ग्रन्थ: आदिपुराण (महापुराण भाग २), आचार्य जिनसेन
प्रकाशन: भारतीय ज्ञानपीठ, सम्पादन: पं. पन्नालाल जैन
पर्व ३८, श्लोक ९० से ९२ (पृष्ठ २४७)
बहिर्यानं ततो द्वित्रैर्मासैस्त्रिचतुरैरुत।
यथानुकूलमिष्टेऽह्नि कार्यं तूर्यादिमङ्गलैः॥९०॥
ततः प्रभृत्यभीष्टं हि शिशोः प्रसववेश्मनः।
बहिःप्रणयनं मात्रा धात्र्युत्सङ्गगतस्य वा॥९१॥
तत्र बन्धुजनादर्थलाभो यः पारितोषिकः।
स तस्योत्तरकालेऽर्प्यो धनं पित्र्यं यदाप्स्यति॥९२॥
इति बहिर्यानम्।
पर्व ४०, श्लोक १३४ से १३९ (पृष्ठ ३०७)
शेषो विधिस्तु निःशेषः प्रागुक्तो नोच्यते पुनः।
बहिर्यानक्रियामन्त्रः ततोऽयमनुगम्यताम्॥१३४॥
बहिर्यानक्रिया
तत्रोपनयनिष्क्रान्तिभागी भव पदात्परम्।
भवेद् वैवाहनिष्क्रान्तिभागी भव पदं ततः॥१३५॥
क्रमान्मुनीन्द्रनिष्क्रान्तिभागी भव पदं वदेत्।
ततः सुरेन्द्रनिष्क्रान्तिभागी भव पदं स्मृतम्॥१३६॥
मन्दराभिषेकनिष्क्रान्तिभागी भव पदं ततः।
यौवराज्यमहाराज्यपदे भागी भवान्विते॥१३७॥
निष्क्रान्तिपदमध्ये स्तां परराज्यपदं तथा।
आर्हन्त्यराज्यनिष्क्रान्तिभागी भव शिखापदम्॥१३८॥
पदैरेभिरयं मन्त्रस्तद्विद्भिरनुजप्यताम्।
प्रागुक्तो विधिरन्यस्तु निषद्यामन्त्र उत्तरः॥१३९॥
चूर्णिः
उपनयनिष्क्रान्तिभागी भव, वैवाहनिष्क्रान्तिभागी भव, मुनीन्द्रनिष्क्रान्तिभागी भव, सुरेन्द्रनिष्क्रान्तिभागी भव, मन्दराभिषेकनिष्क्रान्तिभागी भव, यौवराज्यनिष्क्रान्तिभागी भव, महाराज्यनिष्क्रान्तिभागी भव, परमराज्यनिष्क्रान्तिभागी भव, आर्हन्त्यनिष्क्रान्तिभागी भव, (बहिर्यानमन्त्रः)
खोज: बहिर्यान, बहिर्यान क्रिया, बहिर्यानक्रिया, बहिर्यान संस्कार, बहिर्यान मन्त्र, गर्भान्वय क्रिया, आदिपुराण, Bahiryan, Bahiryaan, Bahiryan Kriya