मन्दिर शुद्धि, वेदी शुद्धि एवं कलश शुद्धि के ८१ मन्त्र | Mandir Shuddhi, Vedi Shuddhi Evam Kalash Shuddhi Ke 81 Mantra

मन्दिर शुद्धि, वेदी शुद्धि एवं कलश शुद्धि के ८१ मन्त्र

(अनुष्टुप)
कुम्भमिन्द्राह्वयं दिव्यमिन्द्रशस्त्रसमप्रभम्।
ऐन्द्रपुष्पैः समर्चामि नवार्हद्भवनोत्सवे॥१॥

ॐ ह्रीं इन्द्रकलशेन मन्दिर (वेदिका /कलश जिसकी शुद्धि का प्रसंग हो तदनुसार मन्दिर/वेदिका/कलश शब्द का उच्चारण करें) शुद्धिं करोमीति स्वाहा॥

अग्निज्वालासमानाभमग्न्याख्यं बहुलाक्षतैः।
पूजयामि जिनागारस्नानाय सुखहेतवे॥२॥

ॐ ह्रीं अग्निकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

यमदण्डसमानःभमलौकिकमणि श्रितम्।
यमाख्ययमदिक्षालमान्यं संचर्चयेऽनघम्॥३॥

ॐ ह्रीं यमककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

नैऋत्याख्यं महाकुम्भं नेऋत्याधिपरक्षितम्।
संशब्दये जिनागारं स्नानाय मधुरस्तवैः॥४॥

ॐ ह्रीं नैऋत्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

वरुणाख्यं घटं दिव्यं वरुणासुररक्षितम्।
संशब्दये जिनेन्द्रस्य वेशमस्नानाय चम्पकैः॥५॥

ॐ ह्रीं वरुणकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पवनामरसंसेव्यं पवनामरसुरक्षितम्।
पवनाख्यं घटं नीर-गन्धप्रसूनशालिजैः॥६॥

ॐ ह्रीं पवनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कुबेराख्यं घटं दिव्यं कुबेरगृहशोभितम्।
जिनवेशमप्लवायात्र समाह्वये कदम्बकैः॥७॥

ॐ ह्रीं कुबेरकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

ईशानाख्यमदाधारमीशादिदिग्विभासितम्।
ओं ह्रीं तिष्ठेद्विधानेन काश्मीरैस्तन्महे मुदा॥८॥

ॐ ह्रीं ईशानकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कुम्भं गारुन्मताह्वानं गरुन्मणिविनिर्मितम्।
सरसैर्दिव्यपूजार्घैः श्रये जैनमहोत्सवे॥९॥

ॐ ह्रीं गारुन्मतकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कलशं सुन्दराकारं वैडूर्यमणिनिर्मितम्।
दिव्यं मरकताभिख्यं स्थापयेऽर्हद्गृहोत्सवे॥१०॥

ॐ ह्रीं मरकतमणिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

गङ्गानिर्मितं कुम्भं गाङ्गेयाख्यं महोन्नतम्।
गङ्गावनरसापूर्णं पूजयेऽर्हत्सुवेश्मनि॥११॥

ॐ ह्रीं गाङ्गेयकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

प्रतप्तहाटकैः स्पष्टं श्रीमद्धाटकसंज्ञकम्।
कुम्भं तीर्थजलापूर्णमर्चयामि यथाविधि॥१२॥

ॐ ह्रीं हाटककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

हिरण्याख्यं महाकुम्भं हिरण्येन समर्जितम्।
लसत्पङ्कजमालाढयं यजेऽर्हत्सद्मसंमहे॥१३॥

ॐ ह्रीं हिरण्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कनत्कनकसंकाशं नानामणिविमण्डितम्।
यजेऽर्हन्मन्दिरे कुम्भं शुद्धनीरसमाश्रितम्॥१४॥

ॐ ह्रीं कनककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

अष्टापदाख्यं सत्कुम्भं हेमस्रक्प्रविराजितम्।
क्षीरोदवारिसंपूर्ण - मर्चयेऽर्हद्गृहोत्सवे॥१५॥

ॐ ह्रीं अष्टापदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

महारजतनामाद्यं महारजतनिर्मितम्।
तीर्थाम्बूपूरनिभृतमर्हद्गेहेऽर्चये मुदा॥१६॥

ॐ ह्रीं महारजतकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

आनन्ददायकं दिव्यं सानन्दाख्यं मनोहरम्।
नित्यं तीर्थजलैः पूर्णं स्थापये चैत्यसंमहे॥१७॥

