श्री देव शास्त्र गुरु पूजा (संस्कृत) | Shri Dev Shastra Guru Puja (Sanskrit)

सार्वः सर्वज्ञनाथः सकल-तनुभृतां पाप-संताप-हर्ता
त्रैलोक्याक्रान्त-कीर्तिः हृत-मदनरिपुर्घातिकर्म-प्रणाशः।
श्रीमान्निर्वाणसंपद्वरयुवति-करालीढ-कण्ठः सुकण्ठैः
देवेन्द्रैर्वन्द्य-पादो जयति जिनपतिः प्राप्त-कल्याण-पूजः॥१॥

जय जय जय श्रीसत्कान्ति-प्रभो जगतां पते।
जय जय भवानेव स्वामी भवाम्भसि मज्जताम्॥
जय जय महामोह-ध्वान्त-प्रभातकुरुतेऽर्चनम्।
जय जय जिनेश त्वं नाथ प्रसीद करोम्यहम्॥२॥

[ ॐ ह्रीं भगवज्जिनेन्द्र अत्र अवतर २ संवौषट् आह्वाननम्।
ॐ ह्रीं भगवज्जिनेन्द्र अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्।
ॐ ह्रीं भगवज्जिनेन्द्र अत्र मम संनिहितो भव भव वषट् संनिधीकरणम्। ]

देवि श्रीश्रुतदेवते भगवति त्वत्पाद-पङ्केरुह-
द्वन्द्वे यामि शिलीमुखत्वमपरं भक्त्या मया प्रार्थ्यते।
मातश्वेतसि तिष्ट मे जिन-मुखोद्भूते सदा त्राहि मां
दृग्दानेन मयि प्रसीद भवतीं संपूजयामोऽधुना॥३॥

[ ॐ ह्रीं जिनमुखोद्भूतद्वादशाङ्गश्रुतज्ञान अत्र अवतर अवतर संवौषट्।
ॐ ह्रीं जिनमुखोद्भूतद्वादशाङ्गश्रुतज्ञान अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं जिनमुखोद्भूतद्वादशाङ्गश्रुतज्ञान अत्र मम सन्निहितो भव भव वषट्। ]

संपूजयामि पूज्यस्य पादपद्मयुगं गुरोः।
तपःप्राप्त-प्रतिष्ठस्य गरिष्ठस्य महात्मनः॥४॥

[ ॐ ह्रीं आचार्योपाध्यायसर्वसाधुसमूह ! अत्र अवतर अवतर संवौषट्।
ॐ ह्रीं आचार्योपाध्यायसर्वसाधुसमूह ! अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं आचार्योपाध्यायसर्वसाधुसमूह ! अत्र मम सन्निहितो भव भव वषट्। ]

देवेन्द्र-नागेन्द्र-नरेन्द्रवन्द्यान् शुभत्पदान् शोभित-सारवर्णान्।
दुग्धाब्धि-संस्पर्धिगुणैर्जलौघैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥६

[ ॐ ह्रीं परब्रह्मणेऽनन्तानन्तज्ञानशक्तये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुणसहिताय अर्हत्परमेष्ठिने जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं जिनमुखोद्भूतस्याद्वादनयगर्भितद्वादशांगश्रुतज्ञानाय जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रगुणविराजमानाचार्योपाध्याय-सर्वसाधुभ्यो जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा। ]

ताम्यत्रिलोकोदर-मध्यवर्ति-समस्त-सत्त्वाहृतहारि-वाक्यान्।
श्रीचन्दनैर्गन्ध-विलुब्ध-भृंगैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥

[ ॐ ह्रीं ० संसारतापविनाशनाय चन्दनं निर्वपामीति स्वाहा। ]

अपार-संसार-महासमुद्र-प्रोत्तरणे प्राज्य-तरीन् सुभक्त्या।
दीर्घाक्षतगैर्धवलाक्षतौघैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥७॥

[ ॐ ह्रीं ० अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा। ]

विनीत-भव्याब्ज-विबोधसूर्यान्वर्यान् सुचर्या-कथनैक-धुर्यान्।
कुन्दारविन्द-प्रमुखैः प्रसूनैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥८॥

[ ॐ ह्रीं ० कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा। ]

कुदर्प-कन्दर्प-विसर्प-सर्प-प्रसह्य-निर्णाशन-वैनतेयान्।
प्राज्याज्यसारैश्चरुभी रसाढ्यैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥९

[ ॐ ह्रीं ० क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा। ]

ध्वस्तोद्यमान्धीकृत-विश्व-विश्वमोहान्धकार-प्रतिघात-दीपान्।
दीपैः कनत्कांचन-भाजनस्थैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥१०

[ ॐ ह्रीं ० मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा। ]

दुष्टाष्ट-कर्मेन्धन-पुष्ट-जाल-सन्धूपने भासुर-धूमकेतून्।
धूपैर्विधूतान्य-सुगन्ध-गन्धैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥११

[ ॐ ह्रीं ० अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा। ]

क्षुभ्यद्विलुभ्यन्मनसाप्यगम्यान् कुवादि-वादाऽस्खलित-प्रभावान्।
फलैरलं मोक्ष-फलाभिसारैर्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥१२

[ ॐ ह्रीं ० मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा। ]

सद्वारि-गन्धाक्षत-पुष्पजातैर्नैवेद्य-दीपामल-धूप-धूम्रैः।
फलैर्विचित्रैरर्घ-पुण्य-योगाज्जिनेन्द्र-सिद्धान्त-यतीन् यजेऽहम्॥१३

[ ॐ ह्रीं ० अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा। ]

ये पूजां जिननाथ-शास्त्र-यमिनां भक्त्या सदा कुर्वते
त्रैसन्ध्यं सुविचित्र-काव्य-रचनामुच्चारयन्तो नराः।
पुण्याढ्या मुनिराज-कीर्ति-सहिता भूत्वा तपोभूषणा-
स्ते भव्याः सकलावबोध-रुचिरां सिद्धिं लभन्ते पराम्॥१४॥

[ इत्याशीर्वादः, पुष्पाञ्जलिं क्षिपामि। ]

वृषभोऽजितनाम। च सम्भवश्चाभिनन्दनः।
सुमतिः पद्मभासश्च सुपार्श्वो जिनसत्तमः॥१५॥
चन्द्रामः पुष्पदन्तश्च शीतलो भगवान्मुनिः।
श्रेयांश्र वासुपूज्यश्च विमलो विमल-द्युतिः॥१६॥
अनन्तो धर्मनामा च शान्तिः कुन्थुर्जिनोत्तमः।
अरश्च मल्लिनाथश्च सुव्रतो नमि-तीर्थकृत्॥१७॥
हरिवंश-समुद्भूतोऽरिष्टनेमिर्जिनेश्वरः।
ध्वस्तोपसर्ग-दैत्यारिः पार्श्वो नागेन्द्र-पूजितः॥१८॥
कर्मान्तकृन्महावीरः सिद्धार्थ-कुल-सम्भवः।
एते सुरासुरौघेण पूजिता विमलत्विषः॥१९॥
पूजिता भरताद्यैश्च भूपेन्द्रैर्भूरि-भूतिभिः।
चतुर्विधस्य संघस्य शान्तिं कुर्वन्तु शाश्वतीम्॥२०॥


स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ ३६ (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)