पूजा पीठिका - संस्कृत | Puja Pithika - Sanskrit

----पूजा विधि प्रारम्भ----

ॐ जय! जय! जय!
नमोस्तु! नमोस्तु! नमोस्तु!
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं,
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ||
ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः |( पुष्पांजलि क्षेपण करें)

चत्तारि मंगलं अरिहंता मंगलं, सिद्धा मंगलं,
साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं |
चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा,
साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो |
चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि,
सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि,
केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ||
ॐ नमोऽर्हते स्वाहा | (पुष्पांजलि क्षेपण करें)

----मंगल विधान----

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा |
ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते ||(1)
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ||(2)
अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः |
मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः ||(3)
एसो पंच-णमोयारो, सव्व-पावप्पणासणो |
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् ||(4)
अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः |
सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहम् ||(5)
कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् |
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् ||(6)
विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः |
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ||(7)
पुष्पांजलि क्षेपण करें|

----श्री जिनसहस्रनाम अर्घ्य----

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे ||
ॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा |

----पूजा प्रतिज्ञा पाठ----

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम्,
स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् |
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर्,
जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि ||(1)
स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय,
स्वस्ति स्वभाव-महिमोदय-सुस्थिताय |
स्वस्ति प्रकाश-सहजोर्ज्जित दृग्मयाय |
स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय ||(2)
स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय,
स्वस्ति स्वभाव-परभाव-विभासकाय |
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय,
स्वस्ति त्रिकाल-सकलायत-विस्तृताय ||(3)
द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्,
भावस्य शुद्धिमधिकमधिगंतुकामः |
आलंबनानि विविधान्यवलम्ब्य वल्गन्,
भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् ||(4)
अर्हत्पुराण पुरुषोत्तम – पावनानि,
वस्तून्यनूनमखिलान्ययमेक एव |
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ,
पुण्यं समग्रमहमेकमना जुहोमि ||(5)
इति विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि |

----स्वस्ति मंगल विधान----

श्री वृषभो न: स्वस्ति, स्वस्ति श्री अजित:|
श्री संभव: स्वस्ति, स्वस्ति श्री अभिनंदन:|
श्री सुमति: स्वस्ति, स्वस्ति श्री पद्मप्रभ:|
श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभ:|
श्री पुष्पदंत: स्वस्ति, स्वस्ति श्री शीतल:|
श्री श्रेयांस: स्वस्ति, स्वस्ति श्री वासुपूज्य:|
श्री विमल: स्वस्ति, स्वस्ति श्री अनंत:|
श्री धर्म: स्वस्ति, स्वस्ति श्री शांति:|
श्री कुंथु: स्वस्ति, स्वस्ति श्री अरहनाथ:|
श्री मल्लि: स्वस्ति, स्वस्ति श्री मुनिसुव्रत:|
श्री नमि: स्वस्ति, स्वस्ति श्री नेमिनाथ:|
श्री पार्श्व: स्वस्ति, स्वस्ति श्री वर्द्धमान:|
।।इति श्रीचतुर्विंशति तीर्थंकर स्वस्ति मंगलविधानं पुष्पांजलिं क्षिपामि।।

----परमर्षि स्वस्ति मंगल विधान----

नित्याप्रकंपाद्भुत-केवलौघा: स्फुरन्मन:पर्यय-शुद्धबोधा:|
दिव्यावधिज्ञान-बलप्रबोधा: स्वस्ति-क्रियासु: परमर्षयो न: ||(1)
कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि |
चतुर्विधं बुद्धिबलं दधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||(2)
संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि |
दिव्यान् मतिज्ञान-बलाद्वहंत: स्वस्तिक्रियासु: परमर्षयो न: ||(3)
प्रज्ञा-प्रधाना: श्रमणा: समृद्धा: प्रत्येकबुद्धा: दशसर्वपूर्वै: |
प्रवादिनोऽष्टांग-निमित्त-विज्ञा: स्वस्ति-क्रियासु: परमर्षयो न: ||(4)
जंघाऽनल-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वा: |
नभोऽगंण-स्वैरविहारिणश्च स्वस्ति-क्रियासु: परमर्षयो न: ||(5)
अणिम्नि दक्षा: कुशला: महिम्नि, लघिम्नि शक्ता: कृतिनो गरिम्णि |
मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति-क्रियासु: परमर्षयो न: ||(6)
सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्त​र्द्धिमथाप्तिमाप्ता: |
तथाऽप्रतीघातगुणप्रधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||(7)
दीप्तं च तप्तं च महोग्रं घोरं तपो घोरपराक्रमस्था: |
ब्रह्मापरं घोरगुणंचरन्त: स्वस्ति-क्रियासु: परमर्षयो न: ||(8)
आमर्ष-सर्वोषधयस्तथाशीर्विषाविषा – दृष्टिविषाविषाश्च
सखिल्ल-विड्जल्ल-मलौषधीशा: स्वस्ति-क्रियासु: परमर्षयो न: ||(9)
क्षीरं स्रवंतोऽत्र घृतं स्रवंत: मधु स्रवंतोऽप्यमृतं स्रवंत: |
अक्षीणसंवास-महानसाश्च स्वस्ति-क्रियासु: परमर्षयो न: ||(10)
।।इति परमर्षि स्वस्ति मंगल विधानं पुष्पांजलिंक्षिपामि।।

Artist - अज्ञात

5 Likes