जैनदर्शने जीवस्वरूपम् | Jainadarshane Jivasvarupam

जैनदर्शने जीवस्वरूपम्

-प्रो. वीरसागरो जैनः

0. मंगलाचरणम् -

"भवबीजाङ्कुरजननाः रागाद्याः क्षयमुपगताः यस्य।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै॥¹

1. उत्थानिका -

दर्शनशास्त्रस्य उद्गमः जिज्ञायामन्तर्निहितः। जिज्ञासापि मूलतः जीवस्वरूपस्यैव विद्यते सर्वेषां मनसि, अतएव सर्वेषु दर्शनेषु जीवस्वरूपविवेचनं प्राधान्येन प्राप्यते। अत्र जैनदर्शनानुसारेण जीवस्वरूपमवलम्ब्य किमपि लिख्यते।

2. जीवस्वरूपपरिज्ञानस्यावश्यकता -

सर्वप्रथमं तु एकं महत्त्वपूर्ण तथ्यमिदमवगन्तव्यं यत् जैनदर्शनानुसारं जीवस्वरूपपरिज्ञानमतीवावश्यकं वर्तते, यतो हि तेन विना कथमपि दुःखपरिहारः सुखप्राप्तिश्च न भवितुमर्हति। जैनाचार्यैः पुनः पुनः प्रतिपादितं यत् सर्वे जीवाः स्वरूपज्ञानाभावादेव अनन्तदुःखं सहन्ताः संसारे परिभ्रमन्ति। तेषां सर्वदुखानां कारणं परमार्थेन स्वरूपभ्रान्तिरेव न तु अन्यत् किमपि। अतः संसारदुःखभयभीतेन सुखाभिलाषिणा वा सर्वप्रथमं महत्प्रयत्नमपि कृत्वा आत्मस्वरूपपरिज्ञानं कर्तव्यम्। आचार्यामृतचन्द्रास्तु ‘अयि कथमपि मृत्वा’ इति लिखन्ति समयसार-व्याख्यायामात्मख्यातौ²। यावत्कालपर्यन्तमयं जीवः आत्मस्वरूपं न जानाति तावत्कालपर्यन्तं परमपि न ज्ञातुं शक्नोति। स्वपरज्ञानाभावाच्च कथमपि रागद्वेषादीन् न विजहति, मोक्षमार्गे च चलितुं नार्हति। यदा चायं आत्मस्वरूपं जानाति तदैव परपरिहारो भवति, रागद्वेषादीन् च सहजतया विजहति, मोक्षमार्गे च पदं स्थापयित्वा मोक्षलाभं करोति। यथा -

"जीवाजीवं द्वयं त्यक्त्वा नापरं विद्यते यतः। तल्लक्षणं ततो ज्ञेयं स्वस्वभावबुभुत्सया॥
यो जीवाजीवयोर्वेत्ति स्वरूपं परमार्थतः। सोऽजीवपरिहारेण जीवतत्त्वे निलीयते॥
जीवतत्त्वनिलीनस्य रागद्वेषपरिक्षयः। ततः कर्माश्रयच्छेदस्ततो निर्वाणसंगमः॥
परद्रव्यबहिर्भूतं स्वस्वभावमवैति यः। परद्रव्ये स कुत्रापि न च द्वेष्टि न रज्यति॥"³

जैनाचार्यैः जीवोऽयं स्वरूपपरिज्ञानार्थं भूरिशः प्रेरितः। तदर्थञ्च इदमपि तैरुक्तं यत् स्वरूपपरिज्ञानं विना यदि कोऽपि जीवः बहुविद्याभ्यासं करोति, असंख्यान् पदार्थान् जानाति, शास्त्राणि अहर्निशं पठति, तपश्चरणादिकमपि करोति, तर्हि तस्य तत्सर्वमपि निरर्थकमेव, यतो हि तेन दुःखनिवारणं पारमार्थिकसुखस्य च लाभो न भवितुमर्हति। तस्मादादावेव आत्मज्ञानं करणीयम्। आत्मज्ञानरहितं शास्त्राभ्यासिनं प्रति कथयन्त्याचार्यमितगतिदेवा :-

"आत्मध्यानरतिज्ञेयं विद्वत्तायाः परं फलम्।
अशेषशास्त्रशास्तृत्वं संसारोऽभाषि धीधनैः।।"4

अथवा योगीन्दुदेवापि कथयन्ति -

"सत्थ पढंतहँ ते वि जड अप्पा जे ण मुणंति।
तहिं कारण ए जीव फुड्डु ण हु णिव्वाणु लहंति।।"5

