स्वयंभू स्तोत्र | Swayambhu Stotra (Sanskrit & Padhyanuvaad)

स्वयंभू स्तोत्र

श्री आदिनाथ जिन स्तुति

स्वयम्भुवां भूत- हितेन भूतले,
समञ्जस-ज्ञान-विभूति - चक्षुषा ।
विराजितं येन विधुन्वता तमः,
क्षपाकरेणेव गुणौत्करैः करैः ॥ १ ॥

प्रजापतिर्यः प्रथमं जिजीविषूः,
शशास कृष्यादिषु कर्मसु प्रजाः ।
प्रबुद्धतत्त्वः पुनरद्भुतोदयो,
ममत्वतो निर्विविदे विदांवरः ॥ २ ॥

विहाय यः सागर-वारि-वाससं,
वधूमिवेमां वसुधा-वधूं सतीम् ।
मुमुक्षुरिक्ष्वाकु कुलादिरात्मवान्,
प्रभुः प्रवव्राज सहिष्णुरच्युतः ॥३ ॥

स्व-दोष -मूलं स्व-समाधि- तेजसा,
निनाय यो निर्दय - भस्मसात्क्रियाम् ।
जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा,
बभूव च ब्रह्म-पदामृतेश्वरः ॥४ ॥

स विश्व - चक्षुर्वष भोऽर्चितः सतां,
समग्र-विद्याऽऽत्म-वपुर्निरञ्जनः ।
पुनातु चेतो मम नाभि-नन्दनो,
जिनोऽजित - दुल्लक- वादि-शासनः ॥५ ॥

श्री अजितनाथ जिन-स्तुति

यस्य प्रभावात् त्रिदिव- च्युतस्य
क्रीडास्वपि क्षीबमुखाऽरविन्दः,
अजेय-शक्तिर्भुवि बन्धु-वर्ग-
श्चकार नामाऽजित इत्यबन्ध्यम् ॥ ६ ॥

अद्याऽपि यस्याऽजितशासनस्य
सतां प्रणेतुः प्रतिमङ्गलार्थम् ।
प्रगृह्यते नाम परम- पवित्रं
स्वसिद्धि-कामेन जनेन लोके ॥ ७ ॥

यः प्रादुरासीत्प्रभु-शक्ति- भूम्ना
भव्याऽऽशयालीन- कलङ्क- शान्त्यै ।
महामुनिर्मुक्त- घनोपदेहो
यथाऽरविन्दाऽभ्युदयाय भास्वान् ॥८ ॥

येन प्रणीतं पृथु धर्म-तीर्थं
ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् ।
गाङ्गं हृदं चन्दन- पङ्क- शीतं
गज-प्रवेका इव धर्म-तप्ताः ॥ ९ ॥

स ब्रह्मनिष्ठः सम- मित्र - शत्रु-
विद्या - विनिर्वान्त-कषाय- दोषः ।
लब्धात्मलक्ष्मीरजितोऽजितात्मा
जिन श्रियं मे भगवान् विधत्ताम् ॥१० ॥

श्री शम्भवनाथ जिन स्तुति

त्वं शम्भवः सम्भव- तर्ष - रोगैः
सन्तप्यमानस्य जनस्य लोके ।
आसीरिहाऽऽकस्मिक एव वैद्यो
वैद्यो यथाऽनाथरुजां प्रशान्त्यै ॥ ११ ॥

अनित्यमत्राणमहंक्रियाभिः
प्रसक्त-मिथ्याऽध्यवसाय - दोषम् ।
इदं जगज्जन्म-जराऽन्तकार्तं
निरञ्जनां शान्तिमजीगमस्त्वम् ॥१२ ॥

शतहृदोन्मेष - चलं हि सौख्यं
तृष्णामयाऽप्यायन-मात्र- हेतुः ।
तृष्णाभिवृद्धिश्च तपत्यजस्त्रं
तापस्तदायासयतीत्यवादीः ॥ १३ ॥

बन्धश्च मोक्षश्च तयोश्च हेतू
बद्धश्च मुक्तश्च फलं च मुक्तेः ।
स्याद्वादिनो नाथ! तवैव युक्तं
नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ १४ ॥

शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः
स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः ।
तथाऽपि भक्त्या स्तुत-पाद-पद्मो
ममार्य ! देयाः शिवतातिमुच्चैः ॥ १५ ॥

श्री अभिनन्दननाथ जिन स्तुति

गुणाऽभिनन्दादभिनन्दनो भवान्
दया-वधूं क्षान्ति - सखीमशिश्रियत् ।
समाधि–तन्त्रस्तदुपोपपत्तये
द्वयेन नैर्ग्रन्थ्य-गुणेन चाऽयुजत् ॥ १६ ॥

अचेतने तत्कृत-बन्धजेऽपि च
ममेदमित्याभिनिवेशिक ग्रहात् ।
प्रभंगुरे स्थावर - निश्चयेन च
क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७ ॥

क्षुदादि-दुःख- प्रतिकारतः स्थिति-
र्न चेन्द्रियार्थ–प्रभवाऽल्प- सौख्यतः ।
ततो गुणो नास्ति च देह देहिनो-
रितीदमित्थं भगवान् व्यजिज्ञपत् ॥ १८ ॥

जनोऽतिलोप्यनुबन्धदोषतो
भयादकार्येष्विह न प्रवर्तते ।
इहाऽप्यमुत्राऽप्यनुबन्धदोषवित्
कथं सुखे संसजतीति चाऽब्रवीत् ॥ १९ ॥

स चानुबन्धोऽस्य जनस्य तापकृत्
तृषोऽभिवृद्धि: सुखतो न च स्थितिः ।
इति प्रभो ! लोक-हितं यतो मतं
ततो भवानेव गतिः सतां मतः ॥ २०॥

श्री सुमतिनाथ जिन - स्तुति

अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं,
स्वयं मतं येन सुयुक्ति- नीतम् ।
यतश्च शेषेषु मतेषु नास्ति,
सर्व-क्रिया- कारक-तत्त्व-सिद्धिः ॥२१॥

अनेकमेकं च तदेव तत्त्वं,
भेदाऽन्वयज्ञानमिदं हि सत्यम् ।
मृषोपचारोऽन्यतरस्य लोपे,
तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥२२॥

सतः कथञ्चित्तदसत्त्व - शक्तिः,
खे नास्ति पुष्पं तरुषु प्रसिद्धम् ।
सर्व-स्वभाव- च्युतमप्रमाणं,
स्व- वाग्विरुद्धं तव दृष्टितोऽन्यत् ॥२३॥

न सर्वथा नित्यमुदेत्यपैति,
न च क्रिया-कारकमंत्र युक्तम् ।
नैवाऽसतो जन्म सतो न नाशो,
दीपस्तमः पुद्गलभावतोऽस्ति ॥२४॥

विधिर्निषेधश्च कथञ्चिदिष्टौ,
विवक्षया मुख्य-गुण-व्यवस्था ।
इति प्रणीतिः सुमतेस्तवेयं,
मति - प्रवेकः स्तुवतोऽस्ति नाथ ! ॥ २५ ॥

श्री पद्मप्रभ जिन स्तुति

पद्मप्रभः पद्म- पलाश-लेश्य:,
पद्मालयाऽऽ लिङ्गितचारुमूर्तिः ।
बभौ भवान् भव्य - पयोरुहाणां,
पद्माकराणामिव पद्मबन्धुः ॥२६ ॥

बभार पद्मां च सरस्वतीं च
भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः ।
सरस्वतीमेव समग्र-शोभां
सर्वज्ञ- लक्ष्मीज्वलितां विमुक्तः ॥ २७॥

शरीर-रश्मि- प्रसरः प्रभोस्ते
बालार्क- रश्मिच्छविराऽऽलिलेप ।
नराSमराऽऽकीर्ण-सभां प्रभा वां
शैलस्य पद्माभमणेः स्वसानुम् ॥ २८ ॥

नभस्तलं पल्लवयन्निव त्वं
सहस्रपत्राऽम्बुज- गर्भचारै: ।
पदाऽम्बुजैः पातित- मार-दर्पो
भूमौ प्रजानां विजहर्थ भूत्यै ॥ २९ ॥

गुणाम्बुधेर्विप्रुषमप्यजस्य
नाऽऽखंडलः स्तोतुमलं तवर्षेः ।
प्रागेव मादृक्किमुताऽतिभक्ति-
म बालमालापयतीदमित्थम् ॥ ३० ॥

श्री सुपार्श्वनाथ जिन - स्तुति

स्वाथ्यं यदात्यन्तिकमेष पुंसां,
स्वार्थो न भोगः परिभंगुरात्मा ।
तृषोऽनुषंगान्न च तापशान्ति-
रितीदमाख्यद्भगवान् सुपार्श्वः ॥३१ ॥

अजङ्गगमं जङ्गम-नेय- यन्त्रं,
यथा तथा जीव- धृतं शरीरम् ।
बीभत्सु पूति क्षयि तापकं च,
स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ॥३२ ॥

अलंघ्यशक्तिर्भवितव्यतेयं,
हेतु-द्वयाऽऽविष्कृत-कार्य-लिङ्गा ।
अनीश्वरो जन्तुरहंक्रियार्त्तः,
संहत्य कार्येष्विति साध्ववादीः ॥३३॥

बिभेति मृत्योर्न ततोऽस्ति मोक्षो,
नित्य शिवं वाञ्छति नाऽस्य लाभः ।
तथाऽपि बालो भय-काम- वश्यो,
वृथा स्वयं तप्यत इत्यवादीः ॥३४॥

सर्वस्य तत्त्वस्य भवान् प्रमाता,
मातेव बालस्य हितानुशास्ता ।
गुणाऽवलोकस्य जनस्य नेता,
मयाऽपि भक्त्या परिणयतेऽद्य ॥ ३५ ॥

श्री चन्दप्रभ जिन - स्तुति

चन्द्रप्रभं चन्द्र- मरीचि - गौरं
चन्द्रं द्वितीयं जगतीव कान्तम् ।
वन्देऽभिवन्द्यं महतामृषीन्द्रं
जिनं जित-स्वान्त-कषाय-बन्धम् ॥३६ ॥

