रत्नत्रय पूजा (संस्कृत) | Ratnatray Puja (Sanskrit)

श्रीमंतं सन्मतिं नत्वा श्रीमतः सुगुरुनपि।
श्रीमदागमतः श्रीमत् वक्ष्ये रत्नत्रयार्चनं॥१॥

अनंतानंतसंसारकर्मसंबंधविच्छिदे।
नमस्तस्मै नमस्तस्मै जिनाय परमात्मने॥२॥

ध्रौव्योत्पादव्ययानेकतत्वसंदर्शनत्विषे। नम०। ३।

संसारार्णवमग्नानां यः समुद्धर्तृमीश्वरः। नम०। ४।

लोकालोकप्रकाशत्मा यश्चैतन्यमयं महः। नम०। ५।

येन ध्यानाग्निना दग्धं कर्मकक्षमलत्रयं। नम०। ६।

येनात्मत्मनि विज्ञातः परं ब्रह्माहं वपुः। नम०। ७।

ए यवं परमं ज्योतिर्मेः परं ब्रह्मणः पुमान्। नम०। ८।

सर्वज्ञदभयो नित्यं सर्वज्ञत्वहितंकरः। नम०। ९।
इत्याद्यनेकधास्तोत्रैः स्तुत्वा सज्जिनपुंगवं।
कुर्वे दृग्बोधचारित्रार्चनं संक्षेपतोऽधुना॥१०॥

ॐ ह्रीं श्रीसम्यग्दर्शनज्ञानचारित्ररूपरत्नत्रय! अत्रावतर अवतर संवौषट्। अत्र तिष्ठ तिष्ठ ठः ठः। अत्र मम सन्निहितं भव भव वषट्।

संसारदुःखज्वलनावगूढप्रगूढसंतापमलापशांत्यै।
सदर्शनज्ञानचरित्रपंक्तेर्जलस्य धारां पुरतो ददामि।

ॐ ह्रीं अष्टविधसम्यग्दर्शनाय ॐ ह्रीं अष्टविधसम्यग्ज्ञानाय, ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राय जलं निर्वपामीति स्वाहा।

रत्नत्रयं भूषितभव्यलोकमशोकमंतर्गतभावगम्यं।
काश्मीरकर्पूरसुचंदनाद्यैः सुगंधगंधैरहमर्चयामि॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय चंदनं निर्वपामीति स्वाहा।

अक्षतमक्षतपुंजैः, शालीयेः शुद्धगंधिभिः शुद्धैः।
दर्शनबोधचरित्रं त्रितयं तत्संयजे भवत्या॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय अक्षतं निर्वपामीति स्वाहा।

विकसितकुसुमशतपत्रसुजातसमूहशोभया,
कनकर्पूरनीशुमचंदचर्चितचारुगंधया।
अलिकुलरणितकलितमधुरध्वनिश्यामसुन्दरमालया,
सकलितमातनोति रत्नत्रयमत्र पवित्रमालया॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय पुष्पं निर्वपामीति स्वाहा।

प्रसिद्धसद्दृव्यमनन्यलभ्यं वचो गुरुणामिव साधुसिद्धं।
सुदृष्टिसद्बोधचरित्ररत्न-त्रयाय नैवेद्यमहं ददामि॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय नैवेद्यं निर्वपामीति स्वाहा।

दीपैः सुकर्पूरपरागभृंगै रंगद्मिरंगद्युतिदीप्यमानैः।
सद्दर्शनज्ञानचरित्ररत्न-त्रयंत्रयावाप्तिकरं यजेऽहं॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय दीपं निर्वपामीति स्वाहा।

धूपैः कालागरुभिः विशुद्धसंसुद्धकर्मसंघपैः।
दर्शनज्ञानचरित्रत्रितयं संधूपयामि संसद्ध्यै॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय धूपं निर्वपामीति स्वाहा।

पूगैरनध्यैर्वरनालिकेरैर्नारिंगजंभीरकपित्थपुञ्जैः।
रत्नत्रय तपितभव्यलोकं, शक्यावलोकं तदहं यजामि॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय फलं निर्वपामीति स्वाहा।

जलगंधाक्षतपुष्पै,-श्चरुदीपैधूपसत्फलैः सर्वैः।
दर्शनबोधचरित्रं त्रितयं त्रेधा यजामहे भक्त्या॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय अर्घं निर्वपामीति स्वाहा।

मोहाद्रिसंकटतटीविकटप्रपात-
संपादिने सकलसत्त्वहितंकराय।
रत्नत्रयाय शुभहेतिसमप्रभाय,
पुष्पांजलिं प्रतिमलां ह्यवतारयामि।

