अद्याष्टक स्तोत्र (संस्कृत) | Adyashtak Stotra (Sanskrit)

अद्य मे सफलं जन्म नेत्रे च सफले मम।
त्वामद्राक्षं यतो देव हेतुमक्षयसंपदः॥१॥

अद्य संसार-गंभीर-पारावारः सुदुस्तरः।
सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात्॥२॥

अद्य मे क्षालितं गात्रं नेत्रे च विमले कृते।
स्नातोऽहं धर्म-तीर्थेषु जिनेन्द्र तव दर्शनात्॥३॥

अद्य मे सफलं जन्म प्रशस्तं सर्वमंगलम्।
संसारार्णव-तीर्णोऽहं जिनेन्द्र तव दर्शनात्॥४॥

अद्य कर्माष्टक-ज्वालं विधूतं सकषायकम्।
दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात्॥५॥

अद्य सौम्या ग्रहाः सर्वे शुभाश्चैकादश-स्थिताः।
नष्टानि विघ्न-जालानि जिनेन्द्र तव दर्शनात्॥६॥

अद्य नष्टो महाबन्धः कर्मणां दुःखदायिनः।
सुख-सङ्गं समापन्नो जिनेन्द्र तव दर्शनात्॥७॥

अद्य कर्माष्टकं नष्टं दुःखोत्पादन-कारकम्।
सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र तव दर्शनात्॥८॥

अद्य मिथ्यान्धकारस्य हन्ता ज्ञान-दिवाकरः।
उदितो मच्छरीरेऽस्मिन् जिनेन्द्र तव दर्शनात्॥९॥

अद्याहं सुकृती भूतो निर्धूताशेषकल्मषः।
भुवन-त्रय-पूज्योऽहं जिनेन्द्र तव दर्शनात्॥१०॥

अद्याष्टकं पठेद्यस्तु गुणानन्दित-मानसः।
तस्य सर्वार्थसंसिद्धिर्जिनेन्द्र तव दर्शनात्॥११॥

इति अद्याष्टकम्


स्रोत: ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ), पृष्ठ १० (ज्ञानपीठ पूजाञ्जलि (भारतीय ज्ञानपीठ) | Gyanpith Pujanjali)