जैनन्यायस्य प्राथमिकः परिचयः
-प्रो. वीरसागर जैन
संस्कृतानुवादकः- प्रो. कुलदीपकुमारः
अस्मिन्नपारेऽनादिसंसारे जीवस्य दुःखानां मूलकारणमेकमेव अस्ति- अज्ञानं मिथ्याज्ञानं वा। अतः दुःखनिवृत्तेः मूलकारणमपि एकमेवास्ति- ज्ञानं सम्यग्ज्ञानं वा।
इदं सम्यग्ज्ञानं सम्यग्तत्त्वज्ञानं वा न्यायेनैव भवितुं शक्नोति, अन्यथा न। अतः सम्यग्तत्त्वज्ञानाय दुःखनिवृत्तिरूपमूलप्रयोजनस्य सिद्ध्यर्थं न्यायज्ञानस्य महत्त्वपूर्णा उपयोगिता वर्तते। तथा न केवलम् उपयोगिता वर्तते अपितु तत्त्वज्ञानाय न्यायस्य अनिवार्यता एव वर्तते।
अस्माकं देशे प्राचीनकालादेव न्यायविद्यायाः बहुमहत्त्वमस्ति तथा जीवनस्य प्रत्येकक्षेत्रे एवास्य विशेषोपयोगिता स्वीकृता, यथा महाकविकौटिल्येन लिखितम्-
"प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता।।
अर्थात् आन्वीक्षिकी विद्या, न्यायविद्या शाश्वत्कालादेव सर्वविद्यानां प्रदीपः, सर्वकर्मणामुपायः सर्वधर्माणामाश्रयश्च स्वीक्रियते।
न्यायस्य अर्थः- न्यायशब्दः मूलतः संस्कृतभाषायाः वर्तते। येन माध्यमेन वस्तुस्वरूपस्य सम्यग्ज्ञानं भवेत् स एव न्याय उच्यते। जैनाचार्यानुसारं वस्तुस्वरूपस्य सम्यग्ज्ञानं प्रमाणनयाभ्यां भवति। अनेनैव कारणेन न्यायं प्रमाणनयस्वरूपात्मकं निगद्यते- ‘प्रमाणनयात्मको न्यायः’ इति।
न्यायपर्यायवाचिनः शब्दाः - न्याय इत्यस्य कृतेऽनेके पर्यायवाचिनः शब्दाः प्राप्यन्ते, तद्यथा- अन्वीक्षा, युक्तिः, परीक्षा, समीक्षा च।
न्यायस्य महत्त्वम्- कस्यापि वस्तुनः परीक्षा यथार्थस्वरूपं केवलमन्ध श्रद्धया विश्वासेन वा नहि कर्तुं शक्यते। वस्तुतः तस्य कृते युक्तयः प्रमाणानि वा अपेक्ष्यन्ते। एतदृष्ट्या न्यायोऽपि विज्ञानं वर्तते, यत्र वैज्ञानिकीं दृष्टिम् अंगीकृत्यैव वस्तुनः यथार्थज्ञानं भवितुमर्हति। अत्र सर्वान् आग्रहान् वैयक्तिकमान्यताः विहाय एव वस्तुनः सम्यक् प्रकारेण ज्ञानं प्राप्यते।
जैनदर्शने न्यायः - जैनदर्शनानुसारेण न्यायः प्रमाणनयात्मको भवति। यतोहि प्रमाणनयेनैव वस्तुनः सम्यक् परीक्षणं विधातुं शक्यते। वस्तुस्वरूपस्य च ज्ञानमनेन उपायद्वयेन एव भवितुमर्हति, नान्येन विधिना न्यायः साधयितुं शक्यते। इदमेव वर्तते कारणं यत् जैनग्रन्थेषु प्रमाणनययोरेव विशदं विवेचनम् उपलभ्यते। प्रमाणनयस्वरूपे निष्णात एव मनुष्यः निःसंशयः, कुशलः, परीक्षको, निपुणो, नैयायिको वा भवितुमर्हति।
जैनन्यायस्य प्राथमिका ग्रन्थाः- जैनन्यायस्य प्रतिपादकाः ग्रन्थाः शताधिकाः वर्तन्ते, परं प्राथमिकैः जिज्ञासुभिः निम्नलिखिताः ग्रन्थाः मुख्यत्वेन अध्येतव्या-
