आर्हन्मते मोक्षस्वरूपम् | Arhanmate Mokshasvarupam

आर्हन्मते मोक्षस्वरूपम्

-प्रो. वीरसागरो जैनः

जैनदर्शनस्य प्रायः सर्वेषु ग्रन्थेषु जीवादिसप्ततत्त्वानां विवेचनप्रसंगे मोक्षत्त्वस्य विवेचनं प्राधान्येन प्राप्यते। तत्रैवंप्रकाराणि सन्ति सप्ततत्त्वानां नामानि- जीवतत्त्वम्, अजीवतत्त्वम्, आस्रवतत्त्वं, बन्धतत्त्वं, संवरतत्त्वं निर्जरातत्त्वं, मोक्षतत्त्वञ्चेति।¹

तत्र सर्वेषां जैनाचार्याणामादरणीयाः प्रमाणरूपेण चाङ्गीकृताः आद्यसूत्रग्रन्थकाराः आचार्योमास्वामिमहोदयाः स्वप्रणीते तत्त्वार्थसूत्रे मोक्षस्य स्वरूपमेवं निरूपयन्ति-

बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः।²

अर्थात् सर्वेषां बन्धहेतुनामभावात् संचितकर्मणां च निर्जरणात् जीवस्य सर्वकर्मणां य आत्यन्तिकः वियोगो भवति स एव मोक्षः।

श्रीमद्भट्टाकलंकदेवाः कथयन्ति तत्त्वार्थराजवार्तिके-
"मोक्ष इव मोक्षः। क उपमार्थः? यथा निगडादिद्रव्यमोक्षात् सति स्वातन्त्र्ये अभिप्रेतगमनादेः पुमान् सुखी भवति तथा कृत्स्नकर्मवियोगे सति स्वाधीनात्यन्तिकज्ञानदर्शनानुपमसुखं आत्माऽनुभवति।"³

सर्वार्थसिद्धावप्याचार्याः पूज्यपाददेवनन्दिमहोदयाः कथयन्ति-
"निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मनोऽचिन्त्यस्वाभाविकज्ञानादिगुणमव्याबाधसुखमात्यन्तिकमव-स्थान्तरं मोक्ष इति।"⁴

षड्दर्शनसमुच्चये आचार्यहरिभद्रसूरयः अपि कथयन्ति-

बद्धस्य कर्मणः साटो यस्तु सा निर्जरा मता।
आत्यन्तिको वियोगस्तु देहादेर्मोक्षः उच्यते॥⁵

अस्याः कारिकायाः व्याख्यां कुर्वन्तः श्रीगुणरत्नसूरयः तर्करहस्यदीपिकायां मोक्षस्य स्वरूपमेवंप्रकारेण प्रतिपादयन्ति-
"देहादेः शरीरपञ्चकेन्द्रियायुरादिवाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्ध-त्वादेरात्यन्तिको वियोगो विरहः मोक्षः इष्यते।“⁶

एवंप्रकारेणान्यत्रापि बहुषु जैनग्रन्थेषु मोक्षस्य स्वरूपं वर्णितम्। तस्य सर्वस्य तात्पर्यमिदं यदयं संसारी जीवः कर्मबन्धनैः बद्धोऽस्ति, अतः यदा तस्य सर्वेषां बन्धहेतुनामभावो भवति, पूर्वबद्धकर्मणां चात्यन्तिको वियोगो भवति, तदा तस्य जीवस्य या परमसुखरूपा स्वाधीनावस्था जायते स एव मोक्षः।

अत्र मोक्षस्य स्वरूपज्ञाने 'आत्यन्तिक’पदं विशेषतया ध्यातव्यम्। कोऽभिप्रायः आत्यन्तिकपदस्य ? सूचयन्ति श्रीगुणरत्नसूरिमहोदयाः तर्करहस्यदीपिकायाम्-