दर्शनपूजा।

परस्याभिमुखी श्रद्धा, शुद्धचैतन्यरूपतः।
दर्शनं व्यवहारेण निश्चयेनात्मनः पुनः॥

यदधिगम्य नराः शिवरंपदामधिपदं प्रतिपद्य विरेजिरे।
तदिह मानममात्मरमे लसद्दिशतु दर्शनमष्टविधं मम॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः अष्टांगसम्यग्दर्शन! अत्रावतर अवतर संवौषट्

अनंतानंतसंसारसागरचारकारणम्।
तीर्थं तीर्थकृतामत्र स्थापयामि सुदर्शनम्॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः अष्टांगसम्यग्दर्शन! अत्र तिष्ठ ठः ठः

अष्टागैरष्टधाष्टमष्टेकगुणसंयुतं।
मदाष्टनिविमुक्तं दर्शनं सन्निधापये॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः। अष्टांगसम्यग्दर्शन! अत्र मम सन्निहितं भव भव वषट्।

शरदिंदुसमाकारसारया जलधारया।
सम्यग्दर्शनमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय जन्ममृत्युविनाशनाय जलं नि०

कर्पूरनीरकाश्मीरमिश्रसच्चंदनेघनैः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय चंदनं नि०।

अखंडैः खंडितानेकदुरितैः शालितंदुलैः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय अक्षतं नि०।

शतपत्रशतानेकचारुचंपकराजिभिः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय पुष्पं नि०।

न्यायैरिव जिनेंद्रस्य सन्नाज्यैः पुष्टकारिभिः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय नैवेद्यं नि०।

चंचत्कांचनसंकाशैर्दीपैः सद्दीप्तिहेतुभिः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय दीपं नि०।

कृष्णागरुमहाद्रव्यधूपैः संधूपिताशुमैः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय धूपं नि०।

पूगनारिंगजंभीरमातुलिंगफलोत्करैः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय फलं नि०

जलगंधकुसुममिश्रं, फलतंदुलकलितललिताढ्यं।
सम्यक्त्वय सुमव्यं भव्यां कुसुमांजलिं दद्यात्॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय अर्घं नि०।

अंगपूजा

यस्य प्रभावाज्जगतां त्रयेऽपि युज्या भवंतीह घना जनौघाः।
सुदुर्लभायामरपूजिताय निःशंकितांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं निःशंकितागायार्घं निर्वपामीति स्वाहा।

सुदर्शनं येन विना प्रयुक्तं मतं फलं नैव भवेज्जनानां।
सुदुर्लभायाभरपूजिताय निःकांक्षितांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं निकांक्षितांगायार्घं निर्वपामीति स्वाहा।

यदंगतः संयमवृक्षसेको तस्मात्फलं संलभते शरीरी।
सुदुर्लभायामरपूजिताय निर्निदितांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं निर्विचिकित्सितांगायार्घं निर्वपामीति स्वाहा।

यदुज्झितं चारुचरित्रमेतत्सिद्ध्यै भवेन्नैव मुनीश्वराणां।
सुदुर्लभायामरपूजिताय निमूढतांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं निर्मूढतांगायार्घं निर्वपामीति स्वाहा।

सुरेंद्रनागेंद्रनरेंद्रवृन्दैर्वंद्यं पदं यद्वशतो लभंते।
सुदुर्लभायामरपूजितायोपगूहनांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं उपगूहनांगायार्घं निर्वपामीति स्वाहा।

भवंति वृद्धा गुणवृद्धिसिद्धा येनानुवृद्धा जगति प्रसिद्धाः।
सुदुर्लभायामरपूजिताय सुस्थापनंगांय नमोऽस्तु तस्मै॥

ॐ ह्रीं सुस्थितिकरणगाभयार्घं निर्वपामीति स्वाहा।

सुरत्नवद्दुर्लभतामुपेतं भव्यावनौ यत्प्रतिभासमानं।
सुदुर्लभायामरपूजिताय वात्सल्यतांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं वात्सल्यांगायार्घं निर्वपामीति स्वाहा।

प्रबंधभूयिष्ठमलञ्चकार यच्छामने शासितभव्यलोकः।
सुदुर्लभायामरपूजिताय प्रभावनांगाय नमोऽस्तु तस्मै॥

ॐ ह्रीं प्रभावनागायार्घं निर्वपामीति स्वाहा।

सौरभ्याहतसद्भृंगसारया जलधारया।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यो जलं निर्वपामीति स्वाहा।

चारुचन्दनकाश्मीरकर्पूरादिविलेपनैः।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यः चंदनं निर्वपामीति स्वाहा।

अक्षतैरक्षतानंतसौख्यदानविधायकैः।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यो अक्षतान् निर्वपामीति स्वाहा।

जातीकुन्दादिराजीवचम्पकानेकपुष्पवैः।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यः पुष्पं निर्वपामीति स्वाहा।

खाद्यमाद्यपदैः स्वाद्यैः सन्नाज्यैः सुकृतैरिव।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यो नैवेद्यं निर्वपामीति स्वाहा।

