जैनदर्शने स्याद्वादमीमांसा
-आचार्यवीरसागरो जैनः
‘स्याद्वादः’ इत्ययमस्ति जैनदर्शनस्यैकः प्रमुखः सिद्धान्तः। न केवलं प्रमुखः सिद्धान्तः, अपितु प्राणभूतः सिद्धान्तो वर्तते। सुप्रसिद्धजैनाचार्याः आचार्यामृतचन्द्रसूरिमहोदयाः पुरुषार्थसिद्ध्युपायनामके ग्रन्थे लिखन्ति-
परमागमस्य जीवं निषिद्धजात्यन्धसिन्धुरविधानम् ।
सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम् ॥1
अर्थात् स्याद्वादः जैनदर्शनस्य जैनागमस्य वा जीवभूतः प्राणभूतः सिद्धान्तः अस्ति। यथा प्राणान् विना सर्वे एव मृतका इति कथ्यन्ते तथैव स्याद्वादं विना जैनागमः जैनदर्शनं वा मृतं शून्यं वाऽवतिष्ठति। स्याद्वादस्य महत्त्वं परिलक्ष्य जैनदर्शनस्य अपरं नाम स्याद्वाददर्शनमपि संसूचितं यत्र-तत्र । जैना अपि अतएव ‘स्याद्वादिनः’ इति पदेन सम्बोध्यंते । एतेन ज्ञातुं शक्यते यत् जैनदर्शने स्याद्वादस्य कीदृशं महत्त्वमङ्गीकृतं वर्तते । उच्यतेऽपि-
स्याद्वादो विद्यते यत्र पक्षपातो न विद्यते ।
अहिंसायाः प्रधानत्वं जैनधर्मः स उच्यते ॥2
तात्पर्यमिदं यत् यथा अहिंसा जैनदर्शनस्य एकः प्रमुखः सिद्धान्तः वर्तते तथैव स्याद्वादोऽपि जैनदर्शनस्य एकः प्रमुखः प्राणभूतः सिद्धान्तः विद्यते, स्याद्वादं विना जैनदर्शनस्य सर्वं चिन्तनं मिथ्या भवति।
जैनदर्शनस्य प्रायशः सर्वेषु ग्रन्थेषु एव अस्य सिद्धान्तस्य व्याख्यानं कृतं वर्तते, तथापि स्वतन्त्ररूपेणापि नैके ग्रन्थाः प्रणीताः सन्ति। तेषामध्ययनेन स्याद्वादस्य समीचीनं ज्ञानं पूर्णरूपेण भवितुं शक्नोति | तेषु ग्रंथेषु केचन प्रमुखाः निम्नलिखिताः सन्ति-
-
आप्तमीमांसा³ - अस्य रचयितार सन्ति कलिकालसर्वज्ञाः आचार्यसमन्तभद्रमहोदयाः (द्वितीया शताब्दी) | अस्मिन् ग्रन्थे आप्तस्तुतिव्याजेन स्याद्वादसिद्धान्तस्य सुन्दरं विवेचनं प्रस्तुतमस्ति । ग्रन्थस्योपरि श्रीमद्भट्टाकलंकस्य अष्टशती⁴, आचार्यविद्यानन्दमहोदयस्य च अष्टसहस्री⁵ नाम्नी टीके विलसतः। तयोरपि अध्ययनं स्याद्वादपरिज्ञानाय करणीयमेव।
-
सन्मतिसूत्र⁶ - अस्य रचना आचार्यसिद्धसेनमहोदयैः प्राकृतभाषायां गाहाछन्दसि विहिता । ग्रन्थेऽस्मिन् त्रयः अधिकाराः सन्ति । तेषु एकस्याभिधानं अनेकान्तकाण्डम् (अणेगंतकंडं) इति वर्तते।
-
स्वयंभूस्तोत्रम्⁷ - अस्यापि रचना समन्तभद्राचार्यैरेव विहिता । अस्मिन् ग्रन्थे चतुर्विंशति-तीर्थंकराणां स्तुतिव्याजेन स्याद्वादसिद्धान्तस्य यत्र-तत्र सुन्दरं विवेचनमुपलभ्यते ।
4. स्याद्वादमंजरी⁸ - आचार्यहेमचन्द्रसूरिमहोदयानां ‘अन्ययोगव्यवच्छेदिका’ नामके ग्रन्थे टीकारूपेण लिखितोऽयं ग्रन्थराजः | अस्य रचयितारः सन्ति श्रीमल्लिषेणसूरिमहोदयाः । अस्य ग्रन्थस्याध्ययनं स्याद्वादपरिज्ञानाय भूयो भूयः प्रशस्यते ।