ॐ ह्रीं आनन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

नन्दाख्यं नन्दनोत्कृष्टं प्रणन्दितगमं जितम्।
कुम्भं समर्चये दिव्यं नानामणिविनिर्मितम्॥१८॥

ॐ ह्रीं नन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कुम्भं विजयनामानं विजयोर्जितविश्वकम्।
पूर्णं तीर्थजलैर्दिव्यमर्चयेऽर्हद्गृहोत्सवे॥१९॥

ॐ ह्रीं विजयकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

नानातीर्थजलाकीर्णं कुम्भं त्वजितनामकम्।
मानये विविधार्हाभिः स्मरजिनमन्दिरोत्सवे॥२०॥

ॐ ह्रीं अजितकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

अपराजितनामानं घटं काञ्चनसंनिभम्।
संप्रतिष्ठापये चैत्यमहे जलसुमाक्षतैः॥२१॥

ॐ ह्रीं अपराजितकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

महोदरं शतानन्दनामधेयं प्रभास्वरम्।
कलशं कमलैः पूर्णं प्रार्चयेऽर्हद्गृहोत्सवे॥२२॥

ॐ ह्रीं शतानन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा॥

सह स्नानदसत्ख्यातिं पद्मादितीर्थसंभृतम्।
पुष्पमालावृतं कुम्भं महाम्यर्हद्गृहक्षणे॥२३॥

ॐ ह्रीं स्नानदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कुन्दाख्यं कुन्दपुष्पाढ्यं कुन्दस्रक्प्रविराजितम्।
प्रार्चये कुन्दपुष्पौघैः कुम्भं भव्यजिनालये॥२४॥

ॐ ह्रीं कुन्दकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

प्रस्फुटन्मल्लिका- पुष्पसमूहामोदवासितैः।
नीरैः पूर्णं यजे हेममल्लिकाख्यं महाघटम्॥२५॥

ॐ ह्रीं मल्लिकाख्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

अपूर्वचम्पकामोद- प्रवासितजलैर्भृतम्।
चम्पकाख्यं घटं दिव्यं सूत्रितं सम्यगर्चये॥२६॥

ॐ ह्रीं चम्पककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कदम्बरजसाव्याप्तकदम्बाख्यं महाघटम्।
उपाक्षिप्तविधानेनार्चाये जैनगृहालये॥२७॥

ॐ ह्रीं कदम्बकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

मन्दाराख्यं महाकुम्भं मन्दारस्त्रग्विभूषितम्।
दिव्यैरर्चामि मन्दारैः प्रत्यग्रजिनमन्दिरे॥२८॥

ॐ ह्रीं मन्दारकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

प्रत्यग्रपारिजातौघ समर्चितजलैर्भृतम्।
पारिजातामिधं कुम्भमर्चयामि पयोभरैः॥२९॥

ॐ ह्रीं पारिजातकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

संतानपल्लवोत्फुल्लप्रसूननिकरार्चितम्।
संतानाख्यं जलैः पूर्णं संस्थाप्यापूजयेऽनिशम्॥३०॥

ॐ ह्रीं सन्तानकलशेन मन्दिरशुद्धिं करोमीति स्वाहा॥

हरिचन्दनपुष्पाभं हरिचन्दनसंज्ञकम्।
हरिचन्दनकर्पूरैः कुम्भं संप्रार्चये मुदा॥३१॥

ॐ ह्रीं हरिचन्दनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कल्पवृक्षमहापुष्पप्रकरेण प्रसाधितम्।
कल्पवृक्षाभिधं कुम्भं पूजनाय प्रकल्पये॥३२॥

ॐ ह्रीं कल्पवृक्षकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

जपाख्यं जपदामाभं जपापुष्पाख्यबालकम्।
यजे जगत्प्रभोर्नव्यचैत्यस्नानाय केवलम्॥३३॥

ॐ ह्रीं जपाकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

विशालाख्यं घटं दिव्यं विशालं रत्ननिर्मितम्।
विशालयामि पुष्पौघैः कुन्दमन्दारसंभवैः॥३४॥