यस्याङ्ग- लक्ष्मी-परिवेश-भिन्नं
तमस्तमोरेरिव रश्मिभिन्नम् ।
ननाश बाह्यं बहु मानसं च
ध्यान- प्रदीपाऽतिशयेन भिन्नम ॥३७॥

स्व-पक्ष - सौस्थित्य-मदाऽवलिप्ता
वाक्सिंह-नादैर्विमदा बभूवुः ।
प्रवादिनो यस्य मदार्द्रगण्डा
गजा यथा केसरिणो निनादैः ॥३८ ॥

यः सर्व- लोके परमेष्ठितायाः
पदं बभूवाऽद्भुत - कर्मतेजाः ।
अनन्त-धामाऽक्षर- विश्वचक्षुः
समन्तदुःख-क्षय- शासनश्च ॥३९॥

स चन्द्रमा भव्य-कुमुद्वतीनां
विपन्न-दोषाऽभ्र- कलङ्क-लेपः ।
व्याकोश-वाङ्-न्याय-मयूख-मालः
पूयात्पवित्रो भगवान्मनो मे ॥ ४० ॥

श्री सुविधिनाथ जिन-स्तुति

एकान्तदृष्टि-प्रतिषेधि तत्त्वं
प्रमाण- सिद्धं तदतत्स्वभावम् ।
त्वया प्रणीतं सुविधे ! स्वधाम्ना
नैतत्समालीढ- पदं त्वदन्यैः ॥ ४१ ॥

तदेव च स्यान्न तदेव च स्यात्
तथाप्रतीतेस्तव तत्कथञ्चित् ।
नाऽत्यन्तमन्यत्वमनन्यता च
विधेर्निषेधस्य च शून्य- दोषात् ॥४२ ॥

नित्यं तदेवेदमिति प्रतीते -
र्न नित्यमन्यत् प्रतिपत्ति- सिद्धेः ।
न तद्विरुद्धं बहिरन्तरङ्ग -
निमित्त- नैमित्तिक- योगतस्ते ॥ ४३ ॥

अनेकमेकं च पदस्य वाच्यं
वृक्षा इति प्रत्ययवत्प्रकृत्या ।
आकांक्षिणः स्यादिति वै निपातो
गुणाऽनपेक्षं नियमेऽपवादः ॥ ४४ ॥

गुण- प्रधानार्थमिदं हि वाक्यं
जिनस्य ते तद् द्विषतामपथ्यम् ।
ततोऽभिवन्द्यं जगदीश्वराणां
ममाऽपि साधोस्तव पादपद्मम् ॥ ४५ ॥

श्री शीतलनाथ जिन स्तुति

न शीतलाश्चन्दनचन्द्ररश्मयो
न गाङ्गमम्भो न च हारयष्टयः ।
यथा मुनेस्तेऽनघवाक्य- रश्मयः
शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥४६ ॥

सुखाऽभिलाषाऽनल- दाह-मूर्च्छितं
मनो निजं ज्ञानमयाऽमृताम्बुभिः ।
व्यदिध्यपस्त्वं विष- दाह-मोहितं
यथा भिषग्मन्त्र- गुणैः स्व-विग्रहम् ॥४७॥

स्व- जीविते काम-सुखे च तृष्णया
दिवा श्रमार्त्ता निशि शेरते प्रजाः ।
त्वमार्य ! नक्तं-दिवमप्रमत्तवा-
नजागरेवाऽऽत्म-विशुद्ध-वर्त्मनि ॥४८ ॥

अपत्य - वित्तोत्तर- लोक- तृष्णया
तपस्विनः केचन कर्म कुर्वते ।
भवन्पुनर्जन्म - जरा - जिहासया
त्रयीं प्रवृत्तिं समधीरवारुणत् ॥४९ ॥

त्वमुत्तम- ज्यातिरजः क्व निर्वृतः
क्व ते परे बुद्धि-लवोद्धव-क्षताः ।
ततः स्वनिः श्रेयस - भावनापरै-
बुध- प्रवेकैर्जिन ! शीतलेड्यसे ॥५०॥

श्री श्रेयांसनाथ जिन स्तुति

श्रेयान् जिनः श्रेयसि वर्त्मनीमाः
श्रेयः प्रजाः शासदजेयवाक्यः ।
भवांश्चकाशे भुवनत्रयेऽस्मि-
नेको यथा वीत- घनो विवस्वान् ॥५१ ॥

विधिर्विषक्त-प्रतिषेधरूपः
प्रमाणमत्राऽन्यतरत्प्रधानम् ।
गुणो परो मुख्य नियामहेतु-
र्नयः दृष्टान्तसमर्थनस्ते ॥५२॥

विवक्षितो मुख्य इतीष्यतेऽन्यो
गुणोऽविवक्षो न निरात्मकस्ते ।
तथाऽरिमित्राऽनुभयादिशक्ति
द्वयाऽवधेः कार्यकरं हि वस्तु ॥५३ ॥

दृष्टान्त-सिद्धावुभयोर्विवादे
साध्यं प्रसिद्ध्येन्न तु तादृगस्ति ।
यत्सर्वथैकान्त- नियामि दृष्टं
त्वदीय- दृष्टिर्विभवत्यशेषे ॥ ५४ ॥

एकान्त-दृष्टि-प्रतिषेध-सिद्धि-
न्यायेषुभिर्मोहरिपुं निरस्य ।
असि स्म कैवल्य-विभूति-सम्राट
ततस्त्वमर्हन्नसि मे स्तवाऽर्हः ॥५५ ॥

श्री वासुपूज्य जिन - स्तुति
शिवासुपूज्योऽभ्युदय-क्रियासु
त्वं वासुपूज्यस्त्रिदशेन्द्र- पूज्यः ।
मयाऽपि पूज्योऽल्प-धिया मुनीन्द्र !
दीपार्चिषा किं तपनो न पूज्यः ॥५६ ॥

न पूजयाऽर्थस्त्वयि वीतरागे
न निन्दया नाथ ! विवान्त-वैरे ।
तथाऽपि ते पुण्य-गुण-स्मृतिर्नः
पुनाति चित्तं दुरिताञ्जनेभ्यः ॥५७॥

पूज्यं जिनं त्वाऽर्चयतो जनस्य
सावद्य - लेशो बहु- पुण्य- राशौ ।
दोषाय नाऽलं कणिका विषस्य
न दूषिका शीत- शिवाऽम्बुराशौ ॥५८ ॥

यद्वस्तु बाह्यं गुण-दोष-सूते -
निमित्तमभ्यन्तर- मूलहेतोः ।
अध्यात्म-वृत्तस्य तदङ्गभूत-
मभ्यन्तरं केवलमप्यलं ते ॥५९ ॥

बाह्येतरोपाधि- समग्रतेयं
कार्येषु ते द्रव्यगतः स्वभावः ।
नैवाऽन्यथा मोक्ष-विधिश्च पुंसां
तेनाभिवन्द्यस्त्वमृषिर्बुधानाम् ॥६०॥

श्री विमलनाथ जिन स्तुति

य एव नित्य-क्षणिकादयो नया
मिथोऽनपेक्षा: स्व-पर-प्रणाशिनः ।
त एव तत्त्वं विमलस्य ते मुनेः
परस्परेक्षा स्व- परोपकारिणः ॥ ६१ ॥

यथैकशः कारकमर्थ-सिद्धये
समीक्ष्य शेषं स्व-सहाय-कारकम् ।
तथैव सामान्य- विशेष - मातृका
नयास्तवेष्टा गुण- मुख्य-कल्पतः ॥६२॥

परस्परेक्षाऽन्वय-भेद-लिङ्गतः
प्रसिद्ध- सामान्य-विशेषयोस्तव ।
समग्रताऽस्ति स्व- पराऽवभासकं
यथा प्रमाणं भुवि बुद्धि-लक्षणम् ॥६३॥

विशेष्य- वाच्यस्य विशेषणं वचो
यतो विशेष्यं विनियम्यते च यत् ।
तयोश्च सामान्यमतिप्रसज्यते
विवक्षितात्स्यादितितेऽन्यवर्जनम् ॥६४॥

नयास्तव स्यात्पद-सत्य-लाञ्छिता
रसोपविद्धा इव लोह - धातवः ।
भवन्त्यभिप्रेत- गुणा यतस्ततो
भवन्तमार्याः प्रणता हितैषिणः ॥ ६५ ॥

अनन्तनाथ जिन-स्तुति
अनन्त-दोषाऽऽशय-विग्रहो ग्रहो
विषङ्गवान्मोह - मयश्चिरं हृदि ।
यतो जितस्तत्त्वरुचौ प्रसीदता
त्वया ततोऽभूर्भगवाननन्तजित् ॥६६ ॥

कषाय-नाम्नां द्विषतां प्रमाथिना-
मशेषयन्नाम भवानशेषवित् ।
विशोषणं मन्मथ- दुर्मदाऽऽमयं
समाधि-भैषज्य-गुणैर्व्यलीनयत ॥६७॥

परिश्रमाऽम्बुर्भय-वीचि - मालिनी
त्वया स्वतृष्णा - सरिदाऽऽर्य ! शोषिता ।
असङ्ग-धर्मार्क- गभस्ति- तेजसा
परं ततो निर्वृति-धाम तावकम् ॥६८ ॥

सुहृत्त्वयि श्री - सुभगत्वमश्नुते
द्विषंस्त्वयि प्रत्ययवत् प्रलीयते ।
भवानुदासीनतमस्तयोरपि
प्रभो ! परं चित्रमिदं तवेहितम् ॥६९ ॥

त्वमीदृशस्तादृश इत्ययं मम
प्रलाप-लेशोऽल्प-मतेर्महामुने!
अशेष- माहात्म्यमनीरयन्नपि
शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥७०॥

श्री धर्मनाथ जिन - स्तुति

धर्म-तीर्थमनघं प्रवर्तयन्
धर्म इत्यनुमतः सतां भवान् ।
कर्म-कक्षमदहत्तपोऽग्निभिः
शर्म शाश्वतमवाप शङ्करः ॥७१ ॥

देव-मानव- निकाय-सत्तमै-
रेजिषे परिवृतो वृतो बुधैः ।
तारका-परिवृतोऽतिपुष्कलो
व्यमनीव शश- लाञ्छनोऽमलः ॥७२॥

