समाधिभक्ति (भक्ति पाठ) | Samadhi Bhakti (Bhakti Path)

समाधिभक्ति

(अनुष्टुप)
स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा ।
पश्यन्पश्यामि देव त्वां केवलज्ञानचक्षुषा ।।१।।

(मन्दक्रान्ता)
शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यैः ।
सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् ।।
सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे ।
संपद्यंतां मम भवभवे यावदेतेऽपवर्गः ।।२।।

(स्वागता)
जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः ।
निष्कलंकविमलोक्तिभावनाः संभवन्तु मम जन्मजन्मनि ।।३।।

(आर्या)
गुरुमूले यतिनिचिते चैत्यसिद्धांतवार्धिसद्घोषे ।
मम भवतु जन्मजन्मनि सन्यसनसमन्वितं मरणम् ।।४।।

(अनुष्टुप)
जन्मजन्मकृतं पापं जन्मकोटिसमर्जितम् ।
जन्ममृत्युजरामूलं हन्यते जिनवन्दनात् ।।५।।

(शार्दूल विक्रीडित)
आबाल्याज्जिनेदेवदेव भवतः श्रीपादयोः सेवया ।
सेवासक्तविनेयकल्पलतया कालोद्ययावद्गतः ।।
त्वां तस्याः फलमर्थये तदधुना प्राणप्रयाणक्षणे ।
त्वन्नामप्रतिबद्धवर्णपठने कण्ठोऽष्ठकुण्ठो मम ।।६।।

(आर्या)
तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् ।
तिष्ठतु जिनेन्द्र तावद्यावन्निर्वाणसंप्राप्तिः ।।७।।

एकापि समर्थेयं जिनभक्तिर्दुर्गति निवारयितुम् ।
पुण्यानि च पूरयितुं दातुँ मुक्तिश्रियं कृतिनः ।।८।।

पंचसुअ दीवणामे पंचम्मिय सायरे जिणे वंदे ।
पच जसोयरणामे पंचम्मिंय मंदरे वंदे ।।९।।

रयणत्तयं च वंदे चव्वीसजिणे च सव्वदा वंदे ।
पंचगुरूणं वंदे चारणचरणं सदा वंदे ।।१०।।

(अनुष्ठ्प)
अर्हमित्यक्षरंब्रह्म वाचकं परमेष्ठिनः ।
सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहं ।।११।।

कर्माष्टकविनिमुक्तं मोक्षलक्ष्मीनिकेतनम् ।
सम्यक्त्वादि गुणोपेतं सिद्धचक्रं नमाम्यहम् ।।१२।।

(शार्दुलविक्रीडित)
आकृष्टिं सुरसम्पदां विदधते मुक्तिश्रियो वश्यतां ।
उच्चाटं विपदां चतुर्गतिभुवा विद्वेषमात्मैनसाम् ।।
स्तम्भं दुर्गमनं प्रति प्रयततो मोहस्य सम्मोहनम् ।
पायात्पंचनमस्क्रियाक्षरमयी साराधना देवता ।।१३।।

(-अनुष्टुप)
अनन्तानन्तसंसार- सन्ततिच्छेदकारणम् ।
जिनराजपदाम्भोजस्मरणं शरणं मम ।।१४।।

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वरः ।।१५।।

नहि त्राता नहि त्राता नहि त्राता जगतत्रये ।
वीतरागात्परो देवो न भूतो न भविष्यति ।।१६।।

जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने ।
सदामेऽस्तु सदामेस्तु सदामेऽस्तु भवे भवे ।।१७।।

याचेहं याचेहं जिन तव चरणारविंदयोर्भक्तिम् ।
याचेहं याचेहं पुनरपि तामेव तामेव ।।१८।।

इच्छामि भंते समाहिभत्तिकाउस्सग्गो कओ तस्सालोचेउं ।
रयणत्तयपरूव परमप्पज्झाणलक्खणं समाहिभत्तीये णिच्चकालं अंचेमि,
पूजेमि, वंदामि, णमस्सामि दुक्खक्खओ, कम्मक्खओ बोहिलाहो,
सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं ।


स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ७३ से ७५