अथ जैनदर्शनानुसारं स्याद्वादस्य स्वरूपं संक्षेपेण विचार्यते । ‘स्याद्वाद’ इत्यत्र पदद्वयं वर्तते- ‘स्यात्’ + ‘वाद’ इति। वदनं वादः तु प्रसिद्ध एव। अतः स्याद्वादस्य अभिप्रायो भवति- ‘स्यात्’ पदेन वदनं कथनं वा स्याद्वादः।
अत्रैकं विशिष्टं तथ्यं सावधानतया ज्ञातव्यमस्ति यत् संस्कृतव्याकरणे ‘स्यात्’ पदस्य प्रयोगः प्रकारद्वयेन भवति विधिलिङ्ङ्गलकारे निपातरूपे च, किन्तु अत्र 'स्यात्’पदस्य प्रयोगो निपातरूपेण अस्ति, न तु विधिलिङ्ग- लकाररूपेण । निपातरूपेण प्रयुक्तस्य ‘स्यात्’ पदस्यार्थो भवति- कथंचित्, कयाप्यपेक्षया इति । तात्पर्यमिदं यत् स्याद्वादसिद्धान्तानुसारेण अस्माभिः सर्वत्र एक ‘स्यात्’ पदस्य प्रयोगो अनिवार्यरूपेण करणीयः। प्रत्येकं कथनं एकापेक्षयैव समीचीनं भवति, न तु सर्वापेक्षया । यथा- ‘अहं पुत्रोऽस्मि’ इत्यत्र अहं मातृपित्र्यापेक्षया एव पुत्रोऽस्मि न सर्वेषामपेक्षया ।
जैनदर्शनानुसारं प्रत्येकं वस्तु अनेकान्तात्मकमस्ति | अनेकान्तात्मकम् अर्थात् अनन्तधर्मात्मकम् अस्ति, तस्मिन् अनेके अनन्ताः वा धर्माः गुणा वा विलसन्ति । सर्वेषां कथनं युगपद्, पूर्णरूपेणाशक्यमेव, अतः स्याद्वादी वक्ता तस्य कथनं क्रमेण करोति, एकं धर्मं प्रधानीकृत्य अन्यान् धर्मान् च गौणीकृत्य किमपि वदति । अयमेव स्याद्वादः।
लघीयस्त्रयग्रन्थे स्याद्वादस्य परिभाषा इत्थमुपलभ्यते-'अनेकान्तात्मकार्थकथनं स्याद्वादः’⁹ अर्थात् अनेकान्तात्मकस्य अर्थस्य पदार्थस्य वा कथनं कथनपद्धतिः वा ‘स्याद्वादः’ इत्युच्यते ।
जैनदर्शनानुसारं प्रत्येकं वस्तु वस्तुतः अनन्तधर्मात्मकत्वात् अवाग्गोचरमस्ति, तस्य प्रतिपादनं वचनैः कर्तुं नैव शक्यम् । अतः स्याद्वादस्याश्रयः ग्रहणीयः एव । यथा- कोऽपि पृच्छति आम्रफलं कीदृशमस्ति, तर्हि एकपदेन समीचीनमुत्तरं नैव दातुं शक्यते, क्रमेणैव किमपि वक्तुं शक्यते, किन्तु तथापि पूर्णस्वरूपप्रतिपादनमसंभवमेव। क्रमोऽपि वर्णने भवति, वस्तुस्वरूपे तु क्रमः नास्ति । सर्वे गुणाः युगपद्रूपेण वसन्ति ।
जैनाचार्याः कथयन्ति यत् यद्यपि वयं वदामः यत् काकः कृष्णः भवति, तथापि वस्तुतः काकः तु काकात्मक एव, न तु कृष्णात्मकः।
यदि सर्वथा कृष्णात्मकः तर्हि तस्य रुधिरादीनामपि कृष्णतापत्तिः भवति ।¹⁰ काकः पक्षापेक्षया कृष्णः, रुधिरापेक्षया रक्तः, अस्थि-अपेक्षया श्वेतः, शिराणामपेक्षया नीलः, पित्तापेक्षया पीतः। एवम्प्रकारेण काकः वस्तुतः पञ्चवर्णात्मकः भवति । अयमेव स्याद्वादः। काकः सर्वथा कृष्ण एव इति तु एकान्तवादः। जैनागमेषु स्याद्वादपरिज्ञानाय एकः सुन्दरः दृष्टान्तः प्रदत्तः।¹¹ यथा-
