पंचपरमेष्ठी एवं चार मंगल, उत्तम, शरण के अर्घ्य (संस्कृत) | Panch Parmeshthi Evam Char Mangal Uttam Sharan Ke Arghya

पंचपरमेष्ठी एवं चार मंगल, उत्तम, शरण के अर्घ्य

(उपजाति)
अनादिसन्तानभवान् जिनेन्द्रान् अर्हत्पदेष्टानुपदिष्टधर्मान् ।
द्वेधाश्रियालिंगितपादपद्मान् यजामि भक्त्या प्रकृतिप्रसक्त्यै ।।१।।

ॐ ह्रीं अनन्तचतुष्टयसमवसरणलक्ष्मीं विभ्रतेऽर्हत्परमेष्ठिनेऽर्घ्यं ।

कर्माष्टनाशाच्युतभावकर्मोद्धतीन् निजात्मस्वविलासभूपान् ।
सिद्धानन्तांस्त्रिक्कालमध्ये गीतान् यजामीष्टविधिप्रसक्त्यै ।।२।।

ॐ ह्रीं अष्टकर्मकाष्ठगणं भस्मीकुर्वते सिद्धपरमेष्ठिनेऽर्घ्यं निर्वपामीति स्वाहा ।

ये पंचधाचारपरायणानाम् अग्रे सरादक्षिणशिक्षिकासु ।
प्रमाणनिर्णीतपदार्थसार्थानाचार्यवर्यान् परिपूजयामि ।।३।।

ॐ ह्रीं पंचाचारपरायणाचार्यपरमेष्ठिनेऽर्घ्यं निर्वपामीति स्वाहा ।

अर्थश्रुतं सत्यविबोधनेन द्रव्यश्रुतं ग्रन्थविदर्भणेन ।
येऽध्यापयन्ति प्रवरानुभावास्तेऽध्यापका मे ईणया दुहन्तु ।।४।।

ॐ ह्रीं द्वादशांगपठनपाठनोद्यतोपाध्यायपरमेष्ठिनेऽर्घ्यं निर्वपामीति स्वाहा ।

द्विधा तपोभावनया प्रवीणान् स्वकर्मभूवीघ्रविखण्डनेषु ।
विविक्तशय्यासनहर्म्यपीठ स्थितान् तपस्विप्रवरान् यजामि ।।५।।

ॐ ह्रीं त्रयोदशप्रकारचारित्राराधकसाधुपरमेष्ठिनेऽर्घ्यं निर्वपामीति स्वाहा ।

(आर्या)
अर्हन्मंगलमर्चे सुरनर- विद्याधरैकपूज्यपदम् ।
तोयप्रभृतिभिरर्घ्यै-र्विनीतमूर्धा शिवाप्तये नित्यम् ।।६।।

ॐ ह्रीं अर्हन्मंगलायार्घ्यं… ।

ध्रौव्योत्पादविनाश रूपाखिलवस्तुबोधनार्थकरम् ।
सिद्धं मंगलमिति वा मत्वाच चाष्टविधवस्तुभिः ।।७।।

ॐ ह्रीं सिद्धमंगलायार्घ्यं… ।

यद्दर्शनकृतविभवाद् रोगोपद्रवगणा मृग इव मृगेन्द्रात् ।
दूरं भजन्ति देशं साधुभ्योऽर्च्यते विधिना ।।८।।

ॐ ह्रीं साधुमंगलायार्घ्यं… ।

केवलिमुखावगतया वाण्या निर्दिष्टभेदधर्मगणम् ।
मत्वा भवसिन्धुतरीं प्रयजे तन्मंगलं शुद्ध्यै ।।९।।

ॐ ह्रीं केवलिप्रज्ञप्तधर्ममंगलायार्घ्यं… ।

लोकोत्तममथ जिनराट् पदाब्जसेवनयामितदोषविलयाय ।
शक्तं मत्वा घृतजलगन्धैरर्चे समीहितं प्रभवैः ।।१०।।

ॐ ह्रीं अर्हल्लोकोत्तमायार्घ्यं… ।

सिद्धाश्च्युतदोषमला लोकाग्र प्राप्य शिवसुखं व्रजिताः ।
उत्तमपथगा लोके तानच वसुविधार्चनया ।।११।।

ॐ ह्रीं सिद्धलोकोत्तमायार्घ्यं… ।

इन्द्रनरेन्द्रसुरेन्द्रैरर्थिततपसां व्रतैषिणां सुधियाम् ।
उत्तममध्वानम-सावर्चेऽहं सलिलगन्धमुखैः ।।१२।।

ॐ ह्रीं साधुलोकोत्तमायार्घ्यं… ।

रागपिशाचविमर्दनमत्र भव धैर्यधारिणामतुलम् ।
उत्तममपगतकामो वृषमर्चे शुचितर कुसुमैः ।।१३।।

ॐ ह्रीं केवलिप्रज्ञप्तधर्मोत्तमायार्घ्यं… ।

अर्हच्छरणमथार्चेनन्तजनुष्यपि न जातु सम्प्राप्तम् ।
नर्तनगानादिविधि- मुद्दिश्याष्टकर्मणां शान्त्यै ।।१४।।

ॐ ह्रीं अर्हच्छरणायार्घ्यं… ।

निर्व्याबाधगुणादिकप्रागयं शरणं समेतचिदमनन्तम् ।
सिद्धानाममृतानां भूत्यै पूजेयमशुभहान्यर्थम् ।।१५।।

ॐ ह्रीं सिद्धशरणायार्घ्यं… ।

चिदचिद्भेदं शरणंलौकिकमाप्यं प्रयोजनातीतम् ।
त्यक्त्वा साधुजनानां शरणं भूत्यै यजामि परमार्थम् ।।१६।।

ॐ ह्रीं साधुशरणायार्घ्यं… ।

केवलिनाथ मुखोद्गतधर्मः प्राणिसुखहितार्थमुद्दिष्टः ।
तत्प्राप्त्यै तद्यजनं कुर्वे मखविघ्ननाशाय ।।१७।।

ॐ ह्रीं केवलिप्रज्ञप्तधर्मशरणायार्घ्यं… ।

(वसन्ततिलका)
संसारदुःखहनने निपुणं जनानां नाद्यकन्तचकमिति सप्तदशप्रमाणम् ।
संपूजये विविधभक्तिभरावनम्रः शान्तिप्रदं भुवनमुख्यपदार्थसार्थैः ।।१८।।

ॐ ह्रीं अर्हदादिसप्तदशमन्त्रेभ्यः समुदायार्घ्यं निर्वपामीति स्वाहा ।


स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ३५ से ३७