क्षमावणी पूजा (संस्कृत) | Kshamavani Puja (Sanskrit)

देवश्रुतगुरून्नत्वा स्थापयित्वा महोत्सवं।
ततश्चाष्टविधां पूजां कुर्याद् व्रतविधायकः॥

अष्टौ पू’जाः प्रकर्तव्याः दर्शनाग्रे जिनाग्रतः।
ज्ञानार्थ पुस्तकस्याग्रे वृत्तार्यं पुण्यपु’जकः॥

गुरुपाद्युगस्याग्रे त्रयोदशविधानतः।
तंदुलानां प्रकर्तव्यं वृत्तार्थं पुण्यपु’जकः॥

तेषामुपरि पूतानि फलानि विविधानि च।
दातव्यानि प्रयत्नेन यथाविधिमनीषिभिः॥

ॐ ह्रीं देवशास्त्रगुरुसमूह! अत्र अवतर अवतर संवौषट्।

ॐ ह्रीं देवशास्त्रगुरुसमूह! अत्र तिष्ठ तिष्ठ ठः ठः।

ॐ ह्रीं देवशास्त्रगुरुसमूह! अत्र मम सन्निहितो भव भव वषट्।

(अथाष्टकम्)

सौम्याहृतसद्गधसारयाजलधारया।
अर्चयामि जिनाधीशं सदाममगुरुन् गुरून्॥

ॐ ह्रीं देवशास्त्रगुरुभ्यो जलं निर्वपामीति स्वाहा।

चारुचंदनकाश्मीरकर्पूरादिविलेपनैः। अर्चया०

ॐ ह्रीं देवशास्त्रगुरुभ्यः चंदनं निर्वपामीति स्वाहा।

अक्षतैरक्षतानंतसुखदानविधायकैः। अर्च०

ॐ ह्रीं देवशास्त्रगुरुभ्योऽक्षतं निर्वपामीति स्वाहा।

जातिकुन्दादिराजीवचंपकाशोकपल्लवैः। अर्च०

ॐ ह्रीं देवशास्त्रगुरुभ्यः पुष्पं निवपामीति स्वाहा।

खाद्यमाद्यपदैः स्वाद्यैः सन्नाद्यैः शुद्धकारिभिः। अर्च०

ॐ ह्रीं देवशास्त्रगुरुभ्यो नैवेद्यं निर्वपामीति स्वाहा।

दशाग्रैः प्रस्फुरद्गन्धैः दीपैः पुण्यजनैरिव। अर्चया०

ॐ ह्रीं देवशास्त्रगुरुभ्यो दीपं निर्वपामीति स्वाहा।

धूपैः संधूपितानेककर्मभिर्धूपदायिनां। अर्चया०

ॐ ह्रीं देवशास्त्रगुरुभ्यो धूपं निर्वपामीति स्वाहा।

नालिकेरादिभिः पूगैः फलैः पुण्यजनैरिव।
अर्चयामि जिनाधीशं सदाममगुरुन् गुरून्॥

ॐ ह्रीं देवशास्त्रगुरुभ्यः फलं निर्वपामीति स्वाहा।

जलंगंधकुसुममिश्रं फलतंदुलकलितललिताढ्यम्
सम्यक्त्वाय सुभव्यैर्भव्यां कुसुमांजलिं दद्यात्॥

ॐ ह्रीं देवशास्त्रगुरुभ्योऽर्घं निर्वपामीति स्वाहा।

(पुनरष्टकम्)

स्थानासनार्धप्रतिपत्तियोग्याम्, सद्भावसम्मानजलादिभिश्च।
रत्नत्रयार्चां विदधे त्रिकालं, भक्त्या स्वकर्मक्षयहेतवेऽहम्॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो जलं निर्वपामीति स्वाहा।

श्रीखण्डकर्पूरसुंकुमाद्यैः, गंधैः सुगंधीकृतदिग्विभागैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः चंदनं निर्व०।

शाल्यक्षतैरक्षतदीर्घमात्रैः, मुनिर्मलैश्चंद्रकरावदातैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्योऽक्षतं निर्व०।

अंभोजनीलोत्पलपारिजातैः कदंबकुंदादितरुप्रसूनैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः पुष्पं निर्व०।

नैवेद्यकैः कांचनपात्रसंस्थैः, न्यस्तैरुदस्तैर्हरियांशुहस्तैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो नैवेद्यं निर्व०।

दीपोत्करैर्ध्वस्ततमोवितानैः, उद्योतिताशेषपदार्थजातैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो दीपं निवे०।

कर्पूरकृष्णागरुचंदनाद्यैः, सञ्चूर्णजैरूत्तमधूपवर्गैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यो धूपं निर्व०।