प्रातिहार्य - विभवैः परिष्कृतो
देहतोऽपि विरतो भवानभूत् ।
मोक्षमार्गमशिषन्नरामरान्
नाऽपि शासन- फलैषणाऽऽतुरः ॥७३॥

काय - वाक्य- मनसां प्रवृत्तयो
नाऽभवस्तव मुनेश्चिकीर्षया ।
नाऽसमीक्ष्य भवतः प्रवृत्तयो
धीर! तावकमचिन्त्यमीहितम् ॥७४॥

मानुषीं प्रकृतिमभ्यतीतवान्
देवतास्वपि च देवता यतः ।
तेन नाथ ! परमाऽसि देवता
श्रेयसे जिनवृष! प्रसीद नः ॥७५॥

श्री शान्तिनाथ जिन-स्तुति
विधाय रक्षां परतः प्रजानां
राजां चिरं योऽप्रतिम- प्रतापः ।
व्यधात्पुरस्तात्स्वत एव शान्ति-
मुनिर्दया- मूर्तिरिवाऽघशान्तिम् ॥७६ ॥

चक्रेण यः शत्रु-भयङ्करेण
जित्वा नृपः सर्व- नरेन्द्र- चक्रम् ।
समाधि-चक्रेण पुनर्जिगाय
महोदयो दुर्जय-मोह- चक्रम् ॥७७॥

राज- श्रिया राजसु राज - सिंहो
रराज यो राज- सुभोग-तन्त्रः ।
आर्हन्त्य-लक्ष्म्या पुनरात्म-तन्त्रो
देवा सुरोदार - सभे रराज ॥७८॥

यस्मिन्नभूद्राजनि राज- चक्रं
मुनौ दया- दीधिति-धर्म- चक्रम् ।
पूज्ये मुहुः प्राञ्जलि देव-चक्रं
ध्यानोन्मुखे ध्वंसि कृतान्त - चक्रम् ॥७९ ॥

स्वदोष - शान्त्या विहिताऽऽत्मशान्तिः
शान्तेर्विधाता शरणं गतानाम् ।
भूयाद्भव-क्लेश- भयोपशान्त्यै
शान्तिर्जिनो मे भगवान् शरण्यः ॥८०॥

श्री कुन्थुनाथ जिन स्तुति

कुन्थु-प्रभृत्यखिल - सत्त्व- दयैकतानः
कुन्थुर्जिनो ज्वर - जरा - मरणोपशान्त्यै ।
त्वं धर्म- चक्रमिह वर्तयसि स्म भूत्यै
भूत्वा पुरा क्षितिपतीश्वर - चक्रपाणिः ॥ ८१ ॥

तृष्णाऽर्चिषः परिदहन्ति न शान्तिरासा-
मिष्टेन्द्रियार्थ - विभवैः परिवृद्धिरेव ।
स्थित्यैव काय- परिताप-हरं निमित्त-
मित्यात्मवान् विषय-सौख्य-पराङ्मुखोऽभूत् ॥८२ ॥

बाह्यं तपः परम- दुश्चरमाचरस्त्व-
माध्यात्मिकस्य तपस:परिबृंहणार्थम् ।
ध्यानं निरस्य कलुष-द्वयमुत्तरस्मिन्
ध्यान - द्वये ववृतिषेऽतिशयोपपन्ने ॥ ८३ ॥

हुत्वा स्व-कर्म- कटुक - प्रकृतीश्चतस्रो
रत्नत्रयाऽतिशय - तेजसि जात-वीर्यः ।
बभ्राजिषे सकल - वेद-विधेर्विनेता
व्यभ्रे यथा वियति दीप्त-रुचिर्विवस्वान् ॥८४ ॥

यस्मान्मुनीन्द्र ! तव लोक-पितामहाद्या
विद्या विभूति कणिकामपि नाप्नुवन्ति ।
तस्माद्भवन्तमजमप्रतिमेयमार्याः
स्तुत्यं स्तुवन्ति सुधियः स्व- हितैकतानाः ॥८५ ॥

श्री अरनाथ जिन - स्तुति

गुण- स्तोकं सदुल्लङ्घ्य तद्बहुत्व - कथा स्तुतिः ।
आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥८६ ॥

तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम् ।
पुनाति पुण्य - कीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥८७॥

लक्ष्मी-विभव - सर्वस्वं मुमुक्षोश्चक्र- लाञ्छनम्।
साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥८८ ॥

तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् ।
द्वयक्षः शक्रः सहस्राक्षो बभूव बहु - विस्मयः ॥८९ ॥

मोहरूपो रिपुः पापः कषाय- भट-साधनः ।
दृष्टि- संविदुपेक्षाऽस्त्रैस्त्वया धीर ! पराजितः ॥ ९० ॥

कन्दर्पस्योद्धर दर्प स्त्रैलोक्य- विजयार्जितः ।
हे पयामास तं धीरे त्वयि प्रतिहतोदयः ॥ ९१ ॥

आयत्यां च तदात्वे च दुःख- योनिर्दुरुत्तरा ।
तृष्णा नदी त्वयोत्तीर्णा विद्या- नावा विविक्तया ॥९२ ॥

अन्तकः क्रन्दको नृणां जन्म- ज्वर - सखः सदा ।
त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः काम-कारतः ॥९३॥

भूषा - वेषाऽऽयुध- त्यागि विद्या- दम - दया- परम् ।
रूपमेव तवाऽऽचष्टे धीर ! दोष-विनिग्रहम् ॥९४ ॥

समन्ततोऽङ्ग भासां ते परिवेषेण भूयसा ।
तमो बाह्यमपाकीर्णमध्यात्मं ध्यान तेजसा ॥९५ ॥

सर्वज्ञ - ज्योतिषोद्भूतस्तावको महिमोदयः ।
कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ! सचेतनम् ॥९६ ॥

तव वागमृतं श्रीमत्सर्व- भाषा - स्वभावकम् ।
प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ ९७ ॥

अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः ।
ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥९८ ॥

ये पर - स्खलितोन्निद्राः स्व-दोषेभ- निमीलनाः ।
तपस्विनस्ते किं कुर्युरपात्रं त्वन्मत- श्रियः ॥ ९९ ॥

ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः ।
त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥ १०० ॥

सदेक-नित्य-वक्तव्यास्तद्विपक्षाश्च ये नयाः ।
सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ १०१ ॥

सर्वथा नियम- त्यागी यथादृष्ट मपेक्षकः ।
स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ १०२ ॥

अनेकान्तोप्यनेकान्तः प्रमाण-नय-साधनः ।
अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥ १०३ ॥

इति निरुपम - युक्त-शासनः
प्रिय-हित-योग-गुणाऽनुशासनः ।
अर-जिन ! दम-तीर्थ-नायक-
स्त्वमिव सतां प्रतिबोधनाय कः ? ॥ १०४॥

मति-गुण- विभवानुरूपत-
स्त्वयि - वरदाऽऽगम-दृष्टिरूपतः ।
गुण-कृषमपि किञ्चनोदितं
मम भवताद् दुरितासनोदितम् ॥१०५ ॥

श्री मल्लिनाथ जिन - स्तुति

यस्य महर्षेः सकल-पदार्थ-
प्रत्यवबोधः समजनि साक्षात् ।
साऽमर - मर्त्यं जगदपि सर्वं
प्राञ्जलि भूत्वा प्रणिपतति स्म ॥१०६ ॥

यस्य च मूर्तिः कनकमयीव
स्व- स्फुरदाभा - कृत- परिवेषा ।
वागपि तत्त्वं कथयितुकामा
स्यात्पद-पूर्वा रमयति साधून् ॥ १०७ ॥

यस्य पुरस्ताद्विगलित-माना
न प्रतितीर्थ्या भुवि विवदन्ते ।
भूरपि रम्या प्रतिपदमासी-
ञ्जात-विकोशाम्बुज- मृदु-हासा ॥ १०८ ॥

यस्य समन्ताज्जिन- शिशिरांशोः
शिष्यक-साधु-ग्रह-विभवोऽभूत् ।
तीर्थमपि स्वं जनन-समुद्र-
त्रासित-सत्त्वोत्तरण- पथोऽग्रम् ॥१०९ ॥

यस्य च शुक्लं परमतपोऽग्नि-
र्ध्यानमनन्तं दुरितमधाक्षीत् ।
तं जिन-सिंहं कृतकरणीय
मल्लिमशल्यं शरणमितोऽस्मि ॥ ११० ॥

श्री मुनिसुव्रत जिन - स्तुति

अधिगत-मुनि-सुव्रत-स्थिति-
मुनि - वृषभो मुनिसुव्रतोऽनघः ।
मुनि - परिषदि निर्बभौ भवा-
नुडु - परिषत्परिवीत- सोमवत् ॥ १११ ॥

परिणत-शिखि-कण्ठ-रागया
कृत-मद-निग्रह-विग्रहाभया ।
तव जिन ! तपसः प्रसूतया
ग्रह परिवेष- रुचेव शोभितम् ॥ ११२ ॥

शशि-रुचि - शुचि-शुक्ल-लोहितं
सुरभितरं विरजो निजं वपुः ।
तव शिवमतिविस्मयं यते !
यदपि च वाङ्मनसीयमीहितम् ॥ ११३ ॥

स्थिति-जनन-निरोध-लक्षणं
चरमचरं च जगत् प्रतिक्षणम् ।
इति जिन ! सकलज्ञ - लाञ्छनं
वचनमिदं वदतांवरस्य ते ॥ ११४ ॥

दुरित - मल- कलङ्कमष्टकं
निरुपम-योग- बलेन निर्दहन् ।
अभवदभव-सौख्यवान् भवान्
भवतु ममापि भवोपशान्तये ॥ ११५ ॥

श्री नमिनाथ जिन - स्तुति

स्तुति: स्तोतुः साधोः कुशल- परिणामाय स तदा
भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च ।
किमेवं स्वाधीन्याज्जगति सुलभे श्रायस - पथे
स्तुयान्न त्वां विद्वान्सततमभिपूज्यं नांमि - जिनम् ॥ ११६ ॥

त्वया धीमन् ! ब्रह्म- प्रणिधि- मनसा जन्म-निगलं
समूलं निर्भिन्नं त्वमसि विदुषां मोक्ष - पदवी ।
त्वयि ज्ञान - ज्योतिर्विभव-किरणैर्भाति भगव-
न्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ ११७ ॥