-
परीक्षामुखसूत्रम् -आचार्यमणिक्यनन्दिः। 2. न्यायदीपिका-अभिनवधर्मभूषणयतिः।
-
प्रमाणमीमांसा -आचार्यहेमचद्रसूरिः। 4. नयचक्रम् - आचार्यमाइल्लधवलः।
-
प्रमाणनिर्णयः -वादिराजसूरिः। 6. आलापपद्धतिः -देवसेनः।
-
प्रमाणसंग्रहः -अकलंकः। 8. लघीयस्त्रयः -अकलंकः।
-
नयविवरणम् -विद्यानन्दिः। 10. न्यायावतारः -सिद्धसेनद्वितीयः।
-
स्याद्वादसिद्धिः -वादीभसिंहः। 12. आप्तपरीक्षा -विद्यानन्दिः।
-
प्रमाणपरीक्षा -विद्यानन्दिः। 14. स्याद्वादमंजरी -मल्लिषेणः।
-
सप्तभंगीतरंगिणी -विमलदासः।
जैनन्यायस्य अवयवाः- इत्थं वक्तुं शक्यते यज्जैनन्यायस्य अवयवद्वयं वर्तेते- प्रमाणं नयश्चेति।
प्रमाणलक्षणम्- जैनदर्शनानुसारेण सम्यक् ज्ञानम् एव प्रमाणम्। यतोहि तद्वारैव वस्तुनिश्चयः कर्तुं शक्यते। तेनैव च हितप्राप्तिरहितपरिहारश्च सम्भाव्यते। ईश्वरः, वेदः, इन्द्रियाणि, सन्निकर्षः चेत्यादयः जैनदर्शने प्रमाणत्वेन न स्वीक्रियन्ते।
प्रमाणस्य भेदप्रभेदाः- प्रमाणस्य अनेके भेदाः प्रभेदाश्च वर्तन्ते। एते च भेदाः निम्नलिखितरेखाचित्रेण सुगमरीत्या ज्ञातुं शक्यन्ते-
प्रमाणम्
प्रत्यक्षम् परोक्षम्
सांव्यवहारिकम् पारमार्थिकम् स्मृतिः प्रत्यभिज्ञानम् तर्कः अनुमानम् आगमः
मतिज्ञानम्
स्वार्थम् परार्थम्
अवग्रहः ईहा अवायः धारणा विकलम् सकलम्
केवलज्ञानम्
अवधिज्ञानम् मनःपर्ययज्ञानम्
- एकत्वम्
- सादृश्यम्
- वैलक्षण्यम्
- प्रतियोगी
- इत्यादि
प्रत्यक्षप्रमाणं तद्भेदाश्च- विशदज्ञानमेव प्रत्यक्षप्रमाणम् उच्यते। विशदतायाः अर्थो वर्तते- स्पष्टता निर्मलता चेति। यद् ज्ञानम् अन्यज्ञानानन्तरेण विना एव वस्तुस्वरूपं स्पष्टतया अवगमयति तदेव प्रत्यक्षप्रमाणम्।
इन्द्रियसहाय्येन जायमानं ज्ञानं यद्यपि परमार्थतः अविशदत्वात् परोक्षमेव वर्तते। तथापि लोकव्यवहारे तज्ज्ञानं प्रत्यक्षम् उच्यते अतोऽत्र तत् व्यावहारिकप्रत्यक्षम् उच्यते।
पारमार्थिकं प्रत्यक्षम्, पारमार्थिकं प्रत्यक्षम् इन्द्रियनिरपेक्षं, अतीन्द्रियं वा विद्यते। तद् द्विविधं- कतिपयविषयकं सर्वपदार्थविषयकं चेति। तत् प्रथमं विकलपारमार्थिकं प्रत्यक्षं वर्तते। तदपि द्विविधम्- अवधिज्ञानं मनःपर्ययज्ञानं चेति। द्रव्यक्षेत्रकालभावानां मर्यादापूर्वकं रूपिपदार्थस्य ज्ञानम् अवधिज्ञानमस्ति। कस्यापि मनसि स्थितस्य रूपिपदार्थस्य ज्ञातृद्वारा ज्ञानमेव मनःपर्ययज्ञानमुच्यते।