यो हि शश्वद्भवति न पुनः कदाचिन्न भवति स आत्यन्तिकः ।⁷ अर्थात् मोक्षे सति सर्वकर्मणां योऽभावो भवति सः एतादृशः भवति यः पुनः कदापि अनन्तकालानन्तरमपि सद्भावरूपो भवितुं न शक्नोति। यद्यपि सामान्यरूपेण तु संसारावस्थायामपि देहादीनां पुद्गलकर्मणां चानेकशः अभावो भवति, किन्तु सोऽभावः आत्यन्तिकः नास्ति, यतो हि जीवः पुनरपि तैः बन्धनैः बध्नाति, तस्मात् तमभावं मोक्षं न निगद्यते। अत्यन्तिकपदप्रयोगेण जैनाचार्यैरयमेवाभिप्रायः प्रकटितः। स्पष्टरूपेणापि कथयन्ति श्रीब्रह्मदेवसूरिमहोदयाः बृहद्रव्यसङ्ग्रहस्य टीकायाम् -
“या पुनरज्ञानिनां निर्जरा सा गजस्त्रानवन्निष्फला। यतः स्तोकं कर्म निर्जरयति बहुतरं बधाति तेन कारणेन सा न ग्राह्या।"8

अत्रास्मिन्नेव विषये एकमन्यं महत्त्वपूर्ण प्रश्नमपि षड्दर्शनसमुच्चयकारैरुत्थापितं यत् देहस्यात्यन्तिकः वियोगस्तु समुचितः किन्तु रागादीनामात्यन्तिकः वियोगः सर्वथाऽसंभवः तेषामनादिमत्त्वात्। तथा प्रश्नस्यास्य समाधानमपि सुष्ठ प्रकारेण प्रदत्तम्। तद्यथा-
“ननु भवतु देहस्यात्यन्तिको वियोगः तस्य सादित्वात्, परं रागादिभिः सहात्यन्तिको वियोगोऽसंभवः प्रमाणबाधनात्। प्रमाणं चेदम्- यदनादिमत् न तद्विनाशमाविशति यथाकाशम्। अनादिमन्तश्च रागादय इति चेत्।
उच्यते, यद्यपि रागादयो दोषा जन्तोरनादिमन्तः तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते। ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निर्मूलमपि क्षयः, निर्मूलक्षयानभ्युपगमेऽपचयस्याप्यसिद्धेः। यथा हि- शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वनेर्मन्दतायां मन्दा उपलब्धा उत्कर्षे च निरन्वयविनाशिनः। एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः।“9

इत्थं प्रकारेणेदं सुस्पष्टं यत् सर्वविधबन्धहेतूनामभावात् पूर्वसञ्चितसर्वकर्मणां च निर्जरणात् यः देहादीनामात्यन्तिको वियोगः भवति सः एव मोक्षः।

अथ एतस्मिन्नेव प्रसङ्गे बन्धहेतूनां विषयेऽपि किमपि ज्ञातव्यम्।
कति बन्धहेतवः?
कथयन्त्याचार्योमास्वामिमहोदयाः तत्त्वार्थसूत्रस्य सप्तमाध्याये-
मिथ्यात्वाविरतिप्रमादकषाययोगाः बन्धहेतवः।10
अर्थात् बन्धस्य पञ्च हेतवः सन्ति- मिथ्यात्वमविरतिः प्रमादः कषायः योगश्चेति।
किमेतेषां बन्धहेतूनां स्वरूपम् ?
तत्त्वार्थानामश्रद्धानं विपरीतश्रद्धानं वा मिथ्यादर्शनम्। निर्विकारस्वसंवित्तिविपरीतव्रतपरिणामविकारोऽविरतिः। कुशलेष्वनादरः प्रमादः। क्रोधादिपरिणामः कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः। आत्मनो मनोवाक्कायवर्गणालम्बनः प्रदेशपरिस्पन्दः उपयोगो योगः।

