जैनशास्त्रेषु प्रमेयपरिकल्पना | Jainashastreshu Prameyaparikalpana

जैनशास्त्रेषु प्रमेयपरिकल्पना

-प्रो. वीरसागर जैन

जैनशास्त्रेषु प्रमेयस्य वर्णनं प्राधान्येन न्यायविषयकग्रन्थेषु प्राप्यते। जैनन्यायग्रन्थेषु प्रमाणनयात्मकन्यायप्रतिपादनावसरे प्रमाणस्य साङ्गोपाङ्गं विवेचनं वर्तते। तत्र -

  1. प्रमाणस्य लक्षणम्
  2. प्रमाणस्य स्वरूपम्
  3. प्रमाणस्य भेदाः
  4. प्रमाणस्य विषयः
  5. प्रमाणस्य फलम्
  6. प्रमाणस्य आभासः

एते षड्विषयाः मुख्यरूपेण प्रतिपादिताः। यथा जैनन्यायस्याद्ये ग्रन्थे परीक्षामुखसूत्रे षड्परिच्छेदेषु क्रमशः प्रतिपादिताः सन्ति उक्तविषयाः।

जैनन्यायस्य नैके ग्रन्थाः प्रमेयपदसंयुक्तशीर्षकाः सन्ति । यथा -

  1. प्रमेयकमलमार्तण्डः (प्रभाचन्द्रः)
  2. प्रमेयरत्नमाला (अनन्तवीर्यः)
  3. प्रमेयरत्नाकरः (आशाधरसूरिः)
  4. प्रमेयरत्नकोशः (चन्द्रप्रभसूरिः)
  5. प्रमेयरत्नमालालंकारः (अभिनवचारुकीर्तिः)

एतेनापि ज्ञायते यत् प्रमेयस्य विशिष्टवर्णनं जैनन्यायशास्त्रेषु उपलभ्यते।

प्रमेयस्य अपरनामानि सन्ति- ज्ञेयः, वस्तु, अर्थः, पदार्थः, द्रव्यं, तत्त्वं, सत् ।

जैनाचार्याणां मते प्रमेयस्य लक्षणमस्ति- प्रमाणविषयो प्रमेयः। अर्थात् यत् किमपि प्रमाणेन ज्ञायते तत् सर्वं प्रमेयपदवाच्यम् भवति। यथा-

  1. “प्रमाणविषयः प्रमेयम्।"1
  2. "प्रमाणेन परिच्छेद्यं प्रमेयं पणिगद्यते।"2
  3. "योऽर्थः प्रमीयते तत्प्रमेयम्।"3
  4. "द्रव्यपर्यायात्मकं वस्तु प्रमेयम् इति तु समीचीनं लक्षणं सर्वसंग्राहकत्वात्।"4 जैनशास्त्रेषु प्रमेयस्य भेदाः विविधदृष्ट्या वर्णिताः सन्ति। यथा -

प्रमेयः द्विविधोऽस्ति- जीवाजीवभेदेन, स्वपरभेदेन, हेयोपादेयभेदेन वा।

प्रमेयः त्रिविधोऽस्ति- शब्दार्थज्ञानभेदेन, द्रव्यगुणपर्यायभेदेन, हेयज्ञेयोपादेयभेदेन वा।

प्रमेयः चतुर्विधोऽस्ति- नामप्रमेयः स्थापनाप्रमेयः, द्रव्यप्रमेयः, भावप्रमेयश्चेति।

प्रमेयः षड्विधोऽस्ति- जीव-पुद्गल-धर्म-अधर्म-आकाश-कालभेदेन।

एवम्प्रकारेण अन्येऽपि संख्यातासंख्यातानन्तभेदाः भवितुमर्हन्ति। भवतु, किन्तु अस्य प्रमाणविषयस्य प्रमेयस्य स्वरूपन्तु इदमेवास्ति-

“सामान्यविशेषात्मा तदर्थो विषयः।” 5

अर्थात् प्रत्येकं वस्तु सामान्यविशेषात्मकमेवास्ति। तदेव प्रमाणस्य विषयः भवति। एकान्तेन सामान्यरूपः विशेषरूपः वा वस्तु न भवति तस्मात् प्रमेयोऽपि न भवति। प्रमेयः तु अनेकान्तात्मकः एव भवति- एतदेव जैनदर्शनस्य वैशिष्ट्यम्।

न्यायदीपिकाकाराः श्रीमदभिनवधर्मभूषणयतिमहोदयाः अस्मिन् विषये लिखन्ति-

“अथ कोऽयमर्थो नाम ? उच्यते; अर्थोऽनेकान्तः। अर्थ इति लक्ष्यनिर्देशः, अभिधेय इति यावत्। अनेकान्त इति लक्षणकथनम्। अनेके अन्ता धर्माः सामान्यविशेषपर्यायगुणाः यस्येति सिद्धोऽनेकान्तः।” 6

तात्पर्यमिदं यत् प्रमाणस्य विषयः प्रमेयः अनेकान्तात्मकः सामान्यविशेषात्मकः भवति।

कः सामान्यः? कश्च विशेषः? तर्हि समुत्तरन्ति आचार्यमाणिक्यनन्दिभट्टारकाः परीक्षामुखसूत्रे-