लवंगनागिगकपित्थपूगैः, श्रीमोचचोचादिफलैः पवित्रैः। रत्न०

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्यः फलं निर्व०।

श्रीचंदनाढ्याक्षततोयमिश्रैः, विकाशपुष्पांजलिना सुभक्त्या।
रत्नत्रयार्चां विदधे त्रिकाल, भक्त्या स्वकर्मक्षयहेतवेऽहम्॥

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रेभ्योऽर्घं निर्व०।

(जयमाला)

दुरंतसंसारवने निषण्णे, बंभ्रम्यते येन विनाज्ञतोयं।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

अलक्ष्यलक्ष्यप्रतिबिंबवेदी, योगीश्वरो यद्गततः सुखेव।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

अनेकपर्यायगतैरभावे, यस्मादनस्त्वं लभते शरीरी।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

विनामहार्घमर्विघर्मलोक, लभ्यं भवेन्नैव जगत्त्रयेपि।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

जनो भवेद्येन जितांतरागः स्वर्गापवर्गामलमोरुयकानि।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

तन्नारकं दुःखमसब्मस्माद्, दुःखाशयानां प्रलयं प्रयाति।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

प्रभावतो यस्य पृथग्जनाद्याः, तीर्थाधिपत्यं च्छलतो लभंते।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

यदुज्झितं संयमिनोपि बंधो, नित्यं लभंते तपसः सकाशान्।
भवांबुधौ यद्भूविनाममग्नं, रत्नत्रयं नौमि परं पवित्रं॥

हत्वा विघ्नानि सर्वाणि यानि कानि पुराकृतं।
सम्यक्रत्नत्रयीपूतं मंगलं वितनोतु वः॥

नरामरकृतानेकोपसर्गोपनिबारणं। सम्यक्रत्न०

विपत्संपत्तिनाशाय संपत्संपतिकारणं। सम्यक्०

तुष्टिपुष्टिकरं नित्यं सर्वरोगापहारकं। सम्यक्०

यद्दारिद्रमहावन्होदहनैकदवानलं। सम्यक्०

संकल्पकल्पितानेकदानकल्पद्रुमोपमं। सम्यक्०

यद्भूवांबुधिमग्नानां दुर्लभं भवकोटिभिः। सम्यक्०

मंगलानां च सर्वेषां यदेव मंगलं मतं। सम्यक्०

दुर्भिक्षादिमहादोषनिवारणपरंपराः।
कुर्वंतु जगतः शांतिं जिनश्रुतमुनीश्वराः॥

यत्संस्मरणमात्रेण विघ्नाः नश्यंति मूलतः। कुर्वंतु जग०

यदर्थात् लभते प्राणी यत्प्रसादात्प्रमादतः। कुर्वंतु जग०

दृष्ट्वा स्पर्शासतो येन येऽनंतसुखदायकाः। कुर्वंतु जग०

येषामाराधका नित्यमज्ञेया त्रिदशैरपि। कुर्वंतु जग०

सिद्धाः शुद्धाः विशुद्धा ये प्रसिद्धा जगतां त्रये। कुर्वंतु जग०

नानागुणमहारत्नालंकृता निरलंकृताः। कुर्वंतु जग०

स्वर्गावतरणे वै रत्नवृष्टिः शक्राज्ञया षण्णवमास यावत्।
स्वप्नावलीढाः प्रमुखादनुज्ञास्ते संतु कल्याणकरा जिना वः॥

संस्थापिते जन्मनि मूर्ध्नि मेरोः शक्रेण दुग्धार्णववारिपूर्यैः।
बाल्ये गता हेमघटैः सुगन्धां ते संतु कल्याणकरा जिना वः॥

यत्नेन ये स्नाप्य विभूष्य नीतास्तपोवनं सन्निहितोकृतोद्याः।
सौपाटितालिक्तसुरेश्वराणां ते संतु कल्याणकरा जिना वः।

जगत्त्रये द्योतकरीं प्रयाता, घातिच्चये केवलबोधलक्ष्मीः।
सत्प्रातिहार्याभरणाचितांगाः ते संतु कल्याणकरा जिना वः॥

प्रदग्धरज्वाकृतकर्मनाशे तदंगपूजा मुकुटानलेन।
कृतामरैश्चंदनदेवकाष्ठैः, ते संतु कल्याणकरा जिना वः॥

सद्रत्नवृष्टिकुसुमासनगंधवारि भेर्या रवस्त्रिदशवर्षनकंजनास्ते।
साश्चर्यपंचकमशेषगुणं सुराज्ञां कल्याणपंचकमिदं विदधातुशांतिं

ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय महार्घं निर्वपामीति स्वाहा॥


स्रोत: पूजन रत्नाकर, पृष्ठ ५२५ (पूजन रत्नाकर | Pujan Ratnakar)