जैनदर्शनस्याध्यात्मग्रन्थेषु बन्धस्य त्रय एव हेतवः वर्णिताः मिथ्यादर्शनं, मिथ्याज्ञानं मिथ्याचारित्रञ्चेति, किन्तु वस्तुतः तत्राप्येतेषामुक्तानां पञ्चविधहेतूनामन्तर्भावः कृतः। तथा हि तत्त्वानुशासने स्पष्टरूपेणोक्तम् -
स्युर्मिथ्यादर्शनज्ञानचारित्राणि समासतः।
बन्धस्य हेतवोऽन्यस्तु त्रयाणामेव विस्तरः।।11

इत्थंप्रकारेणेदं सुस्पष्टं यत् सर्वविधहेतूनामभावात् पूर्वसञ्चितसर्वकर्मणां च निर्जरणात् देहादीनां योऽत्यन्तिकः वियोगो भवति सः एव मोक्षः।

अथ मोक्षस्य भेदाः विचारणीयाः। जैनदर्शने मोक्षस्य द्वौ भेदावपि प्रतिपादितौ। यद्यपि तत्त्वार्थवार्तिकाद्यनेकेषु ग्रन्थेष्विदं तथ्यं सुष्टुप्रकारेण पुनः पुनः प्रतिपादितं यत् सामान्येन तु मोक्षः एकः एव भवति, किन्तु बन्धनं द्विविधं द्रव्यभावभेदेन, तस्मात् द्रव्यभावबन्धनापेक्षया मोक्षस्यापि द्वौ भेदौ विहितौ- द्रव्यमोक्षः भावमोक्षश्चेति। यथा-

तं मुक्तं अविरुद्धं दुविहं खलु दव्वभावगदं। 12

द्रव्यभावमोक्षयोः स्वरूपमेवं प्रतिपादितं जैनग्रन्थेषु यत् जीवेन सह बद्धानां पुद्गलकर्मणामात्यन्तिकः वियोगस्तु द्रव्यमोक्षः तथा जीवस्य मोहरागद्वेषादीनां सर्वाशुद्धभावानामात्यन्तिकः वियोगः भावमोक्षः। आचार्याः जयसेनमहोदया अपि पञ्चास्तिकायस्य वृत्तौ कथयन्त्येवमेव-

“कर्मनिर्मूलनसमर्थः शुद्धात्मोपलब्धिरूपजीवपरिणामो भावमोक्षः, भावमोक्षनिमित्तेन जीवकर्मप्रदेशानां निरवशेषः पृथग्भावो द्रव्यमोक्षः इति।"13

तात्पर्यमिदं यत् संसारावस्थायां जीवस्य बन्धनमेव मुख्यतया द्विविधं; प्रथमं रागादिरूपं भावबन्धनं द्वितीयं च पौद्गलिकम्। तस्माद् मोक्षोऽपि द्वविधः प्रोक्तः- भावमोक्षः द्रव्यमोक्षश्चेति। यः प्रथमबन्धनाद् रागद्वेषाद्यशुद्धपरिणमनात् मोक्षः सः भावमोक्षः, यश्च द्वितीयबन्धनरूपपौद्गलिककर्मेभ्य मोक्षः स द्रव्यमोक्षः इति।

एवं प्रकारेणार्हन्मते सर्वविधद्रव्यभावकर्मणामात्यन्तिकः वियोगो एव मोक्षः इति सम्यक्रूपेण प्रतिपादितम्।

