जैनदर्शने धर्मध्यानस्य वैशिष्ट्यम्
-प्रो. वीरसागरो जैनः
भारतीयदार्शनिकानामेवैतद् वैशिष्ट्यं यत् तर्कानुमानागमादिभिः वस्तुतत्त्वं प्रकाशयन्तोऽपि निरूपयन्तोऽपि ते एतद् स्वीकुर्वन्ति यत् तत्त्वबोधः, सत्यबोधः, सत्यस्य साक्षात्कारस्तु ध्यानावस्थायामेव भवति। जैनदर्शनानुसारमपि सर्वलोकालोकज्ञं केवलज्ञानं तत्त्वं तत्त्वं प्रति गत्वा न भवति, अपि तु ध्यानेनैव भवति, ध्यानकाल एव प्रकटितो भवति।
जैनदर्शने ध्यानस्य महत्त्वं विस्तरेण निगदितम्। तत्र नैके ग्रन्थाः विषयमिममवलम्व्य विरचिताः सन्ति यथा- योगसारः, ज्ञानार्णवः, अमृताशीतिः, इत्यादयः। जैनदर्शनानुसारं मोक्षमार्गस्य प्रारम्भोऽपि आत्मध्यानात् भवति, विकासोऽपि आत्मध्यानात् भवति, पूर्णता चापि आत्मध्यानादेव भवति। आत्मध्यानं विना रागादिविकाराणां विनाशो कथमपि भवितुं नार्हति। सम्यग्दर्शन-ज्ञान-चारित्राणां पारमार्थिकी प्राप्तिः ध्यानावस्थायामेव भवति। आचार्यनेमिचन्द्रमहोदयाः स्पष्टं वदन्ति-
दुविहं पि मोक्खहेउं झाणे पाउणदि जं मुणी णियमा ।
तम्हा पयत्तचित्ता जूयं झाणं समब्भसह ।।1
अर्थात् निश्वयमोक्षमार्गं व्यवहारमोक्षमार्गं चापि मुनयः ध्यानकाले एव प्राप्नुवन्ति तस्मात् भवन्तः सर्वेऽपि ध्यानस्यैवाभ्यासं सम्यक् रूपेण कुर्वन्तु।
जैनदर्शने ध्यानस्य महत्त्वं कियत् स्वीकृतमित्येतेनापि ज्ञातुं शक्यते यत् जैनानां मन्दिरेषु सर्वत्र एवं सर्वेषां तीर्थंकराणां भगवतां वा ये केऽपि विग्रहाः प्रतिमाः वा विराजन्ते ते सर्वेऽपि ध्यानावस्थायामेव प्रतिष्ठिताः भवन्ति, न तु अन्यस्यां कस्यामपि अवस्थायाम्; यद्यपि जैनेतरमन्दिरेषु देवताः विविधासु भङ्गिमासु क्रियासु च विराजन्ते। जैनदर्शनानुसारं सर्वेषां कर्मणां क्षयः ध्यानेनैव भवति-
ध्यानाग्निः सर्वकर्माणि भस्मसात् कुरुते क्षणात्।
एवम्प्रकारेण जैनदर्शने ध्यानस्य महत्त्वं सुतरां प्रतिपादितं किन्तु तद्ध्यानं समीचीनमेव भवेत् इत्यादिरूपेण वारं वारं निवेदितमपि । जैनाचार्याः स्पष्टरूपेण कथयन्ति-
झाणं झाणाभासं झाणस्स तहेव भावणा भणिदा।
मोत्तुं झाणाभासं वेहिं पिय संजुओ समणो ।।2
अर्थात् ध्यानमेव कुर्वन्तु भवन्तः। यदि ध्यानं न कर्तुं शक्यते तर्हि ध्यानस्य भावना करणीया। किन्तु ध्यानाभासः कदापि न करणीयः।
जैनदर्शनानुसारं ध्यानं द्विविधं भवति- प्रशस्तमपि अप्रशस्तमपि। प्रायः जनाः जानन्ति यत् ध्यानं तु सदा हितकारकमेव उपादेयभूतमेव भवति, किन्तु नास्ति तत् समीचीनम्। प्रशस्तध्यानमेव हितकारकमुपादेयभूतं मोक्षकारकं च भवति, अप्रशस्तध्यानं तु अत्यन्तमहितकारकं संसारकारणं तस्माच्च हेयभूतं भवति।
किं ध्यानम्? जैनाचार्याः कथयन्ति- "एकाग्रचिन्तानिरोधो ध्यानम्।"3 अर्थात् यदा चित्तस्यैकाग्रता भवति तदा ध्यानं भवति। इदं च चतुर्विधं भवति आर्तरौद्रधर्मशुक्लभेदेन, अथवा द्विविधमपि भवति प्रशस्ताप्रशस्तभेदेन। आर्तरौद्रध्याने अप्रशस्तध्याने स्तः, धर्मशुक्लध्याने च प्रशस्तध्याने स्तः।
आर्तध्यानमिष्टवियोगेनानिष्टसंयोगेन पीड़ाचिन्तनेन निदानेन वा भवति। रौद्रध्यानं हिंसादिपापकार्येषु आनन्दानुभवनरूप भवति। तस्मात् इमे द्वे ध्याने हेयभूते प्रतिपादिते स्तः।
धर्मध्यानं धर्मसहितं भवति, तत्त्वचिंतनरूपमात्मध्यानरूपं वा भवति। शुक्लध्यानं च मोक्षस्य साक्षात्कारण- रूपमत्यंतमुज्ज्वलं भवति। तस्मात् इमे द्वे ध्याने उपादेयभूते स्तः।
धर्मध्यानस्य पञ्च हेतवः प्रतिपादिता :-
वैराग्यं तत्त्वविज्ञानं नैर्ग्रन्थ्यं समचित्तता।
परिषहजयश्वेति पञ्चैते ध्यानहेतवः ।।
अर्थात् धर्मध्यानार्थमेतेषां पञ्चानां तत्त्वानां प्राप्तिरत्यन्तमावश्यकी- 1. वैराग्यं, 2. तत्त्वज्ञानम्, 3. नैर्ग्रन्थ्यमपरिग्रहत्वं वा, 4. साम्यं 5. परिषहजयश्च। अत एव धर्मध्यानस्य स्वामी सम्यग्दृष्टिजीवः एव भवति। मिथ्यादृष्टिजीवाः धर्मध्यानं कर्तुं नैव शक्नुवन्ति।
जैनदर्शने ध्यानस्य भेद-प्रभेदाः एवम्प्रकारेण वर्णिताः सन्ति-
ध्यानम्
अप्रशस्तध्यानम्
आर्तध्यानम्
- इष्टवियोगजम्
- अनिष्टसंयोगजम्
- पीडाचिन्तनम्
- निदानरूपम्
रौद्रध्यानम्
- हिंसानन्दरूपम्
- मृषानन्दरूपम्
- चौर्यानन्दरूपम्
- अब्रह्मण्यानन्दरूपम्
प्रशस्तध्यानम्
धर्मध्यानम्
- आज्ञाविचयम्
- अपायविचयम्
- विपाकविचयम्
- संस्थानविचयम्
शुक्लध्यानम्
- पृथक्त्वविचारः
- एकत्वविचारः
- सूक्ष्मक्रियाप्रतिपाति
- व्युपरतक्रियानिवृत्तिः
पाद-सन्दर्भाः-
- नेमिचन्द्राचार्यः, द्रव्यसंग्रहे, गाथा 47
- माइल्लधवलः, नयचक्रे, गाथा, 177
- आचार्योमास्वामी, तत्त्वार्थसूत्रे, 9/27