दशाग्रैः प्रस्फुरद्रूपैर्दीपैः पुण्यजनैरिव।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यो दीपं निर्वपामीति स्वाहा।

धूपैः संधूपितानेकर्मभिधूपदायिनां।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यो धूपं निर्वपामीति स्वाहा।

नालिकेराम्रपूगादिफलैः पुण्यफलैरिव।
निःशंकितादिकान्यस्य सदंगानि यजामहे॥

ॐ ह्रीं निःशंकितादिभ्यः फलं निर्वपामीति स्वाहा।

जलगंधकुसुममिश्रं फलतंदुलकमलकलितललिताढ्यं।
सम्यक्त्वाय सुभव्यं भव्यां कुसुमांजलिं दद्यात्॥

ॐ ह्रीं सम्यग्दर्शनाय इदं जलं गन्धं अक्षतं पुष्पं चरुं दीपं धूपं फलं अर्घं निर्वपामीति स्वाहा।

ॐ ह्रीं अष्टांगसम्यग्दर्शनाय नमः, ॐ ह्रीं निःशंकितांगाय नमः, ॐ ह्रीं निकांक्षितांगाय नमः, ॐ ह्रीं निर्विचिकित्सांगाय नमः ॐ ह्रीं निमूढतांगाय नमः। ॐ ह्रीं उपगूहनांगाय नमः। ॐ ह्रीं सुस्थितीकरणांगाय नमः। ॐ ह्रीं वात्सल्यांगाय नमः, ॐ ह्रीं प्रभावनांगाय नमः।

जयमाला।

तत्त्वानां निश्चयो यस्तदिह निगदितं दर्शनं शुद्धबुद्धैः
तस्मादानष्टकर्माष्टकघनतिमिरो जायते ज्ञानसूरः।
ज्ञानात्सिद्धिप्रसिद्धिं श्रुवि वचनमिदं शाश्वतं सिद्धिसौख्यं,
चंचच्चंद्रांशुशुद्धं तदहमिह महे दर्शनं पूजयामि।

जय सम्यग्दर्शन दर्शिताश,
कमलाचित हतघनकर्मपाश।
जय निःशंकिन निश्चितसुतत्त्व,
शतपत्रशताचित मुदितमत्त्व॥

जय निःकांक्षित वर्जितविकार,
कुंदार्चित कृतसंसारपार।
जय निर्विचिकित्सित भावभंग,
कुमुदप्रसूनपूजित सुसंग॥

जय निमूढांग महाप्ररूढ,
शुभचंपकचर्चित चारुरूड।
जय जय उपगूहन परमपक्ष,
वरमल्लिकाच्यं दर्शितसुसक्ष॥

जय जय सुस्थित सुस्थितीकरण,
जातीकुसुमर्चित दुःखरहण।

वात्सल्यमल्ल जय जय विशाल,
केतकिदलपूजित दलितकाल॥
प्रभावनांग जय जय वरेण्य,
वसुविधकुसुमाचित सुरेण्य।

(घत्ता)

इति दर्शनमार्गं भावनिमग्नं दर्शनमिष्टमनिष्टहरं।
सुमनःसत्पुंजं शर्मनिकुंजं, भव्यजनाय ददातु वरं॥
पंचातिचारातिशयप्रपूतं, पंचप्रदं पंचमबोधहतुं।
सद्दर्शनं रत्नमनर्घ्यमर्घैर्भक्त्या सुरत्नैहमर्चयामि॥

मुक्ताः श्रेणिगता विभंति नितरां यत्प्रस्फुरत्तेजसा,
येनालंकृतावग्रहं ग्रहमुचं सिद्धयंगना मुंचति।
यत्संसारमहार्णवे भवभृतां दुःप्राप्यमापृच्छतः
तत्सम्यक्त्वसुरत्नमर्चितधियां देयादनिंद्यं पदं।

रत्नांजलि।

अतुलसुखनिधानं सर्वकल्याणबीजं
जननजलधि पोतं भव्यसत्वैकपात्रम्।
दुरिततरुकुठारं पुण्यतीर्थप्रधानं,
पिबतु जितविपत्तं दर्शनारव्यं सुधांबु।

ज्ञानपूजा।

प्रणम्य श्रीजिनाधीशमधीशं सर्वसंपदां।
सम्यग्ज्ञानमहारत्नपूजां वक्ष्ये विधानतः॥

श्रीजिनेंद्रस्य सद्दिव्यसुरेण महाषियः।
पुस्तकं स्थापनीयं चेत्तस्यैवादर्शमप्यमं॥

कल्पनातिगता बुद्धिः प्रभावविभाविका।
ज्ञानं निश्चयतो ज्ञेयं तदन्यद्व्यवहारतः॥

ज्ञानाचारोऽष्टधा पुंसां पवित्रीकरणक्षमः।
प्रभावेन तु पूजायै समागच्छतु निर्मलं॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः अष्टविधसम्यग्ज्ञान! अत्र अवतर अवतर संवौषट्