बौद्धदर्शने मोक्षस्य स्वरूपं प्रदीपनिर्वाणकल्पं स्वीकृतमतः तेषां मतानुसारेण मोक्षे सति जीवस्य एवाभावो भवति, किन्तु नास्त्येतादृशमभिमतं जैनदर्शनस्य। जैनदर्शनानुसारेण तु मोक्षे जीवस्याभावो न भवति, अपितु जीवस्याशुद्धपरिणामानामेवाभावो भवति। यतो हि जीवमप्येक द्रव्यं, द्रव्यं च सल्लाक्षणिकं, सतश्च विनाशो कदापि भवितुं नार्हति। यथा वस्त्रस्य प्रक्षालने सति मलस्यैवाभावो भवति, न तु वस्त्रस्य। वस्त्रं तु प्रक्षालनानन्तरं स्वच्छत्वेन विराजते। तथैव मोक्षे सति मलरूपाणामशुद्धपरिणामानामेवाभावो भवति न तु जीवस्य। जीवः तु मोक्षावस्थायां शुद्धरूपेण विराजते, अतः जैनदर्शनानुसारेण मोक्षस्य स्वरूपमभावात्मकं नास्ति।

आचार्याकलङ्कदेवाऽप्येतदेव कथयन्ति सिद्धिविनिश्चये-

आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयात्।
नाभावं नाप्यचैतन्यं न चैतन्यमनर्थकम्।।14

अर्थात् मोक्षस्य स्वरूपमभावात्मकं नास्ति, अपितु जीवस्यान्तर्मलक्षये यः आत्मलाभः भवति स एव मोक्षः इति। तत्र बौद्धानामिव मोक्षे आत्मतत्त्वस्याभावो न जायते, आत्मा ज्ञानशून्योऽचेतनो वापि न भवति, तथा च चैतन्यमनर्थकमपि न भवति, यतो हि तत्रापि लोकत्रयं साक्षीभावेन जानाति पश्यति एव।

वस्तुतः मोक्षे सति शरीरेन्द्रियायुरादिवाह्यप्राणपुण्यपापाज्ञानकषायवेदत्रयादीनामेवाभावो भवति, न तु चैतन्यस्य। चैतन्यं तु जीवस्य स्वरूपमेव।

अत्रास्मिन् विषये षड्दर्शनसमुच्चयस्य टीकायां समागतं श्रीगुणरलसूरिमहोदयानां कथनमपि ध्यानेनावलोकनीयम्। तदित्थम् -

"ननु भवतु कर्मणामभावेऽपि पूर्वप्रयोगादिभिजीवस्योर्ध्वगतिः, तथापि सर्वथा शरीरेन्द्रियादिप्राणानामभावान्मोक्षे जीवस्याजीवत्वप्रसङ्गः। यतो जीवनं प्राणधारणमुच्यते, तच्चेन्नास्ति, तदा जीवस्य जीवनाभावादजीवत्वं स्यात्, अजीवस्य च मोक्षाभाव इति चेत्।

न; अभिप्रायापरिज्ञानात्। प्राणा हि द्विविधाः द्रव्यप्राणाः भावप्राणाश्च। मोक्षे च द्रव्यप्राणानामेवाभावः, न पुनः भावप्राणानाम्। भावप्राणाश्च मुक्तावस्थायामपि सन्त्येव। ततश्चानन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखलक्षणं जीवनं सिद्धानामपि भवतीत्यर्थः।

ये जनाः प्रदीपनिर्वाणमिव मोक्षस्वरूपमङ्गीकुर्वन्ति तेषां प्रति जैनाचार्याः इदमपि कथयन्ति यदेतादृशः बुद्धिमान् कः भवेत् यः तपादिभिरात्मानमेव विनाशं वाञ्छति। तथा हि-

“मोक्षार्थी हि सर्वोऽपि निरतिशयसुखज्ञानादिप्राप्त्यभिलाषेणैव प्रवर्तते, न तु पुनः शिलाशकलकल्प-मपगतसकलसुखसंवेदनमात्मानमुत्पादयितुं यतते, यदि मोक्षावस्थायामपि पाषाणकल्योऽपगतसुखसंवेदनलेशः पुरुषः सम्पद्यते, तदा कृतं मोक्षेण, संसार एव वरीयान्, यत्र सान्तरापि सुखलेशप्रतिपत्तिरप्यस्ति।"