अत्र यदि निमिषमात्रं विरम्य तुलनात्मकमध्ययनं क्रियते तर्हि ज्ञातं भवति यदात्मस्वरूपपरिज्ञानस्य एतादृशी महती आवश्यकता न केवलं जैनशास्त्रेषु एव प्रतिपादिता, अपितु वैदिकदर्शनेषु अपि भूरिशः वर्णिताः। उदाहरणार्थं कानिचिदुद्धरणवाक्यान्यत्र प्रस्तूयन्ते-
(1) "नानाशास्त्रं पठेत् लोकः नानादेवञ्च पूजयेत्।
आत्मज्ञानं विना पार्थ! मुक्तिर्नास्ति न संशयः।।"6 - गीता

(2) "सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः।"7 - श्रीमद्भागवत

(3) 'आत्मज्ञानविहीनाः मूढास्ते पच्यन्ते नरकनिगूढाः।।"8 - मोहमुद्गर

(4) "यस्मिन् विज्ञाते सर्व विज्ञातं भवति।"9 - छान्दोग्योपनिषद्

(5) "आत्मा वा अरे द्रष्टव्यो श्रोतव्योः मन्तव्योः निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या वा विज्ञानेनेदं सर्व विदितम्।"10 - वृहदारण्यकोपनिषद्- 4/4/5

(6) "आत्मानं नैव जानाति दर्वी पाकरसं यथा।"11 - उपनिषद्

इत्थमिदं सुस्पष्टं यत् जीवस्वरूपपरिज्ञानं न केवलमावश्यकमपितु अनिवार्यमेव। अस्माकं देशेऽध्यात्मविद्यायाः उद्गमः विकासः महत्त्वञ्च आत्मज्ञानार्थमेवाङ्गीकृतमिति मे मतिः। अत एव च विषयोऽयं अद्य मयाऽत्र परिचर्चार्थं गृहीतः। सर्वे दार्शनिकाः विद्वांसः सावधानतया निष्पक्षरीत्या च विचारयन्तु। विस्तारभयादहमत्र सर्वेषां सामान्यज्ञानार्थं संक्षेपेण बिन्दुशश्च (To the point) किमपि वक्ष्यामि। यद्यस्ति विशेषजिज्ञासा तर्हि इमे जैनग्रन्थाः प्रामुख्येन पठनीयाः- समयसारः, पञ्चास्तिकायः, द्रव्यसंग्रहः, योगसारः, तत्त्वार्थसूत्रम्, जैनेन्द्रसिद्धान्तकोशश्चेत्यादयः| आधुनिककृतिसु च पण्डितकैलाशचन्द्रस्य जैनधर्मः, पण्डितचैनसुखदासस्य च अर्हत्प्रवचनं विशेषरूपेण पठनीये। ग्रन्थलाभे सहयोगायाहं तत्परोऽस्मि।

अधुना तावत् जैनदर्शनानुसारं जीवस्वरूपं विचार्यते ।

3. जीवस्यास्तित्वसिद्धिः -

जैनदर्शनं जीवस्य सत्तायां विश्वसिति। सः शून्यवादी अभाववादी वा नास्ति। ये जनाः जीवस्य सत्तामेव न स्वीकुर्वन्ति तेषां निराकरणार्थ जीवस्य सत्तायाः सिद्ध्यर्थञ्च जैनाचार्यैः अनेकाः युक्तयः प्रस्तुताः। यथा -

"योऽयमस्माकम् ‘आत्माऽस्ति’ इति प्रत्ययः स संशयानध्यवसायविपर्ययसम्यक्प्रत्ययेषु यः कश्चित् स्यात्, सर्वेषु च विकल्पेष्विष्टं सिध्यति। न तावत् संशयः निर्णयात्मकत्वात्। सत्यपि संशये तदालम्बनात्मसिद्धिः। न हि अवस्तुविषयः संशयो भवति। नाप्यनध्यवसायो जात्यन्धबधिररूपशब्दवत् अनादिसंप्रतिपत्तेः। स्याद्विपर्ययः, एवमप्यात्मास्तित्वसिद्धिः, पुरुषे स्थाणुप्रतिपत्तौ स्थाणुसिद्धिवत्। स्यात्सम्यक् प्रत्ययः, अविवादमेतत्।"12