सम्यग्ज्ञानप्रभापूतं कर्मकक्षव्यानलं।
पूजाक्षणे तु गृह्णातु स्थित्वा पूजामनिंदितां॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः अष्टविधसम्यग्ज्ञान! अत्र तिष्ठ तिष्ठ ठः ठः ( प्रतिष्ठापनं )

अचिंत्यमाहात्म्यमचिंत्यवैभवं भवार्णवोत्तीर्णविसारि सर्वतः।
प्रबोधचारित्रमिहांतरंतरं निरंतरं तिष्ठतु सन्निधौ मम॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः अष्टविधसम्यग्ज्ञानाचार! मम सन्निहितो भव भव वषट्। ( सन्निधीकरणं )

शरदिंदुसमाकारसारया जलधारया।
बोधतत्त्वसमाचारं संयजे सयजावहं॥

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय जलं निर्वपामीति स्वाहा।

कर्पूरनीरकाश्मीरमिश्रसच्चंदनेघनैः।
बोधतत्त्वसमाचारं संयजे सयजावहं॥

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय चन्दनं निर्वपामीति स्वाहा।

अखंडैः खंडितानेकदुरितैः शालितंदुलैः।
बोधतत्त्वसमाचारं संयजे सयजावहं॥

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय अक्षतान् निर्वपामीति स्वाहा।

शतपत्रशतानेकचारुचंपकराजिभिः।
बोधतत्त्वसमाचारं संयजे सयजावहं॥

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय पुष्पं निर्वपामीति स्वाहा।

न्यायैरिव जिनेंद्रस्य सन्नाज्यैः पुष्टकारिभिः।
बोधतत्त्वसमाचारं संयजे सयजावहं॥

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय नैवेद्यं निर्वपामीति स्वाहा।

चंचत्कांचनसंकाशैर्दीपैः सद्दीप्तिहेतुभिः।
बोधतत्त्वसमाचारं संयजे सयजावहं॥

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय दीपं निर्वपामीति स्वाहा।

कृष्णागरुमहाद्रव्यधूपैः संधूपिताशुमैः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

ॐ ह्रीं अष्टांगसहितसम्यग्दर्शनाय धूपं नि०।

पूगनारिंगजंभीरमातुलिंगफलोत्करैः।
सम्यग्दर्श नमष्टांगं संयजे संयजावहं॥

पूगनारिंगजंभीरमातुलिंगफलोत्करैः।
बोधतत्त्वसमाचारं संयजे सयजावहं

ॐ ह्रीं अष्टविधसम्यग्ज्ञानाचाराय फलं निर्वपामीति स्वाहा।

मोहाद्रिसंकटतटीविकटप्रपातसंपादिने सकलसत्वहितंकराय।
बाधाय शक्रशुभहेतिसमप्रभाय पुष्पांजलिं प्रविमलां ह्यवतारयामि

ॐ ह्रीं सम्यग्बोधतत्त्वावाद्यं निर्वपामीति स्वाहा।

अतीवदुःखाशुभकर्मनाशप्रकाशिताशेषविशेषखाय।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

सुव्यंजनैर्व्यंगितव्यंगभावप्रभावनाभावितभाववृद्धं।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

ॐ ह्रीं व्यंजनव्यंगितायार्घं निर्वपामीति स्वाहा।

पदार्थसंबंधमुपेत्य नीतं समग्रतामग्रपदप्रदायि।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

ॐ ह्रीं अर्थसमप्रायार्घं निर्वपामीति स्वाहा।

शब्दार्थश्रद्धानवितानमानद्वयेन बद्धं मुनिबंधमेति।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

ॐ ह्रीं तदुभयसमप्रायार्घं निर्वपामीति स्वाहा।

पवित्रकालाध्ययनप्रभावप्र दर्शितानेककलाकलापं।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

ॐ ह्रीं कालाध्ययनपवित्रायार्घं निर्वपामीति स्वाहा।

समृद्धशुद्धोपधिशुद्धमिद्धं सुभावमंतःस्फुरदंगसंगम्।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

ॐ ह्रीं उपाध्यानोपहितायार्घं निर्वपामीति स्वाहा।

विनीतचेतो वितनोति नीतिप्रणीतमानंत्यमनंतरूपं।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै।

ॐ ह्रीं विनयलब्धप्रभावनांगायार्घं निर्वपामीति स्वाहा।

अपन्हुते निन्हवतो गुरूणां गुरुप्रभावग्रहतांधकारे।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै॥