तत्त्वार्थवार्तिके श्रीमद्भट्टाकलदेवैरप्येवमभिहितं यत् प्रदीपस्यापि सर्वथा विनाशो न भवति, प्रदीपरूपेण परिणताः सर्वे एव पुद्गलाः पुद्गलरूपेण तु तिष्ठन्त्येव, पुद्गलजातिं च कदापि न विजहन्ति। अवस्थामात्रेणैव परिवर्तनं भवति तेषाम्। तथाहि-

“सर्वथाऽभावो मोक्षः प्रदीपवदिति चेत्; न, साध्यत्वात्। साध्यमेतत् प्रदीपो निरन्वयनाशमुपयातीति। प्रदीपा एव हि पुद्गलाः, पुद्गलजातिमजहतः परिणामवशान्मषीभावमापन्ना इति नात्यन्तविनाशः।"

एवंप्रकारेणेदं सुस्पष्टं यत् यथा निगडादिवियोगे तन्निबद्धस्य देवदत्तस्य विनाशो न भवति, अपितु सुखपूर्वकमवस्थानं भवति, तथैव कर्मविप्रयोगे जीवस्य विनाशो न भवति, अपितु स्वभाविकसुखपूर्वकमवस्थानं भवत्येवेति।

अथ मुक्तजीवानां स्वरूपमपि विचारणीयम्। पूर्वमेवोक्तं यत् जैनदर्शनानुसारं मोक्षे सति जीवस्याभावो न भवति, अतः जैनाचार्यैः मुक्तजीवानां स्वरूपोऽपि विस्तरेण प्रतिपादितः। तदनुसारेण मुक्तजीवाः सर्वकर्ममलविप्रमुक्ताः अनन्तदर्शनज्ञानसुखवीर्याद्यनन्तगुणसंयुक्ताश्च भवन्ति। यथा-

कम्ममलविप्पमुक्को डुं लोगस्स अंतमधिगंता।
सो सव्वणाणदरिसी लहदि सुहमणिंदियमणंतं ।।

अर्थात् कर्ममलमुक्तो जीवः लोकस्योर्ध्वभागे गच्छति तत्र चानंतज्ञानदार्शनाभ्यां संयुक्तो भूत्वाऽनंतमतीन्द्रियं सुखमनुभवति।

द्रव्यस्वभावप्रकाशके नयचक्रेऽप्युक्तं माइल्लधवलस्वामिना -

णट्ठट्ठकम्मसुद्धा असरीरा णंतसोक्खणाणट्ठा।
परमपहुतं पत्ता जे ते सिद्धा हु खलु मुक्का ।।

अर्थात् अष्टकर्मविनाशात् जीवाः शुद्धाः अशरीराः अनंतसुखज्ञानस्थाः परमप्रभुत्वं प्राप्ताः सिद्धाश्च भवन्ति।

मुक्तजीवाः स्वात्मन्येव तिष्ठति सदाकालं, न च कुत्रापि मोहरागद्वेषादिकं कुर्वन्ति। रामसेनाचार्याः लिखन्ति -

न मुह्यति न संशेते न स्वार्थान्नाध्यवस्यति।
न रज्यति न च द्वेष्टि किन्तु स्वस्थः प्रतिक्षणम्।।

त्रिकालविषयं ज्ञेयमात्मानं च यथास्थितम्।
जानन्पश्यंश्च निःशेषमुदास्ते स तदा प्रभुः।।

अनन्तज्ञानदृग्वीर्यवैतृष्ण्यमयमव्ययम्।
सुखं चानुभवत्येष तत्रातीन्द्रियमच्युतः।।

मुक्तजीवानां सुखः कीदृशः भवत्यस्मिन् विषये तत्त्वानुशासने समागतोऽयं श्लोकः ध्यानेनावलोकनीयः-