विधेयं वार्य चाऽनुभयमुभयं मिश्रमपि तद्-
विशेषैः प्रत्येकं नियम- विषयैश्चापरिमितैः ।
सदाऽन्योन्यापेक्षैः सकल- भुवन - ज्येष्ठ- गुरुणा
त्वया गीत तत्त्वं बहु-नय- विवक्षेतर - वशात् ॥ ११८ ॥

अहिंसा भूतानां जगति विदितं ब्रह्म परमं
न सा तत्राऽऽरम्भोऽस्त्यणुरपि च यत्राऽऽ श्रमविधौ ।
ततस्तत्सिद्ध्यर्थं परम- करुणो ग्रन्थमुभयं
भवानेवाऽत्याक्षीन्न च विकृत-वेषोपधि- रतः ॥११९ ॥

वपुर्भूषा- वेष- व्यवधि - रहितं शान्त- करणं
यतस्ते संचष्टे स्मर-शर- विषाऽऽतङ्क - विजयम् ।
विना भीमैः शस्त्रैरदय - हृदयाऽमर्ष - विलयं
ततस्त्वं निर्मोह: शरणमसि नः शान्ति-निलयः ॥ १२० ॥

श्री नेमिनाथ जिन - स्तुति

भगवानृषिः परम-योग-
दहन-हुत-कल्मषेन्धनः ।
ज्ञान- विपुल - किरणैः सकलं
प्रतिबुद्ध-कमलायतेक्षणा: ॥ १२१ ॥

हरिवंश-केतुरनवद्य-
विनय-दम-तीर्थ-नायकः ।
शील- जलधिरभवो विभव-
स्त्वमरिष्टनेमि - जिनकुञ्जरोऽजरः ॥१२२॥

त्रिदशेन्द्र-- मौलि-मणि-रत्न-
किरण- विसरोपचुम्बितम् ।
पाद-युगलममलं भवतो
विकसत्कुशेशय-दलाऽरुणोदरम् ॥१२३ ॥

नख-चन्द्र-रश्मि-कवचाऽति-
रुचिर-शिखराऽङ्गुलि-स्थलम् ।
स्वार्थ-नियत-मनसः सुधियः
प्रणमन्ति मन्त्र - मुखरा महर्षयः ॥ १२४ ॥

द्युतिमद्रथाङ्ग-रवि-बिम्ब-
किरण- जटिलांशुमण्डलः ।
नील- जलद - जल - राशि - वपुः
सह बन्धुभिर्गरुडकेतुरीश्वरः ॥१२५ ॥

हलभृच्च ते स्वजनभक्ति-
मुदित- हृदयौ जनेश्वरौ ।
धर्म-विनय-रसिकौ सुतरां
चरणाऽरविन्द-युगलं प्रणेमतुः ॥ १२६ ॥

ककुदं भुवः खचरयोषि-
दुषित - शिखरैरलङ्कृतः ।
मेघ-पटल-परिवीत-तट-
स्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७ ॥

वहतीति तीर्थमृषिभिश्च
सततमभिगम्यतेऽद्य च ।
प्रीति - वितत-हृदयैः परितो
भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८ ॥

बहिरन्तरप्युभयथा च
करणमविघाति नाऽर्थकृत् ।
नाथ ! युगपदखिलं च सदा
त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥१२९ ॥

अत एव ते बुध-नुतस्य चरित-गुणमद्भुतोदयम्।
न्याय-विहितमवधार्य जिने
त्वयि सुप्रसन्न - मनसः स्थिता वयम् ॥ १३० ॥

श्री पार्श्वनाथ जिन स्तुति

तमाल-नीलैः सधनुस्तडिद्गुणैः ।
प्रकीर्ण- भीमाऽशनि - वायु- वृष्टिभिः ।
बलाहकैर्वैरि-वशैरुपतो
महामना यो न चचाल योगतः ॥ १३१ ॥

बृहत्फणा - मण्डल- मण्डपेन
यं स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम् ।
जुगूह नागो धरणो धराधरं
विराग-संध्या-तडिदम्बुदो यथा ॥ १३२ ॥

स्व-योग-निस्त्रिंश-निशात- धारया
निशात्य यो दुर्जय-मोह-विद्विषम् ।
अवापदाऽऽर्हन्त्यमचित्यमद्भुतं
त्रिलोकपूजातिशयाऽऽस्पदं पदम् ॥ १३३ ॥

यमीश्वरं वीक्ष्य विधूत- कल्मषं
तपोधनास्तेऽपि तथा बुभूषवः ।
वनौकसः स्व- श्रम-बन्ध्य-बुद्धयः
शमोपदेशं शरणं प्रपेदिरे ॥ १३४ ॥

स सत्य-विद्या- तपसां प्रणायकः
समग्रधीरुग्रकुलाऽम्बरांशुमान् ।
मया सदा पार्श्वजिनः प्रणम्यते
विलीन - मिथ्यापथ-दृष्टि-विभ्रमः ॥ १३५ ॥

श्री महावीर जिन स्तुति

कीर्त्या भुवि भासि तया
वीर! त्वं गुण- समुत्थया भासितया ।
भासोडुस भाऽसितया
सोम इव व्योम्नि कुन्द-शोभासितया ॥ १३६ ॥

तव जिन ! शासन-विभवो
जयति कलावपि गुणानुशासन- विभवः ।
दोषकशासनविभवः
स्तुवन्ति प्रभा- कृशासनविभवः ॥१३७॥

अनवद्यः स्याद्वादस्तव
दृष्टेष्टाविरोधत: स्याद्वादः ।
इतरो न स्याद्वादो सद्वितय-
विरोधान्मुनीश्वराऽस्याद्वादः ॥ १३८ ॥

त्वमसि सुरासुर-महितो
ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः ।
लोक-त्रय-परमहितो-
Sनावरणज्योतिरुज्ज्वलद्धाम- हितः ॥ १३९ ॥

सभ्यानामभिरुचितं
दधासि गुण-भूषणं श्रिया चारु- चितम् ।
मग्नं स्वस्यां रुचितं
जयसि च मृग-लाञ्छनं स्व- कान्त्या रुचितम् ॥ १४० ॥

त्वं जिन ! गत-मद-माय-
स्तव भावानां मुमुक्षु कामद! मायः ।
श्रेयान् श्रीमदमाय-
स्त्वया समादेशि सप्रयामदमायः १४१ ॥

गिरिभित्त्यवदानवतः
श्रीमत इव दन्तिनः स्त्रवद्दानवतः ॥
तव शम-वादानवतो
गतमूर्जितमपगत- प्रमादानवतः ॥ १४२ ॥

बहुगुण- सम्पदसकलं
परमतपि मधुर वचन - विन्यास- कलम् ।
नय-भक्तयवतंस-कलं
तव देव ! मतं समन्तभद्रं सकलम् ॥ १४३ ॥

रचियता - आचार्य समन्तभद्र स्वामी
Source: Brahud Adhyatmik Path Sangrah

2 Likes
स्वयंभू स्तोत्र मूल श्लोक | SwayamBhoo Stotra (Mool shlok)
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
पाठ सूची - अकारादि क्रम (अ से ज्ञ) | Path Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z
श्लोक सूची - अकारादि क्रम (अ से ज्ञ) | Shlok Suchi A to Z

पद्यानुवाद

श्री आदिनाथ जिन स्तुति

(गीता छन्द)
जो हुये हैं अरहन्त आदि, स्वयं बोध सम्हारके ।
जो परम निर्मल ज्ञान चक्षु, प्रकाश भवतम हारके ॥
निज पूर्ण गुणमय वचन कर से, जग अज्ञान मिटा दिया।
सो चन्द्र सम भवि जीव हितकर, जगत् माहिं प्रकाशिया ॥ १ ॥

सो प्रजापति हो प्रथम जिसने, प्रजा को उपदेशिया ।
असि कृषि आदि कर्म से, जीवन उपाय बता दिया ॥
फिर तत्त्वज्ञानी परमविद, अद्भुत उदय धर्तार ने ।
संसार भोग ममत्व टाला, साधु संयम धारने ॥ २ ॥

इन्द्रियजयी, इक्ष्वाकुवंशी मोक्ष की इच्छा करे।
सो सहनशील सुगाढ व्रत में, साधु संयम को धरे ॥
निज भूमि महिला त्याग दी, जो थी सती नारी समा।
यह सिन्धु जल है वस्त्र जिसका, और छोड़ी सब रमा ॥ ३ ॥

निज ध्यान अग्नि प्रभाव से रागादि मूलक कर्म को ।
करुणा बिना है भस्म कीने चार घाति कर्म को ॥
अरहन्त हो जग प्राणि हित सत् तत्त्व का वर्णन किया।
फिर सिद्ध हो निज ब्रह्मपद अमृतमई सुख नित पिया ॥ ४ ॥

जो नाभिनन्दन वृषभ जिन सब कर्म मल से रहित हैं ।
जो ज्ञान तन धारी प्रपूजित साधुजन कर सहित हैं ।
जो विश्वलोचन लघु मर्ती को जीतते निज ज्ञान से ।
जो आदिनाथ पवित्र कीजे, आत्म मम अघ खान से ॥ ५ ॥

श्री अजितनाथ जिन - स्तुति

( मालिनी छन्द)
दिवि से प्रभु आकर जन्म जब मात लीना ।
घर के सब बन्धु मुखकमल हर्ष कीना ॥
क्रीडा करते भी जिन विजय पूर्ण पाई ।
अजित नाम रक्खा जो प्रगट अर्थ दाई ॥६ ॥

अब भी जग लेते नाम भगवत् अजित का।
सत् शिवमगदाता वर अजित तीर्थङ्कर का ॥
मंगल कर्ता है परम शुचि नाम जिनका ।
निज कारज का भी लेत नित नाम उनका ॥७ ॥

जिम सूर्य प्रकाशे, मेघदल को हटाकर ।
कमल वन प्रफुल्लै, सब उदासी घटाकर ॥
तिम मुनिवर प्रगटे, दिव्य वाणी छटाकर ।
भवि गए आशय गत, मल कलंक मिटाकर ॥८ ॥