ॐ ह्रीं विशालकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कुम्भं श्रीभद्रकुम्भाख्यं भद्रेभकुम्भसुन्दरम्।
पारिभद्रप्रसूनौघैः शोभयामि मनोहरैः॥३५॥

ॐ ह्रीं भद्रकुम्भकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

घटं श्रीपूर्णकुम्भाख्यं पूर्णकुम्भमिवोन्नतम्।
क्षीरोदनीरसंपूर्णैः सुरत्नैर्वर्णयाम्यहम्॥३६॥

ॐ ह्रीं पूर्णकुम्भकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

जयन्तं सर्वकुम्भानां जयन्ताख्यं महाघटम्।
विकसज्जयपुष्पौघैः संयजामि तदुत्सवे॥३७॥

ॐ ह्रीं जयन्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

वैजयन्ताभिधं कुम्भं सत्यं विजयदायकम्।
नव्यप्रासादचर्यार्थैश्चर्चयेऽहं बनादिभिः॥३८॥

ॐ ह्रीं वैजयन्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

चन्द्रकान्तमहारत्नविनिर्मित- महाघटम्।
चन्द्राख्यं जगदुत्कृष्टं पूजये विविधार्चनैः॥३९॥

ॐ ह्रीं चन्द्रकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

सूर्यकान्ताश्मसन्दोहविराजितं महोदयम्।
सूर्याख्यं कुम्भमुत्कृष्टैः प्रयजे तन्महार्घकैः॥४०॥

ॐ ह्रीं सूर्यकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

लोकालोकप्रविख्यातं लोकालोकविधानकम्।
कुम्भं संस्थापयाम्यत्र संपूज्य विविधार्चनैः॥४१॥

ॐ ह्रीं लोकालोककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

त्रिकूटनामकं कुम्भं त्रिकूटाद्रिसमानकम्।
समर्च्य विविधार्घ्येण स्थापये तन्महोत्सवे॥४२॥

ॐ ह्रीं त्रिकूटकलशेन मन्दिर शुद्धिं करोमीति स्वाहा।

उदयाख्यं महाकुम्भमुदयाचलसन्निभम्।
स्थापयामि जिनागारेऽभिषवाय महोन्नतिम्॥४३॥

ॐ ह्रीं उदयाचलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

हिमवत्पर्वताभिख्यं हिमाचलसमुन्नतिम्।
कुटं निवेशयाम्यत्र स्नानाय नव्यवेश्मनः॥४४॥

ॐ ह्रीं हिमाचलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

निषधाद्रिसमोत्सेधं निषधाख्यं घटं वरम्।
संविधायार्हणां दिव्यां स्यापयेऽर्हन्महोत्सवे॥४५॥

ॐ ह्रीं निषधकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

माल्यवत्कुम्भनामानं नानामालविराजितम्।
शुद्धस्फटिकसंकाशं कुम्भं तत्र निवेशये॥४६॥

ॐ ह्रीं माल्यवत्कलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

सत्पारिपात्रकोत्सेधं सत्पारिपात्रकाह्वयम्।
कलशं श्रीजिनागारस्नानाय पूजयेऽनघम्॥४७॥

ॐ ह्रीं सत्पात्रकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

गन्धमादननामानं गन्धमादप्रपूरितम्।
संपूजये जलाद्यर्घैर्जिनौकस्नानहेतवे॥४८॥

ॐ ह्रीं गन्धमादनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

सुदर्शनसमाह्वानं सुदर्शनगरिष्ठकम्।
कलशं विशुद्धये जैनवेश्मनः स्थापयेऽनघम्॥४९॥

ॐ ह्रीं सुदर्शनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कलशं मन्दराकारं मन्दराख्यं महोन्नतिम्।
विधापयामि जैनेन्द्रभवनस्नानहेतवे॥५०॥

ॐ ह्रीं मन्दरकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

अचलेत्यब्धिना पूर्णमलाख्यं घटं नवम्।
आम्रपल्लवशोभाढ्यं तदर्थं स्थापयाम्यहम्॥५१॥

ॐ ह्रीं अचलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

विद्युन्मालासमाकारं विद्युन्माल्यभिधानकम्।
कलशं स्थापये दिव्यं नानापूजनवस्तुभिः॥५२॥