एवमन्यैरप्यनेकैरकाट्यैः तकेंः जैनाचार्याः जीवस्य सिद्धिं कृतवन्तः।

4. जीवस्य लक्षणम्-

जैनदर्शने जीवस्य लक्षणमित्थं प्रतिपादितम् -

"उपयोगो लक्षणम्।"13 अथवा- "चेतनालक्षणो जीवः।"14

अर्थात् उपयोग एव जीवस्यात्मभूतं लक्षणमस्ति। उपयोगशब्दस्यार्थोऽत्र ‘चेतना’ इति ग्राह्यः। आत्मा चैतन्यमयोऽस्ति ज्ञानमयोऽस्तीति जैनानामभिप्रायः। यद्यपि नैयायिकाः वैशेषिकाश्चापि ज्ञानमात्मनः गुणं स्वीकुर्वन्ति तथापि तत्र गुणगुणिनौ भिन्नौ पदार्थौ स्तः तथा च समवायेनैव तयोः सम्बन्धः स्वीकृतः। तेषां मते आत्मा ज्ञानवानिति तु वक्तुं शक्यते किन्तु आत्मा ज्ञानमयः इति न वक्तुं शक्यते। जैनदर्शनानुसारं जीवः ज्ञानमय एव, न तु ज्ञानवान्, यतोहि ज्ञानं तस्य अग्नेरौष्ण्यमिव स्वभावः। आचार्यकुन्दकुन्ददेवाः कथयन्ति यद्यदि आत्मा ज्ञानं च भिन्नं भिन्नं द्वे द्रव्ये स्यातां तर्हि द्वयोरेवाचेतनत्वापत्तिः। यथा-

"णाणी णाणं च सदा अत्यंतरिदो दु अण्णमण्णस्स।
दोण्हं अचेदणत्तं पसजदि सम्मं जिणावमदं।।
ण हि सो समवायादो अत्यंतरिदो दु णाणदो णाणी।
अण्णाणीति य वयणं एगत्तप्पसाधकं होदि।"15

आत्मनः लक्षणभूतस्यास्योपयोगस्यानेके भेदप्रभेदाऽपि जैनशास्त्रेषु विस्तरेण वर्णिताः। तेऽत्र संक्षेपेणैव निम्नलिखितया सारिण्या प्रदर्शिताः-

उपयोगः

दर्शनौपयोगः

  1. चक्षुदर्शनम्
  2. अचक्षुदर्शनम्
  3. अवधिदर्शनम्
  4. केवलदर्शनम्

ज्ञानोपयोगः
अज्ञानरूपः

  1. मत्यज्ञानम्
  2. श्रुताज्ञानम्
  3. अवध्यज्ञानम्

ज्ञानरूपः

  1. मतिज्ञानम्
  2. श्रुतज्ञानम्
  3. अवधिज्ञानम्
  4. मनःपर्ययज्ञानम्
  5. केवलज्ञानम्

5. जीवशब्दस्य व्युत्पत्तिः, पर्यायवाचिनः नैकानि च नामानि -

जैनाचार्यैः जीवस्य व्युत्पत्तिरपि प्रकाशिता। सा चेयम् - "पाणेहि चदुहि जीवदि जीविस्सदि जो हि जीविदो पुव्वं।"16 अथवा- " दशसु प्राणेषु यथोपात्तप्राणपर्यायेण त्रिषु कालेषु जीवनानुभवनात् जीवति अजीवीत् जीविष्यति इति जीवः।।"17 अथवा - "शुद्धनिश्चयेन … शुद्धचैतन्यलक्षणनिश्चयप्राणेन यद्यपि जीवति, तथाप्यशुद्धनयेन … द्रव्यप्राणैर्जीवतीति जीवः।"18

अर्थात् इन्द्रियबलायुश्वासोच्छवासरूपैः चतुर्भिः प्राणैः अथवा एतेषामेव विस्तरेण दशभिः प्राणैर्वा जीवति स जीवः। मुक्तजीवेषु यद्यप्येते द्रव्यप्राणाः न सन्ति तथापि पूर्वमजीविन् एतस्माद्देतोः उत शुद्धचैतन्यप्राणधारणात् ते जीवाः इति वक्तुं शक्यन्ते।

जीवस्य पर्यायवाचिनः शब्दाः आचार्यजिनसेनानुसारमेते सन्ति तेषाञ्चाभिप्रायोऽपि निम्नानुसारमस्ति -

"जीवः प्राणी च जन्तुश्च क्षेत्रज्ञः पुरुषस्तथा।
पुमानात्मान्तरात्मा च ज्ञो ज्ञानीत्यस्य पर्ययः।।
प्राणा दशास्य सन्तीति प्राणी जन्तुश्च जन्मभाक्।
क्षेत्रं स्वरूपमस्य स्यात्तज्ज्ञानात् स तथोच्यते।।
पुरुषस्य पुरुभोगेषु शयनात् परिभाषितः।