जिसने प्रगटाया धर्म भव पारकर्ता ।
उत्तम अति ऊँची, जान जन- दुःख हरता ॥
चंदन सम शीतल, गङ्ग ह्रद में नहाते ।
बहुघाम सताए हस्तिवर शांति पाते ॥९ ॥

निज ब्रह्म रमानी, मित्र शत्रु समानी ।
ले ज्ञान कृपाणी, रोषादि दोष हानी ॥
लहि आतम लक्ष्मी, निजवशी जीत कर्मा ।
भगवन अजितेश, दीजिए श्री स्वशर्मा ॥ १० ॥

श्रीसंभवनाथजिन - स्तुति

(भुजंगप्रयात छन्द)

तूही सौख्यकारी जग में नरों को ।
कुतृष्णा महाव्याधि पीडित जनों को ॥
भयानक परम वैद्य है रोगहारा |
यथा वैद्य ने दीन का रोग टारा ॥ ११ ॥

दशा जग अनित्य शरण है न कोई ।
अहं मम मई दोष मिथ्यात्व वोई ॥
जरा - जन्म-मरण सदा दुख करे है।
तुही टाल कर्म, परम शान्ति दे है ॥ १२ ॥

बिजली सम चंचल सुख विषय का ।
करै वृद्धि तृष्णामई रोग जिय का ॥
सदा दाह चित्त में कुतृष्णा बढ़ावे ।
जगत् दुख भोगे, प्रभु हम बतावे ॥ १३ ॥

जु है मोक्ष बन्ध व है हेतु उनका ।
बन्धा अर खुला जिय, फल जो छुटन का ॥
प्रभू स्याद्वादी, तुम्हीं ठीक कहते ।
न एकांत मत के कभी पार लहते ॥ १४ ॥

जहाँ इन्द्र भी हारता गुणकथन में ।
कहाँ शक्ति मेरी तुझी थुति करन में ||
तदपि भक्तिवश पुण्य यश गान करता ।
प्रभू दीजिए नित शिवानन्द परता ॥ १५ ॥

श्रीअभिनन्दननाथजिन-स्तुति

(छन्द स्रग्विनी)
आत्मगुण वृद्धि से नाथ अभिनन्दना।
धर अहिंसा वधू, शान्ति सेवित घना ॥
आत्ममय ध्यान की, सिद्धि के कारणे ।
होय निर्ग्रन्थ पर, दोय विधि टारने ॥ १६ ॥

तन अचेतन यही, और तिस योग तें ।
प्राप्त संबंध में, आपपन मानते ॥
जो क्षणिक वस्तु है, थिरपना देखते ।
नाश जग देख प्रभु, तत्त्व उपदेशते ॥ १७ ॥

क्षतु तृषा रोग प्रतिकार बहु ठानते ।
अक्ष सुख भोग कर तृप्ति नहिं मानते ॥
थिर नहीं जीव तन, हित न हो दौड़ना ।
यह जगत् रूप भगवान् विज्ञापना ॥ १८ ॥

लोलुपी भोग जन, नहिं अनीती करे।
दोष को देख जग, भय सदा उर धरे ॥
है विषय मग्नता, दोउ भव हानिकर ।
सुज्ञ क्यों लीन हो, आप मत जानकर ॥१९ ॥

है विषयलीनता, प्राणि को ताप कर।
है तृषा वृद्धिकर, हो न सुख से वसर ॥
हे प्रभो ! लोकहित, आप मत मान के ।
साधु जब शर्ण ले, आप गुरु मान के ॥ २० ॥

श्रीसुमतिनाथजिन - स्तुति

( त्रोटक छन्द)

मुनिनाथ सुमति सत् नाम धरे,
सत् युक्तिमई मत तुम उचरे ॥
तुम भिन्न मतों में नाहिं बने.
सब कारज कारक तत्त्व घने ॥ २१ ॥

है तत्त्व अनेक व एक वही,
तत्त्व भेद अभेदहि ज्ञान सही ॥
उपचार कहो तो सत्य नहीं,
इक हो अन ना वक्तव्य नहीं ॥ २२ ॥

है सत्त्व असत्त्व सहित कोई नय,
तरु पुष्प रहे न हि व्योम कलप ॥
तव दर्शन भिन्न प्रमाण नहीं,
स्व स्वरूप नहीं कथमान नहीं ॥ २३ ॥

जो नित ही होता नाश उदय,
नहिं, हो न क्रिया, कारक न सधय ॥
सत् नाश न हो नहिं जन्म असत्,
जु प्रकाश भये पुद्गल तम सत् ॥२४॥

विधि व निषेध सापेक्ष सही,
गुण मुख्य कथन स्याद्वाद यही ॥
इम तत्त्व प्रदर्शी आप सुमति,
थुति नाथ करूँ हो श्रेष्ठ सुमति ॥२५ ॥

श्रीपद्मप्रभजिन स्तुति

(मुक्तादाम छन्द)
पद्मप्रभ पद्म समान शरीर,
शुचि लेश्याधर रूप गम्भीर ॥
परम श्री शोभित मूर्ति प्रकाश,
कमल सूरजवत भव्य विकाश ॥ २६ ॥

धरत ज्ञानादि ऋद्धि अविकार,
परम ध्वनि चारु समवसृत सार ॥
रहे अरहन्त परम हितकार,
धरी बोध श्री मुक्ति मंझार ॥ २७ ॥

प्रभू तन रश्मिसमूह प्रसार,
बाल सूर्य सम छवि धरतार ॥
नर सुर पूर्ण सभा में व्यापा,
जिम गिरि पद्मराग मणि तापा ॥ २८ ॥

सहस पत्र कमलों पर विहरे,
नभ में मानो पल्लव प्रसरे //
कामदेव जेता जिनराजा,
करत प्रजा का आतम काजा ॥ २९ ॥

तुम ऋषि गुण सागर गुण लव भी,
कथन न समरथ इन्द्र कभी भी ॥
हूँ बालक कैसे गुण गाऊँ,
गाढ़ भक्ति से कुछ कह गाऊँ ॥३०॥

श्रीसुपार्श्व जिन-स्तुति

(छन्द चौपाई)

जय सुपार्श्व भगवन् हित भाषा,
क्षणिक भोग की तज अभिलाषा ।
तप्त शान्त नहिं तृष्णा बन्धती,
स्वस्थ रहे नित मनसा सधती ॥३१ ॥

जिम जड़ यन्त्र पुरुष से चलता,
तिम यह देह जीवधृत पलता ।
अशुचि दुखद दुर्गन्ध कुरूपी,
यामें राग कहा दुख रूपी ॥ ३२ ॥

यह भवितव्य अटल बलधारी.
होय अशक्त अहं मतिकारी ।
दो कारण बिन कार्य न राचा,
केवल यत्न विफल मत साचा ॥३३ ॥

डरत मृत्यु से तदपि टलत न,
तिन हित चाहे तदपि लभत ना ।
तदपि मूढ़ भयवश हो कामी,
वृथा जलत हिय हो न अकामी ॥३४॥

सर्व तत्त्व के आप हि ज्ञाता,
मात बालवत शिक्षा दाता ।
भव्य साधुजन के हो नेता,
मैं भी भक्ति सहित थुति देता ॥ ३५ ॥

श्रीचन्द्रप्रभ जिन-स्तुति

(भुजंगप्रयात छन्द)

प्रभू चन्द्रसम शुक्ल वर वर्णधारी,
जगत् नित प्रकाशित परम ज्ञानचारी ।
जिनं जित कषायं महत पूज्य मुनिपति,
नमूँ चन्द्रप्रभु तू द्वितीय चन्द्र जिनपति ॥३६ ॥

हरैं भानु किरणें यथा तम जगत् का,
तथा अंग भामण्डलं तम जगत् का ।
शुकल ध्यान दीपक जगाया प्रभू ने,
हरा तम कुबोधं स्वयं ज्ञान भू ने ॥३७॥

स्वमत श्रेष्ठता का धरै मद प्रवादी,
सुनें जिन वचन को तजें मद कुवादी ।
यथा मस्त हाथी सुनें सिंह गर्जन,
तजैं मद तथा मोह का हो विसर्जन ॥ ३८ ॥

तु ही तीन भू में परम पद प्रभू है,
करै कार्य अद्भुत परम तेज तू है।
जगत् नेत्रधारी अनन्त प्रकाशी,
रहे नित सकल दुख का तू विनाशी ॥ ३९ ॥

तु ही चन्द्रमा भवि कुमुद का विकाशी,
किया नाश सब दोष मल मेघराशी ।
प्रगट सत् वचनकी किरणमाल व्यापी,
करो मुझ पवित्रं तु ही शुचि प्रतापी ॥ ४० ॥

श्री पुष्पदन्त जिन स्तुति

(पद्धरि छन्द)

हे सुविधि आपने कहा तत्त्व,
जो दिव्यज्ञान से तत् अतत्त्व ।
एकान्त हरणं सुप्रमाण सिद्ध,
नहिं जान सकै तुमसे विरुद्ध ॥ ४१ ॥

है अस्ति कथंचित् और नास्ति,
भगवान् तुझ मत में यह तथास्ति ।
सत् असत्मई भेद रु अभेद,
है वस्तु बीच नहिं शून्य वेद ॥४२ ॥

"यह है वह ही " है नित्य सिद्ध,
“यह अन्य भया” यह क्षणिक सिद्ध ।
नहिं है विरुद्ध दोनों स्वभाव,
अन्तर बाहर साधन प्रभाव ॥ ४३ ॥

पद एकानेक स्ववाच्य तास,
जिम वृक्ष स्वत: करते विकास ।
यह शब्द स्यात् गुण मुख्यकार,
नियमित नहिं होवे बाध्यकार ||४४ ॥

गुण मुख्य कथन तव वाक्य सार,
नहिं पचत उन्हें जो द्वेष धार ।
लखि आस तुम्हें इन्द्रादिदेव,
पद कमलन में मैं करहुँ सेव ॥ ४५ ॥

श्री शीतलनाथ जिन - स्तुति

(स्रग्विणी छन्द)

तव अनघ वाक्य किरणें, विशद ज्ञानपति,
शान्त - जल- पूरिता, शमकरा सुष्ठुमति ।
है तथा शम न चन्दन, किरण चन्द्रमा,
नाहिं गंगा जलं, हार मोती शमा ||४६ ॥