ॐ ह्रीं विद्युन्मालिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

चूडामण्याख्यमुत्तुगं चूडामणिसमुन्नतिम्।
पूर्णं तीर्थोदकैः कुम्भं तदुत्सवे निधापये॥५३॥

ॐ ह्रीं चूडामणिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

सद्धारगुलिकाभालं गुलिकाह्वयमुत्तमम्।
कुम्भं निवेशयाम्यत्र जैनमन्दिरशुद्धये॥५४॥

ॐ ह्रीं गुलिकाकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

दक्षिणावर्तनामानं दक्षिणावर्तसन्निभम्।
घटं च घटितं लक्ष्म्या तत्कृते सन्निवेशये॥५५॥

ॐ ह्रीं दक्षिणावर्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कोकाख्यं कोकसंकाशं वारिजाश्मविनिर्मितम्।
घटं निधापये जैनवेश्मनः शुद्धहेतवे॥५६॥

ॐ ह्रीं कोककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

राजहंससमानाभं राजहंसमाह्वयम्।
घटं तं जाघटीम्यत्र नवार्हद्विश्मशुद्धये॥५७॥

ॐ ह्रीं राजहंसकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कलशं हरिताभिख्यं हरिताश्मविनिर्मितम्।
पूजये दिव्यरत्नेन दिव्यगन्धाम्बुचम्पकैः॥५८॥

ॐ ह्रीं हरितकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

मृगेन्द्राह्वयमुत्तुङ्गं समाह्वायार्चनादिभिः।
मृगेन्द्रवत्प्रगर्जन्तं स्नानकालेषु वेश्मनः॥५९॥

ॐ ह्रीं मृगेन्द्रकलशेन मन्दिर शुद्धिं करोमीति स्वाहा।

कुम्भं कोकनदाकारं श्रीमत्कोकनदाह्वयम्।
त्रिभङ्गानीरसंपूर्ण घटयेऽस्मिन्महोत्सवे॥६०॥

ॐ ह्रीं कोकनदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

स्निग्धाञ्जनसमाकारमणिनिर्मितमुत्तमम्।
कालाख्यं कलशं हृद्यं तदुत्सवे निवेशये॥६१॥

ॐ ह्रीं कालकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पद्माख्यं पद्मचक्राख्यं पद्मरागविनिर्मितम्।
कुम्भं समाह्वये नव्यप्रसादस्नपनाय वै॥६२॥

ॐ ह्रीं पअकलशेन मन्दिर शुद्धिं करोमीति स्वाहा।

अत्यन्तश्यामलाकारप्रस्तरैर्निर्मितं घटम्।
प्रासादस्नानकालऽेत्र महाकालं निवेशये॥६३॥

ॐ ह्रीं महाकालकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पञ्चप्रकारसद्रत्नविनिर्मितं महोन्नतम्।
कलशं सर्वरत्नाख्यं स्नानाय श्रीजिनौकसः॥६४॥

ॐ ह्रीं सर्वरत्नकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पाण्डुकाकारपाषाणनिर्मितं पाण्डुकाह्वयम्।
कुम्भं तीर्थोदकसम्पूर्णं निवेशये यथाविधि॥६५॥

ॐ ह्रीं पाण्डुककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

नैःसर्पकाङ्गलाकारमणिनिर्मितमुन्नतम्।
कुम्भं स्थापयाम्यत्र तीर्थवारिप्रपूरितम्॥६६॥

ॐ ह्रीं नैसर्पकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

मानवाख्यं घटं नव्यमानये तीर्थवार्भृतम्।
स्थापयेर्हन्महावेश्मस्नपनाय जलार्जितम्॥६७॥

ॐ ह्रीं मानवकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

शंखसंकाशरत्नौघविनिर्मितमहोन्नतम्।
संस्थाप्य पूजये दिव्यं शंखाख्यं जलचन्दनैः॥६८॥

ॐ ह्रीं शङ्खनिधिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पिंगलाख्यं च पिंगाभं पिंगाश्मभिर्विनिर्मितम्।
घटं तीर्थाम्बुसम्पूर्णं तदर्थं सन्निधापये॥६९॥

ॐ ह्रीं पिङ्गलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पुष्करावर्तनामानं कलशं रत्ननिर्मितम्।
जिनोदवासितस्नानालोकं - संकल्पयाम्यहम्॥७०॥