पुनात्यात्मानमिति च पुमानिति निगद्यते।
भवेष्वतति सातत्याद् एतीत्यात्मा निरुच्यते।
सोऽन्तरात्माष्टकर्मान्तर्वर्तित्वादभिलप्यते।।
ज्ञः स्याज्ज्ञानगुणोपेतो ज्ञानी च तत एव सः।
पर्यायशब्दैरेभिस्तु निर्णयोऽन्यैश्च तद्विधैः॥"19

एवम्प्रकारेण जीवस्य नैकानि नामान्यपि जैनाचार्यैरुक्तानि तेषाञ्च नाम्नामभिप्रायोऽपि स्पष्टीकृतः।

6. जीवस्य स्वरूपम् -

जीवस्य स्वरूपविषये एका प्राकृतगाथा अत्यन्तं महत्त्वपूर्णा वर्तते। सा चेयम् -

"जीवो उवओगमओ अमुत्ति कत्ता सदेहपरिमाणो।
भोत्ता संसारत्थो सिद्धो सो विस्ससोड्डूगदी।।"20

अस्याभिप्रायोऽयं यत् जीवस्य स्वरूपज्ञापकाः नवाधिकाराः सन्ति - 1. जीवः, 2. उपयोगमयः, 3. अमूर्तिकः, 4. कर्ता, 5. स्वदेहपरिभाणः, 6. भोक्ता, 7. संसारस्थः, 8. सिद्धः, 9. विस्रसोर्ध्वगतिश्च।

एतेषां नवाधिकाराणां संक्षिप्तविवरणं निम्नलिखितानुसारमस्ति -

(1) जीवः - यः निश्चयेन चेतनाप्राणैः व्यवहारेण वा इन्द्रियबलायुश्वासोच्छवासैः चतुर्भिः द्रव्यप्राणैः जीवति स जीवः।

(2) उपयोगमयः - जीवः उपयोगमयोऽस्ति। ’ उपयोग’शब्दस्यार्थः ‘चेतना’ इति। चेतना उपयोगः वा द्विविधः भवति- दर्शनोपयोगः ज्ञानोपयोगश्चेति। अनयोरपि नैके प्रभेदाः सन्ति, ते संक्षेपेण पूर्वायामेव सारिण्यां परिगणिताः।

(3) अमूर्तिकः - जीवः संसारे देहादीनां संयोगात् मूर्तिकः अस्ति किन्तु स्वभावेन अमूर्तिकः एव, यतो स्पर्शरसगन्धवर्णादयः तस्मिन्न विद्यन्ते। ये चार्वाकाः जीवं भूतजनितं मूर्तिकं मन्यन्ते ते न समीचीनाः।

(4) कर्ता - जीवः व्यवहारेण पौद्गलिककर्मणां कर्ता भवति निश्चयेन च स्वकीयशुद्धाशुद्धभावानामेव कर्ता भवति। सांख्याभिमतमात्मनः सर्वथाऽकर्तृत्वमसमीचीनम्।

(5) स्वदेहपरिमाणः - आत्मा संसारावस्थायां स्वशरीरपरिमाणः एव, मुक्तावस्थायान्तु अन्तिमशरीरपरिमाणः विराजते। ये कथयन्ति आत्मानं वटकणिकामात्रमुत सर्वलोकव्यापकं तन्न समीचीनम्।

(6) भोक्ता - आत्मा स्वकर्मणां स्वकीयशुद्धाशुद्धभावानाञ्च यथा कर्ताऽस्ति तथैव भोक्ताऽपि वर्तते। बौद्धाः क्षणिकत्वेनात्मानं भोक्तारं न स्वीकुर्वन्ति, तदपि नैवोचितम्।

(7) संसारस्थः - आत्मा अशुद्धावस्थायां संसारे निवसति अतः संसारस्थोऽपि स्वीकृतः। ये जनाः आत्मानं सर्वथा शुद्धं बुद्धं कर्मरहितं च मन्यन्ते तेऽत्र निराकृताः।

(8) सिद्धः - मुक्तावस्थायामयमात्मा सिद्धरूपेण विराजते। तत्रास्याभावो न भवति यथा बौद्धदर्शने स्वीक्रियते, अपितु वीतरागः सर्वज्ञः सर्वकर्मरहितः अनन्तगुणसहितः परमसुखी च सन् अनन्तकालपर्यन्तं लोकाग्रे निवसति। ये जनाः मुक्तावस्थायां जीवस्यैवाभावं जीवस्य वा ज्ञानादिगुणानामभावं स्वीकुर्वन्ति ते न ग्राह्याः। सिद्धजीवाः पुनः कदापि संसारे जन्म न धारयन्ति। अवतारवादः जैनदर्शने न स्वीकृतः। यथा दुग्धात् घृतं भवति किन्तु घृतात् पुनः दुग्धं न भवति, तिलेभ्यः तैलं भवति किन्तु तैलात् पुनः तिलं न भवति, तथैव संसारी मुक्तः भवति किन्तु मुक्तजीवः पुनः कदापि संसारी (संसरणं करोतीति संसारी) न भवति।

