भरतस्येदं वर्षं भारतवर्षम्
-प्रो. वीरसागरो जैनः
भारतमस्माकं राष्ट्रं वयं च भारतीयाः। यद्यपि अस्माकं भारतभूमिः प्राचीनकालादेव विविधनामभिः अभिहिता आसीत्, किन्तु अस्याः नामकरणविषये स्पष्टरूपेण धारणा अस्ति यत् अस्य नाम कस्यचिदपि भरतस्य नाम्ना सुनिश्चितं वर्तते। संदर्भेऽस्मिन् भरतनाम्ना त्रयः महापुरुषाः अभूवन्-
- ऋषभपुत्रः भरतः
- दशरथपुत्रः भरतः
- दुष्यन्तपुत्रः भरतः।
यद्यपि त्रयाः भरताः पराक्रमयुक्ताः शूरवीराः महापुरुषाः अभूवन्, तथापि निर्णयमिदं करणीयमावश्यकं यत् कस्य भरतस्य नाम्ना अस्माकं देशं भारतनाम्ना सुप्रसिद्धम्। अस्मिन् संदर्भे डा. प्रेमसागरजैनमहोदयाः लिखन्ति-
“राम के भाई भरत कभी राजसिंहासन पर नहीं बैठे, अतः उनके आधार पर इस देश के नामकरण का प्रश्न ही नहीं उठता। कतिपय विद्वानों ने दौष्यन्ति भरत के नाम को मूलाधार स्वीकार किया है। यह स्वाभाविक था। कालिदास के ‘शाकुन्तलम्’ की विश्वख्याति ने दौष्यन्ति भरत को जनमानस में प्रतिष्ठित कर दिया। उसी को लोग इस देश के ‘भारत’ नाम का मूलमंत्र मान बैठे।”
उपर्युक्तोद्धरणेन स्पष्टमिदं यत् जैनधर्मस्य प्रथमतीर्थंकरस्य श्रीऋषभदेवस्य ज्येष्ठपुत्रभरतस्य नाम्ना अस्माकं राष्ट्र भारतमभूत्। श्रीभरतचक्रवर्ती सम्पूर्णभरतक्षेत्रस्य षट्खण्डानामधिपतिः आसीत्। सः सर्वं विजीत्य एकच्छत्रः अधिपतिः अभूत्।
भारतेन सह वर्षशब्दस्यापि प्रयोगो भवति। तस्य कारणमस्ति यत् वर्षशब्दं कालवाचकं क्षेत्रवाचकं च द्वयोरर्थयोर्संदर्भ प्रयुक्तं भवति। अतः वर्षस्य तात्पर्यमस्ति भरतक्षेत्रम्। अतएव भरतस्य क्षेत्रं भारतवर्षमिति सुनिश्चितम्।
यद्यपि भारतदेशस्य समये-समये विविधानि नामानि प्रयुक्तानि, यथा- आर्यावर्तम्, इंडिया, हिन्दुस्तानम् इत्यादीनि, किन्तु एतानि नामानि न अस्मितापूर्णानि, अपितु परकीयैः प्रदत्तानि वर्तन्ते। एतेभ्यः नामेभ्यः परतंत्रतायाः दुर्गन्धमागच्छति। अस्य प्रमाणस्वरूपं श्रीप्रेमसागरजैनः लिखति-
Muslim invaders who came later also referred to this country as Hindustana. During their rule, this very name earned respect so much so that the followers of Vedic and Pauranic religions began to call themselves ‘Hindus’. The words ‘Hind’ and ‘Hindustana’ were assimilated in the soil of this country. But the framers of the constitution in its meeting held on 18th September, 1949 did not accept either of these two names, as they were given by foreigners and were associated with the history of slavery of the country. Its ancient name ‘Bharata’, therefore, came to be adopted.¹
अतएव ई. 1949 तमे यदा भारतीयसंविधानस्य निर्माणमभवत् तदा अस्य देशस्य कृते सुयोग्यस्य नाम्नः चयनार्थं बहवः प्रयासाः अभवन्। तदा उड़ीसाप्रान्ते हाथीगुम्फामध्ये सम्राटखारवेलेन उल्लिखितेषु शिलालेखेषु एकस्मिन् ब्राह्मीलिप्यां ‘भरधवस’ इति पदमेकमुत्कीर्णमासीत् । पदमिदं भारतवर्षस्य कृते आसीत् | अस्य पदस्य प्राकृतभाषायां भरधवस इति रूपं निष्पन्नम्।
संघदासगणीद्वारा रचितवसुदेवहिण्डीमध्ये प्रमाणम्-
सर्वेभ्यः इतिहासपुराणग्रन्थेभ्यः पुष्टमिदं यत् अस्माकं राष्ट्रस्य नाम ऋषभपुत्रस्य भरतस्य नाम्ना एव भारतं सुनिश्चितमिति। यथा संघदासगणी द्वारा विरचिते ग्रन्थे ‘वसुदेवहिण्डी’ मध्ये उद्धरणमिदं द्रष्टव्यम्-
