(शार्दूविक्रीड़ित)
न स्नेहाच्छरणं प्रयान्ति भगवन्पादद्वयं ते प्रजाः ।
हेतुस्तत्र विचित्रदुःखनिचयः संसारघोरार्णवः ।।
अत्यन्तस्फुरदुग्र रश्मिनिकर व्याकीर्णभूमण्डलो ।
ग्रैष्मः कारयतीन्दुपादसलिलच्छायानुराग ं रविः ।।१।।
क्रुद्धाशीविषदष्टदुर्जयविषय- ज्वालावलीविक्रमो ।
विद्याभेषजमन्त्रतोयहवनेर्याति प्रशांतिं यथा ।।
तद्वत्ते चरणारुणांबुजयुगस्तोत्रोन्मुखानां नृणाम् ।
विघ्नाः कायविनायकाश्च सहसा शामयंत्यहो विस्मयः ।।२।।
संतप्तोत्तमकांचनक्षितिधर - श्रीस्पर्द्धिगौरद्युते ।
पुंसां त्वच्चरणप्रणामकरणात्पीडाः प्रयान्ति क्षयम् ।।
उद्यद्भास्करविस्फुरत्करशतव्याघात निष्कासिता ।
नानादेहिविलोचनद्युतिहरा शीघ्रं यथा शर्वरी ।।३।।
त्रैलोक्येश्वरमंगलब्ध विजयादत्यंतरौद्रात्मकान् ।
नानाजन्मशतांतरेषु पुरतो जोवस्य संसारिणः ।।
को वा प्रस्खलतीय केन विधिना कालोग्रदावानला-
न्न स्याच्चेत्तव पादपद्मयुगल - स्तुत्यापगावारणम् ।।४।।
लोकालोकनिरंतरप्रवितत ज्ञानैकमूर्ते विभो !
नानारत्नपिनद्धदण्डरुचिर श्वेतातपत्रत्रय ।।
त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः ।
दर्पाध्मातमृगेन्द्रभीमनिनदा - द्वन्यायथा कुंजराः ।।५।।
दिव्यस्त्रीनयनाभिरामविपुल- श्रीमेरुचूडामणे ।
भास्वद्बालदिवाकरद्युतिहर प्राणीष्टभामंडलम् ।।
अव्याबाधमचिंत्यसारमतुलं त्यक्तोपमं शाश्वतम् ।
सौख्यं त्वच्चरणारविंदयुगलस्तुत्येव संप्राप्यते ।।६।।
यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयं-
स्तावद्धारयतीह पंकजवन निद्रातिभारश्रमम् ।।
यावत्वच्चरणद्वयस्य भगवन्न स्यात्प्रसादोदय-
स्तावज्जीवनिकाय एष वहति प्रायेण पापं महत् ।।७।।
शान्ति शान्तिजिनेन्द्र शांतमनसस्त्वत्पादपद्माश्रयात् ।
संप्राप्ताः पृथिवीतलेषु बहवः शान्त्यर्थिनः प्राणिनः ।।
कारुण्यान्मम भाक्तिकस्य च विभो दृष्टिं प्रसन्नां कुरु ।
त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टकं भक्तितः ।।८।।
(चौपाई)
शांतिजिनं शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं ।
अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तममंबुजनेत्रम् ।।
पंचमभीप्सितचक्रधराणां पूजितमिन्द्रनरेन्द्रगणैश्च ।
शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थंकरं प्रणमामि ।।९।।
दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ ।
आतपवारणचामरयुग्मे यस्य विभाति च मण्डलतेजः ।।
तं जगदर्चितशांतिजिनेन्द्रं शांतिकरं शिरसा प्रणमामि ।
सर्वगणाय तु यच्छतु शांतिं मह्यमरं पठते परमां च ।।१०।।
(वंसततिलका)
येऽभ्यर्चिता मुकुटकुण्डलहाररत्नैः ।
शक्रादिभिः सुरगणैः स्तुतपादपद्मा ।
ते मे जिनाः प्रवरवंशजगत्प्रदीपाः ।
तीर्थंकराः शततशांतिकरा भवन्तु ।।११।।
(इन्द्रवज्रा)
संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानां ।
देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांति भगवान् जिनेन्द्र ! ।।१२।।
(स्रग्धरा)
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धर्मिको भूमिपालः ।
काले काले च वृष्टिं बिकिरतु मघवा व्याधयो यांतु नाशम् ।।
दुर्भिक्षं चौरमारी क्षणमपि जगतां मास्मभूज्जीवलोके ।
जैनेन्द्रं धर्मचक्रं प्रभवतु सततं सर्वसौख्यप्रदायि ।।१३।।
(वंसततिलका)
तद्द्रव्यमन्व्ययमुदेतु शुभः स देशः ।
सन्तन्यता प्रतपतां सततं स कालः ।।
भावः स नन्दतु सदा यदनुग्रहेण ।
रत्नत्रयं प्रतपतीह मुमुक्षुवर्गे ।।१४।।
इच्छामि भंते शांतिभत्तिकाउस्सग्गो कओ तस्सालोचेउ ।
पंचमहाकल्याण-सम्पण्णाणं, अट्ठमहापाडिहेरसहियाणं,
चउतीसातिसयविसेस- संजुत्ताणं, बत्तीसदेवेंद्र-मणिमउडमत्थमहियाणं,
बलदेववासुदेवचक्कहररिसिमुणिज- दिअणगारोवगूढाणं,
थुइ-समसहस्सणिलयाणं, उसहाइवीरपच्छिममंगल- महापुरिसाणं
णिच्चकालं अंचेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ,
बोहिलाओ, सुगइगमणं, समाहिमरणं, जिणगुणसम्पत्ति होउ मज्झं ।
स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ७० से ७२