(9) ऊर्ध्वगमनस्वभावः - अयं जीवः यद्यपि संसारावस्थायां कर्माधीनत्वात् तिर्यक्गमनम् अधोगमनं वा करोति तथापि नास्त्ययं तस्य स्वभावः। स्वभावेन तु स ऊर्ध्वगमनमेव करोति अग्निशिखावत्।

7. अन्यः कश्चिद् विशेषः -

जैनाचार्येषु योगीन्दुदेवानामतिमहत्त्वपूर्ण स्थानं विद्यते। तैरपि स्वग्रन्थेषु योगसारपरमात्मप्रकाशादिषु जीवस्य स्वरूपं विस्तरेण प्रतिपादितम्। परमात्मप्रकाशग्रन्थे प्रथममहाधिकारे जीवस्वरूपविषये ते कथयन्ति षड्दोहकसूत्रैः

"कि वि भणंति जिउ सव्वगउ, जिउ जड्डु के वि भणंति।
कि वि भणंति जिउ देहसमु, सुण्णु वि के वि भणंति।।
अप्पा जोइय सव्वगउ, अप्पा जड्डु वि वियाणि।
अप्पा देहपमाणु मुणि, अप्पा सुण्णु वियाणि।।
अप्पा कम्मविवज्जियउ, केवलणाणे जेण।
लोयालोउ वि मुणइ जिय, सव्वगु वुच्चइ तेण।।
जे णियबोहपरिट्ठियहँ, जीवहँ तुट्टई णाणु।
इंदियजणियउ जोइया, तिं जिउ जड्डु वि वियाणु।
कारणविरहिउ सुद्ध जिउ, वड्डूइ खिरइ ण जेण।
चरमसरीरपमाणु जिउ, जिणवर बोल्लहिं तेण ।।
अट्ठ वि कम्मइँ बहुविहइँ, णव णव दोस वि जेण।
सुद्धहँ एक्कु वि अत्थि णवि, सुण्णु वि वुच्चइ तेण ।। "21

अभिप्रायोऽयं यत् -

प्रश्नः- हे गुरुदेव ! कस्मिंश्चिद्दर्शनेऽयं जीवः सर्वगतः कथितः, कस्मिंश्चिद्दर्शने जडः निरूपितः, कस्मिंश्चिद्दर्शने स्वदेहपरिमाणः प्ररूपितः, कस्मिंश्चिच्च दर्शने शून्यः वर्णितः। तत् कथम्?

आचार्यः समादधति- अपेक्षाभेदेन सर्वं समीचीनं वक्तुं शक्यते। तद्यथा- अयं जीवः केवलज्ञानेन सर्वं लोकालोकं जानाति तस्माद् सर्वगतः, इन्द्रियज्ञानरहितः परमार्थेन तस्माद् जडः, सदैव स्वशरीरपरिमाणं चरमशरीरपरिमाणं वा वसति, हीनोऽधिको वा न भवति तस्माद् स्वशरीपरिमाणः, पौद्गलिककर्मादि सर्वपरद्रव्यविरहितत्वाच्च शून्यः इति। नास्ति काचिद् बाधा।

अत्र योगीन्दुमुनिना स्याद्वादमवलम्ब्य यत् समाधानं कृतं तत् विशेषरूपेण चिन्तनीयमस्माभिः सर्वैः। तात्पर्यमिदं यत् जीवस्य कृते जैनेतरदर्शनेष्वपि यत्किमपि प्रोक्तं तत्सर्वमपि सामान्यतया समीचीनं भवितुमर्हति जैनदृष्ट्या किन्तु तस्य अपेक्षा दृष्टिकोणं वा सम्यक्तयाऽवगन्तव्यमेव। सापेक्षकथनं समीचीनं, निरपेक्षकथनं तु मिथ्या एव। मया तु इदमनुभूयते यत् अस्माकं भारतीयसंस्कृतौ यत् किमपि पूर्वजैः ज्ञानिध्यानिभिः प्रतिपादितं तत्सर्वं समीचीनमेव आसीत् किन्तु एका एव विसंगतिः जाता यदस्माभिः तस्य का अपेक्षा किं वा दृष्टिकोणमिति विस्मृतम्। अद्यावश्यकताऽस्ति तदृष्टिकोणप्रकाशनस्य महती।