सर्वद्रव्यपर्यायविषयकं ज्ञानं पारमार्थिकं प्रत्यक्षं केवलज्ञानमुच्यते यद् अर्हतैव अनुभवितुं शक्यते। जैनन्यायग्रन्थेषु अस्मिन् प्रसंगे सर्वज्ञसिद्धिः सविस्तरम् अनेकतर्कपुरस्सरं कृता। आप्तमीमांसा, आप्तपरीक्षा, चेत्यादयो नैके ग्रन्थाः इमं विषयम् अधिकृत्य प्रणीताः/विरचिताः।
परोक्षप्रमाणं तद्भेदप्रभेदाश्च- यदविशदमनिर्मलं वा सम्यग्ज्ञानं वर्तते तदेव परोक्षप्रमाणमुच्यते। यथा- ‘अविशदप्रतिभासं परोक्षम्’ इति। अस्य पंचभेदाः विद्यन्ते- स्मृतिः, प्रत्यभिज्ञानं, तर्कः अनुमानम् आगमश्वेति। यथा- ‘प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदम्’।
एतेषां पंचानामयमेव निर्धारितः क्रमो वर्तते। यतोहि उत्तरवर्तिनि ज्ञानानि पूर्ववर्तीनि ज्ञानानि अपेक्षन्ते। यथा- स्मृतिः प्रत्यक्षम् अपेक्षते, प्रत्यभिज्ञानं प्रत्यक्षं स्मृतिं च अपेक्षते। तर्कः प्रत्यक्षं, स्मृतिं, प्रत्यभिज्ञानं च अपेक्षते, अनुमानं प्रत्यक्षं, स्मृतिं प्रत्यभिज्ञानम् तर्कञ्च अपेक्षते। आगमश्च शब्दसंकेतादीन् अपेक्षते।
स्मृतिः- यज्ज्ञानं पूर्वानुभूतं वस्तु तदितिरूपेण विषयीकरोति, तदेव स्मृतिः उच्यते। यथा-‘संस्कारोद्बोध-निबन्धना तदित्याकारा स्मृतिः’। अथवा- ‘तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः’।
प्रत्यभिज्ञानम्- प्रत्यक्षदर्शनस्य स्मृतेश्च संकलनरूपं ज्ञानं प्रत्यभिज्ञानम् उच्यते। यथा- ‘दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम्’।अथवा- ‘अनुभवस्मृतिहेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम्’। प्रत्यभिज्ञानमनेकविधं भवति- एकत्वप्रत्यभिज्ञानं, सादृश्यप्रत्यभिज्ञानं, वैसादृश्यप्रत्यभिज्ञानं, प्रातियोगिकप्रत्यभिज्ञानं चेत्यादीनि । प्रत्यक्षदृष्टेषु स्मृतेषु च वस्तुषु एकत्वं, सादृश्यं, वैसादृश्यं प्रतियोगित्वं च विषयीकर्तुं समुत्सुकानि प्रत्यभिज्ञानानि क्रमशः एकत्वं, सादृश्यं, वैसादृश्यं प्रातियोगिकं चेति प्रत्यभिज्ञानानि उच्यन्ते। यथा- सोऽयं देवदत्तः।
तर्कः- व्याप्तिज्ञानं तर्कः। साध्यसाधनयोः गम्यगमकभावस्य सुनिश्चितसम्बन्धः व्याप्तिरिति। यथा- धूमस्य अग्निना सह व्याप्तिः वर्तते। यतोहि अग्नौ सति एव धूमो भवति अग्न्यभावे च धूमाभावो भवति।
व्याप्तेरपरं नाम अविनाभावोऽपि वर्तते। अविनाभावस्य द्वौ भेदौ वर्तेते। यथा- सहभावनियमः क्रमभावनियमः च। सहचारिषु व्याप्यव्यापकरूपपदार्थेषु सहभावनियमः प्राप्यते। यथा रूपे रसे च निम्बे वृक्षे च सहभावनियमो वर्तते। पूर्वोत्तरचारिषु कार्यकारणरूपपदार्थेषु क्रमभावनियमो भवति। यथा- रविवासरसोमवासरयोः क्रमभावनियमो वर्तते।