  1. सामान्यविशेषात्मा तदर्थो विषयः।
  2. अनुवृत्तव्यावृत्तप्रययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थ-क्रियोपपत्तेश्व।
  3. सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात्।
  4. सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत्।

5. परापरविवर्तव्यापि द्रव्यमूर्ध्वता मृदिव स्थासादिषु।
6. विशेषश्च ।
7. पर्यायव्यतिरेकभेदात्।
8. एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत्।
9. अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत्।

एतेषु नवसु सूत्रेषु प्रमेयस्य विशदस्वरूपं प्रतिपादितम्। यदि वयं एतेषां सूत्राणामेव विशदं ज्ञानं कुर्मः तर्हि प्रमेयस्य सर्वं स्वरूपं सरलतयाऽवगन्तुं शक्यते।

उपरिलिखितेषु सूत्रेषु इदं वक्तुं वाञ्छन्ति आचार्यमहोदया यत् प्रमाणस्य विषयः प्रमेयः सामान्यविशेषरूपः एव भवति। यतोहि लोकेऽस्मिन् सर्वे एव अर्थाः सामान्यविशेषरूपाः एव दृश्यन्ते। कथम्? यतोहि तेषु अनुवृत्तव्यावृत्तप्रत्ययाः दृश्यन्ते तथा च पूर्वोत्तराकाराणां उत्पादनाशोऽपि दृश्यते एव।

सामान्यं द्विविधं भवति- तिर्यकसामान्यम् ऊर्ध्वतासामान्यञ्चेति। अनेकवस्तुषु यत् सामान्यं सादृश्यं वा दृश्यते तत् तिर्यक्सामान्यम् यथा खण्डि-मुण्डि-इत्यादिषु गोत्वम्। एकस्मिन् द्रव्ये पूर्वापरव्यापिषु पर्यायेषु यत् सादृश्यं सामान्यं वा दृश्यते तत् ऊर्ध्वता सामान्यमस्ति। यथा- स्थास-कोश-कुसूलादिपर्यायेषु मृत्तिका।

तिर्यक्सामान्ये द्रव्याणि अनेकानि किन्तु समयः एकः भवति तथा ऊर्ध्वतासामान्ये द्रव्यमेकं किन्तु समयाः अनेकाः भवन्ति ।

विशेषोऽपि द्विविधः भवति। पर्यायविशेषः व्यतिरेकविशेषश्च। एकस्मिन द्रव्ये क्रमभाविनः परिणामाः पर्यायविशेषाः भवन्ति। यथा- आत्मनि हर्षविषादादयः। अनेकेषु द्रव्येषु यत् पारस्परिकं वैसादृश्यं दृश्यते सः व्यतिरेकविशेषः। यथा- अनेकेषु पशुषु गोः महिषः घोटकः इत्यादयः।

विषयोऽयं उदाहरणद्वारा सुगमतया ज्ञातुं शक्यते। यथा एकस्मिन पात्रे अनेकानि फलानि सन्ति। तेषु वयं द्विविधं ज्ञानं कुर्मः अनुवृत्तज्ञानं व्यावृत्तज्ञानं च। इदमपि फलं, इदमपि फलं, इदमपि फलम् अनेन प्रकारेण अनुवृत्तज्ञानं सामान्यज्ञानं वा भवति। तथा इदम् आम्रफलं, इदं कदलीफलं, इदं दाडिमफलम् इत्यादिप्रकारेण व्यावृत्तज्ञानं विशेषज्ञानं वा भवति। अनेन प्रकारेण सिद्धं भवति यत् प्रमाणस्य विषयः सामान्यविशेषात्मकः अस्ति।

अत्र पुनरपि विचार्यते यत् उदाहरणार्थं एकस्मिन् पात्रे एकविधानि फलानि एव विद्यन्ते- आम्रफलानि। किन्तु अत्रापि द्विविध ज्ञानं भवति एव। इदं आम्रफलं, इदं आम्रफलं, इदं आम्रफलं इत्यादिप्रकारेण अनुवृत्तज्ञानं सामान्यज्ञानं वा भवति। तथा इदं दशहरी इति वर्तते इदं लंगड़ा इति वर्तते, इदं तोतापरी इति वर्तते इत्यादिप्रकारेण व्यावृत्तज्ञानं विशेषज्ञानं वा भवति। अनेन प्रकारेणापि सिद्धं भवति यत् प्रमाणस्य विषयः सामान्यविशेषात्मकः अस्ति।

प्रत्येकं वस्तु सामान्यविशेषात्मकं अस्ति। अस्य सिद्धिः प्रकारान्तरेणापि भवति। यथा- प्रतिसमयं प्रत्येकं वस्तु पूर्वाकारस्य त्यागं करोति उत्तराकारस्य ग्रहणं करोति तथा स्थितिरूपंमपि धारयति। अनेनापि प्रमेयस्य सामान्यविशेषात्मकत्वं घटते। यथा-अंगूठी इति पर्यायस्य नाशो भवति जंजीर इति पर्यायस्य ग्रहणं उत्पादो वा भवति स्वर्णरूपेण स्थितिः चापि भवति।