ॐ ह्रीं गुर्वाद्यपन्हवसमृद्धायार्घं निर्वपामीति स्वाहा।

अनेकधामान्यवितानवृद्धं प्रभावितानंतगुणं गुणानां।
सुदुर्लभायामरपूजिताय प्रबोधतत्त्वाय नमोऽस्तु तस्मै।

ॐ ह्रीं बहुमानोन्मुद्रितायार्घं निर्वपामीति स्वाहा।

सौरभ्याहतसद्भृंगसारया जलधारया।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यो जलं निर्वपामीति स्वाहा।

चारुचंदनकाश्मीरकर्पूरादिविलेपनैः।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्योः चंदनं निर्वपामीति स्वाहा।

अक्षयैरक्षयानंतसुखदानविधायकैः।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यो अक्षतान् निर्वपामीति स्वाहा।

जातीकुंदादिराजीवचंपकानेकपुष्पवैः।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यो पुष्पं निर्वपामीति स्वाहा।

खाद्यमाद्यपदैः स्वाद्यैः सन्नाज्यैः सुकृतैरिव।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यः नैवेद्यं निर्वपामीति स्वाहा।

दशाग्रैः प्रस्फुरद्रूपैर्दीपैः पुण्यजनैरिव।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यो दीपं निर्वपामीति स्वाहा।

धूपैः संधूपितानेकर्मभिधूपदायिनां।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यो धूपं निर्वपामीति स्वाहा।

नालिकेराम्रपूगादिफलैः पुण्यफलैरिव।
व्यंजनाद्यमलांगानि संयजे जन्मविच्छिदे॥

ॐ ह्रीं व्यंजनाद्यंगेभ्यो फलं निर्वपामीति स्वाहा।

मोहाद्रिसंकटतटीविकटप्रपातसंपादिने सकलसत्वहितंकराय।
बाधाय शक्रशुभहेतिसमप्रभाय पुष्पांजलिं प्रविमलां ह्यवतारयामि

ॐ ह्रीं सम्बोधतत्त्वावाद्य इदं जलं गन्धं अक्षतं पुष्पं चरुं दीपं धूपं फलं अर्घं निर्वपामीति स्वाहा।

ॐ ह्रीं व्यंजनव्यंजिताय नमः, ॐ ह्रीं अर्थसमप्राय नमः ॐ ह्रीं तदुभयसमप्राय नमः, ॐ ह्रीं कालाध्ययनपवित्राय नमः ॐ ह्रीं उपाध्यानोपहिताय नमः, ॐ ह्रीं विनयलब्धप्रभावाय नमः, ॐ ह्रीं गुर्वाद्यपन्हवसमृद्धाय नमः, ॐ ह्रीं बहुमानोन्मुद्रिताय नमः।

जयमाला।

व्योम्नीव व्यक्तरूपं विगतघनमलं भाति नक्षत्रमेकं,
जीवाजीवादितत्त्वं स्थगितगतमलं यस्य दृग्गोचरस्थं।
तत्त्वज्ञैः प्राप्यते यत्प्रविपुलमतिभिर्मोक्षसौख्याय जत्रं,
तद्भक्त्यांभोजमानुंललितगुणमणि बोधमभ्यर्चयामि॥

घनमोहतमःपटलापहरं, यमसंयमसंगमभारधरं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं
कृतदुष्कृतकौशिकचारुहरं, मृतभूरिभवार्णवशोषकरं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं
निखिलामलवस्तुविकाशपदं, हतदुर्धरदुर्जयमष्टमदं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं॥
कलिकल्मषरुद्धमशेषकरं, हृदयादवसपंतकर्मजलं।
श्रुवि भव्यपयोजविकासमहं प्रणमामि सुबोधदिनेशमहं॥
अहतामपहारकसूर्यतमं, सुमनोभवसंगविभंगसमं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं॥

हृदयामललोचनलक्षमितं, निजभासुरभानुसहस्रयुतं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं॥
अलिकज्जलनीलतमालतमं, प्रतिमर्थिकभावनिशापगमं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं॥
निजमंडलमंडितलोकमुखं, नतसत्त्वसमर्पितसर्वसुखं।
श्रुवि भव्यपयोजविकासमहं, प्रणमामि सुबोधदिनेशमहं॥

(घत्ता)

स्तुत्वेति बहुधा स्तोत्रैर्बहुभक्तिपरायणः।
नानाभव्यैः समं धीमानर्घं चापि समुद्धरेत्॥
संसारपाथोनिधिशोषकारि प्रबंधभूयिष्ठमनंतरूपं।
सज्ज्ञानरत्नंबहुयत्नभृंगैः रत्नैः शुभैरचितमर्चयामि।

रत्नांजलि।

चिंतामूलमहादृढस्तदमलस्थूलस्थलस्कंधमान्,
नांगोपांगसदागमैकविसरच्छाखोपशाखाचितः।
एकानेकविधावधिप्रभृतिभिः सत्पात्रपुष्पैर्वरै,
देयाद् बोधतरुः सदा शिवसुखान्यासेवितोऽनेकशः।

