(संस्कृत)
शान्ति जिनं शशि निर्मलवक्त्रं, शील-गुण-व्रत-संयम-पात्रम् ।
अष्टशतार्चित-लक्षण-गात्रं, नौभि जिनोत्तममम्बुज नेत्रम् ।।
पंचमभीप्सित-चक्रधराणां पूजितमिन्द्र-नरेन्द्र-गणैश्च ।
शान्तिकरं गण-शान्तिमभीप्सुः षोडश-तीर्थंकरं प्रणमामि ।।
दिव्य-तरुः सुर-पुष्प-सुवृष्टिर्दुन्दुभिरासन-योजन-घोषौ ।
आतपवारण-चामर-युग्मे यस्य विभाति च मण्डलतेजः ।।
तं जगदर्चित-शान्ति-जिनेन्द्रम् शान्तिकरं शिरसा प्रणमामि ।
सर्वगणाय तु यच्छतु शान्तिं मह्यमरं पठते परमां च ।।
(वसन्ततिलका)
येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नैः
शक्रादिभिः सुरगणैः स्तुत-पाद-पद्माः ।
ते मे जिनाः प्रवर-वंश-जगत्प्रदीपा-
स्तीर्थंकराः सतत-शान्तिकरा भवन्तु ।।
(इन्द्रवज्रा)
संपूजकानां प्रतिपालकानां, यतीन्द्र-सामान्य-तपोधनानाम् ।
देशस्य राष्ट्रस्य पुरस्य राज्ञः, करोतु शान्तिं भगवांजिनेन्द्रः ।।
(शार्दुलविक्रीड़ित)
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः,
काले काले च सम्यग्विकिरतु मघवा, व्याधयो यान्तु नाशम् ।
दुर्भिक्षं चौर-मारी क्षणमपि जगतां, मा स्म भूज्जीवलोके,
जैनेन्द्रं धर्मचक्रं प्रभवतु सततं सर्व-सौख्य-प्रदायि ।।
(अनुष्टुप)
प्रध्वस्त-घाति-कर्माणः, केवलज्ञान-भास्कराः ।
कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वराः ।।
स्रोत: करलो जिनवर की पूजन (पंडित सदासुख ग्रन्थमाला, अजमेर), पृष्ठ ३९८ से ३९९