उदाहरणान्तरमपि वर्तते। यथा- अस्माकं शरीरे बाल-अवस्थायाः विनाशो त्यागः व्ययः वा भवति, युवास्थाया ग्रहणं उत्पादः वा दृश्यते तथापि मनुष्यरूपेण स्थितिः चापि भवति। सर्वं उत्पादव्ययध्रौव्यात्मकं अस्ति। तस्मात् सामान्यविशेषात्मकंम् अस्ति। आचार्योमास्वामिमहोदयाः तत्त्वार्थसूत्रे लिखन्ति-

“उत्पादव्ययध्रौव्ययुक्तं सत्।” 8

अर्थात् प्रत्येक वस्तु यत् किमपि सद्रूपं विद्यते तत्सर्वं उत्पादव्ययध्रौव्यात्मकमेवास्ति, त्रयात्मकमेवास्ति। जैनशास्त्रेषु वस्तुनः द्रव्यस्य वा त्रयात्मकत्वं यत्र तत्र बहुशः प्रतिपादितं तर्को-दाहरणपूर्वकम्। कलिकालसर्वज्ञाः आचार्यसमन्तभद्रमहोदयाः आप्तमीमांसायां सुन्दररूपेण प्रतिपादयन्ति-

“घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम्।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्।।
पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः।
अगोरसव्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम्।।” 9

अर्थात् यदा घटस्य नाशो भवति मुकुटस्य उत्पादो भवति तदा घटार्थी शोकं करोति मुकुटार्थी हर्षमनुभवति स्वर्णार्थी च मध्यस्थ एव तिष्ठति एतेन ज्ञायते यत् तत्त्वं त्रयात्मकं भवति। आचार्याः उदाहरणान्तरमपि प्रस्तुतं कुर्वन्ति यत् यः नरः दुग्धत्यागं करोति सः दधिग्रहणं कर्तुं शक्नोति यश्च दधित्यागं करोति सः दुग्धग्रहणं कर्तुं शक्नोति किन्तु यः नरः गोरसत्यागं करोति सः दुग्धग्रहणं दधिग्रहणं च उभयमेव न कर्तुं शक्नोति। एतेन अपि ज्ञायते यत् तत्त्वं त्रयात्मकमेव भवति।

पूर्वमेवोक्तं यदयं प्रमेयः जैनदर्शनानुसारं विभिन्नदृष्टिभिः अनेकप्रकारेण विभाजितो भवति तथापि अत्र संक्षेपेण तस्य द्वौ भेदौ उल्लेखनीयौ स्तः - जीवः अजीवश्च। अजीवः पुनः पञ्चविधः भवति- पुद्गलः धर्मः अधर्मः आकाशः, कालश्चेति। एते सर्वे मिलित्वा जैनशास्त्रेषु षड्द्रव्याणि अपि उच्यन्ते। तेषां संक्षिप्त परिचयो एवम्प्रकारेण ज्ञातव्यः -

  1. जीवद्रव्यम् - चेतनालक्षणो जीवः।¹⁰
  2. पुद्गलद्रव्यम् - स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गलाः।¹¹
  3. धर्मद्रव्यम् - गतिसहायकं धर्मद्रव्यम्।
  4. अधर्मद्रव्यम् - स्थितिसहायकं अधर्मद्रव्यम्।
  5. आकाशद्रव्यम् - अवगाहनहेतुकं आकाशद्रव्यम्।
  6. कालद्रव्यम् - वर्तनालक्षणं कालद्रव्यम्।

जैनाचार्यैः प्रमेयस्य पूर्वोक्त सर्वे षट्भेदाः आगमापेक्षया प्रोक्ताः सन्ति, अध्यात्मपेक्षया तु स्वपरभेदेन हेयोपादेयभेदेन द्वौ एव भेदौ भवतः। उक्तेषु षड्द्रव्येषु जीवद्रव्यं उपादेयभूतः स्वकीयः प्रमेयः विद्यते, शेषाणि सर्वपरद्रव्याणि हेयभूतानि परकीयानि सन्ति। अतः जीवद्रव्यं आत्मत्त्वं वा सर्वैः ज्ञातव्यं ध्यातव्यञ्च। इत्यलं विस्तरेण।

पादटिप्पणी -

  1. सिद्धिविनिश्चयवृत्तिः, 1/23
  2. द्रव्यानुयोगतर्कणा,11/23
  3. न्यायसूत्रवृत्तिः,1/11
  4. स्याद्वादमंजरी,10
  5. परीक्षामुखसूत्रम्, 4/1
  6. न्यायदीपिका, तृतीय प्रकाश, अनुच्छेद 78
  7. परीक्षामुखसूत्रस्य सम्पूर्णः चतुर्थपरिच्छेदः
  8. तत्त्वार्थसूत्रम्, 5/30
  9. आप्तमीमांसा, कारिका 59-60
  10. सर्वार्थसिद्धिः, 1/4
  11. तत्त्वार्थसूत्रम्, 5/23