नवग्रह शांति स्तोत्र | Navgrah Shanti Stotra

नवग्रह शांति स्तोत्र | Navgrah Shanti Stotra

जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितं।
ग्रहशांति प्रवक्ष्यामि, लोकानां सुखहेतवे॥
जिनेन्द्राः खेचरा ज्ञेया, पूजनीया विधिक्रमात्।
पुष्पैर्विलेपनैर्धू पैनैवेद्यैस्तुष्टिहेतवे॥
पद्मप्रभस्य मार्तण्डश्चन्द्रश्चन्द्रप्रभस्य च।
वासुपूज्यस्य भूपुत्रो, वुधश्चाष्टजिनेशिनां॥

विमलानन्तधर्मेश-शांतिकुन्थ्वरहनमि।
वर्द्धमानजिनेन्द्राणां, पादपद्मं वुधो नमेत्॥
ऋषभाजितसुपार्श्वाः साभिनन्दनशीतलौ।
सुमतिः सम्भवस्वामी, श्रेयांसेषु वृहस्पतिः॥

सुविधिः कथितः शुक्रे, सुव्रतश्च शनैश्चरे।
नेमिनाथो भवेद्राहोः, केतुः श्रीमल्लिपार्श्वयोः॥
जन्मलग्नं च राशिं च, यदि पीडयन्ति खेचराः।
तदा मपूजयेद् धीमान्-खेचरान् सह तान् जिनान्॥

भद्रवाहुगुरुर्वाग्मी, पंचमः श्रुतकेवली।
विद्याप्रसादतः पूर्वं ग्रहशांतिविधिः कृता॥
यः पठेत् प्रातरुत्थाय, शुचिर्भूत्वा समाहितः।
विपत्तितो भवेच्छांतिः क्षेमं तस्य पदे पदे॥

प्रातः काल इस स्तोत्र का पाठ करने से क्रूरग्रह अपना असर
नहीं करते। किसी ग्रह के असर होने पर २७ दिन तक प्रति दिन
२१ बार पाठ करने से अवश्य शान्ति होगी।


स्रोत: पूजन-पाठ-प्रदीप (सातवां संस्करण, देहली), पृष्ठ २६० से २६१