सुप्रभात स्तोत्र | Suprabahat Strota

यत्स्वर्गावतरोत्सवे यदभवजन्माभिषेकोत्सवे,
यद्दीक्षाग्रहणोत्सवे यदखिलज्ञानप्रकाशोत्सवे।
यनिर्वाणगमोत्सवे जिनपतेः पूजाद्भुतं तद्भवैः,
संगीतस्तुतिमंगलैः प्रसरतां मे सुप्रभातोत्सवः ॥ १ ॥

श्रीमन्नतामरकिरीटमणिप्रभाभि
रालीढपादयुग! दुर्धरकर्मदूर।
श्रीनाभिनन्दन! जिनाजितशंभवाख्य!
त्वद्धयानतोस्तु सततं मम सुप्रभातम् ॥२॥

छत्रत्रयप्रचलचामरवीज्यमान
देवाभिनन्दन मुने सुमते जिनेन्द्र!
पद्मप्रभारुणमणिद्युतिभासुरांग,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम् ॥ ३॥

अर्हन् सुपार्श्व कदलीदलवर्णगात्र
प्रालेयतारगिरिमौक्तिकवर्णगौर।
चन्द्रप्रभ स्फटिकपांडुर पुष्पदन्त,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम्॥४॥

संतप्तकांचनरुचे जिन शीतलाख्य
श्रेयान्तिनष्टदुरिताष्टकलंकपंक
बन्धूकबंधुररुचे जिन वासुपूज्य,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम्॥५॥

उद्दण्डदर्पकरिपो विमलामलाङ्ग
स्थेमन्ननन्त-जिदनन्तसुखाम्बुराशे।
दुष्कर्मकल्मषविवर्जित धर्मनाथ,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम् ॥६॥

देवामरीकुसुमसन्निभ शान्तिनाथ,
कुन्थो दयागुणविभूषणभूषिताङ्ग।
देवाधिदेव भगवन्नरतीर्थनाथ,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम् ॥७॥

यन्मोहमल्लमदभंजन मल्लिनाथ
क्षेमंकरावितथशासनसुव्रताख्य।
यत्संपदा प्रशमितो नमिनामधेय,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम् ॥८॥

तापिच्छगुच्छरुचिरोज्जवल नेमिनाथ
घोरोपसर्गविजयिन् जिनपार्श्वनाथ।
स्याद्वादसूक्तिमणिदर्पण वर्द्धमान,
त्वद्धयानतोस्तु सततं मम सुप्रभातम् ॥९॥

प्रालेयनीलहरितारुणपीतभासं
यन्मूर्तिमव्ययसुखावसथं मुनीन्द्राः।
ध्यायंति सप्ततिशतं जिन वल्लभानां,
त्वद्धयानतोस्तु सततं मम सुप्रभातम् ॥१०॥

सुप्रभातं सुनक्षत्रं मांगल्यं परिकीर्तितम्
चतुर्विंशतितीर्थानां सुप्रभातं दिने दिने ॥११॥

सुप्रभातं सुनक्षत्रं श्रेयः प्रत्यभिनन्दितम्।
देवता ऋषयः सिद्धाः सुप्रभातं दिने दिने॥१२॥

सुप्रभातं तवैकस्य वृषभस्य महात्मनः ।
येन प्रवर्तितं तीर्थं भव्यसत्त्वसुखावहम् ॥१३॥

सुप्रभातं जिनेन्द्राणां ज्ञानोन्मीलितचक्षुषाम्।
अज्ञानतिमिरांधानां नित्यमस्तमितो रविः ॥१४॥

सुप्रभातं जिनेन्द्रस्य वीर: कमललोचनः।
येन कर्माटवी दग्धा शुक्लध्यानोग्रवह्निना ॥१५॥

सुप्रभातं सुनक्षत्रं सुकल्याणं सुमंगलम्।
त्रैलोक्यहितकर्तृणां जिनानामेव शासनम् ॥१६॥

Source: Brahud Adhyatmik Path Sangrah

3 Likes