अनुमानम्- साधनात् साध्यज्ञानमेव अनुमानम्। साधनस्य हेतोर्वा लक्षणमधिकृत्य भारतीयन्यायशास्त्रे पर्याप्तो विमर्शो दृश्यते। केचन अनुमानस्य त्रयोऽवयवाः केचन च पंचावयवाः स्वीकुर्वन्ति, परं जैननैयायिकाः अन्यथानुपपत्तिम् अविनाभावं वा हेतुलक्षणं सिद्ध्यन्ति।
अनुमानं द्विविधमुच्यते- स्वार्थानुमानं परार्थानुमानञ्चेति। यदनुमानं परोपदेशेन भवति तत् परार्थानुमानं यच्च परोपदेशं विना भवति तत् स्वार्थानुमानं भवति।
जैननैयायिकैः अनुमानस्य अंगद्वयमेव अंगीकृतं- प्रतिज्ञा हेतुश्चेति। इदम् अतिरिच्य उदाहरणम्, उपनयं, निगमनं च ते तदंगत्वेन न मन्यन्ते। तथापि कदाचित् वीतरागकथायां शिष्यानुग्रहाय उदाहरणादेः यदि कश्चन प्रयोगं कुर्यात् तदा नास्ति तत्रापत्तिः।
आगमः- आप्तस्य वचनादिभिः जायमानम् अर्थज्ञानम् आगमो भवति। को नाम आप्त इत्यस्मिन् विषये जैननैयायिकैः पर्याप्तो विचारः समुपस्थापितः। यस्य सारांशः अधोलिखितश्लोके समुपनिबद्धम्-
‘मोक्षमार्गस्य नेतारं, भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां, वन्दे तद्गुणलब्धये ।।’
अर्थात् स एव आप्तो यो वीतरागः, सर्वज्ञः, हितोपदेशी च अस्ति। सामान्यापेक्षया इदम् अपि उक्तं यद् यो यस्मिन् विषये अवंचको भवति स एव तस्मिन् विषये आप्तो भवति। प्रामाणिकं वक्तारमपि आप्त इत्युच्यते। सुप्तोन्मत्तपुरुषेणोक्तं वचनं अप्रामाणिकत्वादागमो न भवितुं शक्यते। अत आगमलक्षणे आप्तप्रयोगः अत्यन्तमेवावश्यकः। इत्थं यद्यपि आगमप्रमाणमपि ज्ञानरूपमेव वर्तते परं कारणे कार्योपचारं विधाय आगमः शब्दरूपोऽपि उक्तः। जैननैयायिकैः प्रमाणलक्षणभेदान् अतिरिच्य तदीयविषये फले चापि गहनतया विमर्शः प्रदर्शितः। तद् यथा-
प्रमाणस्य विषयः- प्रमाणविषयः सामान्यविशेषात्मकं सकलं वस्तु विद्यते। यतोहि सोऽर्थक्रियायां समर्थो वर्तते। केवलं सामान्यरूपस्य केवलं च विशेषरूपस्य सत्ता एव मूलतोऽसिद्धो वर्तते। प्रत्येकं पदार्थः सामान्यविशेषात्मको वर्तते इति जैनाचार्यैः उत्पादव्ययध्रौव्यद्वारा सम्यक् प्रकारेण अवबोधितः । आचार्योमास्वामिनः तत्त्वार्थसूत्रे अस्मिन् विषये सूत्रद्वयमुपलभ्यते। यथा- 1. ‘सद्द्रव्यलक्षणम्’। 2. ‘उत्पादव्ययध्रौव्ययुक्तं सत्’।
जैनाचार्यानुसारेण प्रत्येकं पदार्थः परिणमनशीलो नित्यश्च विद्यते। तत्र प्रतिक्षणं नवीनावस्थायाः उत्पादनं भवतीति अयमेव उत्पादः, पुरातनी अवस्था नश्यति इति व्ययः, वस्तुस्वभावः तथैव स्थिरो भवति इति ध्रौव्यम्। अयं उत्पादव्ययध्रौव्यविशिष्टः सिद्धान्तः स्वर्णघटजीवादिभिः दृष्टान्तैः सम्यक् प्रकारेण अवगन्तुं शक्यते। यथा मुद्रिकापर्यायोत्पादः, स्वर्णमालापर्यायव्ययः, अत्र च स्वर्णरूपेण तस्य उपस्थितिः दृश्यते।
