोदयः।
त्रिजगत्पतिपूज्याङ्घ्रिस्त्रिलोकाग्रशिखामणिः॥१२॥

इति बृहदादिशतम्॥८॥ अर्घम्।

त्रिकालदर्शी लोकेशो लोकधाता दृढव्रतः।
सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः॥१॥

पुराणः पुरुषः पूर्वः कृतपूर्वाङ्गविस्तरः।
आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता॥२॥

युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः।
कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः॥३॥

कल्याणप्रकृतिर्दीप्रकल्याणात्मा विकल्मषः।
विकलङ्कः कलातीतः कलिलघ्नः कलाधरः॥४॥

देवदेवो जगन्नाथो जगद्वन्द्युर्जगद्विभुः।
जगद्धितैषी लोकज्ञः सर्वगो जगदग्रजः॥५॥

चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः।
सद्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः॥६॥

आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः।
सुवर्णवर्णो रुक्माभः सूर्यकोटिसमप्रभः॥७॥

तपनीयनिभस्तुङ्गो बालार्काभोऽनलप्रभः।
सन्ध्याभ्रबभ्रुर्हेमाभस्तप्तचामीकरच्छविः॥८॥

निष्टप्तकनकच्छायः कनकाश्मसमप्रभः।
हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः॥९॥

द्युम्नाभो जातरूपाभस्तप्तजाम्बूनदद्युतिः।
सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः॥१०॥

शिष्टेष्टः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः।
शत्रुघ्नोऽप्रतिघोऽमोघः प्रशास्ता शासिता स्वभूः॥११॥

शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः।
शान्तिदः शान्तिकृच्छान्तिः कान्तिमान्कामितप्रदः॥१२॥

श्रेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः।
सुस्थिरः स्थावरः स्थाणुः प्रथोयान्प्रथितः पृथुः॥१३॥

इति त्रिकालदर्शादिशतम्॥९॥ अर्घम्।

दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः।
निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः॥१॥

तेजोराशिरनन्तौजा ज्ञानाब्धिः शीलसागरः।
तेजोमयोऽमितज्योतिर्ज्योतिर्मूर्तिस्तमोपहः॥२॥

जगच्चूडामणिर्दीप्तः शंवान्विघ्नविनायकः।
कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः॥३॥

अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः।
लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः॥४॥

मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षो जितमन्मथः।
प्रशान्तरसशैलूषो भव्यपेटकनायकः॥५॥

मूलकर्ताऽखिलज्योतिमूलघ्नो मूलकारणम्।
आप्तो वागीश्वरः श्रेयाञ्छ्रेयसोक्तिर्निरुक्तवाक्॥६॥

प्रवक्ता वचसामीशो मारजिद्दिग्भाववित्।
सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः॥७॥

श्रीशः श्रीश्रितपादाब्जो वीतभीर्भयङ्करः।
उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः॥८॥

लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः।
धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाक्॥९॥

प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः।
भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः॥१०॥

समुन्मूलितकर्मारिः कर्मकाष्ठाशुशुक्षणिः।
कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः॥११॥

अनन्तशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः।
त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः॥१२॥

समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः।
सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः॥१३॥

शुभंयुः सुखसाङ्गत्यः पुण्यराशिरनामयः।
धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः॥१४॥

इति दिग्वासाद्यष्टोत्तरशतम्॥१०॥ अर्घम्।

धाम्नां पते तवामूनि नामान्यागमकोविदैः।
समुच्चितान्यनुध्यानपुण्यात्स्मृतिभवेत्॥१॥

गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः।
स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं भजेत्॥२॥

त्वमतोऽसि जगद्वन्धुः त्वमतोऽसि जगद्धितः।
त्वमतोऽसि जगद्धाता त्वमतोऽसि जगत्पतिः॥३॥

त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक्।
त्वं त्रिरूपैकमृक्त्यङ्गः स्वोत्थानन्तचतुष्टयः॥४॥

त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः।
षड्भेदभावतच्चज्ञस्त्वं सप्तनयसंग्रहः॥५॥

दिव्याष्टगुणमूर्त्तिस्त्वं नवकेवललब्धिकः।
दशावतारनिर्धार्यो मां पाहि परमेश्वर॥६॥

युष्मन्नामावलीदृब्धविलसत्स्तोत्रमालया।
भवन्तं परिचस्यामः प्रसीदानुगृहाण नः॥७॥

इदं स्तोत्रमनुस्मृत्य पूतो भवति भक्तिकः।
यः संपाठं पठत्येनं स स्यात्कल्याणभाजनम्॥८॥

ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः।
पौरुहूतीं श्रियं प्राप्तुं परममभिलाषुकः॥९॥

स्तुत्वेति मघवा देवं चराचरजगद्गुरुम्।
ततस्तीर्थविहारस्य व्यधात्प्रस्तावनामिमाम्॥१०॥

स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः।
निश्चितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम्॥११॥

यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता स्वयं कस्यचित्
ध्येयो योगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित्॥
यो नेतृन् नयते नमस्कृतिमलं नन्तव्यपच्चेक्षणः
स श्रीमान् जगतां त्रयस्य च गुरुर्देवः पुरुः पावनः॥१२॥

तं देवं त्रिदशाधिपार्चितपदं घातिघ्नयानन्तर-
प्रोत्यानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनाभिनम्।
मानस्तम्भबिलोकनानतजगन्मान्यं त्रिलोकीपतिं
प्राप्ताचिन्त्यबहिर्विभूतिमनघं भक्त्या प्रवन्दामहे॥१३॥

[ पुष्पांजलिं क्षिपामि। ]


Artist: भगवज्जिनसेनाचार्य
स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ ४१३ (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)