दुरिततिमिरहंसं मोक्षलक्ष्मीसरोजं,
मदनभुजगमंत्रं चित्तमातंगसिंहं।
व्यसनघनसमीरं विश्वतत्त्वैकदीपं
विषयसफजजालं ज्ञानधाराप्रवन्द्यं॥

चारित्रपूजा।

देवश्रुतगुरून्नत्वा कृत्वा शुद्धिमिहात्मनः।
सम्यक्चारित्ररत्नस्य वक्ष्ये संक्षेपतोऽर्चनं॥

सम्यक्रत्नत्रयस्याथ पुस्तकं चोत्तरेण तु।
गणेशपादुकायुग्मं स्नापयित्वा महोत्सवे॥

गौणं चारित्रमाख्यातं यत्सावद्यनिवर्तनं।
आनंदसांद्रमानात्मा पवित्रं परमार्थतः॥

त्रयोदशविधानेकमव्यलोकैकपावनं।
चारित्राचारकर्मैत कमलं विमलं शिवः॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः त्रयोदशविधसम्यक्चारित्राचार! अत्रावतर अवतर संवौषट्।

विषमकर्म्ममहाकुलपर्वतप्रकटकूटविभंजनसत्पविः।
य इह तिष्ठतु तिष्ठतु मोक्षद त्रिमलहारि चरित्रमहामहः॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः त्रयोदशविधसम्यक्चारित्राचार! अत्र तिष्ठ तिष्ठ ठः ठः। ( प्रतिष्ठापनं )

सकलभव्यपयोजविकासकृत् प्रकटिताग्निभावविभावकः।
प्रबलमोहोनिशाचरचारहृत् चरणभानुरुदेतु मनोंबरे॥

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः त्रयोदशविधसम्यक्चारित्राचार! अत्र मम सन्निहितो भव भव वषट्। ( सन्निधीकरणं )

शरदिंदुसमाकारसारया जलधारया।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय जलं निर्व०।

कर्पूरनीरकाश्मीरमिश्रसच्चंदनेघनैः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय चंदनं निर्व०।

अखंडैः खंडितानेकदुरितैः शालितंदुलैः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय अक्षतं निर्व०।

शतपत्रशतानेकचारुचंपकराजिभिः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय पुष्पं निर्व०

न्यायैरिव जिनेंद्रस्य सन्नाज्यैः पुष्टकारिभिः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय नैवेद्यं निर्व०।

चंचत्कांचनसंकाशैर्दीपैः सद्दीप्तिहेतुभिः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय दीपं निर्व०।

कृष्णागरुमहाद्रव्यधूपैः संधूपिताशुमैः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय धूपं निर्व०।

पूगनारिंगजंभीरमातुलिंगफलोत्करैः।
सच्चारित्रसमाचारं संयजे संयजावहं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय फलं निर्व०।

कर्माणि हि महारोगा नराणां यत्प्रयोमतः।
सच्चारित्रौषधायास्मै ददामि कुसुमांजलिं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय इदं जलं गंधं अक्षतं पुष्पं नैवेद्यं दीपं धूपं फलं अर्घं निर्वपामीति स्वाहा।

प्राणातिपातविरतिरूपं सर्वत्र तत्त्वतः।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं अहिंसापूर्णमहाव्रतायार्घं निर्वपामीति स्वाहा।

असत्यविरते प्राप्तपरभावमनेकधा।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं असत्यविरतिमहाव्रतायार्घं निर्वपामीति स्वाहा।

चौर्याद्यावृत्तवृत्तात्मा सर्वथा सुमनीषिणां।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं चौर्यविरतिमहाव्रतायार्घं निर्वपामीति स्वाहा।

ग्राम्यधर्मविनिर्मुक्तं यद् वंद्यं त्रिदशैरपि।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं मैथुनविरतिमहाव्रतायार्घं निर्वपामीति स्वाहा।

सर्वग्रहविनिर्मुक्तं मनकग्रंथसंयुतं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं परिग्रहविरतिमहाव्रतायार्घं निर्वपामीति स्वाहा।

सौरभ्याहतसद्गंधसारया जलधारया।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा॥

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यो जलं निर्वपामीति स्वाहा।

चारुचंदनकाश्मीरकर्पूरादिविलेपनैः।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा।

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यो चन्दनं निर्वपामीति स्वाहा।

अक्षतैरक्षतानंतसुखदानविधायकैः।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा॥

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्योऽक्षतं निर्वपामीति स्वाहा।

जातीकुन्दादिराजीवचम्पकानेकपुष्पवैः।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा।

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यः पुष्पं निर्वपामीति स्वाहा।

खाद्यमाद्यपदैः स्वाद्यैः सन्नाज्यैः सुकृतैरिव।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा॥