ॐ ह्रीं पुष्करावर्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

मकरध्वजनामानमिन्द्र- नीलविधापितम्।
कुटं गंगाम्बुपर्याप्तं पवित्रं स्थापयेद्वरम्॥७१॥

ॐ ह्रीं मकरध्वजकलशेन मन्दिर शुद्धिं करोमीति स्वाहा।

ब्रह्माभिख्यं चतुर्वक्त्रं कुम्भं ब्रह्मसमर्चितम्।
ब्रह्मतीर्थजलैः पूर्णं स्थापये नीरचन्दनैः॥७२॥

ॐ ह्रीं ब्रह्मकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

सुवर्णनिर्मितं कुम्भं सुवर्णाख्यं महासुखम्।
स्फुरद्रलचयं चारुं संस्थाप्याहं समर्चये॥७३॥

ॐ ह्रीं सुवर्णकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कदलीपत्रसंकाशं नीलाश्मकमयं घटम्।
स्थापयामीन्द्रनीलाख्यं संभृतं तीर्थवारिणा॥७४॥

ॐ ह्रीं इन्द्रनीलकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

अशोककुसुमामोदवासिताम्भः- प्रपूरितम्।
अशोकाख्यं महाकुम्भं निधापये जिनौकसाम्॥७५॥

ॐ ह्रीं अशोककलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

पुष्पदन्तसमानाभं पुष्पदन्तसमाह्वयम्।
कलशं सलिलैः पूर्णं संस्थापयेऽर्हन्मन्दिरे॥७६॥

ॐ ह्रीं पुष्पदन्तकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

कुमुदाख्यं घटं नव्यं कुमुदस्त्रग्विराजितम्।
कुमुदैरर्चये स्नाने संस्थाप्य श्रीजिनौकसः॥७७॥

ॐ ह्रीं कुमुदकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

येषु दृष्टेषु भव्यानां सम्यक्त्वं प्रकटीभवेत्।
दर्शनाख्यं महाकुम्भं सभावये जलादिभिः॥७८॥

ॐ ह्रीं दर्शनकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

यस्य दर्शनमात्रेण धर्मोऽधर्मः प्रबुध्यते।
कुम्भं ज्ञानाख्यमुत्तंगं निवेशये जलैर्भृतम्॥७९॥

ॐ ह्रीं ज्ञानकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

दर्शनाद्यस्य भव्यानां वृत्ते मतिः प्रजायते।
चारित्राख्यं वनैःपूर्णं कुम्भं संस्थापये मुदा॥८०॥

ॐ ह्रीं चारित्रकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

सर्वार्थसिद्धिकर्तारं सर्वार्थसिद्धिनामकम्।
कुम्भं समर्चये जैनवेश्मनः स्नानहेतवे॥८१॥

ॐ ह्रीं सर्वार्थसिद्धिकलशेन मन्दिरशुद्धिं करोमीति स्वाहा।

इस प्रकार ८१ कलशों के द्वारा शुद्धि करने के बाद निम्न मंत्रों द्वारा शुद्धि करें।

ॐ ह्रीं वायुकुमार सर्वविघ्नविनाशनाय महीपूतां कुरु कुरु फट् स्वाहा।

यह मन्त्र पढकर वेदी पर दर्भ की बनी कूचिंका से मार्जन करें

ॐ ह्रीं मेघकुमार धरां प्रक्षालय प्रक्षालय अं हं सं वं झं यः क्षः फट् स्वाहा।

यह मन्त्र पढकर दर्भ की कूचिंका से वेदी पर जल छीटें

ॐ ह्रीं अग्निकुमार भूमिं ज्वलय ज्वलय अं हं सं वं झं यः क्षः फट् स्वाहा।

यह मन्त्र पढकर कपूर जलाकर वेदी पर डालें और उसे दर्भ की कूचिंका से सब जगह चलावें।

ॐ ह्रीं फट् किरिटिं किरिटिं घातय घातय परविघ्नान् स्फोटय परमन्त्रान् सहस्त्रखण्डान् कुरु कुरु परमुद्रां छिन्द छिन्द भिन्द भिन्द।

यह मन्त्र पढकर मन्दिर की दशों दिशाओं में पुष्प फेकें।


स्रोत: जैन विधि विधान (सं. पण्डित अभयकुमार जैन, अखिल भारतीय जैन युवा फैडरेशन), पृष्ठ ५० से ५९