जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितं ।
ग्रहशांति प्रवक्ष्यामि, लोकानां सुखहेतवे ।।
जिनेन्द्राः खेचरा ज्ञेया, पूजनीया विधिक्रमात् ।
पुष्पैर्विलेपनैर्धू पैनैवेद्यैस्तुष्टिहेतवे ।
पद्मप्रभस्य मार्तण्डश्चन्द्रश्चन्द्रप्रभस्य च ।
वासुपूज्यस्य भूपुत्रो, वुधश्चाष्टजिनेशिनां ।।
विमलानन्तधर्मेश-शांतिकुन्थ्वरहनमि ।
वर्द्धमानजिनेन्द्राणां, पादपद्मं वुधो नमेत् ।।
ऋषभाजितसुपार्श्वाः साभिनन्दनशीतलौ ।
सुमतिः सम्भवस्वामी, श्रेयांसेषु वृहस्पतिः ।।
सुविधिः कथितः शुक्रे, सुव्रतश्च शनैश्चरे ।
नेमिनाथो भवेद्राहोः, केतुः श्रीमल्लिपार्श्वयोः ।।
जन्मलग्नं च राशिं च, यदि पीडयन्ति खेचराः ।
तदा मपूजयेद् धीमान्-खेचरान् सह तान् जिनान् ।।
भद्रवाहुगुरुर्वाग्मी, पंचमः श्रुतकेवली ।
विद्याप्रसादतः पूर्वं ग्रहशांतिविधिः कृता ।।
यः पठेत् प्रातरुत्थाय, शुचिर्भूत्वा समाहितः ।
विपत्तितो भवेच्छांतिः क्षेमं तस्य पदे पदे ।।
प्रातः काल इस स्तोत्र का पाठ करने से क्रूरग्रह अपना असर
नहीं करते । किसी ग्रह के असर होने पर २७ दिन तक प्रति दिन
२१ बार पाठ करने से अवश्य शान्ति होगी ।
स्रोत: पूजन-पाठ-प्रदीप (सातवां संस्करण, देहली), पृष्ठ २६० से २६१