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यो नैवेद्यं निर्वपामीति स्वाहा।

दशाग्रैः प्रस्फुरद्रूपैर्दीपैः पुण्यजनैरिव।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा॥

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यो दीपं निर्वपामीति स्वाहा।

धूपैः संधूपितानेकर्मभिधूपदायिनां।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा॥

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यो धूपं निर्वपामीति स्वाहा।

नालिकेरादिभिः पूगैः फलैः पुण्यफलैरिव।
अहिंसाव्रतपूर्वाणि यजाम्यंगानि सर्वदा॥

ॐ ह्रीं अहिंसादिपंचमहाव्रतेभ्यः फलं निर्वपामीति स्वाहा।

कर्माणि हि महारोगा नश्यंति यत्प्रयोगतः।
सच्चारित्रौषधायास्मै ददामि कुसुमांजलिं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय इदं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं अर्घं निर्वपामीति स्वाहा।

अष्टृक्षं सर्वलोकानां यन्मनस्तत्नियामकं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं मनोगुप्तयेऽर्घं निर्वपामीति स्वाहा।

यद्वाग्व्यापारजानेकदोषसंगविवर्जितं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं वाग्गुप्तयेऽर्घं निर्वपामीति स्वाहा।

शरीरास्रवसंचारपरिहारविनिर्मलं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं कायगुप्तयेऽर्घं निर्वपामीति स्वाहा।

ईर्याससमितिसंशुद्धमतीचारविवर्जितं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं ईर्याससमितयेऽर्घं निर्वपामीति स्वाहा।

चतुर्विधमहाभाषाशुद्धसंयमसंगतं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं भाषासमितयेऽर्घं निर्वपामीति स्वाहा।

एषणासमितिसंशुद्धं यत्प्रबुद्धं विभागतः।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं एषणासमितयेऽर्घं निर्वपामीति स्वाहा।

यस्मिन्नादाननिक्षेपैः सतां संयमवृद्धये।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं आदाननिक्षेपणसमितयेऽर्घं निर्वपामीति स्वाहा।

व्युत्सर्गेण विशुद्धं यत्कर्मव्युत्सर्गकारणं।
पूजयामि समीचीनं चारित्राचारमर्चितं॥

ॐ ह्रीं प्रतिष्ठापनसमितयेऽर्घं निर्वपामीति स्वाहा।

शरदिंदुसमाकारसारया जलधारया।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्यो जलं निर्व०।

कर्पूरनीरकाश्मीरमिश्रसच्चंदनेघनैः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्यः चंदनं निर्व०।

अखंडैः खंडितानेकदुरितैः शालितंदुलैः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्योऽक्षतं निर्व०

शतपत्रशतानेकचारुचंपकराजिभिः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्यः पुष्पं निर्व०

न्यायैरिव जिनेन्द्रस्य सन्नाज्यैः पुष्टकारिभिः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्यो नैवेद्यं निर्व०।

चंचत्कांचनसंकाशैर्दीपैः सद्दीप्तिहेतुभिः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्यो दीपं निर्व०।

कृष्णागरुमहाद्रव्यधूपैः संधूपिताशुमैः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारेभ्यो धूपं निर्व०।

पूगनारिंगजंभीरमातुलिंगफलोत्करैः।
मनोगुप्तिप्रपूर्वाणि यजाम्यंगानि संमुदा॥

ॐ ह्रीं मनोगुप्तिप्रभृतिचारित्राचारैभ्यः फलं निर्व०।

कर्माणि हि महारोगा नश्यंति यत्प्रयोगतः।
सच्चारित्रौषधायास्मै ददामि कुसुमांजलिं॥

ॐ ह्रीं त्रयोदशविधसम्यक्चारित्राचाराय इदं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं अर्घं निर्वपामीति स्वाहा।

ॐ ह्रीं अहिंसापूर्णमहाव्रताय नमः, ॐ ह्रीं असत्यविरतिमहाव्रताय नमः, ॐ ह्रीं चौर्यविरतिमहाव्रताय नमः, ॐ ह्रीं मैथुनविरतिमहाव्रताय नमः, ॐ ह्रीं परिग्रहविरतिमहाव्रताय नमः, ॐ ह्रीं मनोगुप्तये नमः, ॐ ह्रीं वाग्गुप्तये नमः, ॐ ह्रीं कायगुप्तये नमः, ॐ ह्रीं ईर्याससमितये नमः, ॐ ह्रीं भाषासमितये नमः, ॐ ह्रीं एषणासमितये नमः, ॐ ह्रीं आदाननिक्षेपणसमितये नमः, ॐ ह्रीं प्रतिष्ठापनसमितये नमः,