एवमेव, जैनदर्शनानुसारं जीवाः अनन्ताः सन्ति, न तु एकः, तथापि वेदान्तदर्शनं कथयति यत् जीवः एक एव, इत्यपि समीचीनं भवितुमर्हति। तदित्थं यद्यद्यपि जीवाः संख्यापेक्षया अनन्ताः एव किन्तु जात्यपेक्षया स्वभावापेक्षया निश्चयेन वा सर्वे सदृशाः एव समानाः एव, न तु कोऽपि जीवः लघुः न तु कोऽपि गुरुः, अतः जीवः एक एव इत्यपि वक्तुं शक्यते। जीवाः संख्यापेक्षया अनन्ताः सन्ति तथापि सर्वेषां पारमार्थिकस्वभावः समानः एव, सर्वे जीवाः स्वभावेन अनन्तज्ञानदर्शनसुखवीर्यादिगुणसम्पन्नाः स्पर्शरसगन्धवर्णविरहिताश्च सन्ति, सर्वे एव रागद्वेषमोहादीन् परित्यज्य परमात्मा भवितुमर्हन्ति। परमात्माऽपि स्वभावेन सर्वसदृशः एव- ‘अप्पा सो परमप्पा’ इत्युक्तत्वात्। इदमेव कारणं यज्जैनदर्शनानुसारं परमात्माऽपि कश्चन एक एव नास्ति अपितु अनन्ताः सन्ति येऽपि आत्मानः पुरुषार्थं कृत्वा स्वस्य विकारान् निवारयन्ति ते एव शुद्धात्मानः परमात्मानः वा भवन्ति। जैनदृष्ट्या परमात्मा कोऽपि पृथक् नास्ति अपितु अस्मासु एव यः कोऽपि पुरुषार्थं कृत्वा रागद्वेषादीन् विजहति स एव परमात्मा भवति। परमात्मा वीतरागः सर्वज्ञश्च विद्यते। स कदापि केनापि सह रुष्टः तुष्टः वा न भवति। कामपि इच्छामपि न करोति, जगतः किञ्चिङ्कार्यमपि न करोति । स तु ज्ञाता द्रष्टा भवन् अनन्तकालपर्यन्तं लोकाग्रे तिष्ठति। यद्यपि परमात्मा अनन्तशक्तिशाली अस्ति तथापि परद्रव्यस्य किमपि कार्यं न करोति । स सदाकालं स्वस्य शुद्धस्वरूपे रमति, कदापि परद्रव्याणि विलोक्य रागं द्वेषं वा न करोत्ययमेव तस्यानन्तशक्तिः।

8. जीवस्य भेदप्रभेदाः -

अथ जीवस्य भेदप्रभेदापि संक्षेपेण ऊह्याः। जैनाचार्यैः विविधदृष्टिभिः जीवस्य नैकाः भेदप्रभेदाः वर्णिताः।

यथा -

"एको चेव महप्पा सो दुवियप्पो त्ति लक्खणो भणिदो।
चदुसंकमणाजुत्तो पंचग्गगुणप्पहाणो य।।
छक्कापक्कमजुत्तो उवजुत्तो सत्तभंगिसब्भावो।
अट्ठासवो णवट्ठो जीवो दसठाणिओ भणिदो। “22 अर्थादयं जीवः महात्मा वा चैतन्यसामान्यापेक्षया एकविधः, ज्ञानदर्शनभेदेन संसारिमुक्तभेदेन भव्याभव्यभेदेन पापपुण्यभेदेन वा द्विविधः, ज्ञानकर्मकर्मफलचेतनाभेदेन द्रव्यगुणपर्यायभेदेन उत्पादव्ययध्रौव्यभेदेन वा त्रिविधः, नरकतिर्यञ्चदेवमनुष्यगतिभेदेन चतुर्विधः, औपशमिकक्षायिकमिश्रश्वौदयिकपारिणामिकभेदेन एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियभेदेन वा पञ्चविधः, षट्कापक्रमभेदेन षड्विधः, सप्तभंगभेदेन सप्तविधः, अष्टकर्माधारेण सम्यक्त्वाद्यष्टगुणोपेतेन वा अष्टविधः, नवपदार्थरूपपरिणमनान्नवविधः, पृथिव्यादिपञ्चस्थावरभेदेन एकेन्द्रियादिपञ्चभेदेन च दशविधः। एवम्प्रकारेण अन्येऽपि भेदप्रभेदाः भवितुमर्हन्ति। अत्र विस्तारभयात् जीवस्य प्रमुखाः भेदप्रभेदाः अधोलिखितया सारिण्या एव प्रदर्थ्य विरम्यते -.

