शास्त्र-स्वाध्याय का प्रारम्भिक मंगलाचरण | Manglacharan before reading Jinvani

ॐ नमः सिद्धेभ्यः, ॐ जय जय जय, नमोऽस्तु नमोऽस्तु नमोऽस्तु

णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं।
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ।।

ओ/ॐकारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव, ॐकाराय नमो नमः।।१।।

अविरलशब्दघनौघप्रक्षालितसकलभूतलमलकलंका:।
मुनिभिरुपासिततीर्था सरस्वती! हरतु नो दुरितान् ।।२।।

अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ।।३।।

।। श्री परमगुरवे नमः, परम्पराचार्यगुरवे नमः।।

सकलकलुषविध्वंसकं, श्रेयसां परिवर्धकं, धर्मसम्बन्धकं, भव्यजीवमनः प्रतिबोधकं, पुण्यप्रकाशकं, पापप्रणाशकमिदं शास्त्रं श्रीमोक्षमार्गप्रकाशकनामधेयम् अस्य मूलग्रन्थकर्तारः श्रीसर्वज्ञदेवास्तदुत्तरग्रन्थकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचनानुसारमासाद्य आचार्यश्रीकुन्दकुन्दाम्नाये पंडितप्रवरश्रीटोडरमलेन विरचितम्।

श्रोतारः सावधानतया श्रृण्वन्तु।

मंगलं भगवान् वीरो, मंगलं गौतमो गणी।
मंगलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मङ्गलम् ।।
सर्वमङ्गलमाङ्गल्यं सर्वकल्याणकारकम्।
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ।।

6 Likes

कृपया इसका अर्थ हो तो वो भी share करें। :pray:

2 Likes

आभार!

1 Like