जयमाला।

न द्वेषो द्वेषवृत्त्यिन्यरुणादृशि कृतानेकघोरौसर्गे,
यस्मिन् रामोऽपि न स्यात् मलयजकुसुमं दीयते भक्तिभाजा।
स्वर्गे जीर्णे तृणे वा भवति समतुला पुण्यपापास्रवेऽपि,
सम्यक्चारित्रमेतत्तदहमिह महे पूजयाम्यादरेण॥

स्वात्मानं योगिनो यस्मान्न्लभंते शुद्धचेतसां।
नमः समयसाराय चारित्रायामलत्विषे॥

यानि कानि तु सौख्यानि धार्यते तानि तद्वशात्।
नमः समयसाराय चारित्रायामलत्विषे॥

दौर्गतानि तु दुःखानि यद्धते लभते नरः।
नमः समयसाराय चारित्रायामलत्विषे॥

लोकालोकविभागात्मा यतः प्राप्नोति केवलं।
नमः समयसाराय चारित्रायामलत्विषे॥

यच्छ्रद्धानन्नृणां जन्म सकलं सफलं भवेत्।
नमः समयसाराय चारित्रायामलत्विषे॥

लक्ष्मीलोचनलक्ष्यांगं यत्करोति नरं वरं।
नमः समयसाराय चारित्रायामलत्विषे॥

चक्रिभस्तीर्थकृत्तुंख्यां येनांचति पदं नरः।
नमः समयसाराय चारित्रायामलत्विषे॥

मुक्ता यस्मिन्नराः किंच योगिनो योगजन्मकृत्।
नमः समयसाराय चारित्रायामलत्विषे॥

विधायेत्थं मनः पूजां चारित्रस्य विशुद्धधीः।
करोमि पूर्ववत्सर्वमर्घादिमनिंदितं॥

(घत्ता)

स्तुत्वेति बहुधा स्तोत्रैर्बहुभक्तिपरायणः।
नानाभव्यैः समं लोके करोत्यानंदनाटनं॥
अलंकृता येन सदाश्रयंति सत्ताधवः सिद्धिवधूवरत्वं।
मालामुपक्षिप्य सुरत्नपूतां चारित्ररत्नं परिपूजयामि॥

अन्तर्लीनमलीमसप्रसरविन्मीलोल्लसत्केवलज्ञानं,
लोकालोकविलोकनक्रमगुणग्रामैकशुद्धिं नयत्।
येनालंकृतविग्रहा शममपि क्षीणा नरा निर्मला,
नैर्मल्यं प्रतिपद्य शाश्वततमं वंदे चरित्रं च तत्॥

ततोऽपि गुरुणा दत्तामाशिषं शिरसा सुधीः।
गृह्णाति ग्रहनिर्मुक्तो मुक्तये व्रतकारकः॥

अनंतानंतसंसारकर्मविच्छित्तिकारकं।
देयाद् वः संपदः श्रीमच्चरणं शरणं नृणां॥

विरम विरम संगान्मुञ्च मुञ्च प्रपंचं,
विसृज विसृज मोहं विद्धि विद्धि स्वतत्त्वं।
कलय कलय वृत्तं पश्य पश्य स्वरूपं,
कुरु कुरु पुरुषार्थं निर्वृतानंतहेतोः॥

समुच्चय जयमाला

रयणत्तयसारउ भवपियारउ सयलह जीवह दुरियहरो।
मुणियणगणमहियउ गुणगणसहियउ मिच्छमोहभयखासहरो
पणवीस दोसवज्जिउउपवित्त, अइयाररहिउ वसुगुणविजुत्त।
अहंगइ णिम्मल विप्फुरंति, जो तिरहं देवसण विलंसिंति॥
नागईय वि तित्ययरा हवंति, देव वि एइंदिय पउलहंति।
जे मिच्छत्तय सम्मत्तहीण, दालिद्दय खातिय ते घणीण॥

मइमुय अवही मणपज्जवणाण, केवलु वि कहिज्जइ मइपवाण।
अण्णाणे तियसइ अक्खइ जोइ, कुच्छियमिच्छत्तजदेस होइ॥
बोमुव णिम्मल पवणु वि असंग, परिणजिउविक्खणयरसुत्तसंग।
लोयालोहावि जयउ खियाइ, बहुभयेयहञ्जउ चारित्त होइ॥
पंचािमहव्वय समिदिपंच, गुएणउ तिशिषयजियभवंच।
पुण पंचायारतिभेयजुत्त, मुणिधम्मकहाहि देविंदवुत्त॥

(घत्ता)

जिहिं तिखियवियरचिरु गहण मुणेमुइ,
अंधउ आलस्सउ पंगुलत्रि।
जिणवरमासिय निएणतरइ विणु,
मुत्तिण मवइ मणि॥


स्रोत: पूजन रत्नाकर, पृष्ठ ४८७ (पूजन रत्नाकर | Pujan Ratnakar)