अक्ष सुख चाह की आग से तप्त मन,
ज्ञान- अमृत - सुजल सींच कीना शमन
वैद्य जिम मन्त्र गुण से करे शान्त तन,
सर्व विष की जलन से हुआ बेयतन ॥ ४७ ॥

भोग की चाह अर चाह जीवन करे,
लोक दिन श्रम करे रात्रि को सो रहे ।
हे प्रभु आप तो रात्रि दिन जागिया,
मोक्ष के मार्ग को हर्षयुत साधिया ॥ ४८ ॥

पुत्र धन और परलोक की चाह कर,
मूढ़ जन तप करें आपको दाह कर ।
आपने तो जरा जन्म के नाश हित,
सर्व किरिया तजी शान्तिमय भावहित ॥ ४९ ॥

आप ही श्रेष्ठ ज्ञानी महा हो सुखी,
आपसे जो परे बुद्धि लव मद दुखी ।
याहितें मोक्ष की भावना जे करें,
सन्तज़न नाथ शीतल तुम्हें उर धरे ॥ ५० ॥

श्री श्रेयांसनाथ जिन - स्तुति

(छन्द मालिनी)

जिनवर हितकारी वाक्य निर्बाधकारी,
जगत् जन सुहितकर मोक्ष- मारग प्रचारी ।
जिम मेघ रहित हो सूर्य एकी प्रकाशे,
तिम तुम या जग में एक अद्भुत प्रकाशे ॥ ५१ ॥

है विधिषेध वस्तु और प्रतिषेध रूपं,
जो जाने युगपत है प्रमाण स्वरूपं ।
कोई धर मुख्य अन्य को गौण करता,
नय अंश प्रकाशी पुष्ट दृष्टान्त करता ॥ ५२ ॥

वक्ता इच्छा से मुख्य इक धर्म होता,
तब अन्य विवक्षा बिन गौणता मांहि सोता ।
अरि मित्र उभय बिन एक जन शक्ति रखता,
है तुझ मत द्वैतं, कार्य तब अर्थ करता ॥५३ ॥

जब होय विवादं सिद्ध दृष्टांत चलता,
वह करता सिद्धि जब अनेकान्त चलता।
एकान्त मतों में साधना होय नाहीं,
तव मत है साँचा सर्व साधता तहां ही ॥५४॥

एकान्त मतों के चूर्ण कर्ता तिहारे,
न्यायमई बाणं मोहरिपु जिन संहारे ।
तुम ही तीर्थङ्कर केवल ऐश्वर्य धारी,
तातें तेरी ही भक्ति करनी विचारी ॥५५ ॥

श्री वासुपूज्य जिन-स्तुति

(छन्द )

तुम्हीं कल्याण पञ्च में पूजनीक देव हो,
शक्र राज पूजनीक वासुपूज्यदेव हो ।
मैं भी अल्पधी मुनीन्द्र पूज आपकी करूँ,
भानु के प्रपूज काज दीप की शिखा धरूँ ॥५६॥

वीतराग हो तुम्हें न हर्ष भक्ति कर सके,
वीतद्वेष हो तुम्हीं, न क्रोध शत्रु हो सके।
सार गुण तथापि हम कहें महान् भाव से,
हो पवित्र चित्त हम हटें मलीन भाव से ॥५७॥

पूजनीक देव आप पूजके सुचाव से,
बाँधते महान् पुण्य जन विशुद्ध भाव से ।
अल्प अघ न दोषकर यथा न विष कणा करे,
शीत शुचि समुद्र नित्य शुद्ध ही रहा करे ॥ ५८ ॥

वस्तु बाह्य है निमित्त पुण्य पाप भाव का,
है सहाय मूलभूत अन्तरंग भाव का।
वर्तता स्वभाव में उसे सहायकार है,
मात्र अन्तरंग हेतु कर्म बन्धकार है ॥५९ ॥

बाह्य अन्तरंग हेतु पूर्णता लहाय है,
कार्य सिद्ध तहां होय द्रव्यशक्ति पाय है।
और भाँति मोक्षमार्ग होय ना भवीनि को,
आप ही सुवन्दनीय हो गुणी ऋषीनि को ॥ ६० ॥

श्री विमलनाथ जिन - स्तुति

(भुजंगप्रयात छन्द)

नित्यत्व अनित्यत्व नयवाद सारा,
अपेक्षा बिना आप पर नाशकारा ।
अपेक्षा सहित है स्व पर कार्यकारी,
विमलनाथ तुम तत्त्व ही अर्थकारी ॥ ६१ ॥

यथा एक कारण नहीं कार्य करता,
सहायक उपादान से कार्य सरता ।
तथा नय कथन मुख्य गौणं करत है,
विशेष वा सामान्य सिद्धि करत है ॥ ६२ ॥

हर एक वस्तु सामान्य विशेषं,
अपेक्षा कृतं भेद अभेदं सुलेखं ।
यथा ज्ञान जग में वही है प्रमाणं,
लखे एक हम आप पर तुम बखानं ॥६३ ॥

वचन है विशेषण उसी वाच्य का ही,
जिसे वह नियम से कहे अन्य नाहीं ।
विशेषण विशेष्य न हो अति प्रसंग,
जहां स्यात् यह हो न हो अन्य संग ॥ ६४ ॥

यथा लोह रसबद्ध हो कार्य कारी,
तथा स्यात् सुचिह्नित सुनय कार्यकारी ।
कहा आपने सत्य वस्तु स्वरूपं,
मुमुक्षु भविक वन्दते आप रूपं ॥ ६५ ॥

श्री अनन्तनाथ जिन - स्तुति

(पद्धरि छन्द)
चिर चितवासी मोही पिशाच,
तन जिस अनन्त दोषादि राच।
तुम जीत लिया निज रुचि प्रसाद,
भगवन अनन्त जिन सत्य वाद ||६६ ॥

कल्मषकारी रिपु चव कषाय,
मन्मथमद रोग जु तापदाय ।
निज ध्यान औषधि गुण प्रयोग,
नाशे हूवे सबवित् सयोग ॥६७ ॥

है खेद - अम्बु भयगण-तरंग,
ऐसी सरिता तृष्णा अभंग ।
सोखी अभंग रविकर प्रताप,
हो मोक्ष-तेज जिनराज आप ॥ ६८ ॥

तुम प्रेम करें वे धन लहंत,
तुम द्वेष करे हो नाशवन्त ।
तुम दोनों पर हो वीतराग,
तुम धारत हो अद्भुत सुहाग ॥६९ ॥

तुम ऐसे हो वैसे मुनीश,
मुझ अल्प बुद्धि का कथन ईश।
नहिं समरथ सर्व महात्म ज्ञान,
सुखकर अमृत- सागर समान ॥७०॥

श्री धर्मनाथ जिन - स्तुति

(स्रग्विणी छन्द)

धर्म सत् तीर्थ को जग प्रवर्तन किया,
धर्म ही आप हैं साधुजन लख लिया ।
ध्यानमय अग्नि से कर्मघन दग्ध कर,
सौख्य शाश्वत लिया सत्त्व शंकर अमर ॥७१ ॥

देव मानव भविकवृन्द से सेवितं,
बुद्ध गणधर प्रपूजित महाशोभितं ।
जिस तरह चन्द्र नभ में सुनिर्मल लसे,
तारका वेष्ठितं शांतिमय हुल्लसे ॥७२॥

प्रतिहारज विभव आपके राजती,
देह से भी नहीं रागता छाजती ।
देव मानव सुहित मोक्षमग कह दिया,
होय शासन फलं यह न चित में दिया ॥७३॥

आपकी मन वचन काय की सब क्रिया,
होय इच्छा बिना कर्म कृत यह क्रिया ।
हे मुने! ज्ञान बिन है न तेरी क्रिया,
चित नहीं कर सकै भान अद्भुत क्रिया ॥ ७४ ॥

आपने मानुषी भाव को लांघकर,
देव गण से महा पूज्यपन प्राप्त कर ।
हो महादेव आप, हे धरमनाथजी,
दीजिए मोक्ष पद हाथ श्री साथजी ॥ ७५ ॥

श्रीशान्तिनाथ जिन - स्तुति

(नाराच छन्द)

परम प्रताप धर जु शान्तिनाथ राज्य बहु किया,
महान् शत्रु को विनाश सर्व जन सुखी किया।
यतीश पद महान् धार दयामूर्ति बन गये,
आप ही से आपके कुपाप सब शमन भये ॥७६ ॥

परम विशाल चक्र से जु सर्व शत्रु भयकरं,
नरेन्द्र के समूह को सुजीत चक्रधर वरं ।
हुये यतीश आत्मध्यान चक्र को चलाइया,
अजेय मोह नाश के महाविराग पाइया ॥७७॥

राजसिंह राज्यकीय भोग या स्वतंत्र हो,
शोभते नृपों के मध्य राज्य लक्ष्मीतन्त्र हो ।
पाय के अरहन्त लक्ष्मी आप में स्वतंत्र हो,
देव नर उदार सभा शोभते स्वतंत्र हो ॥७८॥

चक्रवर्ति पद नृपेन्द्र चक्र हाथ जोड़िया,
यतीश पद में दयार्द्र धर्मचक्रं वश किया।
अर्हन्त पद देव-चक्र हाथ जोड़ नत किया,
चतुर्थ शुक्लध्यान कर्म नाश मोक्षवर लिया ॥७९ ।।

राग द्वेष नाश आत्म शान्ति को बढ़ाइया,
शरण जु लेय आपकी वही सुशांति पाइया ।
भगवन् शरण्य शान्तिनाथ भाव ऐसा सदा,
दूर हो संसार कलेश भय न हो मुझे कदा ॥ ८० ॥

श्री कुन्थुनाथजिन - स्तुति

(छन्द त्रोटक )

जय कुन्थुनाथ नृप चक्रधरं,
यति हो कुन्थवादि दयार्द्र परं ।
तुम जन्म- जरा मरणादि शमन,
शिवहेतु धर्मपथ प्रगट करन ॥८१॥

तृष्णाग्नि दहत नहिं होय शमन,
मन- इष्ट भोगकर होय बढ़न ।
तन-ताप-हरण कारण भोगं,
इम लख निजविद् त्यागे भोगं ॥८२ ॥