प्रमाणफलम्- प्रमाणफलं द्वैविध्येन अवगन्तव्यम्- 1. साक्षात्फलं, 2. परम्पराफलञ्चेति। अज्ञाननिवृत्तिः प्रमाणस्य साक्षात्फलं वर्तते त्यागग्रहणोपेक्षा प्रमाणस्य परम्परया फलं वर्तते। एतदतिरिक्तं प्रमाणस्य किमपि फलं जैनन्यायशास्त्रषु नहि दृश्यते। अस्मिन् विषये शास्त्रकथनद्वयं ध्यातव्यमस्ति। यथा-
- अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम्।
- ज्ञानमेव फलं ज्ञाने ननु श्लाघ्यमनश्वरम्।
अहो मोहस्य माहात्म्यं यदन्यदपि मृग्यते।।
प्रमाणाभासः- यद्यपि प्रमाणविवेचनं सम्पूर्णतां याति, तथापि जैननैयायिकानुसारेण प्रमाणज्ञानेन सह प्रमाणाभासज्ञानमपि परमावश्यकम्। यतोहि प्रमाणैः पदार्थानां सम्यक्सिद्धिर्भवति प्रमाणाभासेन पदार्थानां वैपरीत्यसिद्धिर्भवति। यथा हि आचार्यमाणिक्यनन्दिना अपि परीक्षामुखसूत्रे सर्वप्रथमं सबलमुक्तम्। यथा-
प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः।
इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः।।
यत् प्रमाणं न भवति परं प्रमाणवत् प्रतीयते स एव प्रमाणाभासः। सन्निकर्षः, इन्द्रियाणि, इन्द्रियवृत्तिः, कारकसाकल्यम् चेत्यादयः प्रमाणाभासाः । प्रमाणमिव प्रमाणाभासोऽपि द्विभेदात्मकमवगन्तव्यम्। प्रत्यक्षाभासः परोक्षाभासः चेति। तदीया उपभेदा अपि यथाप्रमाणमवगन्तव्यम्। तेषां लक्षणानि अपि तथैव यथा प्रमाणमवगन्तव्यानि। यथा- प्रमाणलक्षणरहितः प्रमाणवदवभासमानः प्रमाणाभासः, अनुमानलक्षणरहितः अनुमानवदवभासमानः अनुमानाभासः, हेतुलक्षणरहिताः हेतुवदवभासमानाः हेत्वाभासाः इत्यादयः।
प्रमाणं द्विविधं- प्रत्यक्षं परोक्षं चेति। तथापि तद्वयं न मत्वा तदतिरिक्तं त्रिचतुर्पचषट्संख्यात्मकं प्रमाणमपि प्रमाणाभासः एव बोद्धव्यः।
प्रमाणविषयः सामान्यविशेषात्मको वर्तते। तं न मत्वा प्रमाणविषयं सामान्यरूपं विशेषरूपं पृथक्-पृथक् रूपं वा स्वीकरणमपि प्रमाणविषयाभासो वर्तते।
प्रमाणस्य साक्षात्फलम् अज्ञाननिवृत्तिः वर्तते यदि परम्परया अवलोक्यते तदा ज्ञानोपादानोपेक्षाः अपि प्रमाणपफलं वक्तुं शक्यते। तत् नांगीकृत्य तदन्यत् किमपि प्रमाणफलरूपेण स्वीकृतिः प्रमाणपफलाभासो वर्तते।
नयविवेचनम्- प्रमाणप्रमाणाभासविवेचनानन्तरं नयोऽपि सम्प्रति विवेच्यते। प्रमाणेन परिगृहीतस्य वस्तुनः एकदेशस्य (अंशः भागः गुणः) ज्ञानं कथनं वा नयो वर्तते। परमार्थतः नयो ज्ञानात्मको वर्तते, न तु वचनात्मकः, परन्तु कारणे कार्यस्योपचारं कृत्वा नयो वचनात्मकः अपि उक्तः। इदम् अवध्येयं यन्नयो वस्तुनः एकदेशं गृह्णाति परं तदीयस्य अपरपक्षस्य अभावं न करोति, तं केवलं गौणमेव करोति।