“इहं सुरासुरिंदविंदवंदिय-चलणारविंदो उसभो नाम पढमो राया जगप्पियामहो आसी। तस्य पुत्तसयं। दुवे पहाणा भरहो बाहुबली य। उसभसिरी पुत्तसयस्य पुरसयं च दाऊण पव्वइयो। तत्थ भरहो भरहवासचूडामणि, तस्सेव णामेणं इहं भरहवासं ति पवुच्चति।”
इतोऽपि अग्रेऽऽचार्याकलंकदेवाः स्वकीये ग्रन्थे तत्त्वार्थवार्तिकेऽपि उल्लिखन्ति ।
आचार्याकलंकस्य तत्त्वार्थवार्तिके प्रमाणम्-
आचार्याकलंकेन तत्त्वार्थसूत्रग्रन्थे वार्तिकानि रचयन् लिखितमिदम्-
“भरतक्षत्रिययोगाद्वर्षो भरतः।।1।। विजयार्धस्य दक्षिणतो जलधेरुत्तरतः गंगासिन्ध्वोर्बहुमध्यदेशभागे विनीता नाम नगरी द्वादशयोजनायामा नवयोजनविस्तारा। तस्यामुत्पन्नः सर्वराजलक्षणसम्पन्नो भरतो नामाद्यश्चक्रधरः षट्खण्डाधिपतिः। अवसर्पिण्या राज्यविभागकाले तेनादौ भुक्तत्वात् तद्योगाद् भरत इत्याख्यायते वर्षः।”
अभिप्रायमस्ति यत् भरतक्षत्रियस्य योगेन क्षेत्रमिदं भारतं कथितम्। अयोध्यानगर्यां सर्वराजलक्षणैः सम्पन्नः भरतचक्रवर्ती षटखण्डाधिपतिः अभूत्, येन सर्वप्रथमं क्षेत्रमिदं भुक्तं, अत एव ‘भारतवर्ष’ इति नाम सुप्रसिद्धमस्य क्षेत्रस्य।
आचार्यजिनसेनकृतमहापुराणे प्रमाणम्-
आचार्यजिनसेनमहोदयाः महापुराणे लिखंति-
ततोऽभिषिच्य साम्राज्ये भरतं सूनुमग्रिमम्।
भगवान् भारतं वर्षं तत्सनाथं व्यधादिदम्।
¹ Dr. premSagar Jain, Bharat and Bharat, KundKund Bharti, New Delhi, 22 अर्थात् भगवता ऋषभदेवेन स्वकीयज्येष्ठपुत्रस्य साम्राज्याभिषेकं कृतं तथा प्रदेशं ‘भारतवर्ष’ भवेत्- एतादृशी घोषणा कृता। अनेन ‘भारतवर्ष’ सनाथमभवत्।
महापुराणेऽपि लिखितम् -
प्रमोदभरतः प्रेमनिर्भरा बन्धुता तदा।
तमाह्वद् भरतं भावि समस्तभरताधिपम्।।
तन्नाम्ना भारतं वर्षमितिहासीज्जनास्पदम्।
हिमाद्रेरासमुद्राच्च क्षेत्रं चक्रभृतामिदम्।।
भारतवर्षनाम्न्नः पूर्वं अस्य देशस्य नाम भरतस्य पितुः ‘नाभिरायस्य’ नाम्ना ‘नाभिखण्डं’ ‘अजनाभवर्ष’ वा आसीत्। प्रमाणस्वरूपमत्र अग्निपुराणे, श्रीमद्भागवते, मार्कण्डेयपुराणे, ब्रह्माण्डपुराणे, स्कन्दपुराणे, लिंगपुराणे, वायुपुराणे, नारदपुराणे, शिवपुराणे, वराहपुराणे, कूर्मपुराणे, विष्णुपुराणे आदिषु विविधपुराणग्रन्थेषु बहूनि उद्धरणानि सन्ति।
पुरुदेवचम्पूकृतौ प्रमाणम्-
महाकवि-अर्हद्दासेन पुरुदेवचम्पू मध्ये लिखितम् -
तन्नाम्ना भारतं वर्षमितिहासीज्जनास्पदम्।
हिमाद्रेरासमुद्राच्च क्षेत्रं चक्रभृतामिदम्।।
तस्य भरतस्य नाम्ना सह राष्ट्रमिदं ‘भारतवर्षम्’ प्रसिद्धम्- एतादृशमितिहासः। हिमवान्कुलाचलतः लवणसमुद्रपर्यन्तं क्षेत्रमिदं ‘चक्रवर्तीनां क्षेत्रम्’ सुप्रसिद्धमिति।
सूरसागरेऽपि प्रमाणम्-
बहुरो रिषभ बड़े जब भये, नाभि राज देवन को गये।
रिषभ-राज परजा सुख पायो, जस ताको सब जग में छायो।।
रिषभदेव जब बन को गये, नवसुत नवौ खण्ड नृप भये।
भरत सो भरतखण्ड को राव, करे सदा ही धर्म अरु न्याव।।
उपर्युक्तहिन्दीछन्दसि अपि ऋषभपुत्रभरतस्य नाम्ना भारतवर्षस्य प्रमाणं प्रस्तुतमिति।
अतएव निष्कर्षरूपेण कथयितुं शक्यते यत् सर्वत्र जैन-जैनेतरग्रन्थेषु बहवः प्रमाणाः सन्ति यत् जैनधर्मस्य प्रथमतीर्थंकरस्य श्रीऋषभदेवस्य पुत्रेण भरतेन सह सम्बन्धितं क्षेत्रं भारतवर्षनाम्ना सुविदितमिति।