बाहर तप दुष्कर तुम पाला,
जिन आतम ध्यान बढ़े आला ।
द्वय ध्यान अशुभ नहिं नाथ करे,
उत्तम द्वय ध्यान महान् धरे ॥ ८३ ॥

निज घाती कर्म विनाश किये,
रत्नत्रय तेज स्ववीर्य लिये ।
सब आगम के वक्ता राजै,
निर्मल नभ जिम सूरज छाजै ॥ ८४ ॥

यतिपति तुम केवलज्ञान धरे,
ब्रह्मादि अंश नहिं प्राप्त करे ।
निज हित रत आर्य सुधी तुमको,
अज ज्ञानी अर्ह नमैं तुमको ॥८५ ॥

श्री अरनाथ जिन स्तुति

(पद्धरि छन्द)

गुण थोड़े बहुत कहे बढ़ाय, जग में श्रुति सो ही नाम पाय ।
तेरे अनन्त गुण किम कहाय, स्तुति तेरी कोई विधि न थाय ॥८६ ॥

तो भी मुनीन्द्र शुचि कीर्तिधार, तेरा पवित्र शुभ नाम सार ।
कीर्तन से मन हम शुद्ध होय, तातैं कहना कुछ शक्ति जोय ॥८७॥

तुम मोक्ष चाह को धार नाथ, जो भी लक्ष्मी सम्पूर्ण साथ ।
सब चक्र चिह्न सह-भरत - राज्य, जीरण तृणवत् छोड़ा सुराज्य ॥८८ ॥

तुम रूप परम सुन्दर विराज, देखन को उमगा इन्द्रराज ।
दो- लोचन - धर कर सहस नयन, नहिं तृप्त हुआ आश्चर्य भरन ॥८९ ॥

जो पापी सुभट कषाय धार, ऐसा रिपु मोह अनर्थकार ।
सम्यक्त्व ज्ञान संयम सम्हार, इन शस्त्रन से कीना संहार ॥९० ॥

यह काम धरत बहु अहंकार, त्रय लोक प्राणिगण विजयकार ।
तुमरे ढिग पाई उदयहार, तब लज्जित हुआ है अपार ॥ ९१ ॥

तृष्णा सरिता है अति उदार, दुस्तर इह - परभव दुःखकार ।
विद्या - नौका चढ़ रागरिक्त, उतरे तुम पार प्रभु विरक्त ॥ ९२ ॥

यमराज जगत् को शोककार, नित जरा जन्म द्वै सखा धार ।
तुम यमविजयी लख हो उदास, निज कार्य करन समरथ न तास ॥९३ ॥

हे धीर! आपका रूप सार, भूषण आयुध वसनादि टार ।
विद्या दम करुणामय प्रसार, कहता प्रभु दोष रहित अपार ॥९४ ॥

तेरा वपु भामण्डल प्रसार, हरता सब बाहर तम अपार ।
तव ध्यान तेज का है प्रभाव, अन्तर अज्ञान हरै कुभाव ॥९५ ॥

सर्वज्ञ ज्योति से जो प्रकाश, तेरी महिमा का जो विकाश ।
है कौन सचेतन प्राणी नाथ, जो नमन करै नहिं नाथ माथ ॥९६ ॥

तुम वचनामृत तत्त्व प्रकाश, सब भाषामय होता विकाश ।
सब सभा व्यापकर तृप्तकार, प्राणिन को अमृतवत् विचार ॥९७ ॥

तुम अनेकांत मत ही यथार्थ, यातें विपरीत नहीं यथार्थ ।
एकान्त दृष्टि है मृषा वाक्य, निज घातक सर्व अयोग्य वाक्य ॥९८ ॥

एकांती तपसी मान धार, निज दोष निरख गज नयन धार ।
ते अनेकांत खण्डन अयोग्य, तुझ मत लक्ष्मी के हैं अयोग्य ॥ ९९ ॥

एकांती निज घातक जु दोष, समरथ नहिं दूर करण सदोष ।
तुम द्वेष धार निज हननकार, मानें अवाच्य सब वस्तु सार ॥१०० ॥

सत् एक नित्य वक्तव्य वाक्य, या तिन प्रतिपक्षी नय सुवाक्य ।
सर्वथा कथन में दोषरूप, यदि स्याद्वाद हों पुष्टरूप ॥१०१॥

सर्वथा नियम का त्यागकार, जिस नय श्रुत देखा पुष्टकार ।
है’ स्यात’ शब्द तुम मत मंझार, निज घाती अन्य न लखें सार ॥ १०२ ॥

है अनेकान्त भी अनेकान्त, साधत प्रमाण नय, बिना ध्वांत।
सप्रमाण दृष्टि है अनेकान्त, कोई नय- मुख से है एकान्त ॥ १०३ ॥

निरुपम प्रमाण से सिद्ध धर्म,
सुखकर हितकर गुण कहत मर्म ।
अर जिन ! तुम सम जिन तीर्थनाथ,
नहिं कोई भवि बोधक सनाथ ॥ १०४ ॥

मति अपनी के अनुकूल नाथ !
आगम जिन कहता मुक्तिनाथ ।
तद्वत गुण अंश कहा मुनीश !
जातें क्षय हों मम पाप ईश ॥ १०५ ॥

श्रीमल्लिनाथ जिन-स्तुति

(छन्द त्रोटक )

जिन मल्लि महर्षि प्रकाश किया,
सब वस्तु सुबोध प्रत्यक्ष लिया ।
तब देव मनुज जगा प्राणि सभी,
कर जोड़ नमन करते सुखधी ॥१०६ ॥

जिनकी मूरत हैं कनकमयी,
प्रसारी भामण्डल रूपमयी ।
वाणी जिनकी सत् तत्वकथक,
स्यात्पदपूर्वं यतिगण रंजक ॥ १०७ ॥

जिन आगे होई गलित माना,
एकान्ती तजैं वाद थाना
विकसित सुवरण अम्बुज दल से,
भू भी हंसती प्रभु पद तल से ॥१०८॥

जिन- चन्द्र वचन किरणें चमकें.
चहुँ ओर शिष्य यति ग्रह दमकें ।
निज आत्मतीर्थ अति पावन है,
भावसागर-जन इक तारन है ॥१०९ ॥

जिन शुक्ल ध्यान तप अग्नि बली,
जिससे कर्मोंघ अनन्त जली ।
जिन सिंह परम कृतकृत्य भये,
निःशल्य मल्लि हम शरण गये ॥११०॥

श्री मुनिसव्रतनाथ जिन - स्तुति

(स्रग्विणी छन्द)

साधु - उचित व्रतों में सुनिश्चित थये,
कर्म हर तीर्थकर साधु-सुव्रत भये ।
साधगण की सभा में सुशोभित भये,
चन्द्र जिम उडुगणों से सुवेष्टित भये ॥ १११ ॥

मोर के कण्ठ सम नील रंग रंग है,
काममद जीतकर शान्तिमय अंग है।
नाथ ! तेरी तपस्या जनित अंग जो,
शोभता चन्द्रमण्डल मई रंग जो ॥ ११२ ॥

आपके अंग में शुक्ल ही रक्त था,
चन्द्रसम निर्मल रजरहित गन्ध था ।
आपका शान्तिमय अद्भुतं तन जिनं,
मनवचन का प्रवर्तन परम शुभ गणं ॥११३॥

जनन व्यय ध्रौव्य लक्षण जगत् प्रतिक्षणं,
चित अचित आदि से पूर्ण यह हरक्षणं ।
यह कथन आपका, चिह्न सर्वज्ञ का,
है वचन आपका आस उत्कृष्ट का ॥११४॥

आपने अष्ट कर्म कलंक महा,
निरूपमं ध्यान बल से सभी है दहा ।
भवरहित मोक्ष-सुख के धनी हो गये,
नाश संसार हो भाव मेरे भये ॥ ११५ ॥

श्री नमिनाथ जिन - स्तुति

(स्रग्विणी छन्द)
साधु जब स्तुति करे भाव निर्मल धरे,
स्तुति हो वा नहीं, फल करै न करै ।
इम सुगम मोक्षमग जग स्व-आधीन है,
नमिजिनं आप पूजे गुणाधीन है ॥ ११६ ॥

आपने सर्ववित्! आत्मध्यानं किया,
कर्म बन्धं जला मोक्षमग कह दिया |
आपमें केवलज्ञान पूरण भया,
अनमती आप रवि-जुगनु सम हो गया ॥११७॥

अस्ति नास्ति उभय वानुभय मिश्र तत्,
सप्तभंगीमयं तत् अपेक्षा स्वकृत ।
त्रिमितं धर्ममय तत्त्व गाया प्रभू,
नैक नय की अपेक्षा, जगतगुरु प्रभू ॥११८॥

अहिंसा जगत् ब्रह्म परमं कही है,
जहां अल्प आरंभ वहाँ नहीं रही है।
अहिंसा के अर्थ तजा द्वय परिग्रह,
दयामय प्रभू वेष छोड़ा उपधिमय ॥११९ ॥

आपका अंग भूषण वसन से रहित,
इंद्रियाँ शांत जग कहत तुम कामजित ।
उग्र शस्त्र बिना निर्दयी क्रोध जित,
आप निर्मोह, शममय, शरण राख नित ॥१२०॥

श्री नेमिनाथ जिन - स्तुति

(छन्द त्रोटक )
भगवन् ऋषि ध्यान सु शुक्ल किया,
ईंधन चहु कर्म जलाय दिया।
विकसित अम्बुजवत् नेत्र धरे,
हरिवंश -केतु, नहिं जरा धरे ॥ १२१ ॥

निर्दोष विनय दम वृष कर्ता,
शुचि ज्ञान किरण जन हित कर्ता ।
शीलोदधि नेमि अरिष्ट जिनं,
भवनाश लिए प्रभु मुक्त जिनं ॥ १२२ ॥

तुम पाद कमल युग निर्मल है,
पदतल-द्वय रक्त-कमल-दल है।
नख चन्द्र किरण मण्डल छाया,
अति सुन्दर शिखरांगुलि भाया ॥ १२३ ॥