नयो नयाभासश्च- नयनयाभासयोः अयमेव भेदः यन्नयः सम्यक् एकान्तो वर्तते नयाभासश्च मिथ्या एकान्तः। नयः अपरपक्षं गौणमेव कुरुते न तदभावं, परं तद्विपरीतं नयाभासस्तु अपरपक्षस्य अभावमेव कुरुते। वस्तुनः अनन्तधर्मेषु कदा को धर्मः मुख्यो विधेयः कदा च कः गौणः करणीयः इति ज्ञानिनो वक्तुः अभिप्रायमेव अवलम्बते। तस्मादेव उक्तं ज्ञातुरभिप्रायो नयः अथवा वक्तुरभिप्रायो नयः।
नयभेदाः- वस्तु अनन्तधर्मात्मकं वर्तते अतो नया अपि वस्तुतोऽनन्ताः। ज्ञानिनो वक्तारः तदीयाश्च वचनविकल्पाः अपि असंख्या वर्तन्ते। अनया दृष्ट्या नया अपि अनन्ताः उक्ताः। अवबोधनसौविध्यार्थं च नयस्य एकः, द्वौ, त्रयः, चत्वारः, सप्त, चतुश्चत्वारिंशत् च भेदाः कल्प्यन्ते। स्थानाभावकारणात् तेषामत्र उल्लेखो न कर्तुं शक्यते, परं संक्षेपेण नयस्य द्वयोः भेदयोः अवबोधः आवश्यकः। तौ च निश्चयनयः व्यवहारनयः, द्रव्यार्थिकनयः पर्यायार्थिकनयः च।
निश्चयनयः व्यवहारनयश्च- यः वस्तु अभेदेन अनुपचारेण वा गृह्णाति सः निश्चयनयः, यश्च भेदेन उपचारेण वा वस्तु गृह्णाति सः व्यवहारनयः। यथा जीवः अखण्डः, अजरः, अमरः, अमूर्तिकः इति कथनं निश्चयनयो वर्तते। ज्ञानदर्शनादिगुणानां भेदपूर्वकं प्रदर्शनं जन्ममरणशरीरादिसंयोगेन च मूर्तिकत्वप्रतिपादनं व्यवहारनयो वर्तते।
अनेन प्रकारेण अन्यैः अनेकैः उदाहरणैः इदं सम्यक् प्रकारेण ज्ञातुं शक्यते। यथा मृत्तिकायाः घट इति निश्चयनयः, घृतघटः इति च व्यवहारनयः इत्यादि। यद् वस्तु यादृशं वर्तते तस्य तथैव कथनं निश्चयनयो वर्तते संयोगाधिकारणात् तस्य वस्तुनः अन्यथा कथनं व्यवहारनयो वर्तते।
द्रव्यार्थिकनयः पर्यायार्थिकनयश्च- इदं पूर्वनिर्दिष्टं यत् जैनदर्शनानुसारेण प्रत्येकं वस्तु सदैव सामान्यविशेषात्मकं वर्तते। सामान्यविशेषात्मकं वयं द्रव्यपर्यायात्मकमपि वक्तुं शक्नुमः। यतोहि वस्तुनः सामान्यांशः द्रव्यं विशेषांशः च पर्यायः उच्यते। यो नयः वस्तुनः सामान्यांशं द्रव्यांशं वा गृह्णाति सः द्रव्यार्थिको नय उच्यते। यश्च वस्तुनो विशेषांशं पर्यायांशं वा गृह्णाति सः पर्यायार्थिको नयः उच्यते। यथा वस्तुनः नित्यकथनमभेदकथनं वा द्रव्यार्थिको नयः वर्तते अनित्यकथनं भेदरूपकथनं वा पर्यायार्थिकनयो वर्तते।
इत्थं प्रमाणप्रमाणाभासयोः नयनयाभासयोश्च एतेषां चतुर्णां सम्यक्प्रकारेण अवबोध एव जैनन्यायस्य प्राथमिकः परिचयो वर्तते।