एकस्मिन् नगरे षड् नराः जन्मान्धाः आसन् । तस्मिन् नगरे एकदा एकः गजः आगच्छति । सर्वे नागरिकाः कौतूहलेन गजदर्शनाय गतवन्तः। तदा ते जन्मान्धाः नराः अपि गजदर्शनाय गच्छन्ति स्वहस्तस्पर्शद्वारा च गजं जानन्ति । किन्तु गृहप्रत्यावर्तनकाले तेषु कलहो जातः। एकः कथयति- गजः स्तम्भसदृशः भवति, द्वितीयः कथयति- गजः रज्जुसदृशः भवति । तृतीयः कथयति- गजः शूर्पसदृशो भवति । चतुर्थः कथयति- गजः भित्तिसदृशः भवति । पञ्चमः कथयति- गजः भल्लसदृशो भवति । षष्ठः कथयति- गजः कदलीस्कन्धसदृशो भवति । तदा एकः चक्षुष्मान् नरः कथयति- भो सूरदासाः! कथं कलहं कुर्वन्ति भवन्तः? नास्ति तत्र कलहस्य किमपि कारणम् । भवन्तः सर्वे एव अपेक्षाभेदेन समीचीना एव । अत्र भवद्भिः ‘स्यात्’ पदस्य प्रयोगः करणीयः अथवा एवं प्रकारेण वक्तव्यं यत्-
- हस्ती पादापेक्षया स्तम्भसदृशः भवति।
- हस्ती पुच्छापेक्षया रज्जुसदृशः भवति।
- हस्ती कर्णापेक्षया शूर्पसदृशः भवति।
- हस्ती उदरापेक्षया भित्तिलसदृशः भवति।
- हस्ती दन्तापेक्षया भल्लसदृशो भवति।
- हस्ती सुंडापेक्षया कदलीस्कन्धसदृशो भवति।
एवम्प्रकारेण स्याद्वादेन कलहविनाशो भवति समुचितसमन्वयस्य भावना च विकसति । स्याद्वादः वस्तुतः कस्यापि खण्डनं नैव करोति अपितु तस्य समीचीनामपेक्षां प्रकाश्य समन्वयं करोति । यथा सांख्याः कथयन्ति- वस्तु सर्वथा नित्यमस्ति, बौद्धाश्च कथयन्ति- वस्तु सर्वथा अनित्यमस्ति, किन्तु जैनाः कथयन्ति- द्रव्यापेक्षया वस्तु नित्यमस्ति पर्यायापेक्षया चानित्यमस्ति इति ।
एवम्प्रकारेण वयं पश्यामः दार्शनिकदृष्ट्या तु स्याद्वादसिद्धान्तस्यासाधारणं महत्त्वं वर्तत एव, व्यावहारिकदृष्ट्याऽपि तस्य विशिष्टं महत्त्वं विलसति । स्याद्वादं विना लोकव्यवहारोऽपि नैव चलितुं शक्यते । तदेवोक्तमाचार्यसिद्धसेनमहोदयैः-
"जेण विणा वि लोगस्स वि ववहारो सव्वहा ण णिव्वहई।
तस्स भुवणेक्कगुरुणो णमो अणेगंतवादस्स ॥"12
पाद-टिप्पणी-
- पुरुषार्थसिद्धयुपाय, श्लोक 2
- प्राकृतविद्या, दिसम्बर 2008, पृष्ठ 20
- प्रकाशकः- गणेशवर्णीशोधसंस्थानं, वाराणसी
- प्रकाशकः- भारतीयजैनसिद्धान्तप्रकाशिनी संस्था, काशी
- प्रकाशकः- जैनविद्यासंस्थान, श्रीमहावीरजी, जयपुर
- प्रकाशकः- भारतीयज्ञानपीठं, नव देहली
- प्रकाशकः- गणेशवर्णीशोधसंस्थानं, वाराणसी
- प्रकाशकः- श्रीमद्राजचन्द्राश्रमः, अगासः, गुजरातराज्ये
- श्रीमद्भट्टाकलंक, लघीयस्त्रये
- धवला 1/1/2, जयधवल 1/206
- पुरुषार्थसिद्ध्युपायः, श्लोक 2
- आचार्यसिद्धसेनप्रणीतं सन्मतिसूत्रम्