आत्मायत्तं निराबाधमतीन्द्रियमनश्वरम्।

घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः॥

अन्यत्रापि मुक्तजीवानां सुखस्य माहात्म्यमित्थं प्रकारेणाभिहितम्-
यदत्र चक्रिणां सौख्यं यच्च स्वर्गे दिवौकसाम्।
कलयापि न तत्तुल्यं सुखस्य परमात्मनाम्।।

एवमेवान्यत्रापि मुक्तजीवानां सुखस्य निरूपणं कृतं विस्तरेण, किन्तु तत्सर्वमत्र न लिख्यते विस्तारभयेन।

अथोपसंहाररूपेणेदं वक्तुं शक्यते यत् द्रव्यभावरूपसर्वविधबन्धनानामभावे सति जीवस्य या अनंतस्वाभाविक-सुखरूपमवस्थानं जायते तदेव मोक्ष इति।

पादसंदर्भाः
१. तत्त्वार्थसूत्रस्य प्रथमाध्याये, सूत्रांक ४ (“जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्।”)
२. तत्त्वार्थसूत्रस्य दशमाध्याये, सूत्रांक २
३. तत्त्वार्थराजवार्तिके, प्रथमाध्याये, सूत्रांक ४
४. सर्वार्थसिद्धिः प्रथमाध्यायः, प्रथमसूत्रस्योत्थानिकायाम्।
५. षड्दर्शनसमुच्चयः, चतुर्थाधिकार, कारिका ५२
६. षड्दर्शनसमुच्चयस्य तर्करहस्यदीपिकानाम्नी टीका, चतुर्थाधिकारः कारिका ५२, अनुच्छेदः २३७
७. तदेव, अनुच्छेदः २३७
८. बृहद्रव्यसंग्रहस्य टीकायां, गाथा ३६
९. षड्दर्शनसमुच्चयस्य तर्करहस्यदीपिकानाम्नी टीका, चतुर्थाधिकारः, कारिका ५३, अनुच्छेदः २३८-२३९
१०. तत्त्वार्थसूत्रे, अष्टमाध्याये, सूत्रांक १
११. तात्पर्यवृत्तिः (समयसार-टीका), गाथा ८८
१२. सर्वार्थसिद्धिः, अष्टमाध्याये, सूत्रांक १
१३. तत्त्वार्थराजवार्तिके, षष्ठाध्याये, सूत्राङ्क ४
१४. तत्त्वार्थराजवार्तिके, नवमाध्याये, सूत्राङ्क ७
१५. तत्त्वानुशासनम्, श्लोकाङ्कः ८
१६. तत्त्वार्थराजवार्तिके, प्रथमाध्याये, सूत्राङ्कः ७
१७. बृहन्नयचक्रम् गाथा १५९
१८. तात्पर्यवृत्तिः (पंचास्तिकाय-टीका), गाथा १०८
१९. पञ्चाध्यायी, पूर्वार्धः, श्लोकाङ्क ८
२०. सिद्धिविनिश्चयः, श्लोकाङ्क ७
२१. षड्दर्शनसमुच्चयस्य तर्करहस्यदीपिका नाम्नी टीका, चतुर्थाधिकारः, कारिका ५२, अनुच्छेदः २४५
२२. तदेव अनुच्छेदः २४९
२३. तत्त्वार्थराजवार्तिके, दशमाध्याये सूत्राङ्क ४
२४. तत्त्वार्थराजवार्तिके, दशमाध्याये, सूत्राङ्क ४ २५. पंचास्तिकायः गाथा २८ द्रव्यस्वभावप्रकाशकं नयचक्र, गाथा
२६. तत्त्वानुशासनम्, श्लोक, २३७ से २३९
२७. तत्त्वानुशासनं, श्लोकाङ्क २४२
२८. तदेव, श्लोकाङ्कः २४६

आर्हन्मते_मोक्षस्वरूपम्.pdf (0.1 MB)