इन्द्रादि मुकुट मणि किरण फिरै,
तब चरण चूम्बकर पुण्य भरै ।
निज हितकारी पण्डित मुनिगण,
मंत्रोच्चारी प्रणमें भविगण ॥ १२४ ॥

द्युतिमय रविसम रथचक्र किरण,
करती व्यापक जिस अंग धरन ।
है नील जलद सम तन नीलं,
है केतु गरुड़ जिस कृष्ण हलं ॥ १२५ ॥

दोनों भ्राता प्रभु-भक्ति-मुदित,
वृषविनय-रसिक जननाथ उदित ।
सहबन्धु नेमिजिन-सभा गये,
युग चरणकमल वह नमत भये ॥ १२६ ॥

भुवि काहि कुमुद गिरनार अचल,
विद्याधरणी सेवित स्वशिखर ।
है मेघ पटल छाये जिस तट,
तव चिन्ह उकेरे वज्र - मुकुट ॥ १२७ ॥

इम सिद्धक्षेत्र धर तीर्थ भया,
अब भी ऋषिगण से पूज्य थया ।
जो प्रीति ह्रदयधर आवत है,
गिरनार प्रणम सुख पावत है ॥१२८ ॥

जिननाथ ! जगत् सब तुम जाना,
युगपत जिम करतल अमलाना ।
इन्द्रिय वा मन नहिं घात करे,
न सहाय करें, इम ज्ञान धरे ॥१२९ ॥
यातें हे जिन ! बुधनुत तव गुण,
अद्भुत प्रभावधर न्याय सुगुण ।
चिन्तन कर मन हम लीन भये,
तुमरे प्रणमन तल्लीन भये ॥१३० ॥

श्री पार्श्वनाथ जिन स्तुति
जय पार्श्वनाथ अति धीर वीर,
नीले बादल बिजली गंभीर ।
अति उग्र वज्र जल पवन पात,
वेरी उपद्रुत नहिं ध्यान जात ॥१३१ ॥

धरणेन्द्र नाग निज फण प्रसार,
बिजलीवत् पीत सुरंग धार ।
श्री पार्श्व उपद्रुत छाय लीन,
जिम नग तडिदम्बुद सांझ कीन ॥१३२ ॥

प्रभु ध्यानमयी असि तेजधार,
कीना दुर्जय मोह प्रहार ।
त्रैलोक्य पूज्य अद्भुत अचिन्त्य,
पाया अर्हन्त पद आत्मचिन्त्य ॥ १३३ ॥

प्रभु देख कर्म से रहित नाथ,
वनवासी तपसी आये साथ |
निज श्रम असार लख आप चाह,
धरकर शरणा ली मोक्षराह ॥ १३४ ॥

श्री पार्श्व उग्र कुल नभ सुचन्द्र,
मिथ्यातम हर सत् ज्ञानचन्द्र ।
केवलज्ञानी सत् मग प्रकाश,
हूँ नमत सदा रख मोक्ष- आश ॥१३५ ॥

श्री महावीर जिन - स्तुति

(त्रोटक छन्द)
तुम वीर धवल गुण कीर्ति धरे
जग में शोभै गुण आत्म भरे ।
जिम नभ शोभै शुचि चन्द्रग्रहं,
सित कुन्द समं नक्षत्र ग्रहं ॥ १३६ ॥

हे जिन ! तुम शासन की महिमा,
भविभव नाशक कलिमांहि रमा ।
निज- ज्ञान - प्रभा अनक्षीण-विभव,
मलहर गणधर पण मैं मत तब ॥१३७॥

हे मुनि ! तुम मत स्याद्वाद अनघ,
दृष्टेष्ट विरोध बिना स्यात् वद ।
तुमसे प्रतिपक्षी बाध सहित,
नहिं स्याद्वाद है दोष सहित ॥ १३८ ॥

हे जिन ! सुर असुर तम्हें पूजें,
मिथ्यात्वी चित नहिं तुम पूजें ।
तुम लोकत्रय हित के कर्ता,
शुचि ज्ञानमई शिव - धर धर्ता ॥१३९॥

हे प्रभु! गुणभूषण सार धरे,
श्री सहित सभा जन हर्ष करे ।
तुम वपु कान्ती अति अनुपम है,
जगप्रिय शशि जीते रुचितम है ॥ १४० ॥

हे जिन ! मायामद नाहिं धरे,
तुम तत्त्वज्ञान से श्रेय करे ।
मोक्षेच्छु कामकर वच तेरा,
व्रत- दमकर सुखकर मत तेरा ॥ १४१ ॥

हे प्रभु! तव गमन महान् हुआ,
शममत रक्षक भय हान हुआ ।
जिनवर हस्ती मद स्तवन करै,
गिरितट को खण्डित गमन करै ॥१४२॥

परमत मृदुवचन- रचित भी है,
निज गुण संप्राप्ति रहित वह है ।
तव मत नय-भंग विभूषित है,
सुसमन्तभद्र निर्दूषित है ॥१४३ ॥

1 Like

स्वयंभू स्तोत्र भाषा (चौपाई)

राजविषै जुगलनि सुख कियो, राज त्याग भवि शिवपद लियो ।
स्वयंबोध स्वयंभू भगवान्, वन्दौं आदिनाथ गुणखान ॥१ ॥

इन्द्र क्षीरसागर जल लाय, मेरु न्हवाये गाय बजाय ।
मदन- विनाशक सुख करतार, वन्दोंअजित अजित पदकार ॥२ ॥

शुकल ध्यानकरि करमविनाशि, घाति अघाति सकल दुखराशि ।
लह्यो मुक्तिपद सुख अविकार, वन्दौसम्भव भव दुःख टार ॥३ ॥

माता पच्छिम रयन मंझार, सुपने सोलह देखे सार ।
भूप पूछि फल सुनि हरषाय, वन्दौ अभिनन्दन मन लाय ॥४॥

कुवादवादी सरदार, जीते स्याद्वाद - धुनि धार ।
जैन-धरम-परकाशक स्वाम, सुमतिदेव - पद करहूँ प्रनाम ॥५ ॥

गर्भ अगाऊ धनपति आय, करी नगर शोभा अधिकाय ।
बरसे रतन पंचदश मास, नमीं पदमप्रभु सुख की रास ॥ ६ ॥

इन्द्र फनिन्द्र नरिन्द्र त्रिकाल, वाणी सुनि- सुनि होहिं खुस्याल ।
द्वादश सभा ज्ञान-दातार, नमौं सुपारसनाथ निहार ॥७ ॥

सुगुन छियालिस हैं तुम माहिं, दोष अठारह कोऊ नाहिं ।
मोह-महातम - नाशक दीप, नमीं चन्द्रप्रभ राख समीप ॥8 ॥

द्वादशविधि तप करम विनाश, तेरह भेद चरित परकाश ।
निज अनिच्छ भवि इच्छकदान, वन्दौं पुहुपदंत मन आन ॥9॥

भवि-सुखदाय सुरगतैं आय, दशविधि धरम कह्यो जिनराय ।
आप समान सबनि सुख देय, वन्दौ शीतल धर्म- सनेह ॥10 ॥

समता-सुधा कोप- विष- नाश, द्वादशांग वानी परकाश ।
चार संघ-आनन्द-दातार, नमों श्रेयांस जिनेश्वर सार ॥11॥

रतनत्रय शिर मुकुट विशाल, शोभै कण्ठ सुगुण मणि माल ।
मुक्ति–नार- भरता भगवान्, वासुपूज्य वन्दौं धर ध्यान || 12 ||

परम समाधि - स्वरूप जिनेश, ज्ञानी ध्यानी हित- उपदेश ।
कर्म नाशि शिव सुख विलसन्त, वन्दविमलनाथ भगवन्त ॥13 ॥

अन्तर बाहिर परिग्रह टारि, परम दिगम्बर- व्रत को धारि ।
सर्व जीव-हित राह दिखाय नम अनन्त वचन मन लाय ॥ १४ ॥

सात तत्व पंचासतिकाय, अरथ नवों छः दरब बहु भाय ।
लोक अलोक सकल परकाश, वन्दौं धर्मनाथ अविनाश ॥ १५ ॥

पंचम चक्रवर्ति निधिभोग, कामदेव द्वादशम मनोग |
शान्तिकरन सोलम जिनराय, शान्तिनाथ वन्दों हरषाय ॥ १६ ॥

बहु थुति करै हरष नहिं होय, निन्दे दोष हैं नहिं कोय ।
शीलवान परब्रह्मस्वरूप, वन्दौं कुन्थुनाथ शिवभूप ॥ १७ ॥

द्वादश गण पूजैं सुखदाय, थुति वन्दना करैं अधिकाय ।
जाकी निज- थुति कबहुँ न होय, वन्दौंअर जिनवर - पद दोय ॥ १८ ॥

पर-भव रत्नत्रय - अनुराग, इह भव ब्याह समय वैराग ।
बाल- ब्रह्म- पूरन व्रतधार, वन्दौं मल्लिनाथ जिनसार ॥ १९ ॥

बिन उपदेश स्वयं वैराग, थुति लोकान्त करैं पग लाग ।
नमः सिद्ध कहि सब व्रत लेहिं वन्दौं मुनिसुव्रत व्रत देहिं ॥ २० ॥

श्रावक विद्यावंत निहार, भगति - भावसों दियो अहार ।
बरसी रतन- राशि तत्काल, वन्दौं नमिप्रभु दीनदयाल ॥ २१ ॥

सब जीवन की बन्दी छोर, राग-द्वेष द्वै बन्धन तोर |
रजमति तजि शिव-तिय सों मिले, नेमिनाथ वन्द सुख मिले ॥२२ ॥

दैत्य कियो उपसर्ग अपार, ध्यान देखि आयो फनिधार ।
गयो कमठशठ मुख कर श्याम, नमों मेरुसमपारस स्वामि ॥ २३ ॥

भव-सागर तैं जीव अपार, धरम पोत में धरे निहार ।
डूबत काढ़े दया विचार, वर्द्धमान वन्दौं बहुबार ॥ २४ ॥

(दोहा)

चौबीसौं पद - कमल जुग, वन्दौं मन-वच - काय ।
‘द्यानत’ पढ़े सुनै सदा, सो प्रभु क्यों न सहाय ॥

Artist - Pt. Shri Dhyanat Rai Ji

3 Likes