जीवाः
संसारिणः
मुक्ताः

स्थावराः

  1. पृथ्वीकायिकाः
  2. जलकायिकाः
  3. अग्निकायिकाः
  4. वायुकायिकाः
  5. वनस्पतिकायिकाः
    साधारणवनस्पतिकायिकाः
    प्रत्येकवनस्पतिकायिकाः

त्रसाः

  1. द्वीन्द्रियाः (कृमीत्यादयः)
  2. त्रीन्द्रियाः (पिपीलिकादयः)
  3. चतुरिन्द्रियाः (भ्रमरादयः)
  4. पञ्चेन्द्रियाः
    अमनस्काः (केचन सर्पादयः)
    समनस्काः (मनुष्यादयः)

9. अध्यात्मग्रन्थेषु जीवस्य भेदप्रभेदाः -

यथा पूर्वमेवोक्तं यत् जीवस्वरूपपरिज्ञानप्रेरणार्थमेवास्माकं देशेऽध्यात्मविद्यायाः उद्गमः विकासः महत्त्वञ्च भूरिशः प्रतिपादितम्। अतएवाध्यात्मग्रन्थेषु जीवस्य कृते ‘आत्मन्’ शब्दस्य प्रयोगः विहितः। अध्यात्मग्रन्थानुसारं जीवः द्विविधः- स्वजीवः परजीवश्चेति। स्वजीवः एव आत्मा। परजीवः नास्ति आत्मा। अतः यदा आचार्याः कथयन्ति यदात्मानं जानातु, आत्मज्ञानमावश्यकं तदा तस्याभिप्रायोऽयमेव यत् स्वजीवं जानातु, न तु परजीवम्।

अध्यात्मग्रन्थेषु परजीवः जीव एव नास्तीत्यप्युच्यते। इदमेव कारणं यदस्माकं संस्कृतौ जनाः अद्यापि कथयन्ति यदात्मा एक एव विद्यते, किन्तु जीवाः अनन्ताः सन्ति।

अत्रैकः प्रश्नः समुदेति यदध्यात्मग्रन्थानुसारं यदाऽऽत्मा एक एव तर्हि तस्य भेदप्रभेदाः कथं भवितुमर्हन्ति। उत्तरम् - सत्यमिदं यदध्यात्मग्रन्थाः कथयन्ति आत्मानमेव जानातु, परद्रव्यं परजीवं प्रति निमिषमात्रमपि मा पश्यतु, एकस्यात्मनः ज्ञानादेव सर्व विज्ञातं भवति स्वयमेव, सर्वार्थसिद्धिः आत्मज्ञानादेव भविष्यति23, आत्मा च एक एव; किन्तु तस्य एकस्यापि आत्मनः अवस्थापेक्षया त्रयः भेदाः भवन्ति। ते च एवं ज्ञातव्याः -

  1. बहिरात्मा- यः अज्ञानी मूढः अस्ति, बहिर्भूतं देहमेवात्मानं जानाति सः बहिरात्मा।24
  2. अन्तरात्मा- यः सम्यग्ज्ञानी जातः देहाद्भिन्नमात्मतत्त्वं जानाति सोऽन्तरात्मा।25
  3. परमात्मा - यः आत्मानं ज्ञात्वा रागद्वेषादिविकारान् परित्यज्य वीतरागः सर्वज्ञश्च भवति स परमात्मा।26
    परमात्मा द्विविधः - (क) सकलपरमात्मा- यः शरीरसहितः विद्यते अधुना सः सकलपरमात्मा, अर्हन् इति तस्यैव अपरं नाम।27 (ख) निकलपरमात्मा- यदा अर्हन् परमात्मा देहमपि परित्यज्य मुक्तः भवति तदा सः निकलपरमात्मा इत्युच्यते। सिद्ध इति तस्यैव अपरं नाम।28

एतेषु बहिरात्मा हेयः, अन्तरात्मा कथंचिदुपादेयः, परमात्मा च परमोपादेयः।29

10. उपसंहारः -

एवम्प्रकारेणेदं सुस्पष्टं यज्जैनदर्शनानुसारेण -

(क) जीवः अस्ति एव, तस्य च सत्ता पारमार्थिक्येव, न तु व्यावहारिकी काल्पनिका वा।

(ख) जीवस्य लक्षणमुयोगमयत्वं चैतन्यं वा विद्यते। चैतन्यं तस्य स्वाभाविकः धर्मः, न तु समवायजनितः।

(ग) जीवाः अनन्ताः सन्ति, न त्वेकः। ते च सर्वे स्वभावेन समाना एव। न कोऽपि गुरुः लघुः वा।

(घ) जीवः स्वतन्त्रः अखण्डः वा विद्यते। सः कस्यचिदेकस्य परमतत्त्वस्यांशः नास्ति।

(ङ) जीवः स्वकीयशुभाशुभकर्मणां स्वयमेव कर्ताऽपि भवति भोक्ता चापि भवति। अन्यद्रव्यं तु निमित्तमात्रमेव।

(च) जीवः स्वभावेन रूपरसस्पर्शादिगुणविरहितः अमूर्तिकः विद्यते, किन्तु संसारावस्थायां पौद्गलिककर्मदेहादीनां संयोगोऽपि विद्यते।

(च) विवक्षाभेदेनायं जीवः सर्वगतः, जडः, स्वशरीरपरिमाणः, शून्यः एकश्चेत्यपि वक्तुं शक्यते।

(छ) प्रत्येकं जीवः आत्मा वा स्वस्य रागद्वेषादिविकारान् परित्यज्य परमात्मा भवितुमर्हति। स एव मुक्तावस्था । मुक्तावस्थायां जीवस्य, तस्य ज्ञानादिस्वाभाविकगुणानां वाऽभावो न भवति, अपितु तस्य समस्तविकारणामेव विनाशो भवति। मुक्त्यनन्तरं जीवः पुनः कदापि संसारेऽऽगत्य जन्म मरणं वा न करोति।

सन्दर्भ-

  1. स्याद्वादमञ्जरी, प्रस्तावना, पृष्ठांक 7
  2. आचार्यामृतचन्द्रः, समयसारव्याख्या, आत्मख्यातिः, श्लोक - 23
  3. आचार्यामितगतिः, योगसारप्राभृतम्, 1/2 तः 5
  4. आचार्यामितगतिः, योगसारप्राभृतम्, 7/43
  5. योगीन्दुकृतयोगसारः, 53
  6. गीता
  7. श्रीमद्भागवतम् 11/23/60
  8. शंकराचार्यः, मोहमुद्गरः, 26
  9. छान्दोग्योपनिषद्
  10. वृहदारण्यकोपनिषद्, 4/4/5
  11. उपनिषद्
  12. आचार्याकलंकः, तत्त्वार्थवार्तिकम् 2/8
  13. आचार्योमास्वामी, तत्त्वार्थसूत्रम् 2/8
  14. आचार्यदेवनन्दिः, सर्वार्थसिद्धिः 1/4
  15. आचार्यकुन्दकुन्दः, पञ्चास्तिकायः, गाथा 48,49
  16. आचार्यकुन्दकुन्दः, प्रवचनसारः, गाथा 147
  17. आचार्याकलंकः, तत्त्वार्थवार्तिकम् 1/4
  18. ब्रह्मदेवसूरिः, वृहद्रव्यसंग्रहवृत्तिः, गाथा 2
  19. आचार्यजिनसेनः, महापुराणम् 24/103, 105 तः 108
  20. आचार्यनेमिचन्द्रसिद्धान्तिदेवः, बृहद्रव्यसंग्रहः, गाथा 2
  21. योगीन्दुदेवः, परमात्मप्रकाशः, 1/50 तः 55
  22. आचार्यवीरसेनः, धवला, पुस्तक 9, खंड 4, भाग 1, सूत्र 45, गाथा 76-77
  23. "अचिन्त्यशक्तिः स्वयमेव देवः, चिन्मात्रचिन्तामणिरेष यस्मात्।

सर्वार्थसिद्धात्मतया विधत्ते, ज्ञानी किमन्यस्य परिग्रहेण।" - आचार्यामृतचन्द्रः, आत्मख्यातिः, श्लोक 144

  1. आचार्यदेवनन्दिः, समाधिशतकम् 7
  2. आचार्यदेवनन्दिः, समाधिशतकम् 15
  3. योगीन्दुदेवः, परमात्मप्रकाशः 1/14
  4. कार्तिकेयानुप्रेक्षा, गाथा 192
  5. कार्तिकेयानुप्रेक्षा, गाथा 192
  6. ब्रह्मदेवसूरिः, बृहद्रव्यसंग्रहवृत्तिः, गाथा-14

जैनदर्शने_जीवस्वरूपम्.pdf (0.2 MB)